०५ एकविंशतिस्नानानि

अथ एकविंशतिस्नानानि ॥ पयोदधिघृतक्षौद्रलाजासिद्धार्थकास्तिलाः ।
यवव्रीहिकुशादूर्वामृद्भस्मफलशर्करा । पञ्चामृतं पञ्चगव्यं
कर्पूरौषधयस्तथा । एकविंशतिस्नानानि गन्धाढ्यैः कुसुमैरऽपि ॥
उदुत्तमं वरुण पाशमस्मदऽवाधमं विमध्यमं श्रथाय । अथा
वयमाऽदित्यव्रते तवानागसो अदितये स्याम ॥ पयः पृथिव्यां पय ओषधीषु
पयो दिव्यऽन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ १ ॥
दधिक्राव्णो० । घृतवती भुवनानामऽमि"रियोर्वी पृथिवी मधुदुघे
सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कम्भिते अजरे भूरिरेतसा ॥ ३

मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः । मधु
नक्तमुतोषसो मधुमत्पार्थिवं रजः मधु द्यौरऽस्तु नः पिता ।
मधुमान्नो वनस्पतिर्मधुमानऽस्तु सूर्यः माध्वीर्गावो भवन्तु नः ॥ ९ ॥
तदस्य रूपममृतं शचीभि स्तिस्रो दधुर्देवताः संरराणाः । लोमानि
शष्पैर्बहुधान तोक्मभिः त्वगऽस्य मांसमभवन्न लाजाः ॥ ५ ॥
रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म । शिशानो
अग्निः क्रतुभिः समिद्धः सनो दिवः सरिषः पातु नक्तम् ॥ ६ ॥ तिलोऽसि
सोमदैवत्यो गोसवो देवनिर्मितः । प्रयत्नवद्भिः पितृंल्लोकान्प्राण आयाहि
नःस्वधा ॥ ७ ॥ यवोऽसि यवयास्मद्विषं यावया रातिम् । पितृषदनन्त्वा
लोकमाऽस्तृणामि ॥ ८ ॥ धान्यमऽसि धिनुहि

प्। २१)

देवान्धिनुहि यज्ञन्धिनुहि यज्ञपतिन्धिनुहिमां यज्ञम् ॥ ९ ॥ देवस्य त्वा
सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाऽदधे ॥ १० ॥
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्रतनु सहस्रेण
शतेन च ॥ ११ ॥ आक्रम्य वाजिन्पृथिवी मग्निमिच्छा रुचा त्वम् ।
भूम्यायत्वायनोब्रूहि यतः खनेम ते वयम् ॥ १२ ॥ प्रसद्य भस्मना
योनिमाऽपश्च पृथिवीमग्नेः । संसृज्य मातृभिष्ट्वं
ज्योतिष्मान्पुनराऽसदः ॥ १३ ॥ याः फलिनीर्या अफला अकोशाः कोशिनीश्च याः
। बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वंहसः ॥ १४ ॥
शर्कराभिरऽवकामवकाभिः शर्करामुत्सादेन । जिह्वामवक्रन्देन तालुं
सरस्वती जिह्वाग्रेण ॥ १५ ॥ पञ्चव्युष्टीऽनुपञ्चदुहागां पञ्चनाम्नी
मृतवोऽनु पञ्च । पञ्च दिशः पञ्चदशेन कॢप्ताः
समानमूर्ध्नीरऽभिलोकमेकम् ॥ १६ ॥ गोमूत्रं गोमयं क्षीरं दधि
सर्पिः कुशोदकम् । मिश्रीकृत्य समुद्रादूर्मिर्मधुमाम्
उदारदुपांशुनासमऽमृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा
देवानामऽमृतस्य नाभिम् ॥ १७ ॥ त्र्यम्बकं यजामहे सुगन्धिं
रयिपोषणम् । उर्वारुकमिवबन्धनान्मृत्योर्मोक्षीय मा मृतात् ॥ १८ ॥ या
ओषधयः प्रथमजा देवेभ्यस्त्रियुगं पुरा । मनैनु बभ्रूणामःअं
शतं धामानि सप्त च ॥ १९ ॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां
करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ २० ॥ पुष्पवतीः
प्रसुमतीः फलिनीरऽफला उत । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥ २१
॥ ऋतुपतये इत्यादिभ्यो एकविंशतिस्नानानि नमः ॐ अम्बुना पयसा दघ्ना
घृतेन मधुना यवैः । शर्करासर्षपतिलैस्तथा चामिकरेण वै ।
कर्पूरकुङ्कुमाभ्यां च लाजाऽक्षोटैः सपुष्पकैः ।
सर्वोषध्यस्तथापश्चाद्विष्णोः स्नानानि षोडश । दद्यात्षोडश
स्नानानि षोडशर्चेन विष्णवे । आदौ शुद्धजलेन वसोः
पवित्रमऽसि० ऋतुपतये० इत्यादिभ्याः शतधारोदकं नमः
सहस्रधारोदकं नमः ॥ ततः आनुष्टुभस्येति पुरुषसूक्तेन १६ । रथे
अक्षेषु वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी
सुभगा जजान सेयमागाद्वर्चसा संविदाना ॥ १ ॥ या हस्तिनि द्वीपिनि या
हिरण्ये गोष्वऽश्वेषु पुरुषेष्वऽन्तः । इन्द्रंया० ॥ २ ॥ सिंहे व्याघ्रे उत या
पृदाकौ त्विषिरग्नौ ब्रह्मणे सूर्ये या । इन्द्रं या देवी० ॥ ३ ॥ या राजन्ये
दुन्दुभावायताया मऽश्वस्य स्कन्दे पुरुषस्य मायौ । इन्द्रं० ४ इति
लक्ष्मीसूक्तेन च तद्विष्णोः० ऋतुपतये इत्यादि षोडशस्नानानि नमः ॥
पानीयान्तरितैः पयोदधिघृतैः क्षौद्रेक्षुभिः सौषधैः । ब्रीह्यद्भिः
कुसुमोदकैः फलजलैः

प्। २२)

सिद्धार्थलाजोदकैः ॥ गन्धाद्भिः शुभहेमरत्नसलिलैरित्थं सदा चोत्तमैः
। दद्यात्पञ्चदशाम्बुना सह महास्नानानि शम्भोः क्रमात् ॥ उदुत्तमं १
पयः पृथिव्याः २ दधि क्राव्णो ३ घृतवती ४ मधुवाता ५ स्वादुः पव
स्वदिव्याय जन्मने स्वादुरिन्द्राय सुहवीतनाम्ने स्वादुर्मित्राय वरुणाय
वायवे बृहस्पतये मधुमाम् अदाभ्यः ॥ ६ ॥ या ओषधयः ७ धान्यमसि ८
पुष्पवतीः ९ याः फलिनीः १० रक्षोहणं ११ तदस्य रूपं १२ गन्ध
द्वारां १३ हिरण्यवर्णाः १४ ऋतं चसत्यं १५ पृ० ७ ॥ असङ्ख्याताः
सहस्राणि ये रुद्रा अधिभूम्याम् । तेषां सहस्रयोजनेव धन्वानि तन्मसि १
यऽस्मिन्महत्यऽर्णवेऽन्तरिक्षे भवा अधि । तेषाम् ॥ २ ॥ ये नीलग्रीवाः
शितिकण्ठा दिवं रुद्रा उपाश्रिताः ॥ तेषां० ३ । ये नीलग्रीवाः शितकण्ठाः
शर्वा अधः क्षमाचराः ॥ ते० ४ ॥ ये वनेषु शिल्पिञ्चरा नीलग्रीवा विलोहिताः ॥
ते० ५ ॥ येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । ते० ॥ ६ ॥ ये
भूतानामधिपतयो विशिखासः कपर्दिनः । ते० ॥ ७ ॥ ये पथीनां पथि
रक्षय ऐडमृदाय व्युधः । ते० ॥ ८ ॥ ये तीर्थानि र्पचरन्ति सृकावन्तो
निषङ्गिणः । ते० ॥ ९ ॥ य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितिष्ठिरे । ते० ॥
१० ॥ ॐ नमो अस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचिर्दश
दक्षिणा दश प्रतिचीर्दशोदीचीर्दशोर्ध्वा स्तेभ्यो नमो अस्तु ते नो मृदयन्तु ते
यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ॥ १ ॥ ॐ नमो अस्तु
रुद्रेभ्यो ये अन्तरिक्षे येषां वात इषवस्तेभ्यो दशप्राची० ॥ २ ॥ ॐ नमो अस्तु
रुद्रेभ्यो ये पृथिव्यां येषामऽन्नमिषवस्तेभ्यो० ॥ ३ ॥ यो रुद्रो अग्नौ यो अप्सु
य ओषधीषु यो वनस्पतिषु । यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो
अस्तु देवाः । भगवते भवाय देवाय । इत्यादि पञ्चदशस्नानानि नमः । ॐ
गणानान्त्वा गणपतिं हवामहे कविङ्कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीद सादनम्
। भगवते विनायकाय इत्यादि चतुर्दशस्नानानि नमः । पयः क्षीरं दधि
सर्पिरिक्षुस्तिला यवा मधु । लाजामृतं पञ्चगव्यं
गन्धपुष्पौषधीस्तथा । त्रयोदशस्नानेऽमूनि सूर्यस्योक्तानि सूरिभिः ।
उद्वयन्तमसस्परि० षट् ऋग्भिः पृ० ७ पं० २१ ह्रांह्रींसः सूर्याय इत्यादि
त्रयोदशस्नानानि नमः । लाजागन्धवाचः कुष्ठं वालुकं
शङ्खपुष्पकम् । कुङ्कुमागुरुकर्पूरं स्नाने देव्याः प्रकल्पयेत् ॥ अहं
रुद्रेभिर्वसुभिश्चरामिऽ-अहमादित्यैरुत विश्वदेवैः ।
अहम्मित्रावरुणोभाबिभर्म्यऽहमिन्द्राग्नी अहमश्विनोभा । दधि क्राष्णो० ।
आपो

प्। २३)

हिष्ठा० । ॐ भूर्भुवः स्वस्त० । जातवेदसे सुनवाम सोम मऽराती यतो
निदहाति वेदः । स नःपर्षदऽतिगुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ।
भगवत्यै अमायै इत्यादि अष्टौ स्नानानि नमः । अग्निर्-ऋषिः पवमानः
पाञ्चजन्यः पुरोहितः तमीमहे महागयम् । पाञ्चजन्याय शङ्खाय
स्नानं नमः । कयानश्चित्र आभूव दूती सदा वृधः सखा कया
शचिष्ठया वृता । देवदूत्यै घण्टाभगवत्यै स्नानं नमः ॥ तओ
ब्रह्मादयः सर्वे देवास्तृप्यन्तु० इत्यादि देवर्षिपितृतर्पणम् ।

सव्येन- विष्णुपीठे भद्रपीठे य इदं तर्पणं पठेत् । धनं
कीर्तिर्यशश्चैव नित्यं च सुखमश्नुते । बह्वायुश्च बहून्पुत्रान्यजमानो
लभेत्सदा । वपुः पूतं पवित्रं च नित्यं गोदानकं फलम् । मा विघ्नं
मा च मे पापं सन्तु परिपन्थिनः । सौम्या भवन्तु तृप्ताश्च भूताः
प्रेताः सुखावहाः । ॐ नमो देवेभ्यः इत्यादि । शुद्धजलेन तद्विष्णोः०
भगवते वा० इत्यादिभ्यो मन्त्रगुडकं नमः । ॐ प्रत्यग्ने हरसाहरः
शृणीहि विश्वतः प्रति । यातुधानस्य रक्षओ बलं विरुज वीर्यम् ॥ इत्याऽरात्रिका
। ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह
तदुरुगायस्य वृष्णः परमं पदमऽवभाति भूरि । इति नेत्रस्पर्शनम् ।
उदकं चन्दनं चक्रं शङ्खश्च तुलसीदलम् । घण्टा शिला
ताम्रपत्रमऽष्टाङ्गं चरणामृतम् । ॐ तद्विष्णोः० । भगवते वासु० इत्यादि
चरणामृतं गृह्णामि नमः ॥ आपो हि ष्ठा इति शिरसि मार्जयेत् आसनाय
नमः पद्मासनाय नमः गरुडासनाय नमः शतदलपद्मास० ।
सहस्रदलप० वृषभास० मूषका० सप्ताश्वासना० सिंहासनाय नमः ॥
उत्तिष्ठ भगवन्विष्णो उत्तिष्ठ कमलापते ! । उत्तिष्ठ त्रिजगन्नाथ ! त्रैलोक्ये
मङ्गलं कुरु ॥ मुकुन्दमालां पठित्वा । रथे अक्षेषु ऋ ४ ॐ भगवते
वासुदेवाय इत्यादिभ्योऽनुलेपनं गृह्णामि नमः । तं यज्ञं० युवा
सुवासाः० ऋतुपतये० इत्यादिभ्यो वस्त्रं नमः । तस्माद्यज्ञात्सर्वहुतः
सम्भृतं० यज्ञोपवीतं० ऋतु० यज्ञोपवीतं वासोनमः ।
तस्माद्यज्ञात्सर्वहुतः ऋचः० गन्धद्वारां० ऋतुप० समालभनं गन्धो
नमः ॥ तस्मादऽश्वा० पुष्पवतीः० ऋतु० अर्घो नमः । पुष्पं नमः ततः
पुरुषसूक्तेन लक्ष्मीसूक्तेन च पूर्वे नारायणाय नमः दक्षिणे
पुण्डरीकाक्षाय० पश्चिमे गोविन्दाय उत्तरे मधुसूदनाय ऐशान्यां
विष्ण्ववे आग्न्येय्यां जनार्दनाय नैर्-ऋत्यां पद्मनाभाय वायव्यां
वामनाय ऊर्ध्वे वासुदेवाय अधरे लोकनाथाय मध्ये केशवाय
शङ्खाय चक्राय गदायै हलाय मुसुलाय

प्। २४)

कौस्तुभाय जयाय विजयाय धात्र्यै शेषाय अयनद्वयाय द्वारे चण्डाय
उपचण्डाय ऋग्वेदाय यजुर्वे० सामवे० अथर्ववे० कृतयुगाय त्रेतायु०
द्वापरयु० कलियु० ॐ भूर्लोकाय ॐ भुवोलो० ॐ स्व्र्लो० ॐ भूर्भुवःस्वर्लो० ।
तद्विष्णोः० ॥ २ ॥ वासुदेवाय इत्यादि यो रुद्रो० भवाय देवाय इत्यादि ।
गणानान्त्वा० । विनायकाय इत्यादि । चित्रन्देवानाम् । ह्रांह्रींसः सूर्याय
इत्यादि । जातवेदसे० अमायै इत्यादि अर्घो नमः पुष्पं नमः । यत्पुरुषं पृ०
८ धूरसि धूर्व धूर्वन्तं योऽस्मान्धूर्वति तं धूर्वय
वयन्धूर्वामस्तञ्च् अ धूर्व । देवानामसि वह्नितमं सस्नितमं
पप्रितमम् इष्टतमं देवतमं विष्णोः क्रमोस्याहुतमसि हविर्दानं
दृंहस्व स्वाह्वान्मित्रस्य त्वा चक्षुषा प्रेक्ष उरुत्वावाताय । वसवस्त्वां
धूपयन्तु गायत्रेण च्छन्दसाङ्गिरस्वत् । रुद्रास्त्वा धू० त्रैष्टुभेन च्छ० ।
आदित्यास्त्वा धू० जागतेन च्छ० विश्वेत्वा देवा वैश्वानरा धू०
आनुष्टुभेन च्छ० । इन्द्रस्त्वा धूपयतु । वरुणस्त्वा धू० । विष्णुस्त्वा धू०
। ऋतुप० इत्यादिभ्यो धूपं परिकल्पयामि नमः ॥ ब्राह्मणोऽस्य० । तेजोसि
शुक्रमसि ज्योतिरसि धामासि । प्रियन्देवानामऽनाधृष्टन्देवयजनं
देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ॥ ऋतु०
इत्यादिभ्यो रत्नदीपं परिकल्पयामि नमः देवस्य त्वा० जय नारायण०
शिवयोर्लीलास्तुतिं पठित्वा ऋतुप० चामरं परिकल्प० नमः ।
काण्डात्काण्डा० छत्रं परि० । तच्चक्षु० आदर्शं परि० । एताभ्यो देवताभ्यो
धूपो नमः दीपो नमः । एता० वासो नमः । एतासां
देवतानामर्घ्यदानाद्यऽर्चनविधिःसर्वः परिपूर्णोऽस्तु ॥
चन्द्रमामनसो० हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मैदेवाय हविषा विधेम । ऋतुप०
विष्णुपञ्चायतन दे० मात्रामधुपर्कं चरुं निवेदयामि नमः नाभ्या
आसीत्० कुसुमाञ्जलिं परिक० । सप्तास्याऽसन्० ॐ नमो नारायणाय
भगवन्प्रसीद इति च चत्वारि प्रदक्षिणानि ॥ ध्येयं सदा
परिभवघ्नमऽभीष्टदोहं तीर्थास्पदं शिवविरञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल ! भवाब्धिपोतं वन्दे महापुरुष ते
चरणारविन्दम् । त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ !
आर्यवचसा यदगादऽरण्यम् । मायामृगं दयितयेप्सितमेऽनुधावत् वन्दे०
॥ २ ॥ श्रीमत्सरोरुहयवाङ्कुशचक्रचाप मत्स्याङ्कितं
नवविलोहितपल्लवाभम् । लक्ष्म्यालयं परममङ्गलमात्मरूपं वन्दे० ॥ ३
॥ वृन्दावनान्तरमऽगादऽनु गोकुलानां सञ्चार्य सर्वपशुभिः

प्। २५)

स्वविवृद्धिकामी । सञ्चिन्तयेदऽगगुरोर्मृगपक्षिणां यद्वन्दे० ॥ ९ ॥
यद्गोपिका विरहजाग्निपरीतदेहास्तप्तस्तनेषु विजहुः परिरभ्य तापम् । रासे
तदीयकुचकुङ्कुमपङ्कलिप्तं वन्दे० ॥ ५ ॥
कालीयमस्तकविघट्टनदक्षमऽस्य मोक्षेप्सुभिर्विरहदीनमुखाभिरारात् ।
तत्पत्निभिः स्तुतमऽशेषनिकामरूपं वन्दे० ॥ ६ ॥ ज्ञानालयं
श्रुतिविमृग्यमऽनादिमऽर्च्यं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।
संसारकूपपतितोत्तरणावलम्बं वन्दे० ॥ ७ ॥ येनाङ्कपालवपुषः
स्तनपानबुद्धेस्त्वदङ्घ्रिणा हृतमऽनो विपरीतचक्रम् ।
विध्वस्तभाण्डमऽपतद्भुवि गोपमूर्तेर्वन्दे० ८ इत्यष्टकं पठति यः
परमस्य पुंसो नारायणस्य निरयार्णवतारणस्य । सर्वाप्तिमाशु हृदये
कुरुते मनुष्यैः सम्प्राप्य देहविलयं लभते च मोक्षम् ॥ ९ ॥ उभाभ्यां
जानुभ्यां पाणिभ्यां शिरसा उरसा मनसा वचसा च नमस्कारं करोमि
नमः । अन्नं नमः २ आज्यं २ अद्यदिने अद्य यथा सङ्कल्पात्सिद्धिरस्तु
अन्नहीनं क्रियाहीनं विधिहीनं द्रव्यहीनं मन्त्रहीनं च यद्गतं
तत्सर्वमऽच्छिद्रं सम्पूर्णमस्तु एवमस्तु ॥ शन्नो देवी० ऋतुपतये
इत्यादिभ्यः अपोशानं नमः आचमनीयं नमः ॥ पुनः शन्नो देवी० । ऋ०
दक्षिणायै तिलहिरण्यरजतनिष्कर्षं ददानि । एता देवताः सदक्षिणाऽन्नेन
प्रीयन्तां प्रीताः सन्तु ॥ अमृतेशमुद्रया अमृतीकृत्य० इत्यादि सर्वो
नैवेद्यविधिः । तद्विष्णोः० इति पुष्पद्वयं क्षिपेत् ॥ ततो जपादि कृत्वा । ॐ भूः
पुरुषं विसर्जयामि नमः ॐ भुवः पुरुषं विस० ॐ स्वः पुरुषं वि० ॐ
भूर्भुवः स्वः पुरुषं विस० । ॐ भूर्भुवः स्वस्तत्स० ३ । इत्यादि सर्वा
गायत्रीः पठित्वा आत्मनो० श्रीविष्णुप्रीत्यर्थं
विष्णुपञ्चायतनपूजनमच्छिद्रं सम्पूर्णमऽस्तु एवमस्तु । एताभ्यो
देवताभ्यो यवोदकं नमः उदकतर्पणं नमः । आज्ञा मे दीयतां नाथ
नैवेद्यस्याऽस्य भक्षणे । शरीरयात्रासिद्ध्यर्थं भगवन् क्षन्तुमऽर्हसि ।
आपन्नोस्मि शरण्योसि सर्वावस्थासु सर्वदा । भगवंस्त्वां प्रपन्नोऽस्मि
रक्ष मां शरणागतम् । एवं पञ्चानां देवानां स्तोत्रपाठादि
पठित्वा ॥ आह्वानं नैव जानामि नैव जानामि पूजनम् । पूजाभागं न
जानामि क्षम्यतां परमेश्वर । उमाभ्यां जानुभ्याम् इत्यादि
नमस्कारं करोमि नमः । नमो ब्रह्मणे ३ इति तर्पणम् यजेन यज्ञम् इति
विसर्जनम् ॥ बलिर्विभीषणो भीष्मः प्रह्लादो नारदः शुकः । षडेते
वैष्णवश्रेष्ठा गृह्णन्तु चरणोदकम् । ॐ नमो देवेभ्यः० इत्यादि ॥ पूजितोसि
मया भक्त्या भगवन्कमलापते । सलक्ष्मीको मम स्वान्तं

प्। २६)

विश विश्रान्तिहेतवे । इति विज्ञप्य चरणाऽमृतं पिबेत् चरणं पवित्रं विततं
पुराणं येन पुतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूतः
अतिपाप्मानमऽरातिन्तराम । लोकस्य द्वारमर्चिष्ञ्ज्ज्योतिष्मत् लोकस्य धारां
बहुधा दोहमानं चरणं नृलोके सततं ददातु ।

देवदेव महादेव शङ्खचक्रगदाधर ।
देहि विष्णो ममानुज्ञां पादोदकनिषेवणे ॥ १ ॥

अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
श्रीविष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते ॥

इति विष्णुपञ्चायतनपूजाविधिः ॥