अथ भोजनविधिः ॥ तत्रादौ लेपनं विधाय
चतुष्कोणं तु विप्रस्य क्षत्रियस्य त्रिकोणकम् ।
मण्डलाऽकृति वैश्यस्य शूद्रस्याऽभ्युक्षणं स्मृतम् ॥ १ ॥
अकृत्वा मण्डलं ये तु भुञ्जतेऽन्नमऽधोमुखाः ।
तेषां तु यक्षरक्षांसि भुञ्जतेऽन्नस्य तद्बलम् ॥ २ ॥
पञ्चाऽर्द्रो भोजनं कुर्याद्वाग्युतः प्राङ्मुखः शुचिः ।
हस्तौ पादौ तथा वक्त्रमेषा पञ्चाऽर्द्रता मता ॥ ३ ॥
ततोऽन्नपात्रमाऽनीय ।
अन्नं दृष्ट्वा प्रणम्याऽदौ प्राञ्जलिः कथयेदिदम् ।
अस्माकं नित्यमऽस्त्वेतदिति स्मृत्वा च वन्दयेत् ॥ ४ ॥
अमृतमुद्रयाऽन्नपात्रं गृहीत्वा ।
अन्नपते अन्नस्य नो देह्यऽनमीवस्य शुष्मिणः ।
प्र प्रदातारं तारिषम् ऊर्जं नो देहि द्विपदे शं चतुष्पदे ॥ ५ ॥
गायत्र्या चाऽभिमन्त्र्य ॥ ६ ॥ ततो जलेनाऽभ्युक्ष्य । ॐ उच्छिष्टोच्छिष्टोपहतं
यच्च पापेन हतं मृतसूतकाद्वा । वसोः पवित्रमऽग्निः सवितुश्च रश्मयः
पुनन्त्वऽन्नं मम दुष्कृतं यच्चाऽन्यत् ॥ ७ ॥ ॐ तद्विष्णोः परमं० ॥ ८ ॥ इति
च । ततो दक्षिणभागे भूमौ । ॐ भूपतयेनमः ॐ भुवनपतये नमः ॐ
भूतानां पतये नमः । इति बलित्रयं निवेद्य । ये केचिद्यत्र तत्रस्थाः
प्रेतभागवशाऽनुगाः । इहैव भूमौ ते सर्वे मद्दत्तलेपमऽद्यताम् ॥ ९ ॥ इति
लेपं भूमौ प्रक्षाल्य अन्तश्चरसि भूतेषु इति ब्रह्मार्पणं
ब्रह्महविर्ब्रह्माऽग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं
ब्रह्मकर्मसमाधिना ॥ ११ ॥ ॐ अमृतोपस्तरणमऽसिस्वाहा इत्याऽचम्य ।
प्राणायस्वाहा इति तर्जनीमध्यमाभ्याम् । अपानाय स्वाहा इति
मध्यमाऽनामिकाङ्गुष्ठैः । समानाय स्वाहा इति
कनिष्ठाऽनामिकाऽङ्गुष्ठैः उदानाय स्वाहा इति तर्जनींविनाऽङ्गुलिभिः ॥
व्यानाय स्वाहा इति सवाङ्ग्लिभिर्दत्तामाऽहुतिं जिह्वयैवाऽत्वा ।
शेषमिष्टदेवतामन्त्रमन्त्रितं प्रत्येकं ग्रासं ग्रसित्वा ।
गण्डूषैर्मुखं विशोध्य । ॐ अमृतापिधानमसि स्वाहा इत्याऽचम्य ॥
ये काङ्क्षणमाना जीवा वै ये च कर्मवशाऽनुगाः ।
भुञ्जतां ते ममोच्छिष्टं पात्रशेषं समर्पितम् ॥ १२ ॥ इत्यभिमन्त्र्य
शेषान्नं भूमौ निर्वपेत् ॥
प्। २९)
दक्षिणकराङ्गुष्ठेन दक्षिणपादाङ्गुष्ठम् ।
अङ्गुष्ठमात्रः पुरुषः सोऽङ्गुष्ठाग्रमुपाश्रितः ।
ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुक् ॥ १३ ॥ इति निप्लावयित्वा ।
शर्यातिश्च सुकन्या च शक्रश्च च्यवनोऽश्विनौ ।
षडेते गारुडीं दृष्टिं मह्यं ददतु सर्वदा ॥ १४ ॥ इति
नेत्रयोरऽङ्गुष्ठेनोदकं संस्पृश्य । इष्टदेवतां स्मरन् । प्रानोऽग्निः
परमात्मा वै पञ्चवायुसमाश्रितः ।
स प्रीतः प्रीणातु विश्वं विश्वभुक् ॥ १५ ॥
विश्वोऽसि वैश्वानरोऽसि विश्वमाऽभाससे जायमानः ।
विशन्ति त्वामाऽहुतयश्च सर्वाः प्रजास्तत्र यत्र विश्वाऽमृतोसि ॥ १६ ॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाऽश्रितः ।
प्राणाऽपानसमायुक्तः पचाम्यऽन्नं चतुर्विधम् ॥ १७ ॥
अहमऽन्नमहमन्नदः अहमन्नादः ॥
अगस्त्यः कुम्भकर्णश्च भीमश्च वडवानलः ।
भोजनान्ते स्मरेन्नित्यं कुक्षौ रोगो न जायते ॥ १९ ॥
राज्ञां शिवं चाऽस्तु तथा द्विजानां गवां शिवं चाऽस्तु तथा
प्रजानाम् ।
आतङ्कहीनं जगदऽस्तु सर्वं दोषा विनाशं सकलाः प्रयान्तु ॥ २० ॥ इति
पठेत् ॥
इति भोजनविधिः ॥