सवाः।
प्रजापतिः प्रजा असृजत ता अस्मादपाक्रामँस्ता अकामयतोप मावर्तेरन्निति स एतमोदनमपचत् सोऽन्नमेव भूत्वैकधातिष्ठत् ता अन्यत्रान्नमवित्त्वा ताः प्रजापतिमेवैकधान्नाद्यायाभिसमावर्तन्त यावतीर्ह वै कियतीश्च प्रजा वाचं वदन्ति ता एनमेकधान्नाद्यायाभिसमावर्तन्ते य एतेनाभिषिच्यते स एष ओदनसवो राडसि विराडसीत्येतानीव सर्वाणि भवन्ति सर्वाण्यन्नानि भवन्ति सर्वे पुरुषास्सर्वाण्येवान्नान्यवरुन्द्धे सर्वान् पुरुषान् हिरण्यं ब्रह्मणे ददाति तेजस्तेन परिक्रीणाति तिसृधन्वं राजन्यायौजस्तेन परिक्रीणात्यष्ट्रां वैश्याय पुष्टिं तेन परिक्रीणाति माषकमण्डलुँ शूद्रायायुस्तेन परिक्रीणाति हिरण्यमाबध्नाति तदेवास्मिन् प्रतिष्ठापयति॥ यदोदनं प्राश्नात्येतदेव सर्वमवरुध्य तदस्मिन्नेकधा दधाति रोहिण्यां क्रियते यद् ब्राह्मणा रोहिणी तस्माद्यदुद्यति सूर्ये क्रियत एतद्वै प्रजापते रूपं यर्ह्येष उदेति सर्वा वा एतं प्रजाः प्रतिनन्दन्ति दिदृक्षेण्यो ह दर्शनीयो भवत्यवेत्योऽवभृथा३ नावेत्या३ इति मीमाँसन्ते यद्दर्भपिञ्जूलैः पावयति तदेवावैति तदु नावैत्युभयमेव करोति द्वाभ्यां पावयति द्वे सत्यं चानृतं च सत्येनैवास्यानृतं पावयति द्वौ प्राणश्चापानश्च त्रिभिः पावयति त्रिषत्या हि देवा अथो त्रयो हि प्राणाः प्राणो व्यानोऽपानः पञ्चभिः पावयत्यपां वा एतदोषधीनां तेजो यद्दर्भा यद्दर्भपिञ्जूलैः पावयत्यपामेवैनमोषधीनां तेजसाभिषिञ्चति ॥१॥
आग्नेयोऽष्टाकपालस्सौम्यश्चरुस्सावित्रोऽष्टाकपालो बार्हस्पत्यश्चरुरग्नीषोमीय एकादशकपालस्सारस्वतश्चरुर्वारुणो यवमयो दशकपालो द्यावापृथिव्य एककपालो यदाग्नेय आग्नेयो हि ब्राह्मणो यत् सौम्यस्सौम्यो हि ब्राह्मणो यत् सावित्रः प्रसवायैव सावित्रो यद्बार्हस्पत्यो ब्रह्म वै बृहस्पतिरेतद्ब्राह्मणस्य वाक्पत्यं यदग्नीषोमीय आग्नेयो हि सौम्यो ब्राह्मणस्तौ यदा संगच्छेते अथ वीर्यावान् भवति यत् सारस्वतो वाग्वै सरस्वत्येतद्ब्राह्मणस्य प्रत्यक्षं वाक्पत्यं यद्वारुणो निर्वरुणत्वायैव वारुणो यो ह्येव कश्च सन् सूयते स वारुणो यद् द्यावापृथिव्य इन्द्रो वै वृत्राय वज्रमुदयच्छत तं द्यावापृथिवी नान्वमन्येतां तमेतेन भागधेयेनान्वमन्येतां वज्रस्य वा एषोऽनुमानोऽनुमतवज्रस्सूयाता इति यदष्टौ हवीँष्यष्टाक्षरा गायत्री ब्रह्म गायत्री ब्रह्मणा सूयाता इति कृष्णाजिनेऽध्यभिषिच्यत ऋक्सामयोर्वा एतद्रूपं यत् कृष्णाजिनमृक्सामयोरेवाध्यभिषिच्यते हिरण्येन घृतमुत्पुनाति तेजस एव रुचे यद् घृतेनाध्यभिषिच्यते तेन ह श्रेष्ठ्यं प्राप्नोति ॥२॥
आग्नेयोऽष्टाकपालः पौष्णश्चरुस्सावित्रोऽष्टाकपालो वैश्वदेवश्चरुस्त्वाष्ट्रोऽष्टाकपालो वारुणो यवमयो दशकपालो मारुतस्सप्तकपालो मारुती पृश्निर्वशा यदाग्नेय ऋद्ध्या एवाग्नेयोऽग्निमुखा ह्यृद्धिर्यत् पौष्णः पुष्टिर्वै पूषा पुष्टिर्वैश्यस्य यत् सावित्रः प्रसवायैव सावित्रो यद्वैश्वदेवो वैश्वदेवो हि वैश्यो यत त्वाष्ट्रस्त्वष्टा हि रूपाणि विकरोति यद्वारुणो निर्वरुणत्वायैव वारुणो यो ह्येव कश्च सन् सूयते स वारुणो यन्मारुतो मारुतो हि वैश्यो यत् सप्त हवीँषि सप्त हि मरुतोऽथैषा मारुती पृश्निर्वशा तस्या अग्नये समवत्तं भवत्यथाभिषिच्यते विड्वै मरुतो विश एव मध्यतोऽभिषिच्यते तस्मादेष विशः प्रियो विशो हि मध्यतोऽभिषिच्यत ऋषभचर्मेऽध्यभिषिच्यते स हि प्रजनयिता प्रजननाय दध्नाभिषिच्यते मृदु दधि मृदुमेवैनं करोति ॥३॥
नराशँसस्य महिमानमेषामुपस्तोषाम यजतस्य यज्ञैः।
ये सुक्रतवश्शुचयो धियंधास्स्वदन्ति देवा उभयानि हव्या ॥
यो वै सोमेन यजते स देवसवो यः पशुना यजते स देवसवो य इष्ट्या यजते स मनुष्यसव एतं वै पृथ्व्यै देवा अन्वमन्यन्त तेनैनमभ्यभिषिञ्चन् सोऽप्यारण्यानां पशूनामसूयत यावतीर्ह वै कियतीश्च प्रजा वाचं वदन्ति तासाँ सर्वासाँ सूयते य यतेनाभिषिच्यते निह्नुत्यैवैतदभिषिच्यते नाराशँस्यर्चा मनुष्या हि नराशँसो यत् किंच राजसूयेऽनुत्तरवेदिकं तदत्र सर्वं क्रियतेऽथैष मारुत एकविँशतिकपालस्तस्याग्नये समवत्तं भवत्यथाभिषिच्यते त्रिर्वै सप्त सप्त मरुतो विण्मरुतो विश एव मध्यतोऽभिषिच्यते तस्मादेष विशः प्रियो विशो हि मध्यतोऽभिषिच्यते ॥४॥
सं ते पयाँसि समु यन्तु वाजास्सं वृष्ण्यान्यभिमातिषाहः ।
आप्यायमानो अमृताय सोम दिवि श्रवाँस्युत्तमानि धिष्व ॥
न वै सोमेन सोमस्य सवोऽस्त्यभिषिक्तो हि सोमो घ्नन्ति हि सोमं न हि हतस्सूयते सौम्या त्रिष्टुभाभिषिच्यते सा हि सोमसवस्सौम्याँ सूतवशायामध्यभिषिच्यते सा हि रेतोधा रेतस्सोमो यत् किंच राजसूयेऽन्यत् स्तोमेभ्यस्तदत्र सर्वं क्रियतेऽथैष मारुत एकविँशतिकपालस्तस्याग्नये समवत्तं भवत्यथाभिषिच्यते त्रिर्वै सप्त सप्त मरुतो विण्मरुतो विश एव मध्यतोऽभिषिच्यते तस्मादेष विशः प्रियो विशो हि मध्यतोऽभिषिच्यते ॥५॥
यद्वै राजसूयँ स वरुणसवो यद्वाजपेयँ स सम्राट् सवः प्रजापतिस्साम्राज्यं परमेष्ठी स्वाराज्यं गौरेव स एष गोसवो यथेव ह गौरेवमिव भवति य एतेनाभिषिच्यते प्रतिदुहाभिषिच्यते तद्धि स्वाराज्यं बृहत्साम तद्धि स्वाराज्यमयुतं दक्षिणा तद्धि स्वाराज्यं पवमाने कण्वरथंतरं प्रोहन्ति दक्षिणत आहवनीयस्यानुद्धतेऽभिषिच्यत इयं वै गौरस्या एवानन्तर्हितोऽभिषिच्यते षट्त्रिंशस्स्तोमो भवति पशुस्तोमो वा एष तेन गोसवः ॥६॥
त्रिवृत्स्तोमो ब्रह्मवर्चसं वै त्रिवृद्ब्रह्मवर्चसेनैवाभिषिच्यते रथंतरँ साम ब्रह्मवर्चसं वै रथंतरं ब्रह्मवर्चसेनाभिषिच्यतेऽग्निष्टोमस्स्तोमो ब्रह्मवर्चसं वा अग्निष्टोमो ब्रह्मवर्चसेनैवाभिषिच्यते प्रवर्ग्यः प्रवृज्यते ब्रह्मवर्चसं वै प्रवर्योवर ब्रह्मवर्चसेनैवाभिषिच्यते परिस्रजी होतारुणो मिर्मिरस्त्रिशुक्रिय एतद्वै ब्रह्मवर्चसस्य रूपं रूपेणैव ब्रह्मवर्चसमवरुन्द्ध एकं वा एतत् सवनं यदेकस्स्तोम एकं छन्द एकादशै - कादशानुसवनं दद्यात् सवनानां व्यावृत्त्यै त्रयस्त्रिंशत् संपद्यन्ते त्रयस्त्रिंशद्देवता देवता एवावरुन्द्धेऽश्वं चतुस्त्रिंशं ददाति प्रजापतिश्चतुस्त्रिँशः प्रजापतिमेवाप्नोति बृहस्पतये वै देवा न श्रददधत तमेतेन प्रजापतिरयाजयत् ततोऽस्मै श्रददधत स एष बृहस्पतिसवो ब्रह्मवर्चसकाम एतेन यजेत ब्रह्मवर्चसी भवति तस्यैषैव नियतिः प्रजास्सर्वा ब्राह्मणीर्ब्रह्मवर्चसिनीर्भवन्ति ॥७॥
पञ्चदशस्स्तोम ओजो वै वीर्यं पञ्चदश ओजसैव वीर्येणाभिषिच्यते बृहत्सामौजो वै वीर्यं बृहदोजसैव वीर्येणाभिषिच्यत उक्थ्यस्स्तोम ओजो वै वीर्यमुक्थान्योजसैव वीर्येणाभिषिच्यत ऐन्द्रँ स्तोत्रं च शस्त्रं च त्रैष्टुभाः पवमाना ओजो वै वीर्यं त्रिष्टुबोजसैव वीर्येणाभिषिच्यत इन्द्रं वै सर्वा मृधस्सर्वा नाष्ट्रास्सर्वाणि रक्षाँस्यजिघाँसँस्तमेतेन प्रजापतिरयाजयत् स सर्वा मृधस्सर्वा नाष्ट्रास्सर्वाणि रक्षाँस्यतरदिन्द्रो यजमानो यदेतेन यजते सर्वा एव मृधस्सर्वा नाष्ट्रास्सर्वाणि रक्षाँसि तरति स एष इन्द्रसवः ॥८॥
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै ।
अथास्मभ्यँ सवितर्वार्याणि दिवे दिव आसुवा भूरि पश्वः ॥
भूतो भूतेषु चरति प्रविष्टस्स भूतानामधिपतिर्बभूव ।
तस्य मृत्योश्चरति राजसूयँ स राजा राज्यमनुमन्यतामिदम् ॥
येभिश्शिल्पैः पप्रथानामदृँहद्येभिर्द्यामभ्यपिँशत् प्रजापतिः ।
येभिर्वाचं विश्वरूपेभिरव्ययँस्तेनेममग्र इह वर्चसा समङ्ग्धि ।।
येभिरादित्यस्तपति प्र केतुभिर्येभिस्सूर्यो ददृशे चित्रभानुः ।
येभिर्वाचं पुष्कलेभिरव्ययँस्तेनेममग्र इह वर्चसा समङ्ग्धि ।।
आयं भातु शवसा पञ्च कृष्टीरिन्द्र इव ज्येष्ठौ भवतु प्रजानाम् ।
अस्मिन्नस्तु पुष्कलं चित्रभान्वायं पृणातु रजसा विमानम् ॥
यत् ते शिल्पं कश्यप रोचनावदिन्द्रियावत् पुष्कलं चित्रभानु ।
यस्मिन् सूर्या अर्पितास्सप्त साकं तस्मिन् राजानमधि विश्रयेमम् ।।
व्याघ्रो वैय्याघ्रे अधि विक्रमस्व दिशो महीः ।
विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥
या आपो दिव्याः पयसा संबभूवुर्या अन्तरिक्ष्या उत पार्थिवासः ।
तासां त्वा सर्वासां रुचाभिषिञ्चामि वर्चसा ॥
अभि त्वा वर्चसासिचं यज्ञेन पयसा सह ।
यथासो मित्रवर्धनस्तथा त्वा सविता करत् ॥
इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः।
रथीतमं रथीनां वाजानाँ सत्पतिं पतिम् ।।
अभि प्रेहि वीरयस्वोग्रश्चेत्ता सपत्नहा । आतिष्ठ मित्रवर्धनस्तुभ्यं देवा अधिब्रुवन् ॥
आतिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनँ सु ते मनो ग्रावा कृणोतु वग्नुना॥
आतिष्ठन्तं परि विश्वे अभूषच्छ्रियो वसानश्चरति स्वरोचिः ।
महत् तदस्यासुरस्य नामा विश्वरूपो अमृतानि तस्थौ ।
अनु त्वेन्द्रो मदत्वनु बृहस्पतिरनु सोमो अन्वग्निरावीत् ।
अनु त्वा विश्वे अवन्तु देवास्सप्त राजानो य उदाभिषिक्ताः ॥
अनु त्वा मित्रावरुणा इहावतामनु द्यावापृथिवी ओषधीभिः ।
सुर्योऽहोभिरनु त्वावतु चन्द्रमा नक्षत्रैरनु त्वावीत् ॥
द्यौश्च त्वा पृथिवीं च प्रचेतसा यज्ञो बृहद्दक्षिणा त्वा पिपर्तु ।
अनु स्वधा चिकिते सोमो अग्निरनु त्वावतु सविता सवेन ।
एना व्याघ्रं परिषस्वजानँ सिँहँ हिन्वन्ति महते धनाय ।
मर्मृज्यन्ते द्वीपिनमप्स्वन्तररुषं न सुभ्वस्तस्थिवाँसम् ॥९॥
बोधश्च मा प्रतीबोधश्च पुरस्ताद्गोपायतामस्वप्नश्च मानवद्राणश्च दक्षिणतो गोपायतां गोपायमानश्च मा रक्षमाणश्च पश्चाद्गोपायतां जागृविश्च मारुन्धती चोत्तराद्गोपायताम् ॥
अनमित्रं नो अधरागनमित्रमुदक् कृधि । इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥
अनमित्रैरहोभिस्सचीमहि विश्वे देवा अनमित्रा न उषसस्सन्तु निम्रुचः ॥ याष्षडुर्वीः पञ्च प्रदिशस्ता नः पान्तु मित्रधा नो मित्रे दधाता अभयं नो अस्तु ॥
ये रात्रीमनुतिष्ठथ ये च भूतेषु जागृथ । पशून् ये सर्वान् रक्षथ ते न आत्मसु जागृत ॥
बोध प्रतिबोधास्वप्नानवद्राण गोपायमान रक्षमाण जागृवेऽरुन्धति ये देवास्तनूपास्स्थ ते म इह तन्वं पात बोध प्रतीबोधेत्यसौ वा आदित्यो बोधोऽग्निः प्रतीबोधोऽस्वप्नानवद्राणेति चन्द्रमा वा अस्वप्नो यः पवते सोऽनवद्राणो गोपायमान रक्षमाणेत्यहर्वै गोपायमानो रात्री रक्षमाणो जागृवेऽरुन्धतीति यज्ञो वै जागृविर्दक्षिणारुन्धत्येते वै देवा राष्ट्रभृतस्तानेवेट्ट आत्मनो गोपीथाय ॥१०॥
ये राष्ट्रभृतो ये राष्ट्रस्यानुभर्तारस्तेभ्यो राष्ट्रीयः परिदेय इमे वाव ते प्राणास्तेभ्य एवैनं परिददाति तेषामेताः पत्न्यस्तानेता अनु ताभ्योऽत्रापि कार्यं ताभ्य एवैतत् क्रियते ता ह्येता अनु पुरोधाकाम: कुर्वीत ब्रह्म चैव क्षत्रं च सयुजौ करोति यदि क्षत्रमभिचरेत् स न इदं ब्रह्म पात्विति ब्रूयान्न क्षत्रमपि ब्रह्मणि वै क्षत्रं प्रतिष्ठितं ब्रह्मण एव क्षत्रमन्तरेति ताजक् प्रधन्वत्यपरुरुत्स्यमानः कुर्वीत संग्रामे कुर्वीत ये राष्ट्रभृतो ये राष्ट्रस्यानुभर्तारस्तानेवोपासरत् तेऽस्मै राष्ट्रमनुबिभ्रति य एषां लोकानां द्वन्द्वं राष्ट्रभृतो वेद नास्य राष्ट्रं व्यथते ॥ अग्निश्चास्या मनश्च वायुश्चान्तरिक्षस्य यज्ञश्च सूर्यश्च दिवश्चन्द्रमाश्च स्थस्सप्तथस्स हि भयादपवहति त्रिषप्ताः कवचिनस्त्रिषप्ता निषङ्गिणस्त्रिषप्ता आयुधिनस्तेभ्यो राष्ट्रीयः परिदेय इमे वाव ते प्राणास्तेभ्य एवैनं परिददात्यभितो वा अग्निष्टोमं देवासुरा यत्ता आसन्नग्निष्टोमे देवा उक्थेष्वसुरास्ते देवा यदोक्थान्यागच्छन् यदोक्थान्यभ्यजयन्नथेन्द्रोऽब्रवीत् कश्चाहं चेदमाहरिष्याव इत्यहं चेत्यब्रवीद्वरुणस्तं वरुणोऽन्वतिष्ठतेन्द्र आहरत् सोऽब्रवीत् कश्चाहं चेदमाहरिष्याव इत्यहं चेत्यब्रवीद्बृहस्पतिस्तं बृहस्पतिरन्वतिष्ठतेन्द्र आहरत् सोऽब्रवीत् कश्चाहं चेदमाहरिष्याव इत्यहं चेत्यब्रवीद्विष्णुस्तं विष्णुरन्वतिष्ठतेन्द्र आहरदेताभिर्वै देवताभिस्सायुज्येन देवा असुराणां राष्ट्रमाददतैताभिरेव देवताभिस्सायुज्येन भ्रातृव्याद्राष्ट्रमादाय तद्राष्ट्रं कृत्वा ये राष्ट्रभृतो ये राष्ट्रस्यानुभर्तारस्तेभ्य एनत् संप्रयच्छत्येतद्बिभृतैतन्मा रिषदित्यसौ वा आदित्यो राष्ट्रमृतवो राष्ट्रभृतस्तेभ्य एवैनत् संप्रयच्छत्येतद्बिभृतैतन्मा रिषदिति य एष सप्तथः प्रजापतिरेवैष यन्मध्ये जुहुयाद्व्यवधून्वीतैनं परोगव्यूति होतव्यस्तथा हैनं न व्यवधूनुत ऊर्ध्वस्तिष्ठञ्जुहोत्यूर्ध्वो हि तिष्ठन् वीर्यावत्तरः पूर्णया स्रुचा जुहोति पूर्णः प्रजापतिः प्रजापतिमेवाप्नोति ॥११॥