+++(मन्त्रा अत्र।)+++
देवाश् च वा असुराश् च समावद् एव यज्ञे ऽकुर्वत। यद् एव देवा अकुर्वत तद् असुरा अकुर्वत।
ते देवा एतानि ग्रहहविंष्य् अपश्यन्। तैर् इन्द्रम् अयाजयन्। तद् असुरा नान्ववायन्। ततो देवा अभवन्, परासुरा अभवन्।
य एवं विद्वान् एतानि ग्रहहवींषि यजते, भ्रातृव्यस्यानन्ववायाय भवत्य्, आत्मना परास्य भ्रातृव्यो भवति।
आदित्याय घृते चरुं निर्वपेत्। तेजस् तेन परिक्रीणाति।
शौक्रं चरुं +++(निर्वपेत्)+++। ब्रह्मवर्चसं तेन परिक्रीणाति।
बृहस्पतये नैवारं पयसि चरुम्। वाक्पत्यं तेन परिक्रीणाति।
बुधाय नवकपालम्। बुद्धिं तेन परिक्रीणाति।
भौमायैककपालम्। यशस् तेन परिक्रीणाति।
सौराय पलल-मिश्रं घृते चरुम्। सुरभिं तेन परिक्रीणाति।
चन्द्रमसे पञ्चदश कपालम्। आयुस् तेन परिक्रीणाति।
राहवे चरुम्। अभयं तेन परिक्रीणाति।
केतवे चरुम्। अनपरोधं तेन परिक्रीणाति।
एतान्य् एव सर्वाणि भवति य एवं विद्वान् एतया यजेत।
आज्येनोपहोमाञ् जुहोत्य् - आशिषाम् अवरुद्ध्यै।
एतया यजेत यः कामयेत - तेजस्वी भ्राजस्वी वाक्पतिर् बुद्धिमान् यशस्वी सुरभिर् आयुष्मान् अभय्य् अनपरोधी स्याम् इति।
“एकचक्रम् उदयाद् भ्राजमानम्” इत्य् अष्टादश याज्यानुवाक्या भवन्ति।
“सरूपत्वायाग्निर् हिरण्यं सोमो हिरण्यम्” इत्य् आज्यभागौ।
“प्रेद्धो अग्न”, “इमो अग्न” इति सं याज्ये उच्चैर् यजत्य् - एषा वै वाचाम् उत्तमा, योच्चैर् उत्तमः समानानां भवति।
“आदित्यस् तेजस्वी"त्य् उपहोमञ् जुहोति सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै य एवं विद्वान् एतया यजेत।