अथ पञ्चगव्यविधिः ॥
गोमूत्रं गोमां क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं च पवित्रं कायशोधनम् ॥ १ ॥
गायत्र्याऽदाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधि क्राव्णेति वै दधि ॥ २ ॥
तेजोसीति घृतं प्रोक्तं देवस्यत्वा कुशोदकम् ।
गोमूत्रं गोमये क्षेप्यं ते सङ्क्षिप्ये घृते तथा ॥ ३ ॥
तानि दध्नि प्रक्षिप्यानि तत्सर्वं पयसोन्तरे ।
एकीकृत्य तु तत्सर्वं कुशोदकविमध्यगम् ॥ ४ ॥
आपो हिष्ठेति चाऽलोड्य प्रणवेन तु तत्पिबेत् ।
औदुम्बरे पद्मपत्रे रौप्यपात्रे हिरण्मये ॥ ५ ॥
मन्त्रपूतं पिबेत्तत्तु त्रीन्वारान्पञ्चगव्यकम् ।
शुद्धवतीति मन्त्रेण प्रक्षिपेद्दिक्षु सर्वतः ॥ ६ ॥
पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते ।
घृतं च पलमात्रं स्याद्गोमयं तोलकद्वयम् ॥ ७ ॥
दधि प्रसृतमात्रं स्यात्पञ्चगव्यं त्विदं स्मृतम् ।
अथवा पञ्चगव्यानां समानो भाग इष्यते ॥ ८ ॥
मूलमन्त्रेण सम्मन्त्र्य कुशाग्रेणैव शोधयेत् ।
तेन सर्वविशुद्धिः स्यात्सर्वपापनिकृतनम् ॥ ९ ॥
प्। २७)
गोमूत्रं ताम्रवर्णायाः शुद्धवत्यास्तु गोमयम् ।
पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥ १० ॥
घृतं च कृष्णवर्णायाः सर्वं कापिलमेव वा ।
गोमूत्रं माषकास्त्वष्टौ गोमयस्य तु षोडश ॥ ११ ॥
पयसो द्वादश प्रोक्ता दध्नः पञ्चदश स्मृताः ।
घृतस्याऽष्तादश प्रोक्ताः प्रमाणं पञ्चगव्यके ॥ १२ ॥
एकोनविंशमाषास्तु कुशोदकस्य च स्मृताः ।
गोमूत्रमुत्तरे स्थाप्यं गोमयं वारुणे न्यसेत् ॥ १३ ॥
सर्पिर्याम्यां दधि प्राच्यां क्षीरं मध्ये तु निक्षिपेत् ।
कुशोदकं तथैशान्यां पञ्चगव्यस्थितेर्विधिः ॥ १४ ॥
वरुणो देवता मूत्रे गोमये हव्यवाहनः ।
विष्णुः क्षीरे दध्नि सोमो घृतस्य पितृमांस्तथा ॥ १५ ॥
कुशोदके भवेद्ब्रह्मा पञ्चगव्यस्य देवताः ।
मातृघ्नं भ्रूणहन्तारं गुरुतल्पगमेव वा ॥ १६ ॥
पञ्चगव्यं सकृत्पीतं पापेभ्यो विनिवर्तयेत् इति ॥