प्राग्वंशं दशकं
कुर्यात्पत्नीशालां चतुःशयाम् प्राग्वंशात्त्रिषु वेद्यन्तो
वेद्यन्तात् प्रक्रमे सदः १
नवकं तु सदो विद्याच्चत्वारः सदसोऽन्तरम्
चत्वारस्त्रिका हविर्धानमर्धदशास्तदन्तरम् २
पदं यूपावटे मीत्वा
शेषमौत्तरवेदिकम् आग्नीध्रं षडरत्न्येव
षट्त्रिंशत्प्रक्रमा रज्जुः ३
लक्षिका द्वादश
त्रिका । वेदिसदोहविर्धानानि मिनोत्येवानुपूर्वशः पञ्चदशकमेकविंशकं
त्रिकमपरम् । परतोऽपरस्त्रिको द्वादशसु च पाशद उच्यते । सोमे रज्जु
निमानमुत्तमम् ४
त्रिपदा पार्श्वमानी स्यात्तिर्यङ्मानी पदं भवेत्
तस्याक्ष्णया तु या रज्जुः कुर्याद्दशपदां तया ५
पशादर्धचतुर्दशे
नवके तु ततः पुनः अर्धचतुर्दशः पाशः सदसश्छेदनमुत्तमम् ६
निमाय रज्जुं दशभी
रथाक्षैरेकादशभिश्चोपरबुध्नमात्रैस्तस्याश्चतुर्विंशतिभागधेयमेकादशिनीं
प्रतिवेदिमाहुः ७
शिखण्डिनी चेत्कर्तव्या वेद्यन्ताद्द्व्यर्धमुद्धरेत्
अष्टाङ्गुलं तदर्धं स्याद्देव्य वेदि प्रसिद्धये तं प्राञ्चं तु समीक्षेत
तांस्तु विद्याच्छिखण्डिनीम् ८
पञ्चकं सप्तं चैव एकमेकं ततः पुनः एषा
वेदिः समाख्याता कौकिल्यास्त्वथ चारके ९