सन्ध्या विधि
नमस्कारः
अथ नमस्कारः ।
( नमस्कार करना) ॥
श्री-महा-गायत्र्यै नमः
सवित्र्यै नमः
सरस्वत्यै नमः ।।
ॐ
प्रणवस्य ऋषिर् ब्रह्मा,
गायत्रं छन्द एव च ।
देवोऽग्निर्व्याहृतिषु च
विनियोगः प्रकीर्तितः॥
प्रजापतेर् व्याहृतयः,
पूर्वस्य परमेष्ठिनः ।
व्यस्ताश्चैव समस्ताश्च
ब्राह्मक्षरम् ओमिति+++(??)+++ ॥
(गायत्री पढ़ते हुए शिखा ( छोग) पर पानी छिड़कें)
आत्मानश् चापः परिक्षिप्य
(नमस्कार करके)
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्य
(पढ़ते हुए पानी से अपनी आलत निकालें )
( अञ्जलि धरते हुए पढ़ें) ओजोऽसीति गायत्रीम् आवाह्य, देवानाम् आर्षम् ।
ओजोऽसि सहोऽसि बलमऽसि भ्राजोऽसि देवानां धाम नामासि ।
विश्वमऽसि विश्वायुः सर्वमऽसि सर्वायुर् अभिभूः ।।
प्राणायामः
अथ प्राणायामः॥
(प्राणायाम निम्नलिखित दस प्रणवों से करें )
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्
ॐ तत्सवितुः वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात
ॐ आपोज्योती रसोमृतं ब्रह्म भूर्भुवः स्वरोम् " ।।
आचनमनम्
सायम्
(सायं की तीन आचमन करना)
ॐ अग्निश्च मा मन्युश्च मन्युपतयश्च
मन्यु-कृतेभ्यः पापेभ्यो रक्षन्ताम् ।
यदऽह्ना पापमकार्षं -
मनसा वाचा हस्ताभ्यां
पद्भ्याम् उदरेण शिश्ना
अहस्तदऽवलुम्पतु,
यत्किचित् दुरितं मयी
इदम् अहम् आपो ऽमृतयोनौ
सत्ये ज्योतिषि जुहोमि स्वाहा
( यह मन्त्र पढ़ कर तीन बार “ॐ” का उच्चारण करते हुए तीन आचमन करें)
प्रातः
(प्रातः की तीन आचमन करना)
ॐ सूर्यश्च मा मन्युश्च मन्यु पतयश्च
मन्यु-कृतेभ्यः पायेभ्यो रक्षन्ताम् ।
यद् रात्र्या पापमकार्षं
मनसा वाचा हस्ताभ्यां
पदम्भया मुदरेंण शिश्ना ।
रात्रिस्तद् अवलुम्पतु,
यत्किंचिद् दुरितं मयीदम् अऽहम् आपो ऽमृतयोनौ
सूर्ये ज्योतिषि जुहोमि स्वाहा ।
( तीन आचमन करना)
मध्याह्नम्
(मध्याह्न की तीन आचमन करना ।)
ॐ आपः पुनन्तु पृथिवीं
पृथिवी पूता पुनातु माम्।
पुनातु ब्रह्मणस्पतिः
ब्रह्म पूतं पुनातु माम् ।।
यद् उच्छिष्टम् अभोज्यं वा,
यद्वा दुश्चरितं मम ।
सर्व पुनन्तु माम् आपो
ऽसतां च प्रतिग्रहं जुहोमि स्वाहा ।
( तीन आचमन करना )
प्रोक्षणम्
(अपने आप के इर्द गिर्द पानी छिड़कें यह मन्त्र पढ़ते हुए )
( हृदय पर ) आपोहिष्ठा मयोभुवस्
( पैरो पर ) ता न ऊर्जे दधातन,
(सिर पर) महे रणाय चक्षसे ।
( ललाट पर ) यो वः शिवतमो रस
( पादो पर ) तस्य भाजयतेह नः ।
(हृदय पर ) उशतीरिव मातरः
( ललाट पर ) तस्मा अरंगमाम वो
(हृदय पर ) यस्य क्षायाय जिन्वथ ।
(पादों पर) आपो जनयथा च नः ।।
ॐ शन्नो देवीरऽभीष्टय
आपो भवन्तु पीतये,
शंय्योरभि स्रवन्तु नः ।।
दधिक्राव्णो अकारिषं
जिष्णोरष्वस्य वाजिनः ।
सुराभि नो मुखाकरत्
प्रण आयूंषि तारिषत् ।।
(बायें तरफ तीन आञ्जलियां सूंग कर छोड़ना)
ॐ द्रुपदा दिवोन्मुमुचानः
स्विन्नः स्नात्वी मलादिव ।
पूतं पवित्रेणेवाऽज्यम्
आपः शुन्धन्तु मैनसः । ।
(पानी में हाथो से तीन ‘आवर्तन’ (पानी को अपने आप पर छिड़कना) करें)
ॐ ऋतं च सत्यं चाभीद्धात् तपसो ऽध्यजायत ।
ततो रात्रिर् अजायत, ततः समुद्रो अर्णवः ।
समुद्राद् अर्णवाद् अऽधि संवत्सरो अजायत ।
अहोरात्राणि व्यदधद् विश्वस्य मिषतो वशी ।।
सूर्याचन्द्रमसौ धाता, यथा पूर्वम् अकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षम् अथो स्वः ।
प्राणायामाचमने
(प्राणायाम करें, सिर पर पानी छिड़कते हुए पढ़ें)
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यम् ।।
(तीन आचमन करना )
ॐ अन्तश् चरसि भूतेषु,
गुहायां विश्वतोमुखः ।
त्वं यक्षस् त्वं वषट्कार,
आपो ज्योती रसोऽमृर्त ब्रह्म भूर् भूवः स्वर् ओम् ।।
( 3 बार )
(प्राणायाम् करना)
ॐ भूः, ॐ भुवः, ऊँ स्वः, ॐ महः, ॐ जनः, ॐ तपः, ॐ सत्यं,
ॐ तत्सवितुः वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्,
ॐ आपोज्योति रसोमृतं ब्रह्म भूः भुवः स्वरोम् ।।
अर्घ्यम्
( प्राणायाम के बाद सूर्य के संमुख तीन जल अञ्जलि छोड़ना)
उपस्थानम्
(उपस्थान करना)
०१ विभ्राड्बृहत्पिबतु सोम्यं ...{Loading}...
+++(सूर्यो)+++ विभ्रा᳓ड् बृह᳓त् पिबतु सोम्यं᳓+++(=सोममयं)+++ म᳓ध्व्
आ᳓युर् द᳓धद् यज्ञ᳓पताव् अ᳓विह्रुतम्+++(=अकुटिलम्)+++ ।
वा᳓त-जूतो+++(=प्रेरितो)+++ यो᳓ अभिर᳓क्षति त्म᳓ना प्रजाः᳓
पुपोष पुरु+++(=बहु)+++-धा᳓ वि᳓ राजति ॥ १
(विष्णु का ध्यान करें। समयानुसार यहाँ वेदों की 16 ऋचायें पढ़े)
सहस्रशीर्षं च सहस्रनेत्रम्,
सहस्रबाहुं च सहस्र-पादं
समस्त यज्ञैः परिपुष्पितार्धं+++(??)+++
तं वासुदेव शरणं प्रपद्धये ।
(शिव जी ध्यान करें, समयानुसार यहाँ यत्जाग्रतो ….. के 6 ऋचायें पढ़े)
चन्द्राङ्कं युग्मपादं, शिति-गलम्म् उदधिं, श्रीमुखं विश्ववर्णं,
षट्स्कन्धं सूर्यबाहुं, दिनकर-कमलं, शून्य-षड्-वह्नि-पूर्वम् +++(??)+++।
पादाभ्यां मार-रूद्रौ रवि-शशि-हुतभुङ्-मण्डलैर् भ्राम्यमानं,
लीलाक्रान्तीन् तम् एकं त्रिभय-भयहरं कालचक्रं नमामि ।
(उपस्थान करना)
अथ य एष एतस्मिन्
मण्डले पुरुषो यश् चैव हिरण्यमयः पुरुषः ।
अथ य एष एतस्मिन्
मण्डले, पुरुषोऽयम् एव सोयं दक्षिणे ऽक्षन् पुरुषः ॥
(शुक्रियं रूद्रस्य ।)
य उदगात् पुरस्तान् महतो अर्णवाद्
विभ्राजमानः सरिरस्य मध्ये।
स माम् ऋषभो रोहिताक्षः
सूर्यो विपश्चिन् मनसा पुनातु ।
यद् ब्रह्मा अवादिष्म
तन् मा मा हिंसीत्।
सूर्याय विभ्राजाय वै नमो नमः ।।
न्यासः
(न्यास करना)
- अ नाभौ। उ हृदि। म शिरसि ।
- भूः पादयोः । भुवः हृदि । स्वः शिरसि ।।
- ॐ भूः अङगुष्ठाभ्यां नमः । भुवः तर्जनी भ्यां नमः । स्वः मध्यमाभ्यां नमः । महः अनामिका भ्यां नमः । जनः कनिष्ठिका भ्यां नमः । तपः सत्यं करतल करपृष्ठाभ्यां नमः ।।
- भूः पादयोः । भुवः जान्वोः । स्वः गुहये । महः नाभौ । जनः हृदि । तपः कण्ठे। सत्यं शिरसि।
- ॐ भूः हृदयाय नमः । भुवः शिरसे स्वाहा। स्वः शिखायै वौषट्। महः कवचाय हुँ । जनः नेत्राभ्यां वौषट्। तपः सत्यम् अस्त्राय फट्।।
- तत्सवितुः अङ्गुष्टाभ्यां नमः । वरेण्य तर्जनीभ्यां नमः । भर्गो देवस्य मध्यमाभ्यां नमः । धीमहि अनामिका भ्यां नमः । धियो योनः कनिष्ठका भ्यां नमः ।। प्रचोदयात् करतल करपृष्ठाभ्यां नमः ।
- तत् पादयोः । सवितुः जान्वोः । वरेण्य कट्यां । भर्गो नाभौ । देवस्य हृदये। धीमहि कण्ठे। धियो नासिकायाम् । यश् चक्षुषोः । नः ललाटे । प्रचोदयात् शिरसि।।
- तत्सवितुः हृदयाय नमः । वरेण्यं शिरसे स्वाहा । भर्गो देवस्य शिखायै वौषट् । धीमहि कवचाय हुँ । धियो योनः नेत्राभ्यां वौषट् । प्रचोदयाद् अस्त्राय फट् ||
- ओं आपः स्तन्ययोः। ज्योतिर् नेत्रयोः । रसो मुखे। अमृतं ललाटे । ब्रह्मभूर्भुवः स्वरों शिरसि।।
मुद्राः
(गायत्री की मुद्राऐं)
तत् समाय नमः । स संपुटाय नमः । वि वितताय नमः । तुः विस्तीर्णाय नमः।
व द्विमुखाय नमः । रे त्रिमुखाय नमः । ण्य चतुर्मुखाय नमः । अं पञ्च-मुखाय नमः ।
भ षण्मुखाय नमः । र्गो अधोमुखाय नमः । दे व्यापकाञ्जलये नमः । व शकटाय नमः । स्य यमपाशाय नमः । धी ग्रन्थिकायै नमः। म संमुखोन्मुखाय नमः । हि विलम्बाय नमः ।
धी मुष्टिकायै नमः । यो मीनाय नमः । यो कूर्माय नमः। नः वराहाय नमः । प्र सिंहाक्रान्ताय नमः। चो महाक्रान्ताय नमः । द मुद्गराय नमः। यात् पल्लवाय नमः ।
शापोद्धारः
(प्राणायाम करना।, संकल्प छोड़ना - एक पात्र से पानी निर्माल पात्र में डालते हुए पढ़ना )
अस्य श्री-महा-गायत्री शापोद्धार मन्त्रस्य विश्वामित्र ऋषिः,
विष्टार-पङ्क्ति गायत्रं छन्दः,
सविता देवता,
शापोद्धारे विनियोगः ।
ॐ
ब्रह्मणाग्निः संविदानो रक्षोहा वाधितामितः ।
अमीवायस्ते गर्भं दुर्नामा योनिमाशये ।।
(10 बार ।।) इति ऋग्वेदे ।।
ॐ
हिरण्यगर्भः समवर्तताग्रे
भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां
कस्मै देवाय हविषा विधेम ।।
(10 बार ।।) इति यजुर्वेदे ।
ॐ
आवायव्य यावायव्या यान्योर् वायायवः
ॐ हरोऽसि पाप्मानं मे विद्धि
(।। 10 बार ।।) इति सामर्वेदे ।।
सोऽहम् अर्कः परं ज्योतिस्
त्वं मात्म-ज्योतिर् अहं शिवः ।
आत्म-ज्योतिर् अहं सूर्यः
सर्व-ज्योती-रसोप्यहम् ।
सुभद्रा पावनी सुधा
गायत्री विश्वभषेजम् ।
विशापामेनां कृत्वा
यथास्तं विपरीतन ।।
(10 बार ।।) इति अथर्ववेदे ।।
(संकल्पसे एक पात्र से निर्माल्य-पात्र में पानी डालना यह मंत्र पढ़ते हुए)
तत्सवितुरिति मन्त्रस्य विश्वामित्र ऋषिः,
गायत्रं छन्दः,
सविता देवता,
आत्मनो वाङ्मनः-कायोपार्जित-पापनिवर्णार्थं नित्य-कर्म-निमित्तं चतुर्वर्ग-सिद्धयर्थे महा-गायत्री-जपे विनियोगः । ।
(गायत्री का ध्यान करना)
मुक्ता-विद्रुम-हेम-नील-धवल-च्छायैर् मुखैस् त्रीक्षणैः
युक्ताम् इन्दु-निबद्ध-रत्न-मुकुटां, तत्त्वात्म-वर्णत्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश-करां, शूलं कपालं गुणं
शङ्खं चक्रम् अथार-बिन्दु-युगलं हस्तैर् वहन्तीं भजे ||
आगच्छ वरदे देवि,
त्र्यक्षरे ब्रह्मवादिनि ।
गायत्रिच्छन्दसां मातर्
ब्रह्मयोने नमोस्तुते।।
(3 बार)
ओंकारं पूर्वमुच्चार्य
व्याहृतीस् तदन्तरम् ।
गायत्री प्रणवं चान्ते
जप एवम् उदाहृतम् ।
ॐ भूः भुवः स्वः
तत्सवितुः वरेण्यं
भर्गो देवस्य धीमहि
धियो योनः प्रचोदयाद्
ॐ आपोज्योतीरसोमृतं ब्रह्म भूः भुवः स्वरोम् ।।
(108 बार if time allows )
मुद्राः
(आठ मुद्रा दिखाना)
सुरभिः ज्ञान-चक्रे च
योनिः कूर्मोथ पङ्कजम्।
लिङ्गं निर्याणकं चैव
ह्यष्टौ मुद्राः प्रकीर्तिताः॥
उपस्थानम्
प्राणायाम करना ।
( हाथ जोड़ कर पढ़ें)
दशभिर्जन्मचरितं
शतेन च पुरा कृतम् ।
त्रियुगोत्थं सहस्रेण,
गायत्री हन्ति किल्बिषम् । ।
तर्पणम्
(तर्पण करना)
देवा गातु श्रोत्रियाः ।
देवा गातुविदो,
गातुं वित्वा गातुमित मनसस्पत इमं देवयज्ञं स्वाहा,
वाचे स्वाहा वाते धाः ।