जन्मना रोगहीनो वा यजमानो
भवेद्यदि कथं तत्र प्रमाणानि प्रयोक्तव्यानि कर्तृभिः १
तुण्डं
पुष्करनालस्य षड्गुणं परिवेष्टितम् त्रिहायण्या वत्सतर्या
वालेन सममिष्यते २
त्रयस्त्रिहायणीवालाः सर्षपार्धं विधीयते
द्विगुणं सर्षपं प्राहुर्यवः सर्षपारम् ३
अङ्गुलस्य प्रमाणं तु
षड्यवाः पार्श्वसंहिताः दशाङ्गुलस्तु प्रादेशो वितस्तिर्द्वादशाङ्गुलः
द्विवितस्तिररत्निः स्याद्व्यायामस्तु चतुःशयः ४
विंशतिशताङ्गुलतः पुरुषः
स्वैः स्वैरङ्गुलिपर्वभिः अथ चेत्प्रपदोत्थानः पञ्चविंशशतो भवेत् ५
त्रियवं
कृष्णलं विद्यात् मानं विद्यात् त्रिकृष्णलम् अनेन कृष्णलप्रमाणेन
निष्कमाहुश्चतुर्गुणम् ६
पुरुषस्य तृतीयपञ्चमौ भागौ
तत्करणं पुनश्चितेः तस्यार्धमथापरं
भवेत्त्रिचितिकमग्निचितिश्चेत्
७
अष्टावष्टौ सम्मिता चितिरष्टैकादशिका च मध्यमा व्यत्या सवतीरुपन्यसेदष्टौ
द्वादश चोत्तमा चितिः ८