अथ सन्ध्योपासना ॥
श्रीमहागायत्र्यै नमः । सावित्र्यै नमः । सरस्वत्यै नमः ॥
ॐ प्रणवस्य ऋषिर्ब्रह्मा गायत्रं छन्द एव च ।
देवोऽग्निर्व्याहृतिषु च विनियोगः प्रकीर्तितः ॥
प्रजापतेर्व्याह्र्टयः पूर्वस्य परमेष्ठिनः ।
व्यस्ताश्चैव समस्ताश्च ब्राह्ममऽक्षरमोमिति ॥
व्याहृतीनां समस्तानां दैवतं तु प्रजापतिः ।
व्यस्तानामऽयमऽग्निश्च वायुः सूर्यश्च देवताः ॥
छन्दश्च व्याहृतीनामे काऽक्षराणामुक्ताख्य।
द्व्यक्षराणामऽत्युक्ताख्यम् ।
विश्वामित्र ऋषिश्छन्दो गायत्रं सविता तथा ॥
दैवतोपनये जप्ये गायत्र्या योग उच्यते ।
आवाहयामि गायत्रीं सर्वपापप्रणाशिनीम् ॥
न गायत्र्या परं जप्यं न व्याहृतिसमं हृतम् ।
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ॥
गायन्तं त्रायसे यस्माद्गायत्री त्वं ततः स्मृता ।
एवमाऽर्षं छन्दो दैवतं विनियोगं चाऽनुस्मृत्य ॥
गायत्र्या शिकहमाऽबद्ध्य गायत्र्यैव समन्ततः ।
आत्मनश्चापः परिक्षिप्य प्राणायामं कुर्यात् ॥ इति नमस्कृत्य
अथाऽञ्जलिं कृत्वा ॥
ओजोऽसीति गायत्रीमाऽवाह्य । देवानामाऽर्षम् ॥
ओजोऽसि सहोऽसि बलमऽसि भ्राजोऽसि देवानान्धाम नामासि ।
विश्वमऽसि विश्वायुः सर्वमऽसि सर्वायुरऽभिभूः ॥ अथ
प्राणायाममन्त्रः
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं -
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् -
ॐ आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ॥ इति पठन्
पूरककुम्भकरेचकेषु नाभिहृदयललाटेषु रक्तनीलश्वतान्
ब्रह्मविष्णुशिवान् ध्यायन् प्राणायामं कुर्यात् ।
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदाऽयतप्राणः प्राणायामः स उच्यते ॥
एकावर्तः पूरकः स्यात्कम्भको द्विगुणस्तथा ।
रेचकस्त्रिगुणः प्रोक्तः प्रवेशस्थितिर्निर्गमैरिति ॥
प्। ६)
ॐ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युक्र्तेभ्यः पापेभ्यो रक्षन्ताम् ।
यदऽह्ना पापमऽकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण
शिश्ना ।
अहस्तदऽवलुम्पतु यत्किञ्चिद्दुरितं मयीदमऽहमाऽपोऽमृतयोनौ सत्ये
ज्योतिषि जुहोमि स्वाहा ॥ इति सायमाऽचमनत्रयम्
ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो
रक्षन्ताम् ।
यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण
शिश्ना ।
रात्रिस्तदऽवलुम्पतु यत्किञ्चिद्दुरितं मयीदमऽहमाऽपोऽमृतयोनौ ।
सूर्ये ज्योतिषि जुहोमि स्वाहा ॥ इतिप्रातराऽचमनत्रयम्
ॐ आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।
पुनातु ब्रह्मणस्पतिर्ब्रह्म पूतं पुनातु माम् ॥
यदुच्छिष्टमऽभोज्यं वा यद्व अदुश्चरितं मम ।
सर्वं पुनन्तु मामाऽपोऽसतां च प्रतिग्रहं जुहोमि स्वाहा ॥ इति मध्याह्ने
त्रयम्
ॐ आपो हि ष्ठा मयो भुव -स्ता न ऊर्जे दधात न महे रणाय चक्षसे ॥ १ ॥
यो वः शिवतमो रस-स्तस्य भाजयते हनः उशतीरिव मातरः ॥ २ ॥
तस्मा अरङ्गमाम वः यस्य क्षयाय जिन्वथ आपो जनयथा च नः ॥ ३ ॥
ॐ हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः ।
या अग्निं गर्भं दधिरे विरूपा स्ता न आपः शंस्योना भवन्तु ॥ ४ ॥
ॐ यासां देवा दिवि कृण्वं भक्ष्यं या अन्तरिक्षे बहुधा भवन्ति । या० ५ ॥
ॐ यासां राजा वरुणो याति मध्ये सत्याऽनृते अवपश्यञ्जनानाम् । या० ६ ॥
ॐ शिवेन मा चक्षुषा पश्यताऽपः शिवया तन्वोपस्पृशत त्वचं मे ।
मधुश्च्युतः शुचयो याः पावका स्ता न आपः शंस्योना भवन्तु ॥ ७ ॥
ॐ शन्नो देवीरऽभीष्टय आपो भवन्तु पीतये शंय्योरऽभिस्रवन्तु नः ॥ ८ ॥
ॐ शन्न आपो धन्वन्यः शन्नः सन्त्वऽनूप्याः ।
शन्नः समुद्रिया न आपः शमुनः सन्तु कूप्याः ॥ ९ ॥
ॐ आपो अस्मान्मातरः शुन्धयन्तु घृतेन मा घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवी रुदिदाऽभ्यः शुचिराऽपूत एमि ॥ १० ॥
ॐ इदमाऽपः प्रवहत यत्किञ्चिद्दुरितं मयि ।
यद्वाऽहमऽभिदद्रोह यद्वा शेष उताऽनृतम् ॥ ११ ॥
प्। ७)
ॐ मुञ्चन्तु मा शपथ्यादऽथो वारुण्यादुत ।
अथो यमस्य पड्वीशात्सर्वस्माद्देव किल्बिषात् ॥ १२ ॥
ओंयज्जाग्रद्यत्सुप्तः पापमऽभिजगाम ।
सर्वस्मान्मा तस्मादेऽनसः प्रमुञ्चतु ॥ १३ ॥
ॐ दधि क्राब्णो अकारिषं जिष्णोरऽश्वस्य वाजिनः ।
सुरभि नो मुखा करत्प्राऽ आयूंषि तारिषत् ॥ १४ ॥ इति मार्जनमन्त्राः
ॐ द्रुपदादिवोन्मुमुचानः स्विन्नः स्नात्वी मलादिव ।
पूतं पवित्रेणेवाऽज्य माऽपः शुन्धन्तु मैनसः ॥ इति वामे
जलाञ्जलित्रयं क्षिपेत्
ॐ ऋतं च सत्यं चाभीद्धा त्तपसोऽध्यऽजायत ।
ततो रात्रिरऽजायत ततः समुद्रो अर्णवः ॥
समुद्रादऽर्णवादऽधि संवत्सरो अजायत ।
अहोरात्राणि व्यदधद्विश्वस्य मिषओत् वशी ॥
सूर्याचन्द्रमसौ धाता यथापूर्वमऽकल्पयत् ।
दिवं च पृथिवीं चाऽन्तरिक्षमऽथो स्वः ॥ इति जलमध्यस्थकरद्वयो जपेत्
ॐ भूः ॐ भुवः ॐ स्वः ओम्महः ओञ्जनः ॐ तपः ॐ सत्यमिति शिरो मार्जयेत् ॥
ॐ अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरो
मित्याऽचमनत्रयम् ॥ ततः प्राणायामः ततः सूर्याऽभिमुखो ॐ
भूर्भुवः स्वः ॥ ३ ॥ इति
गायत्र्याऽभिमन्त्रितांस्त्रीञ्जललीनुत्क्षिप्य क्षिपेत् ।
प्रदक्षिणमाऽवृत्योर्ध्वबाहुरुदयन्तमिति सायम्प्रातरुपतिष्ठेत ॥
ॐ उद्वयन्तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्राः सूर्यमऽगन्म ज्योतिरुत्तमम् ॥ १ ॥
ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ २ ॥
ॐ चित्रन्देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याऽग्नेः ।
आ प्रा द्यावापृथिवी चान्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ ३ ॥
ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥ ४ ॥
प्। ८)
ॐ हंसः शुचिषद्वसुरऽन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदऽब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ ५ ॥
ॐ विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपता अविह्रुतम् ।
वात जूतयो अभिरक्षत्यात्मना प्रजा पिपर्ति बहुधा विराजति ॥ ६ ॥
इति मध्याह्नोपस्थितिः । अथ विष्णुं ध्यायन्पुरुषसूक्तं पठेत् ॥
ॐ आनुष्टुभस्य सूक्तस्य त्रिष्टुबऽन्तस्य देवता ।
विश्वात्मा पुरुषः साक्षादृषिर्नारायणः स्मृतः ॥ १ ॥
ॐ पुरुषमेधाः पुरुषस्य नारायणस्यार्षम् ।
ॐ सहस्रशीर्षाः पुरुष सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वाऽत्यऽतिष्ठद्दशाङ्गुलम् ॥ १ ॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उताऽमृतत्वस्येशानो यदऽन्नेनाऽतिरोहति ॥ २ ॥
एतावानऽस्य महिमाऽतो ज्यायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादऽस्याऽमृतं दिवि ॥ ३ ॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाऽभवत्पुनः ।
ततो विश्वं व्यक्रामत्साशनाऽनशने अभि ॥ ४ ॥
तस्माद्विराडऽजायत विराजो अधिपूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमऽथो पुरः ॥ ५ ॥
यत्पुरुषेण हविषा देवा यज्ञमऽतन्वत ।
वसन्तो अस्याऽसीदाऽज्यं ग्रीष्म इध्मः शरद्धविः ॥ ६ ॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमऽग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ८ ॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाऽज्यम् ।
पशूंस्तांश्चके वायव्यानाऽरण्यान्ग्राम्यांश्च ये ॥ ७ ॥
तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादऽजायत ॥ ९ ॥
तस्मादऽश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ १० ॥
प्। ९)
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमऽस्य कौ बाहू का ऊरू पादा उच्येते ॥ ११ ॥
ब्राह्मणोऽस्य मुखमाऽसीद्बाहू राजन्यः कृतः ।
ऊरू तदऽस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरऽजायत ॥ १३ ॥
नाभ्या आसीदऽन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाअऽकल्पयन् ॥ १४ ॥
सप्ताऽस्याऽसन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥ १५ ॥
यज्ञेन यज्ञमऽयजन्त देवा स्तानि धर्माणि प्रथमान्याऽसन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥
अथ संहारमुद्रां कृत्वा शिवं ध्यायन् शिवसूक्तं पठेत् ॥
ॐ यज्जाग्रतो दूरमुदेति दैवं तदु सुप्तस्य तथैवैति ।
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमऽस्तु ॥ १ ॥
येन कर्माण्यऽपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदऽपूर्वं यक्षमऽन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमऽस्तु ॥ २ ॥
यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरऽन्तरऽमृतं प्रजासु ।
यस्मान्न ऋते किञन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३ ॥
येनेदं भूतं भवनं भविष्यत्परिगृहीतमऽमृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमऽस्तु ॥ ४ ॥
यस्मिन्नृचः साम यजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाऽराः ।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमऽस्तु ॥ ५ ॥
सुषारथिरऽश्वानिव यन्मनुष्यान्नेनीयतेऽभींशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदऽजरं यविष्टं तन्मे मनः शिवसङ्कल्पमऽस्तु ॥ ६ ॥
अथ य एष एतस्मिन्मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषः ।
अथ य एष एतस्मिन्मण्डले पुरुषोऽयमेव सोयं दक्षिणेऽक्षन्पुरुषः ॥ ७ ॥
प्। १०)
अथ उपस्थितिः
शुक्रियं रुद्रस्य ॥
य उदगात्पुरस्तान्महतो अर्णवा-द्विभ्राजमानः सरिरस्य मध्ये ।
स मामृषभो रोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु ।
यद्ब्रह्माऽवादिष्म तन्मा मा हिंसीत्सूर्याय बिभ्राजाय वै नमो नमः ॥
अ नाभौ । उ हृदि । म शिरसि ॥ भूः पादयोः । भुवः हृदि । स्वः शिरसि ॥ ॐ
भूः अङ्गुष्ठाभ्यां नमः । भुवः तर्जनीभ्यां नमः । स्वः
मध्यमाभ्यां नमः । महः अनामिकाभ्यां नमः । जनः
कनिष्ठिकाभ्यां नमः । तपः सत्यं करतलकरपृष्ठाभ्यां नमः ॥
भूः पादयोः । भुवः जान्वोः । स्वः गुह्ये । महः नाभौ । जनः हृदि । तपः
कण्ठे । सत्यं शिरसि ॥ ॐ भूः हृदयाय नमः । भुवः शिरसे स्वाहा । स्वः
शिखायै कण्ठे । सत्यं शिरसि ॥ ॐ भूः हृदयाय नमः । भुवः शिरसे
स्वाहा । स्वः शिखायै वषट् । महः कवचाय हुम् । जनः नेत्राभ्यां
वौषट् । तपः सत्यमऽस्त्राय फट् । तत्सवितुरङ्गुष्ठाभ्यां नमः ।
वरेण्यं तर्जनीभ्यां नमः । भर्गो देवस्य मध्यमाभ्यां नमः ।
धीमहि अनामिकाभ्यां नमः । धियो योनः कनिष्ठिकाभ्यां नमः ॥
प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ॥ तत्पादयोः । सवितुर्जान्वोः ।
वरेण्यं कट्यां भर्गो नाभौ । देवस्य हृदये । धीमहि कण्ठे । धियो
नासिकायाम् । यश्चक्षुषे । नः ललाटे । प्रचोदयात् शिरसि ॥ तत्सवितुर्हृदयाय
नमः । वरेण्यं शिरसे स्वाहा । भर्गो देवस्य शिखायै वषट् । धीमहि
कवचाय हुम् । धियो योःनः नेत्राभ्यां वौषट् । प्रचोदयादऽस्त्राय फट् । ॐ
आपस्तनयोः । ज्योतिर्नेत्रयोः । रसोमुखे । अमृतं ललाटे । ब्रह्मभूर्भुवः
स्वरों शिरसि ॥
अथ मुद्राः ॥
तत्समाय नमः । स सम्पुटाय नमः । वि वितताय नमः । तुर्विस्तीर्णाय० । व
द्विमुखाय० । रे त्रिमुखाय० । ण्य चतुर्मुखाय नमः । अं पञ्चमुखाय० ।
भ षण्मुखाय । र्गो अधोमुखाय । दे व्यापकाञ्जलये । व शकटाय न० । स्य
यमपाशय । धी ग्रन्थिकायै । म सम्मुखोन्मुखाय । हि विलम्बाय । धी
मुष्टिकायै नमः । यो मीनाय । यो कूर्माय । नः वराहाय नमः । प्र
सिंहाक्रान्ताय । चो महाक्रान्ताय । द मुद्गराय । या त्पल्लवाय नमः ॥
प्। ११)
ततः प्राणायाम्ः ॥
तत्सवितुरिति मन्त्रस्य । विश्वामित्र ऋषिः । गायत्रं छन्दः । सविता देवता ।
आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्ध्यर्थे जपे
विनियोगः ॥
अथ ध्यानम् ॥
मुक्ताविद्रुमहेमनीलधवल च्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वाऽत्मवर्णात्मिकाम् ।
गायत्रीं वरदाऽभयाऽङ्कुशकरां शूलं कपालं गुणं
शङ्खं चक्रमऽथाऽरविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १ ॥ इति
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ।
गायत्रि छन्दसां मातर्ब्रह्मयोने नमोऽस्तु ते ॥ ३ ॥ इति गायत्री।
ॐ भूर्भुवः स्वस् तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः
प्रचोदयादों
ततः प्राणायामः ॥
दशभिर्जन्मचरितं शतेन च पुरा कृतम् ।
त्रियुगोत्थं सहस्रेण गायत्री हन्ति किल्बिषम् ।
देवा गातु श्रोत्रियाः । देवा गातुविदो गातुं वित्वा गातुमित । मनसस्पत इमं
देवयज्ञं स्वाहा वाचे स्वाहा वाते धाः । इति जपनिवेदनम् अथ दिङ्नुतिः ॥
ॐ नमः प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमः
॥ १ ॥
नमोऽवान्तरायै देशे० ॥ २ ॥ नमो दक्षिणायै दिशे० ॥ ३ ॥ नमोऽवान्तरायै० ॥ ४
॥ नमः प्रतीच्यै देश्० ॥ ५ ॥ नमोऽवान्तरायै० ॥ ६ ॥ नम उदीच्यै दिशे० ॥ ७ ॥
नमोऽवान्तरायै० ॥ ८ ॥ नम ऊर्ध्वायै० ॥ ९ ॥ नमोऽधरायै दिशे याश्च० ॥ १०
॥
नमो ब्रह्मणे नमो अस्त्वऽग्नये नमः पृथिव्यै नम ओषधीभ्यः ।
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते कृणोमि ॥ ३ ॥
इत्येतासामेव देवतानां सामीप्यं सार्ष्टितां सायुज्यं सलोकतामाप्नोति
य एवं विद्वान् स्वाध्यायमऽधीते ॥ इति तर्पणम्
ब्रह्मादयः सर्वे देवास्तृप्यन्तु कण्ठोपवीति सनकादयः सर्वे ऋषयस्तृ० ॥ २
॥
अपसव्येन ॥ अग्निष्वात्तादयः सर्वे पितरस्तृप्यन्तु ॥ ३ ॥
देवताभ्यः पितृभ्यश्च महायोगिभ्य एवच ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥
ॐ तत्सद्ब्रह्माऽद्य तावत्तिथावित्यादि० आत्मनो वाङ्० नित्यकर्मनिमित्तं पिता
अमुकोऽमुकगोत्रः स्वधानमस्तृप्यतां तृप्यतां तृप्यताम् । पितामहः । २ ।
प्रपिता-
प्। १२)
महः । ३ । माता० । ४ । पितामही० । ५ । प्रपितामही० । ६ । मातामहः० । ७ ।
प्रमातामहः० । ८ । वृद्धप्रमातामहः० । ९ । मातामही० । १० ।
प्रमातामही० । ११ । वृद्धप्रमातामही० । १२ । इत्थं सर्वान् सम्बन्धिनश्च
तर्पयेत् ।
मातृपक्ष्यास्तु ये केचिद्ये चाऽन्ये पितृपक्षजाः ।
गुरुश्वशुरबन्धूनां ये कुलेषु समुद्भवाः
ये प्रेतभावमाऽपन्ना ये चाऽन्ये श्राद्धवर्जिताः ।
जलदानेन ते सर्वे लभन्तां तृप्तिमुत्तमाम् ।
समस्तमातापितृभ्यो द्वादश देवतेभ्यः पितृभ्यो हिमपानं स्वधा ।
क्षीरपानं स्वधा । मधुपानं स्वधा । तिलोदकं स्वधा । उदकतर्पणं
स्वधा । हिमं हिमम् । रजतं रजतम् । सव्येन ॐ नमो देवेभ्यः ।
कण्ठोपवीति । स्वाहा ऋषिभ्यः । अपसव्येन । स्वधा पितृभ्यः । सव्येन
आब्रह्मस्तम्बपर्यन्तं।
ब्रह्माण्डं सचराऽचरं जगत्तृप्यतु तृप्यतु तृप्यतु एवमस्तु ॥
नमो धर्मनिधानाय नमः स्वकृतसाक्षिणे ।
नमः प्रत्यक्षदेवाय भास्कराय नमो नमः इति सूर्ये प्रणतिः
शान्तिः पुष्टिस्तथा तुष्टिः सन्तु मे त्वत्प्रसादतः ।
सर्वपापप्रशान्तिश्च तीर्थराज नमोऽस्तुते ॥ इति तीर्थप्रणतिः
इति सन्ध्योपासनाविधिः ॥
श्रीकृष्णार्पणमऽस्तु ॥