अमावास्या-वैश्वदेवचरुः

कृष्णपक्षकथा

प्रजापतिर्वै सोमाय राज्ञे दुहितॄरददान् नक्षत्राणि। स रोहिण्यामेवावसन् नेतरासु।
+++(Lunar occultation: The Moon’s orbit is inclined slightly with respect to the ecliptic meaning any stars with an ecliptic latitude of less than about ± 6.5 degrees may be occulted by it. Rohini is in that category, unlike other naxatra-s. rAj vedam here.)+++
ता अनुपेयमानाः पुनरगच्छन्।
तं राजयक्ष्मेणाग्राहयत्, स निरस्रवत्। तस्माद् राजयक्ष्मगृहीतो निःस्रवति।
स वै प्रजापतिमेवोपाधावत्। तं प्रजापतिरब्रवीत् - ऋतं ब्रूहीति।
स ऋतमब्रवीत्- यथा सर्वास्व् एव समावद्वसानीति। तस्मादेष सर्वास्व् एव समावद्वसति।
तस्मै वै प्रजापतिः प्रायश्चित्तिम् ऐच्छत्- तस्मा अमावास्यायां वैश्वदेवं चरुं निरवपत्।
तेनास्मै प्रायश्चित्तिम् अविन्दत्। सो ऽमुम् +++(=प्रजापतिम्)+++ आप्यायमानं अन्वाप्यायत। वसीयानभवत्।

कल्पः

यो राजयक्ष्मगृहीतः स्यात्, तस्मा अमावास्यायां वैश्वदेवं चरुं निर्वपेत्।
एतेन वै स +++(प्रजापतिः)+++ तस्मै +++(सोमाय)+++ प्रायश्चित्तिम् अविन्दत्, तेनैवास्मै प्रायश्चित्तिं विन्दति।
अमुं +++(=सोमम्)+++ एवाप्यायमानं अन्वाप्यायते, वसीयान् भवति ॥