०२

अष्टाशीतिः शतमीषा तिर्यगक्षश्चतुःशतम् षडशीतिर्युगं चास्य रथश्चारक्य उच्यते १
ईषायां लक्षणं मीत्वा षट्सु नवसु च लक्षणे त्रिचत्वारिंशके पाशोऽङ्गुलानां नियोगतः २
एषा वेदिः समाख्याता चारक्य रथसम्मिता ऐन्द्राग्नस्य पशोरेषा पशुष्वन्येषु षट्शया ३
प्राच्यर्धः षडरत्निः स्यादर्धारत्नेर्निराञ्छनम् अर्धे श्रोणी ततोऽर्धेंऽसावध्यर्ध इति पाशुकी ४
पशादर्धशये श्रोणी द्वयोः पृष्ठ्यापरा द्वयोः प्राच्यर्धस्तु ततोऽध्यर्धे ततोऽध्यर्धे निराञ्छनम् अर्धेंऽसोऽध्यर्ध एवान्यस्ततोऽध्यर्धेंऽस उत्तरः अरत्नौ तु ततः पाशो वेदी मारुती वारूणी ५
सर्वा दशशया रज्जुर्मध्ये चास्या निराञ्छनम् प्राच्यर्धं पञ्चमे कुर्याद्दिक्कुष्ठा पैतृकी स्मृता ६
सर्वा सप्तशया रज्जुर्मध्ये चास्या निराञ्छनम् प्राच्यर्धं पञ्चमे कुर्याद्दिक्कुष्ठा पैतृकी स्मृता ७