०४ विष्णुपञ्चायतनपूजाविधिः

ॐ अथ विष्णुपञ्चायतनपूजाविधिः

ॐ अस्य श्री आसनशोधनमन्तस्य मेरुपृष्ट ऋषिः सुतलं छन्दः कूर्मो
देवता । आसनशोधने विनियोगः ॥ मेरुपृष्ठ-ऋषये नमः शिरसि सुतलं
छन्दसे नमः मुखे कूर्मो देवतायै नमः हृदि आसनशोधने विनियोगाय
नमः सर्वाङ्गेषु ॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चाऽसनम् ॥

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामऽसि ॥

इत्याऽसनम् ।
प्रीं पृथिव्यै आधारशक्त्यै समालभनं गन्धो नमः अर्घो नमः
पुष्पं नमः ॥ ततो नमस्कारः

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १ ॥

प्। १५)

अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ २ ॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ ३ ॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः ।
गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ ४ ॥

महाबले महोत्साहे महाभयविनाशिनि ।
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ ५ ॥

ॐ गुरवे नमः परमगुरवे नमः परमेष्ठिने गुरवे नमः परमाचार्याय
न० आद्यसिद्धेभ्यो न० ॥ ॐ अनाभावित्यादि । ब्रह्मभूर्भुवः स्वरों
शिरसीत्यन्तं पृ० १० कृत्वा ॐ तद्विष्णोः परमं पदं हृ० । सदा पश्यन्ति
सूरयः शिरसे० । दिवीव चक्षुराऽततं शिखा० । तद्विप्रासो विपन्यवो कव० ।
जागृवांसः समिन्धते नेत्र० । विष्णोर्यत्परमं पदम् अस्त्रा० ॥ यो रुद्रो अग्नौ
हृ० । यो अप्सु य ओषधीषु शिर० । यो वनस्पतिषु शिखा० । यो रुद्रो विश्वाभुवना
विवेश कव० । तस्मै रुद्राय नेत्र० । नमो अस्तु देवा अस्त्राय फट् ॥ गणानान्त्वा
गणपतिं हवामहे हृ० । कविं कवीनां शि० । उपमश्रवस्तमं शिखा० ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत कच० । आनः शृण्वन् नेत्रा० । ऊतिभिः
सीद सादनम् अस्त्रा० ॥ चित्रं पादयोः । देवानां जङ्घयोः । उद्गा ज्जान्वोः ।
अनीक मूर्वोः । चक्षुः शिश्ने । मित्रस्य गुह्ये । वरुणस्य नाभौ । अग्ने र्हृदि ।
आप्राद्यावापृथिवी कण्ठे । अन्तरिक्षं बाह्वोः । सूर्य मुखे । आत्मा
नासिकायां जगतः नेत्रयोः । तस्थुषः ललाटे । च शिरसि ॥ जात शिखायाम् ।
वेदसे ललाटे । सुनवाम कर्णयोः । सोमं नासिकायाम् । अराति चक्षुषोः । यत
ओष्ठयोः । नि दन्तेषु । दहाति तालुनि । वेद जिह्वायाम् । स ग्रीवायाम् । नः
बाह्वोः । पर्षत् हृदि । अति स्तनयोः । दुर् कुक्षौ । गाणि नाभौ । विश्वा पृष्ठे ।
नाव पाण्योः । इव वृष्णयोः । सिन्धुं शिश्ने । दुर् कट्याम् । इत ऊर्वोः । अति
जङ्घयोः । अग्निः पादयोः ॥ सर्वासु दिक्षु तिलान्विक्षिपन्

अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते
नश्यन्तु शिवाज्ञया ॥ पाशान्डकारिणो ये वै भूता भूम्यन्तरिक्षगाः ।
दिवि लोके गता

प्। १६)

दुष्टास्ते नश्यन्तु शिवाज्ञया ॥ २ ॥ प्राणायामं कुर्यात् तीर्थेस्नेयं० ।
वसोः पवित्रमऽसि शतधारं वसूनां पवित्रमऽसि सहस्रधार
मऽयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः । इति
पवित्रधारणम्

परमात्मने पुरुषोत्तमाय पञ्चभूतात्मकाय विश्वाऽत्मने
मन्त्रनाथाय आत्मने नारायणायाअधारशक्त्यै समालभनं गन्धो
नमः अर्घो नमः पुष्पं नमः ॥ इति स्वात्मने गन्धादि ।

स्वप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
प्रसीद मम गोविन्द दीपोयं परिकल्पितः ॥

वनस्पतिरसो दिव्यो गन्धाढ्यो गन्धवत्तमः ।
आह्वानं सर्वदेवानां धूपोऽयं परिकल्पितः ।
नमो धर्मनिधानाय नमः स्वकृतसाक्षिणे ।
नमः प्रत्यक्षदेवाय भास्कराय नमो नमः ॥

यत्राऽस्ति माता न पिता न बन्धुर्भ्राताऽपि नो यत्र सुहृज्ज्नश्च ।
न ज्ञायते यत्र दिनं न रात्रिस्तत्राऽत्मदीपं शरणं प्रपद्ये ॥

आत्मने नारायणाय आधारशक्त्यै धूपदीपसङ्कल्पात्सिद्धिरऽस्तु
धूपोनमः दीपो नमः । ओन्तत्सद्ब्रह्मा० ऋतुपतये नारायणाय
मार्गशीर्षे रुक्मिणीसहितायकृष्णाय श्रीसहिताय केशवाय । पौषे
प्रियासहि० अनन्ताय वागीश्वैरिस० नारायणाय । माघे प्रीतिस० अच्युताय
कान्तास० माधवाय । फाल्गुने शक्तिस० चक्रिणे क्रियास० गोविन्दाय । चैत्रे
सिद्धिस० वैकुण्ठाय मतिस० विष्णवे । वैशाखे शोभास० जनार्दनाय
विभूतिस० मधुसूदनाय । ज्येष्ठे महिमास० उपेन्द्राय इच्छास०
त्रिविक्रमाय । आषाढे लक्ष्मीस० यज्ञपुरुषाय धृतिस० वामनाय ।
श्रावणे कान्तिस० वासुदेवाय रतिस० श्रीधराय । भाद्रपदे प्राप्तिस० हरये
मायास० हृषीकेशाय । आश्वयुजे प्राकाम्यास० योगीश्वराय धीस०
पद्मनाभाय । कार्तिके लघिमास० पुण्डरीकाक्षाय गरिमास० दामोदराय ।
मलिम्लुचे सत्यभामास० नरकारये निष्कलास० महामार्ताण्डाय दुर्गायै
इत्यादि । सहस्रजाम्न्यै देव्यै भवान्यै पृ० १३ विष्णुपञ्चायतनदेवताभ्यो
धूपो नमः दीपो नमः । अपसव्येन नमः पितृभ्यः० नित्यकर्मनिमित्तं पित्रे
पितामहाय प्रपितामहाय । मात्रे पितामह्यै प्रपितामह्यै ।

प्। १७)

मातामहाय प्रमातामहाय वृद्धप्रमातामहाय । मातामह्यै
प्रमातामह्यै वृद्धप्रमातामह्यै समस्तमातापितृभ्यो
द्वादशदैवतेभ्यः पितृभ्यः धूपः स्वधा दीपः स्वधा ॥ सव्येन
संव्वः सृजामि हृदयं संसृष्टं मनो असुवः ॥ १ ॥

संसृष्टस्तन्वः सन्तु वः संसृष्टं प्राणो अस्तु वः ॥ २ ॥

सव्या वः प्रियास्तन्वः सम्प्रिया हृदयानि वः । आत्मा वो अस्तु सम्प्रियाः
सम्प्रियास्तन्वो मम ॥ ३ ॥

इति पुष्पत्रयञ्जलपात्रे क्षिप्त्वा अश्विनोरिति देवस्य जीवाधानं देयम् ।
अश्विनोः प्राणस्तौ ते प्राणान्दत्तान्तेन जीवः । मित्रावरुणयोः प्राणस्तौ ते
प्राणन्दत्ता० । बृहस्पतेः प्राणःसते प्राणान्दत्तान्तेन जीव ॥

ॐ अ नाभावित्यादि देवस्य देहवन् न्यासं कुर्यात् ॥ ॐ भूः
पुरुषमित्याऽवाहनं ॐ भूः पुरुषमाऽवाहयामि नमः ॐ भुवः
पुरुषमाऽ० ॐ स्वः पुरुषमाऽ० ॐ भूर्भुवः स्वः पुरुषमाऽवा० ॥ ३ ॥

ॐ भूर्भुवः स्वस्तत्स० ॥ ३ ॥ नमोऽस्त्वनन्ताय ॥ ३ ॥ वासुदेवाय विद्महे
लक्ष्मीनारायणाय धीमहि तन्नो विष्णुः प्रोचदयात् ॥ ३ ॥ जितन्ते
पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष
पूर्वज ॥ ३ ॥ ॐ नमः कारणवामनाय गोब्राह्मणहिताय च । जगद्धिताय
कृष्णाय गोविन्दाय नमो नमः ॥ ३ ॥ विश्वरूपाय विद्महे विष्वक्सेनाय
धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ ३ ॥ नरसिंहाय वि० नरकोत्तारणाय धी०
तन्नो विष्णुः० ॥ ३ ॥ तत्पुरुषाय वि० महादेवाय धी० तन्नः शिवः प्र० ॥ ३ ॥
तत्पुरुषाय वि० वक्रतुण्डायधी० तन्नोदन्ती प्र० ॥ ३ ॥ भास्कराय वि०
सहस्ररश्मये धी० तन्नः सूर्यः प्र० ॥ ३ ॥ सुभगायै वि० काममालिन्यै धी०
तन्नो दुर्गा प्र० ॥ ३ ॥ ॐ तत्सद्ब्रह्म० इत्यादे ऋतुपतेः नारायणस्य भगवतः
वासुदेवस्य सङ्कर्षणस्य प्रद्युमनस्य अनिरुद्धस्य सत्यस्य पुरुषस्य
अच्युतस्य माधवस्य गोविन्दस्य सहस्रनाम्नः विष्णोः लक्ष्मीसहितस्य
नारायणस्य । भगवतः भवस्य देवस्य शर्वस्य देवस्य रुद्रस्य देवस्य
पशुपतेर्देवस्य उग्रस्य देवस्य भीमस्य देवस्य महादेवस्य ईशानस्य
देवस्य ईश्वरस्य देवस्य उमासहितस्य शिवस्य पार्वतीसहितस्य परमेश्वरस्य ।

भगवतः विनायकस्य एकदन्तस्य कृष्णपिङ्गलस्य गजाननस्य लम्बोदरस्य
भालचन्द्रस्य हेरम्बस्य आखुरथस्य विघ्नेशस्य विघ्नभक्ष्यस्य
वल्लभासहितस्य श्रीमहागणेशस्य । भगवतः ह्रांह्रींसः सूर्यस्य
सप्ताश्वस्य अनश्वस्य एकाश्वस्य नीलाश्वस्य

प्। १८)

प्रत्यक्षदेवस्य परमार्थसारस्य तेजोरूपस्य प्रभासहितस्य आदित्यस्य ।
भगवत्याः अमायाः कामायाः चार्वङ्ग्याः टकधारिण्याः तारायाः
पार्वत्याः यक्षिण्याः श्रीशारिकाभगवत्याः श्रीशारदा भ०
श्रीमहाराज्ञीभः श्रीज्वालाभ० व्रीडाभ० वैखरीभ० वितस्ताभ०
गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्म्याः महालक्ष्म्याः
महात्रिपुरसुन्दर्याः सहस्रनाम्न्यः देव्याः भवान्याः
विष्णुपञ्चायतनदेवतानामाऽत्मनो वाङ्० श्रीविष्णुप्रीत्यर्थं
विष्णुपञ्चायतनपूजनमर्चामऽहं करिष्ये ॐ कुरुष्व ॥
तिलसर्षपयवान्विकीर्य ॥ पुरुष एवेदं ध्रुवा द्यौ० इत्याऽसनम्
। ऋतुपतेर्नारायणस्य भगवतः वासुदेवस्य इत्यादेः इदमासनं
नमः ऋतुपतये नारायणाय भगवते वासुदेवाय इत्यादिभ्यः युष्मान् वः
पूजयामि ॐ पूजय ॥ सहस्रशीर्षापु० । युञ्जते मन उत युञ्जते धियो विप्रा
विप्रस्य बृहतो विपश्चितः । विहोत्रा दधे वयुना विदेक इन्मयिदेवस्य सवितुः
परिष्टुतिः । तद्विष्णोः० । ऋतुपतिं नारायणं भगवन्तं वासुदेवं
सङ्कर्षणं प्रद्युम्नम् अनिरुद्धं सत्यं पुरुषम् अच्युतं माधवं
गोविन्दं सहस्रनामानं विष्णुं लक्ष्मीसहितं नारायणम् । भगवन्तं
भवन्देवं शर्वन्देवं रुद्रन्देवं पशुपतिन्देवम् उग्रन्देवं
भीमन्देवं महादेवम् ईशानन्देवम् ईश्वरन्देवम् उमासहितं
शिवं पार्वतीसहितं परमेश्वरम् । भगवन्तं विनायकम् एकदन्तं
कृष्णपिङ्गलं गजाननं लम्बोदरं भालचन्द्रं हेरम्बम् आखुरथं
विघ्नेशं विघ्नभक्ष्यं वल्लभासहितं श्रीमहागणेशम् । भगवन्तं
ह्रांह्रींसः सूर्यं सप्ताश्वम् अनश्वम् एकाश्वं नीलाश्वं
प्रत्यक्षदेवं परमार्थसारं तेजोरूपं प्रभासहितम् आदित्यम् ।
भगवतीम् अमां कामां चार्वङ्गीं टङ्कधारिणीं तारां पार्वतीं
यक्षिणीं श्रीशारिकाभगवतीं श्रीशारदाम्भ० श्रीमहाराज्ञीभ०
श्रीज्वालाभ० व्रीडाभ० वैखरीभ० वितस्ताभ० गङ्गाभ० यमुनाभ०
कालिकाभ० सिद्धलक्ष्मीं महालक्ष्मीभ० महात्रिपुरसुन्दरीं
सहस्रनाम्नीं देवीं भवानीम् । विष्णुपञ्चायतनदेवता
आवाहयिष्यामि ॐ आवाहय ॥

अवाहयाम्यऽमरवृन्दनुताङ्घ्रियुग्मं लक्ष्मीपतिं
भुवनकारणमऽप्रमेयम् ।
आद्यं सनातनतनुं प्रणवासनस्थं
पूर्णेन्दुभास्करहुताशसहस्ररूपम् ॥ १ ॥

ध्येयं परं सकलतत्वविदां वरेण्यं
वाराहकापिलनृकेसरिसौम्यमूर्तिम् ।
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं
कौमोदिकीकमलकम्बुरथाङ्गहस्तम् ॥ २ ॥

प्। १९)

त्वं सर्वगोऽसि भगवन्किल यद्यपि त्वामाऽवाहयामि हि यथा व्यजनेन
वायुम् ।
गूढो यथैव दहनो मथनादुपैति ह्यावाहितोऽसि त्वमुपैषि तथैव
चाऽर्चाम् ॥ ३ ॥

मालाधराऽच्युत विभो परमात्ममूर्ते सर्वज्ञ नाथ परमेश्वर
सर्वशक्ते ।
आगच्छ मे कुरु दयां प्रतिमां भजस्व पूजां गृहाण
मदऽनुग्रहकामयाऽद्य ॥ ४ ॥

आवाहयामि मणिसन्निभमात्मबिम्बे मायापुरे हृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलदत्तजलाभिषेकं भावाष्टपुष्पविधिना हरिमर्चयामि ॥
५ ॥

गोक्षीराभं पुण्डरीकायताक्षं छत्राश्वाद्यैर्भूषणैर्भूषिताङ्गम्

श्रीभूमिभ्यामऽर्चितं योगपीठे स्वस्थं वन्दे पूजितं पद्मजेन ॥ ६ ॥

ज्योतिष्मन्तं सर्वभूतान्तरस्थम् ओङ्काराख्यं योगिभिर्ध्यानगम्यम् ।
स्वङ्गैः शक्तैः स्वायुधैर्नित्यसेव्यं सर्वाकारं विष्णुमाऽवाहयामि ॥ ६

शिवस्य ।
लिङ्गेऽत्र भक्तदयया क्षणमात्रमेकं स्थाणुं विधाय भव
मद्विहितां पुरारे ।
सर्वेश ! विश्वमय ! हृत्कमलाधिरूढः पूजां गृहाण भगवन्भव
मेऽद्य तुष्टः ॥ ७ ॥

गणेशस्य ।
शैलेश्वरस्य तनयार्भक भक्तविघ्ननाशाय
हस्तधृतदण्डकुठारपाश ! ।
द्वारेश सर्वगणनायक पद्महस्त पूजां गृहाण भगवन्भव मेऽद्य
तुष्टः ॥ १ ॥

सूर्यस्य ।
ब्रह्माण्डगेहपरिदीपक शम्भुमूर्ते ! तेजोनिधान ! खचरेश्वर पूर्वदेव

सर्वोपचारविधिना विहितां मयाऽद्य पूजां गृहाण भगवन्भव मेऽद्य
तुष्टः ॥ १ ॥

दुर्गायाः ।
श्रीशारदे ! सुरवरे ! त्रिपुरे ! सुरेशि ! दुर्गे ! भवानि ! खलु वैखरि
विश्वमातः ।
शर्वार्धदेहनिलये ! परिवारयुक्ता पूजां गृहाण सुभगा भव मेऽद्य
तुष्टा ॥ १ ॥

भगवन्पुण्डरीकाक्ष भक्तानुग्रहकारक ।
अस्मद्दयानुरोधेन सन्निधानं कुरु प्रभो ॥ ३ ॥

इत्याहूय तु गायत्रीं त्रिःसमुच्चार्य तत्ववित् ।
मनसा चिन्तितैर्द्रव्यैर्देवमात्मनि पूजयेत् ।
तेजोरूपं ततः क्षिप्त्वा प्रतिमायां पुनर्यजेत् ॥

यवान्विकीर्य प्राणायामं कुर्यात् पाद्यार्थमुदकं नमः ॥

शन्नोदेवी० । लाजाश्च कुङ्कुमञ्चैव सर्वौषधिसमन्वितम् ।
दर्भाङ्कुरं जलं चैव पञ्चाङ्गं पाद्यलक्षणम् ।
भगवन्तः पाद्यं पाद्यम् ॥ २ ।

एतावानऽस्य० पृ० ८ हिरण्यवर्णाः० ऋचः ४ । ऋतुपतये इत्यादिभ्यः पाद्यं
नमः । शेषं निवार्य पुनः शन्नो देवी० । आपः क्षीरं कुशाग्राणि घृतं
च दधि तण्डुलाः । यवाः सिद्धर्थकाश्चेति ह्यर्घ्यमऽष्ताङ्गमुच्यते ।
भगवन्तः अर्घ्यम् ॥ २ ॥

त्रिपादुर्ध्व० । पृ० ८ ॐ आपो हि ष्ठा० ऋ० ३ ऋतुपते नारायण भगवन्
वासुदेव सङ्कर्षण

प्। २०)

प्रद्युम्न अनिरुद्ध सत्य पुरुष । अच्युत माधव गोविन्द सहस्रनामन् विष्णो
लक्स्मीसहित नारायण । भगवन् भवदेव शर्वदेव रुद्रदेव पशुपते देव
उग्रदेव भीमदेव महादेव ईशानदेव ईश्वरदेव उमासहित शिव
पार्वतीसहित परमेश्वर । भगवन् विनायक एकदन्त कृष्णपिङ्गल गजानन
लम्बोदर भालचन्द्र हेरम्ब आखुरथ विघ्नेश विघ्नभक्ष वल्लभासहित
श्रीमहागणेश । भगवन् ह्रांह्रींसः सूर्य सप्ताश्व अनश्व एकाश्व
नीलाश्व प्रत्यक्षदेव परमार्थसार तेजोरूप प्रभासहित आदित्य भगवति
अमे कामे चार्वङ्गि टङ्कधारिणि तारे पार्वति यक्षिणि श्रीशारिकाभगवति
श्रीशारदाभ० श्रीमहाराज्ञीभ० श्रीज्वालाभ० व्रीडाभ० वैखरीभ०
वितस्ताभ० गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्मि महालक्ष्मि
महात्रिपुरसुन्दरि सहास्रनाम्नि देवि भवानि विष्णुपञ्चायतनदेवता इदं
वः अर्घ्यं नमः ॥ तस्माद्विराड० पृ० ८ शन्न आपो० पृ० ६ ऋतुपतये
इत्यादिभ्य आचमनीयं नमः । यत्पुरुषेण० पृ० ८ इममाऽपः पृ० ६ ऋतुपतये
इत्यादिभ्यः मन्त्रस्नानीयं नमः ॥