नैवेद्यमन्त्राः ।
ॐ अथ नैवेद्यमन्त्राः ॥
अमृतेशयमुद्रया अमृतीकृत्य । अमृतमऽस्तु अमृतायित्वा नैवेद्यम् ।
सावित्राणि सावित्रस्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णोहस्ताभ्यामाऽदधे ॥ महागणपतये कुमाराय श्रियै सरस्वत्यै
लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे
कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय
सानुचराय ऋतुपतये नारायणाय दुर्गायै त्र्यम्बकाय वरुणाय
यज्ञपुरुषाय
प्। १३)
अग्निष्वात्तादिभ्यः पितृगणयागदेवताभ्यः । भगवते वासुदेवाय
सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय सत्याय पुरुषाय अच्युताय
माधवाय गोविन्दाय सहस्रनाम्ने विष्णवे लक्ष्मीसहिताय नारायणाय ।
भगवते भवाय देवाय शर्वाय देवाय रुद्राय देवाय पशुपतये देवाय
उग्राय देवाय भीमाय देवाय महादेवाय ईशानायदेवाय ईश्वराय
देवाय उमासहिताय शिवाय पार्वतीसहिताय परमेश्वराय । भगवते
विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय
भालचन्द्राय हेरम्बाय आखुरथाय विघ्नेशाय विघ्नभक्ष्याय
वल्लभासहिताय श्रीमहागणेशाय । क्लीङ्काङ्कुमाराय षण्मुखाय
मयूरवाहनाय सेनाधिपतये कुमाराय । भगवते ह्रांह्रींसःसूर्याय
सप्ताश्वाय अनश्वाय एकाश्वाय नीलाश्वाय प्रत्यक्षदेवाय
परमार्थसाराय तेजोरूपाय प्रभासहिताय आदित्याय । भगवत्यै अमायै
कामायै चार्वङ्ग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै
श्रीशारिकाभगवत्यै श्रीशारदा भगवत्यै श्रीमहाराज्ञीभग०
श्रीज्वालाभगवत्यै व्रीडाभगवत्यै वैखरीभगवत्यै वितस्ताभ०
गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्म्यै महालक्ष्म्यै
महात्रिपुरसुन्दर्यै सहस्रनाम्न्यै देव्यै भवान्यै । अभयङ्करीदेव्यै
क्षेमङ्करीभगवत्यैसर्वशत्रुघातिन्यै इह राष्ट्राधिपतये भैरवाय ।
इन्द्राय वज्रहस्ताय अग्नये शक्तिहस्ताय यमाय दण्डहस्ताय नैर्-ऋतये
खड्गहस्ताय वरुणाय पाशहस्ताय वायवे ध्वजहस्ताय कुबेराय
गदाहस्ताय ईशानाय त्रिशूलहस्ताय ब्रह्मणे पद्महस्ताय विष्णवे
चक्रहस्ताय अनन्तादिभ्यः अष्टाभ्यः कुलनागदेवताभ्यः
अग्न्यादित्याभ्यां वरुणचन्द्रमोभ्यां कुमारभौमाभ्यां
विष्णुबुधाभ्याम् इन्द्राबृहस्पतिभ्यां सरस्वतिशुक्राभ्यां
प्रजापतिशनैश्चराभ्यां गणपतिराहुभ्यां रुद्रकेतुभ्यां
ब्रह्मध्रुवाभ्याम् अनन्ताऽगस्त्याभ्यां ब्रह्मणे कूर्माय ध्रुवाय
अनन्ताय हरये लक्ष्म्यै कमलायै शिख्यादिभ्यः
पञ्चचत्वारिंशद्वास्तोष्पतियागदेवताभ्यः ब्राह्म्यादिभ्यो मातृभ्यः
गौर्यादिभ्यो मातृभ्यः ललितादिभ्योमातृभ्यः
दुर्गाक्षेत्रगणेश्वरदेवताभ्यः राकादेवताभ्यः त्रिकादेवताभ्यः
सिनीवालीदेवताभ्यः यामीदेवताभ्यः रौद्रीदेवताभ्यः वारुणीदे०
बार्हस्पतिदेवताभ्यः ॐ भूर्देवताभ्यः ओम्भुवःदेवताभ्यः ॐ
स्वर्देवताभ्यः ओम्भूर्भुवःस्वर्देवताभ्यः
अखण्डब्रह्माण्डयागदेवताभ्यः धूर्भ्यः उपधूर्भ्यः
महागायत्र्यै सावित्र्यै सरस्वत्यै हेरकादिभ्यो वटुकादिभ्यः ॥
प्। १४)
उत्पन्नमऽमृतं दिव्यं प्राक्क्षीरोदधिमन्थनात् ।
अन्नमऽमृतरूपेण नैवेद्यं प्रतिगृह्यताम् ॥
इष्टदेवताध्यानं च पठित्वा तत्सद्ब्रह्म इत्यादि अमुककर्मनिमित्तं ॐ नमो
नैवेद्यं निवेदयामि नमः ॥
याः काश्चिद्योगिनी रौद्राः सौम्या घोरतराः पराः ।
खेचरी भूचरी रामा स्तुष्टा भवन्तु मे सदा ॥
आकाशमातृभ्योऽन्नं नमः आकाशमातृभ्यः समालभनं
गन्धोनमः अर्घोनमः पुष्पं नमः । इष्टदेवं ध्यात्वाऽमुकदेवायं
पायसं मोदकान् पक्वान्नम् अपूपान् वा अन्नादि समर्पयामि नमः ॥
योऽस्मिन्निवसति क्षेत्रे क्षेत्रपालः सकिङ्करः ।
तस्मै निवेदयाम्यऽद्य बलिं पानीयसंयुतम् ॥
क्षां क्षेत्राधिपतयेऽन्नं नमः रां राष्ट्राधिपतये अन्नं नमः
सर्वाभयवरप्रद मयि पुष्टिं पुष्टिपतिर्दधातु । आपन्नोऽस्मि शरण्योऽसि
सर्वावस्थासु सर्वदा इत्यादि क्षमा पुष्पाणि दत्वा उभाभ्यां जानुभ्यां
पाणिभ्यां शिरसा च उरसा मनसा च नमस्कारं करोमि नमः ।
नमोब्रह्मणे इति तर्पणम् ।
इति नैवेद्यमन्त्रविधिः ॥