अथ स्नानविधिः ।
श्रीगणेशाय नमः
आयुर्बलं यशो वर्चः प्रजाधृतिवसूनि च ।
ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति
दन्तधावनमन्त्रः
नमोऽस्त्वऽनन्ताय सहस्रमूर्तये सहस्रपादाऽक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ इति
वामपादप्रक्षा०
नमः कमलनाभाय नमस्ते जलशायिने ।
नमस्ते केशवाऽनन्त वासुदेव नमोऽस्तु ते ॥ इति दक्षिणपादप्रक्षालनम्
गङ्गाप्रयागगयनैमिषपुष्करादितीर्थानि यानि भुवि सन्ति हरिप्रसादात् ।
आयान्तु तानि करपद्मपुटे मदीये प्रक्षालयन्तु वदनस्य निशाकलङ्कम् ॥
तीर्थे स्नेयं तीर्थमेव समानानां भवति मानः ।
शंस्यो अररुषो धूर्तिः प्राणङ् मर्त्यस्य रक्षाणो ब्रह्मणस्पते ॥ इति
मुखप्रक्षालनम्
ॐ गायत्र्यै नमः । ॐ भूर्भुवःस्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ३ ॥ इति यज्ञसूत्रप्र० । गायत्र्यैव शिकहमाबद्ध्य
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
यज्ञोपवीतमऽसि यज्ञस्य त्वा उपवीतेन उपनह्यामि । इति यज्ञसूत्रधारणम्
कृत्वाऽलं पादशौचं विमलमऽथ जलं त्रिः पिबेदुन्मृजेद्द्वि-
स्तर्जन्यऽङ्गुष्ठकाभ्यां सजलमऽभिमृशेन्नासिकारन्ध्रयुग्मम् ।
अङ्गुष्ठाऽनामिकाभ्यां नयनयुगलकं कर्णयुग्मं कनिष्ठा-
ऽङ्गुष्ठाभ्यां नाभिदेशं हृदयमऽथ तलेनाऽङ्गुलीभिः शिरोंसौ ॥
ततः प्राणायामः । ॐ ब्रह्मणोऽग्न्यादयः । नमो अग्नये अप्सुषदे नम
इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽपाम्पतये नमोऽद्भ्यः ॥ इति
नमस्कारः
प्। २)
अवभृथे त्रिष्टुप् वरुणः ॥
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामऽन्वेत वा उ ।
अपदे पादा प्रतिधातवेऽक रुताऽपवक्ता हृदयाविधश्चित् ॥ इति उपस्थानम्
यमस्य राज्ञो जगती वरुणः ॥
ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
तेभिर्नो देवः सविता बृहस्पतिर्विश्वे देवा मरुतो मुञ्चन्तु स्वर्काः ॥ इति जलं
त्रिरावर्तयेत्
निचाङ्कुणस्य शुनः शेपस्य चाऽपः सुमित्रियान आपः ओषधयो भवन्तु ।
दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ॥ इति वामभागे
जलाञ्जलित्रयं क्षिपेत् ॥
यत्किञ्चेदं वरुण देवे जनेऽभिद्रोहं मनुष्याश्चरामसि ।
अचित्ते यत्तव धर्माय योऽपि समानस्तस्मादेनसो देव रीरिषः ॥ इति नमस्येत्
ततो मृदो भागत्रयं कृत्का प्रथमभागे जलसेचनम् । ॐ भूर्भुवः स्वः ३
॥
द्वितीयभागे जलसेचनम् ॥ त्रितस्य महापङ्क्तिराडित्याः ।
आदित्या अव हि ख्याता दिक्कूलाद्दिवस्पृशः सुतीर्थाः सर्वतो यथा ।
नुन्नोनेषया सुगमऽनेहसो व ऊतयः सु ऊतयो व ऊतयः ॥
तृतीयभागे जलसेचनम् । मेधातिथेर्गायत्रं विष्णुः ॥
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्त धामभिः ।
ततस्तृतीयांशस्य भागचतुष्कं विधाय चतुर्दिक्षु क्षिपेत् ॥
भर्गस्य बृहती इन्द्रः यत इन्द्र भयामहे ततो नो अभयङ्कृधि ।
मघवञ्छग्धि तव तन्न ऊतभिर्विद्विषो विमृधो जहि । इति पूर्वे ॥
शासस्याऽनुष्टुभौ विमृध इन्द्रः । स्वस्तिदाविशस्पतिर्वृत्रहा विमृधोवशी ।
वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः ॥ इति दक्षिणे
विरक्षो विमृधो जहि विवृत्रस्य हनूरुज ।
विमन्युमिन्द्र वृत्रहन्नऽमित्रस्या भिदा सतः ॥ इति पश्चिमे
वसुक्रस्य त्रिष्टुबिन्द्रः । इदं सु मे जरितरः चिकिद्धि प्रतीपं शापम् ।
नद्यो वहन्ति लोपाशाः सिंहं प्रत्यञ्च मत्स्याः क्रोष्टा वराहा
न्निरतत्थकक्ष्यात् ॥ इति उत्तरे
प्। ३)
यज्ञस्याऽनुष्टुप् मृत्तिका ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥
मृत्तिके त्वां च गृह्णामि प्रजया च धनेन च ।
मृत्तिके ब्रह्मदत्ताऽसि कश्यपेनाऽभिमन्त्रिता ॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ।
वाचा कृतं कर्मकृतं मनसा यत्तु चिन्तितम् ॥
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ।
त्वया हृतेन पापेन ब्रह्मलोकं व्रजाम्यऽहम् ॥
इति अभिमन्त्रितया द्वितीयमृदा जलालोडितया नाभेरूर्ध्वं विशोधयेत् ॥
ततः प्रथमांशस्य भागचतुष्कं विधाय कुत्सस्य रुद्रो जगती ॥
मानस्तोके तनये मान आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥ इति
ललाटमाद्यांश मृदाऽनुलिप्य
ॐ भूः ॐ भुवः ॐ स्वः इति वामांसे ऽओ महः ॐ जनः ॐ तपः इति
दक्षिणांसे ॐ सत्यमिति हृदये द्वितीयांशेनाऽनुलिप्य । ततो नमस्कारः ॥
तीर्थस्याऽवाहनं कुर्यात्तत्प्रवक्ष्याम्यऽनन्तरम् ।
कुरुक्षेत्रं गया गङ्गा प्रभासं पुष्कराणि च ॥
तीर्थान्येतानि सर्वाणि स्नानकाले भवन्तु मे ।
प्रपद्ये वरुणं देवमऽम्भसां पतिमूर्जितम् ॥
याचितं देहि मे तीर्थं सर्वपापाऽपनुत्तये ।
रुद्रान्प्रपद्ये वरदान्सर्वानऽप्सुषदस्त्वऽहम् ॥
सर्वानऽप्सुषदश्चैव प्रपद्ये प्रणतः स्थितः ।
देवमऽप्सुषदं वह्निं प्रपद्येऽघनिषूदनम् ॥
आपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा ।
रुद्रश्चाऽग्निश्च सर्पाश्च वरुणस्त्वाऽप एव च ॥
प्। ४)
शमयन्त्वाऽशु मे पापं पुनन्त्वेते सदा मम ।
इत्येवमुक्त्वा कर्तव्यं ततः सम्मार्जनं जले ॥
अथ जलाञ्जलिं तृतीयांशमृत्सहितं गृहीत्वा ॥
अपाम्पतये विद्महे पाशपाणये धीमहि तन्नो वरुणः प्रचोदयात् ३ । ॐ तत्सत्
ब्रह्म अद्य तावत्तिथावऽद्य अमुकमासस्य अमुकपक्षस्य तिथावऽमुकायाम्
आग्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं
श्रीनारायणप्रीत्यऽर्थम् अमुकनद्याः प्रवाहे स्नानमहं करिष्ये ॐ
कुरुष्व ॥ इति प्रवाहान्तः क्षिप्त्वा ॥ शिरसि जलमऽञ्जलिना प्रक्षिपेत् ॥
ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराऽततम् ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत्परमं पदम् ॥
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्य मिति मार्जयेच्छिरः ॥
ॐ हंसः शुचिषद्वसुरऽन्तरिक्षस द्धोता वेदिषदऽतिथिर्दुरोणसत् ।
नृषद्वरस दृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ इति उपस्थानम्
ॐ नमो देवभ्यः कण्ठोपवीती स्वाहा ऋषिभ्यः । अपसव्येन स्वधा पितृभ्यः
सव्येन आब्रह्मस्तम्बपर्यन्तं ब्रह्माण्डं सचराचरं जगत्तृप्यतु तृप्यतु
तृप्यतु एवमऽस्तु ॥
यत्त्वगऽस्थिगतं पापं जन्मान्तरकृतं च यत् ।
तन्मे हरस्व कल्याणि मूर्ध्नि स्पर्शेन वैष्णवि ॥ इति परिशिष्टमृदा तिलकं
कार्यम्
अथ वस्त्रधारणम् ॥
युवा सुवासाः परिवीत आगात्स उच्छ्रेयान्भवति जायमानः ।
तन्धीरासः कवय उन्नयन्ति साध्यो मनसा देवयन्तः ॥
अस्मत्कुले तु ये जाता अपुत्रा गोत्रवर्जिताः ।
ते पिबन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ इति स्नानपट्टपीडनम्
इति स्नानविधिः ॥