प्रथमोऽध्यायः
प्रथमा वल्ली
ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय, नचिकेतसे च ।
अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थम् अल्पग्रन्था वृत्तिरारभ्यते ।
ज्ञानानन्द-भारती - द्राविडी
इप्पॊऴुदु कडोबनिषत्वल्लीगळिऩ् अर्त्तत्तै सुलबमाग पुरिन्दुगॊळ्वदऱ्काग इन्द सिऱिय नूल् आरम्बिक्कप्पडुगिऱदु।
सदेर्धातोर्विशरण-गत्य्-अवसादनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपमिदम् ‘उपनिषत्’ इति। उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्या उच्यते। केन पुनरर्थयोगेनोपनिषच्छब्देन विद्योच्यत इति, उच्यते ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) नासम्,सॆल्लुदल्,सिदिलमाक्कुदल् ऎऩ्ऱ मूऩ्ऱु अर्त्तङ्गळै उडैय, अव्वाऱे उप, नि ऎऩ्ऱ इरण्डु उबसर्क्कत्तै मुदलावदाग उडैय, अव्वाऱे (क्विप्) (क्विप्) पिरत्ययत्तै मुडिवाग उडैय सत्तादुविऩुडैय उबनिषत् ऎऩ्ऱु उबनिषत् सप्तत्ताल् इऩि ऎन्द किरन्दत्तै वियाक्कियाऩम् सॆय्य विरुम्बुगिऱोमो अदिल् विळक्कप्पट्ट अऱिय वेण्डिय विषयत्तैप्पऱ्ऱिऩदै वित्या ऎऩ्ऱु कूऱुगिऱोम्। मेलुम् ऎन्द अर्त्तत्तैक् कॊण्डु उबनिषत् सप्तत्ताल् वित्या कूऱप्पडुमो अदै कूऱुगिऱोम्।
ये मुमुक्षवो दृष्टानुश्रविकविषयवितृष्णाः सन्तः उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणाद्धिंसनाद्विनाशनादित्यनेनार्थयोगेन विद्योपनिषदित्युच्यते। तथा च वक्ष्यति ‘निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १। ३। १५) इति।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द मुमूक्षुक्कळ् इहलोग, परलोग विषयङ्गळिल् आसैयऱ्ऱु इरुन्दुगॊण्डु उबनिषत् इऩि कूऱप्पोगिऱ वित्तैयै अडैन्दु इदिलेये लयित्तु निच्चयमाग इरुक्किऩ्ऱार्गळो अवर्गळुडैय संसार पीजमागिय अवित्यै मुदलियवैगळै नासम् सॆय्वदाल् वित्या “उबनिषत्” ऎऩ्ऱु कूऱप्पडुगिऱदु। अव्वाऱे “निच्चाय्य तम् म्रुत्यु मुगात् प्रमुच्यदे” निच्चयमाग अदै साक्षात्करित्तु म्रुत्युविडमिरुन्दु विडुबडुगिऱाऩ् ऎऩ्ऱु इऩि कूऱप्पोगिऱार्
पूर्वोक्तविशेषणान्वा मुमुक्षून्परं ब्रह्म गमयतीति च ब्रह्मगमयितृत्वेन योगाद्ब्रह्मविद्या उपनिषत्। तथा च वक्ष्यति ‘ब्रह्म प्राप्तो विरजोऽभूद्विमृत्युः’ (क. उ. २। ३। १८) इति ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अल्लदु मुऩ्बु कूऱिय विसेषणङ्गळैयुडैय मुमुक्षुक्कळै परप्रह्मत्तै अडैयच्चॆय्वदाल् पिरह्मत्तै अडैविक्कुम् तऩ्मै उळ्ळदाल् पिरह्मवित्या उबनिषत् ऎऩप्पडुगिऱदु। अव्वाऱे इऩिक् कूऱप्पोगिऱार्। “प्रह्म प्राप्तो विरजो अबूत्विम्रुत्यु”: पिरह्मत्तै अडैन्दवऩ् विरजऩ् (सुत्तमाऩवऩ्) अमरऩ् आगिऩ्ऱाऩ् ऎऩ्ऱु।
लोकादिर्ब्रह्मजज्ञो योऽग्निः, तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवासजन्मजराद्युपद्रवबृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगादग्निविद्यापि उपनिषदित्युच्यते। तथा च वक्ष्यति ‘स्वर्गलोका अमृतत्वं भजन्ते’ (क. उ. १। १। १३) इत्यादि ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) लोग मुदलियवैगळ् पिरह्माविडमिरुन्दु उण्डाऩदुम्, अऱियप्पट्टदुमाऩ अक्ऩि सम्बन्दप्पट्ट वित्तैयै इरण्डावदु वरमागक् केट्टुप् पॆऱ्ऱदाल् अवऩुक्कु मुऩ्सॆय्द पुण्णिय कर्मङ्गळिऩाल् लोगान्दरमाऩ सुवर्क्क पलप्पिराप्त्तियिऩाल् कर्बवासम्, जऩ्मम्, मुदुमै मुदलियवैगळ् नीङ्गि सत् सॊरूबमाऩदाल् अक्ऩिवित्तैयुम् उबनिषत् ऎऩ्ऱु कूऱप्पडुगिऱदु। अव्वाऱे कूऱप्पोगिऱार्। “स्वर्क्क लोगा अम्रुदत्वम् पजन्दे” ऎऩ्ऱु।
ननु चोपनिषच्छब्देनाध्येतारो ग्रन्थमप्यभिलपन्ति — उपनिषदमधीमहे उपनिषदमध्यापयाम इति च ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) आऩाल् अत्ययऩम् सॆय्बवर्गळ् उबनिषत् सप्तत्ताल् किरन्दत्तैयुम् कुऱिक्किऱार्गळ्। ऎव्वाऱु ऎऩिल् नाङ्गळ् उबनिषत् पडिक्किऱोम्, पडिप्पिक्किऩ्ऱोम् ऎऩ्ऱु।
एवं नैष दोषः, अविद्यादिसंसारहेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थमात्रेऽसम्भवाद्विद्यायां च सम्भवात् ग्रन्थस्यापि तादर्थ्येन तच्छब्दत्वोपपत्तेः ‘आयुर्वै घृतम्’ (तै. सं. २। ३। ११) इत्यादिवत्। तस्माद्विद्यायां मुख्यया वृत्त्या उपनिषच्छब्दो वर्तते, ग्रन्थे तु भक्त्येति ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इव्वाऱु तोषमल्ल। अवित्यै संसार हेदुक्कळिऩ् नासत्ताल् सत् तादुविऩ् अर्त्तम् क्रन्द अळविल् सम्बविक्कादु। आऩाल् वित्यैयिऩालेये सम्बविक्कुम्। नॆय् आयुळ्विरुत्तिक्कु कारणमावदाल् नॆय्यै आयुळ् ऎऩ्गिऱोमो अव्वाऱे किरन्दत्तिऱ्कुम् अन्द अर्त्तत्तिल् उबनिषत् ऎऩ्ऱ सप्तम् एऱ्पट्टदु। आगैयाल् वित्याविऱ्कुम् मुक्यविरुत्तियाल् उबनिषत् (ऎऩ्ऱ सप्तमागुम्। अव्वाऱे कॆळणविरुत्तियाल् किरन्दत्तिऱ्कुम् उबनिषत् ऎऩ्ऱ सप्तमागुम्।)
एवमुपनिषन्निर्वचनेनैव विशिष्टोऽधिकारी विद्यायाम् उक्तः। विषयश्च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्मभूतम्। प्रयोजनं चास्या आत्यन्तिकी संसारनिवृत्तिर्ब्रह्मप्राप्तिलक्षणा। सम्बन्धश्चैवम्भूतप्रयोजनेनोक्तः। अतो यथोक्ताधिकारिविषयप्रयोजनसम्बन्धाया विद्यायाः करतलन्यस्तामलकवत्प्रकाशकत्वेन विशिष्टाधिकारिविषयप्रयोजनसम्बन्धा एता वल्ल्यो भवन्तीति। अतस्ता यथाप्रतिभानं व्याचक्ष्महे ॥
ज्ञानानन्द-भारती - द्राविडी
इव्वाऱु उबनिषत् सप्तत्तै विळक्कत्तिऩालेये वित्यैक्कु सिऱन्द अदिगारि कूऱप्पट्टदु। अव्वाऱे वित्यैयिऩ् प्रत्यक् आत्मरूब परप्पिरह्म रूबमागिय सिऱन्द विषयमाऩदु कूऱप्पट्टदु। इव्वाऱु इन्द उबनिषत्तिऩुडैय आत्यन्दिग निविर्त्तियुम्, पिरह्म प्राप्तिरूबमाऩ पिरयोजऩमुम् विळक्कप्पट्टदु। इप्पडिप्पट्ट पिरयोजऩम् कूऱियदिऩालेये सम्बन्दमुम् सात्य-सादऩ सम्बन्दमुम् कूऱप्पट्टदागिऱदु। आगैयाल् इव्वाऱु कूऱप्पट्ट अदिगारि, विषयम्, पिरयोजऩम् सम्बन्दम् उडैयवैगळाय् इरुक्किऩ्ऱऩ। आगैयाल् अदै पुत्तिक्कु ऎट्टिय अळविल् विळक्कुगिऱेऩ्।
उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ। तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥
तत्राख्यायिका विद्यास्तुत्यर्था। उशन् कामयमानः। ह वै इति वृत्तार्थस्मरणार्थौ निपातौ। वाजम् अन्नम् , तद्दानादिनिमित्तं श्रवो यशो यस्य सः वाजश्रवाः, रूढितो वा ; तस्यापत्यं वाजश्रवसः। सः वाजश्रवसः किल विश्वजिता सर्वमेधेनेजे तत्फलं कामयमानः। सः तस्मिन्क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान्। तस्य यजमानस्य ह नचिकेता नाम पुत्रः किल आस बभूव ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्द कदैयाऩदु,स्तुदियिऩ् पॊरुट्टागुम्। उशन् उषऩ् ऎऩ्ऱाल् कामऩै उडैयवऩ्। ह वा ऎऩ्बदु मुडिन्दविरुत्तान्दत्तै ञाबगप्पडुत्तुवदऱ्कागुम्। वाजम् वाजम् ऎऩ्ऱाल् अऩ्ऩम्। अदै ताऩम् सॆय्ददिऩाल् स्रवो पुगऴ् पॆऱ्ऱदाल् वाजस्रवा ऎऩ्ऱ पॆयर् एऱ्पट्टदु। रूडि अर्त्तमागवुम् कॊळ्ळलाम्। अवरुडैय पिळ्ळै वाजस्रवस: अन्द पलत्तिल् कामऩै उडैयवराय् विच्वजित् ऎऩ्ऱ यागत्तै मुऴुमैयाग सॆय्दार्। अवर् अन्द वेळ्वियिल् ऎल्ला वेद विऱ्पण्णर्गळुक्कुम् ताऩम् कॊडुत्तार्। अन्द ऎजमाऩऩुक्कु नसिगेदा ऎऩ्ऱ पॆयरुडैय मगऩ् इरुन्दाऩ्।
तँ ह कुमारँ सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २ ॥
तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्राप्तप्रजननशक्तिं बालमेव श्रद्धा आस्तिक्यबुद्धिः पितुर्हितकामप्रयुक्ता आविवेश प्रविष्टवती। कस्मिन्काले इति, आह — ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु नीयमानासु विभागेनोपनीयमानासु दक्षिणार्थासु गोषु, सः आविष्टश्रद्धो नचिकेताः अमन्यत ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) मुदल् पिरायत्तिल् उळ्ळ सन्दाऩत्तै उण्डाक्कक् कूडिय सक्तियऱ्ऱ अन्द सिऱुवऩागिय नसिगेदसै तऩ् तन्दैक्कु नऩ्मै पयक्कक्कूडिय सिरत्तै अदावदु आस्तिक्य पुत्तियाऩदु एऱ्पट्टदु। ऎप्पॊऴुदु ऎऩिल् सदसिल् उळ्ळ रित्विक्कळुक्कु ताऩम् सॆय्वदिऩ् पॊरुट्टु कॊण्डुवरप्पट्ट तक्षिणैगळागिय पसुक्कळैप् पार्त्तु सिरत्तै एऱ्पट्टु नसिगेदस् विसारम् सॆय्य आरम्बित्तार्।
(अवतारिका.) कथमित्युच्यते-
ज्ञानानन्द-भारती - द्राविडी
अवदारिगै अवऩ् ऎऩ्ऩ ऎण्णिऩाऩॆऩ्बदु इम्मन्दिरत्ताल् कूऱप्पडुगिऱदु। (तक्ण्ुणैयागक् कॊण्डु सॆल्लप्पट्ट पसुक्कळिऩ् निलैयै मेले तॊडरुगिऱार्। अव्वाऱु कॊण्डु सॆल्लप्पट्ट पसुक्कळ्)
पीतोदका जग्धतृणादुग्धदोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥ ३ ॥
दक्षिणार्था गावो विशेष्यन्ते। पीतमुदकं याभिस्ताः पीतोदकाः। जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः। दुग्धो दोहः क्षीराख्यो यासां ताः दुग्धदोहाः। निरिन्द्रियाः प्रजननासमर्थाः जीर्णाः, निष्फला गाव इत्यर्थः। यास्ताः एवंभूताः गाः ऋत्विग्भ्यो दक्षिणाबुद्ध्या ददत् प्रयच्छन् अनन्दाः अनानन्दाः असुखा नामेत्येतत्। ये ते लोकाः, तान् सः यजमानः गच्छति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) तक्षिणैक्काग वैक्कप्पट्टुळ्ळ पसुक्कळै विळक्कुगिऱार्। ऎव्वळवु तण्णीर् कुडिक्कमुडियुमो अव्वळवु तण्णीर् कुडित्त पसुक्कळ् पीदोदक्का: ऎव्वळवु पुल् तिण्णमुडियुमो अव्वळवु तिऩ्ऱबसुक्कळ् जक्तत्रुणा: ऎव्वळवु पाल् करक्कमुडियुमो अव्वळवु पाल् करक्कप्पट्ट पसुक्कळ् तुक्तदोहा: जऩिक्कच् चॆय्वदऱ्काऩ सक्तियऱ्ऱदुम्, पलऩऱ्ऱदुमाऩ पसुक्कळ् निरिन्दिरिया: ऎऩ्बदु पॊरुळ्। इव्वाऱु ऎन्द पसुक्कळ् उळ्ळदो अवैगळ् रित्विक्कळुक्कु पुत्तियिल्लामल् तक्षिणैयागक् कॊडुत्तु आऩन्दमऱ्ऱ ऎन्द उलगम् उळ्ळदो अदै अन्द यजमाऩऩ् अडैगिऱाऩ्।
स होवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥
तदेवं क्रत्वसम्पत्तिनिमित्तं पितुरनिष्टं फलं पुत्रेण सता निवारणीयं मया आत्मप्रदानेनापि क्रतुसम्पत्तिं कृत्वेत्येवं मन्यमानः पितरमुपगम्य स होवाच पितरम् — हे तत तात कस्मै ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसीति प्रयच्छसीत्येतत्। स एवमुक्तेन पित्रा उपेक्ष्यमाणोऽपि द्वितीयं तृतीयमपि उवाच — कस्मै मां दास्यसि कस्मै मां दास्यसीति। नायं कुमारस्वभाव इति क्रुद्धः सन् पिता तं ह पुत्रं किल उवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इव्वाऱु तवऱिऩै सॆय्यप्पट्ट यागत्तिऩाल् तन्दैक्कु अनिष्ट्टमाऩ पलऩ् एऱ्पडामल् इरुप्पदऱ्काग सत्पुत्तिरऩाऩ नाऩ् ऎऩ्ऩै तियागम् सॆय्दावदु नल्ल मुऱैयाग यागम् सॆय्दु अन्द अनिष्ट्ट पलऩै पोक्क वेण्डुम् ऎऩ्ऱु निऩैत्तु तन्दैयिऩ् समीबम् सॆऩ्ऱु इव्वाऱु कूऱिऩाऩ्। तन्दैये ऎन्द रित्विक्किऩ् पॊरुट्टु ऎऩ्ऩै ताऩम् सॆय्वीर्गळ् ऎऩ्ऱु केट्टाऩ्। मऱुबडियुम् इरण्डावदु मुऱैयाग यारुक्कुक् कॊडुप्पीर्गळ् ऎऩ्ऱु केट्टाऩ्। अव्वाऱे मऱुबडियुम् मूऩ्ऱावदु मुऱैयाग ऎऩ्ऩै यारुक्कु ताऩम् सॆय्वीर्गळ् ऎऩ्ऱु केट्टाऩ्। इदु सिऱुबैयऩुडैय सुबावम् अल्ल ऎऩ्ऱु तन्दैयाऩवर् उऩ्ऩै यमऩुक्कुक् कॊडुक्कप्पोगिऱेऩ् ऎऩ्ऱु कूऱिऩार्।
बहूनामेमि प्रथमो बहूनामेमि मध्यमः।
किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥
स एवमुक्तः पुत्रः एकान्ते परिदेवयाञ्चकार। कथमिति, उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इव्वाऱु कूऱप्पट्ट पुत्तिरऩ् तऩिमैयिल् अऩुदाबत्तुडऩ् इरुन्दाऩ्। ऎव्वाऱु ऎऩ्ऱु कूऱुगिऱार्:
बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि प्रथमः सन् मुख्यया शिष्यादिवृत्त्येत्यर्थः। मध्यमानां च बहूनां मध्यमः मध्यमयैव वृत्त्या एमि। नाधमया कदाचिदपि। तमेवं विशिष्टगुणमपि पुत्रं माम् ‘मृत्यवे त्वा ददामि’ इत्युक्तवान् पिता। सः किंस्वित् यमस्य कर्तव्यं प्रयोजनं मया प्रदत्तेन करिष्यति यत्कर्तव्यम् अद्य ? नूनं प्रयोजनमनपेक्ष्यैव क्रोधवशादुक्तवान् पिता। तथापि तत्पितुर्वचो मृषा मा भूदिति एवं मत्वा परिदेवनापूर्वकमाह पितरं शोकाविष्टं किं मयोक्तमिति॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्)अनेग सिष्यर्गळुक्कुळ्ळुम् अनेग पुत्तिरर्गळुक्कुळ्ळुम् मुदऩ्मैयाऩवऩाय् मुक्य सिष्यऩागवुम् इरुक्किऱेऩ्। अनेग मत्यम सिष्यर्गळुळ् मत्यम विरुत्ति उडैयवऩागवुम् इरुक्किऱेऩ्। आऩाल् नाऩ् ऒरुबॊऴुदुम् अदमविरुत्ति उडैयवऩाय् इरुन्ददिल्लै। इव्वाऱु सिऱन्द कुणमुडैय पुत्तिरऩागिय ऎऩ्ऩै तन्दैयाऩवर् यमऩुक्कुक् कॊडुक्कप्पोगिऱेऩ् ऎऩ्ऱु कूऱिऩार्। इदऩाल् यमऩुक्कु ऎऩ्ऩ पिरयोजऩम् ऎऩ्ऩैक्कॊडुप्पदाल् अवरुक्कुम् ऎऩ्ऩ पलऩ् निच्चयमागप् पलऩै ऎदिर्प्पार्क्कामलेये कोब वसत्ताल् तन्दै इव्वाऱु कूऱिऩार्। अव्वाऱु कूऱिऩालुम् अन्द तन्दैयिऩ् वाक्कुप् पॊय् आगिविडक्कूडादु ऎऩ्ऱु निऩैत्तु ऎदऱ्काग इव्वाऱु कूऱिऩेऩ् ऎऩ्ऱु वरुत्तत्तुडऩ् इरुक्कुम् तन्दैयै नोक्कि वेदऩैयुडऩ् इव्वाऱु कूऱिऩाऩ्।
अनुपश्य यथा पूर्वे प्रतिपश्य तथा परे।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥
अनुपश्य आलोचय विभावयानुक्रमेण यथा येन प्रकारेण वृत्ताः पूर्वे अतिक्रान्ताः पितृपितामहादयस्तव। तान्दृष्ट्वा च तेषां वृत्तमास्थातुमर्हसि। वर्तमानाश्च अपरे साधवो यथा वर्तन्ते तांश्च तथा प्रतिपश्य आलोचय। न च तेषां मृषाकरणं वृत्तं वर्तमानं वा अस्ति। तद्विपरीतमसतां च वृत्तं मृषाकरणम्। न च मृषाभूतं कृत्वा कश्चिदजरामरो भवति ; यतः सस्यमिव मर्त्यः मनुष्यः पच्यते जीर्णो म्रियते, मृत्वा च सस्यमिव आजायते आविर्भवति पुनः ; एवमनित्ये जीवलोके किं मृषाकरणेन ? पालयात्मनः सत्यम्। प्रेषय मां यमायेत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) उऩ्ऩुडैय तन्दै, पिदामहर्गळ् मुदलियवर्गळ् ऎन्द नॆऱिमुऱैगळै मुऩ्बु कडैप्पिडित्तार्गळो अवैगळै नऩ्ऱाग आलोसियुङ्गळ्। अदैप्पार्त्तु अन्द नॆऱिमुऱैगळै कडैबिडियुङ्गळ्। इप्पॊऴुदुळ्ळ साऩ्ऱोर्गळिऩ् नॆऱिमुऱैगळैयुम् आलोसियुङ्गळ्। अव्वाऱे अन्द नॆऱिमुऱैगळिल् मुऩ्ऩोर्गळुम्, साऩ्ऱोर्गळुम् कडैबिडित्तवैगळिल् मित्तै(पॊय्) ऎऩ्बदु किडैयादु। ऎदऩाल् पुल् पूण्डुगळ् पोल् मऩिदर्गळ् मरणत्तै अडैगिऱार्गळ्। मरणमडैन्दु पुल्, पूण्डु पोल् मऱुबडियुम् पिऱक्किऱार्गळ्। मेलुम् इव्वाऱु उळ्ळ अनित्तियमाऩ जीवलोगत्तिल् ऎदऱ्काग पॊय्याऩवैगळै सॆय्य वेण्डुम्। तऩ्ऩुडैय सत्तियत्तैक् काप्पाऱ्ऱवेण्डुम्। ऎऩ्ऩै ऎमऩिऩ् पॊरुट्टु अऩुप्पुङ्गळ् ऎऩ्बदु अबिप्पिरायम्।
स एवमुक्तः पिता आत्मनः सत्यतायै प्रेषयामास। स च यमभवनं गत्वा तिस्रो रात्रीरुवास यमे प्रोषिते। प्रोष्यागतं यमम् अमात्या भार्या वा ऊचुर्बोधयन्तः —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) अन्द तन्दैयाऩवर् इव्वाऱु कूऱिय पुत्तिरऩै सत्तियत्तिऩ् पॊरुट्टु (यमऩिऩ् इरुप्पिडत्तिऱ्कु) अऩुप्पिवैत्तार्। यमऩ् वॆळियिल् सॆऩ्ऱदिऩाल् अवऩ् यमऩुडैय पवऩत्तिऱ्कु सॆऩ्ऱु मूऩ्ऱु इरवुगळ् वसित्तार्। सॆऩ्ऱु तिरुम्बिय यमऩिडम् अवरुडैय मन्दिरि अल्लदु मऩैवि इव्वाऱु तॆरिवित्तऩर्।
वैश्वानरः प्रविशति अतिथिर्ब्राह्मणो गृहान्।
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥
वैश्वानरः अग्निरेव साक्षात् प्रविशति अतिथिः सन् ब्राह्मणः गृहान् दहन्निव। तस्य दाहं शमयन्त इवाग्नेः एतां पाद्यासनादिदानलक्षणां शान्तिं कुर्वन्ति सन्तोऽतिथेर्यतः, अतः हर आहर हे वैवस्वत, उदकं नचिकेतसे पाद्यार्थम् यतश्चाकरणे प्रत्यवायः श्रूयते ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) पिराह्मणऩ् अदिदि रूबमाग इरुन्दु कॊण्डु साक्षात् अक्ऩिबोल् इल्लङ्गळै तहिप्पदुबोल् (ऎरिप्पदुबोल्) नुऴैगिऱाऩ्। आगैयाल् इल्लऱत्तिल् उळ्ळ साऩ्ऱोर्गळ् अदिदिगळुक्कु अन्द ऎरिप्पदै सान्दि सॆय्वदुबोल् अक्ऩिक्कु अन्द पात्तियम्, आसऩम्, मुदलियवैगळै ताऩम् सॆय्दु सान्दि सॆय्गिऱार्गळ्। आगैयाल् हे! वैवस्वद! नसिगेदसिऩ् पॊरुट्टु पात्तियत्तिऱ्काग जलम् कॊण्डु वारुङ्गळ्। इव्वाऱु सॆय्यविल्लैयॆऩिल् पिरत्यवायम् (नरगम्) किडैक्कुम् ऎऩ्बदु सुरुदियिऩाल् अऱिगिऱोम्।
आशाप्रतीक्षे सङ्गतं सूनृतां च इष्टापूर्ते पुत्रपशूंश्च सर्वान्।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥
आशाप्रतीक्षे, अनिर्ज्ञातप्राप्येष्टार्थप्रार्थना आशा, निर्ज्ञातप्राप्यार्थप्रतीक्षणं प्रतीक्षा, ते आशाप्रतीक्षे ; सङ्गतं सत्संयोगजं फलम् , सूनृतां च सूनृता हि प्रिया वाक् तन्निमित्तं च, इष्टापूर्ते इष्टं यागजं फलं पूर्तम् आरामादिक्रियाजं फलम् , पुत्रपशूंश्च पुत्रांश्च पशूंश्च सर्वान् , एतत् सर्वं यथोक्तं वृङ्क्ते वर्जयति विनाशयतीत्येतत्। पुरुषस्य अल्पमेधसः अल्पप्रज्ञस्य, यस्य अनश्नन् अभुञ्जानः ब्राह्मणः गृहे वसति। तस्मादनुपेक्षणीयः सर्वावस्थास्वप्यतिथिरित्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द सॊऱ्प अऱिवुडैयवऩुडैय वीट्टिल् प्राह्मणऩ् साप्पिडामल् वसिक्किऱाऩो (अवऩुडैय) आशा आसै अदावदु अऱियाददाऩ पॊरुळिल् विरुप्पम् आसै ऎऩप्पडुम्। किडैक्कुम् पॊरुळ् तीर्माऩमाग इरुक्कुम् पॊऴुदु अदै ऎदिर्बार्त्तल् प्रदीक्षा प्रतीक्षा इव्विरण्डैयुम् अडैवदिऩाल् एऱ्पडुम् पलऩैयुम्, इऩ्सॊऱ्कळाल् एऱ्पडुम् पलऩैयुम्, इष्टं इष्ट्टम् ऎऩ्बदु ।यागम् मुदलियऩवैगळैच् चॆय्दलाल् एऱ्पडुम् पलऩैयुम् पूर्तं ऎऩ्बदु कुळम्, कोविल्, सत्तिरम्, तोट्टम् इवैगळै उण्डाक्कुवदालुम् अल्लदु पाऴ् अडैयुम् निलैयिल् उळ्ळ मुऩ्सॊऩ्ऩवैगळै सॆप्पऩिडुवदाल् उण्डागुम् पलऩ्गळैयुम् मऱ्ऱुम् ऎल्ला पुत्तिरर्गळ् पसुक्कळ् आगिय ऎल्लावऱ्ऱैयुम् नासमाक्कुगिऱदु ऎऩ्बदु पॊरुळ्। ऎऩवे ऎन्द निलैयिलुम् अदिदियैप् पूजै सॆय्दे आग वेण्डुम्। अवऩै उबेक्षिक्कलागादु।
एवमुक्तो मृत्युरुवाच नचिकेतसमुपगम्य पूजापुरःसरम्
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) इव्वाऱु मऩैवियालुम्, तुणैवर्गळालुम्, उणर्त्तप्पट्ट तर्मराजऩ्, नसिगेदऩैयणुगि अर्क्यबात्य, आसमऩीयङ्गळ कॊडुत्तु पूजित्तु इव्वाऱु उरैक्कलऩाऩ्।
तिस्रो रात्रीर्यदवात्सीर्गृहे मे अनश्नन्ब्रह्मन्नतिथिर्नमस्यः।
नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९
॥
तिस्रः रात्रीः यत् यस्मात् अवात्सीः उषितवानसि गृहे मे मम अनश्नन् हे ब्रह्मन् अतिथिः सन् नमस्यः नमस्कारार्हश्च, तस्मात् नमः ते तुभ्यम् अस्तु भवतु। हे ब्रह्मन् स्वस्ति भद्रं मे अस्तु। तस्मात् भवतोऽनशनेन मद्गृहवासनिमित्ताद्दोषात्। तत्प्राप्त्युपशमेन यद्यपि भवदनुग्रहेण सर्वं मम स्वस्ति स्यात् , तथापि त्वदधिकसम्प्रसादनार्थमनशनेनोषितामेकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व अभिप्रेतार्थविषयान्प्रार्थयस्व मत्तः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) हे प्रह्मऩ्! ऎदऩाल् ऎऩ्ऩुडैय वीट्टिल् वणक्कत्तिऱ्कुरिय अदिदियाय् इरुन्दुगॊण्डु साप्पिडामल् मूऩ्ऱु इरवुगळ् वसित्तीर्गळो अदऩाल् उङ्गळुक्कु नमस्कारम्। हे प्रह्मऩ्! नीङ्गळ् साप्पिडामल् ऎङ्गळ् वीट्टिल् वसित्तदिऩाल् एऱ्पट्ट अन्द तोसत्तिऩ् निवर्त्तियिऩाल् ऎऩक्कु मङ्गळम् उण्डागट्टुम्। उङ्गळुडैय अऩुक्किरहत्ताल् ऎऩक्कु ऎल्ला मङ्गळङ्गळ् एऱ्पट्टालुम् उङ्गळै अदिगमाग सन्दोषप्पडुत्तुवदऱ्काग नीङ्गळ् साप्पिडामल् वसित्त ऒव्वॊरु इरवुक्कुम् ऒव्वॊरु वरमाग नीङ्गळ् विरुम्बुम् विसेषमाऩ वरङ्गळै ऎऩ्ऩिडमिरुन्दु पॆऱ्ऱुक्कॊळ्ळुङ्गळ्।
नचिकेतास्त्वाह यदि दित्सुर्वरान् -
ज्ञानानन्द-भारती - द्राविडी
(अह्है³)इव्वाऱु वरत्तै अळिक्किऱेऩ् ऎऩ्ऱु कूऱिय तर्मराजऩै नोक्कि नसिगेदऩ् कूऱलाऩाऩ्।
शान्तसङ्कल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभिमृत्यो।
त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १० ॥
शान्तसङ्कल्पः उपशान्तः सङ्कल्पो यस्य मां प्रति ‘यमं प्राप्य किं नु करिष्यति मम पुत्रः’ इति, सः शान्तसङ्कल्पः सुमनाः प्रसन्नचित्तश्च यथा स्यात् वीतमन्युः विगतरोषश्च गौतमः मम पिता मा अभि मां प्रति हे मृत्यो ; किञ्च, त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मा माम् अभिवदेत् प्रतीतः लब्धस्मृतिः, ‘स एवायं पुत्रो ममागतः’ इत्येवं प्रत्यभिजानन्नित्यर्थः। एतत्प्रयोजनं त्रयाणां वराणां प्रथमम् आद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) शान्तसङ्कल्पः सान्दसङ्गल्ब: ऎऩ्ऱाल् ऎऩ्ऩुडैय पिदावाऩवर् ऎऩ्ऩैक्कुऱित्तु अवऩ् यमऩै अडैन्दु ऎऩ् मगऩ् ऎऩ्ऩ सॆय्वाऩ् ऎऩ्ऱ सङ्गल्बम् सान्दमडैन्दवर् आगवुम्। सुमनाः सुमऩा: पिरसऩ्ऩ (निम्मदि अडैन्द मऩदुडैयवरागवुम्, वीतमन्यु वीदमऩ्यु: कोबम् नीङ्गियवरागवुम् ऎऩ्ऩुडैय पिदावागिय कौदमर् इरुक्कुम्बडि अरुळवेण्डुम्। मेलुम् हे म्रुत्युवे! ऎऩ् वीट्टै नोक्कि उऩ्ऩाल् अऩुप्पप्पट्ट ऎऩ्ऩै अडैयाळम् कण्डुगॊण्डु अदावदु नाऩ् अऩ्ऱु ऎमऩिडमऩुप्पिय अन्द ऎऩ् मगऩे मऱुबडियुम् ऎऩ्ऩै नाडि वन्दुळ्ळाऩ् ऎऩ्ऱु ऎऩ्ऩै अडैयाळम् कण्डुगॊण्डु पेसुबवरागवुम् ऎव्वाऱु इरुप्पारो अव्वाऱु अरुळ्बुरिवीराग। इदै अदावदु तन्दैयै मगिऴ्वित्तल् ऎऩ्ऱ इदै ताङ्गळ् अळित्त मूऩ्ऱु वरङ्गळुळ् मुदल् वरमाग वेण्डुगिऱेऩ्।
मृत्युरुवाच —
ज्ञानानन्द-भारती - द्राविडी
(इव्वाऱु तन्दैयिऩ् मगिऴ्वै मुदल् वरत्ताल् केट्ट नसिगेदऩै नोक्कि) तर्मराजऩ् कूऱलाऩाऩ्।
यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः।
सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥ ११
॥
यथा बुद्धिः त्वयि पुरस्तात् पूर्वम् आसीत्स्नेहसमन्विता पितुस्तव, भविता प्रीतिसमन्वितस्तव पिता तथैव प्रतीतः प्रतीतवान्सन्। औद्दालकिः उद्दालक एव औद्दालकिः अरुणस्यापत्यम् आरुणिः द्व्यामुष्यायणो वा मत्प्रसृष्टः मयानुज्ञातः सन् उत्तरा अपि रात्रीः सुखं प्रसन्नमनाः शयिता स्वप्ता वीतमन्युः विगतमन्युश्च भविता स्यात् , त्वां पुत्रं ददृशिवान् दृष्टवान् सन् मृत्युमुखात् मृत्युगोचरात् प्रमुक्तं सन्तम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) उऩ्ऩुडैय तन्दैयिऩ् पुत्ति मुऩ्बु ऎव्वाऱु उऩ्ऩिडत्तिल् पिरियमुडैयदाय् इरुन्ददो अव्वाऱे उऩ्ऩै निऩैवुगूर्न्दवराय् औदालगि अदावदु उत्तालगरे औदालगि इरुप्पार्। अरुणरुडैय पिळ्ळैयाय् इरुप्पदालुम् आरुणि: अदावदु पिदा, तत्तबिदा इरुवरुक्कुम् पिण्डदाऩम् सॆय्बवर्, ऎऩ्ऩुडैय अऩुक्ञैयिऩाल् मऱ्ऱ इरवुगळिल् सुगमागवुम्, निम्मदियागवुम् तूङ्गुबवरायुम्, कोबमऱ्ऱवरायुम् इरुप्पार्। अवर् यमऩिडमिरुन्दु विडुबट्टु इरुक्कुम् उऩ्ऩै पुत्तिरऩाय् पार्प्पार्।
नचिकेता उवाच —
ज्ञानानन्द-भारती - द्राविडी
(तन्दैयिऩ् नलऩैयुम्, नऩ्मऩदैयुम्, तर्मराजऩिडमिरुन्दु मुदल् वरत्ताल् पॆऱ्ऱ नसिगेदऩ् स्वर्क्कत्तै टैवदऱ्काऩ सादऩमाग उळ्ळ अक्ऩि वित्तै ऎऩ्ऩुम् अक्ऩि ञाऩत्तैप् पॆऱुवदऱ्काग स्वर्क्क स्वरूबत्तै म्मन्दिरत्ताल् कूऱुगिऱाऩ्)
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति।
उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२ ॥
स्वर्गे लोके रोगादिनिमित्तं भयं किञ्चन किञ्चिदपि नास्ति। न च तत्र त्वं मृत्यो सहसा प्रभवसि, अतो जरया युक्त इह लोक इव त्वत्तो न बिभेति कश्चित्तत्र। किं च उभे अशनायापिपासे तीर्त्वा अतिक्रम्य शोकमतीत्य गच्छतीति शोकातिगः सन् मानसेन दुःखेन वर्जितः मोदते हृष्यति स्वर्गलोके दिवि ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) स्वर्क्कत्तिल् वियादि मुदलियवैगळाल् एऱ्पडुम् पयम् सिऱिदुम् किडैयादु। अङ्गु म्रुत्युवादिय उङ्गळुडैय प्रबावम् सॆल्लादु। अङ्गु इन्द उलगत्तिल् उळ्ळवर्गळ् पोल् मुदुमै अडैन्दु ऎन्द ऒरुबुरुषऩुम् उङ्गळिडम् पयप्पडुवदु इल्लै। मेलुम् तिव्यमाऩ स्वर्क्क लोगत्तिल् पसि, तागम्, इरण्डुम् नीङ्गि, तुक्कत्तै कडन्दु अव्वाऱे माऩस तुक्कत्तै विट्टु ऎप्पॊऴुदुम् सन्दोषत्तै अडैगिऱाऩ्।
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्।
स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण ॥ १३ ॥
एवं गुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतम् अग्निं स्वर्ग्यं स त्वं मृत्युः अध्येषि स्मरसि, जानासीत्यर्थः। हे मृत्यो, यतः तं प्रब्रूहि कथय श्रद्दधानाय श्रद्धावते मह्यं स्वर्गार्थिने। येनाग्निना चितेन स्वर्गलोकाः स्वर्गो लोको येषां ते स्वर्गलोकाः यजमानाः अमृतत्वम् अमरणतां देवत्वं भजन्ते प्राप्नुवन्ति, तत् एतत् अग्निविज्ञानं द्वितीयेन वरेण वृणे ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ओ तर्मराजऩे! अत्तगैय म्रुत्युवागिय नीर् इव्वाऱु नल्ल अंसङ्गळुडैय स्वर्क्कलोगत्तै अडैवदऱ्काऩ सादऩमागिय अक्ऩियै अऱिवीर्। आगैयाल् सिरत्तै उडैयवऩायुम् सुवर्क्कत्तिल् इच्चै उडैयवऩागिय ऎऩक्कु ऎन्द अक्ऩियिऩाल् स्वर्क्कलोगमाऩदु यजमाऩऩुक्कु अम्रुदत्तै अदावदु मरणदर्ममऱ्ऱदऩ्मै उडैय तॆय्वत्तऩ्मैयै अडैयच् चॆय्युमो अदै कूऱुवीराग। अन्द इव्अक्ऩि विक्ञाऩत्तै इरण्डावदु वरत्तिऩाल् प्रार्त्तिक्किऱेऩ्।
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इव्वाऱु केट्ट नसिगेदऩै नोक्कि तर्मराजऩ् कूऱलाऩाऩ्।
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥
प्र ते तुभ्यं प्रब्रवीमि ; यत्त्वया प्रार्थितं तत् उ मे मम वचसः निबोध बुध्यस्व एकाग्रमनाः सन्। स्वर्ग्यं स्वर्गाय हितं स्वर्गसाधनम् अग्निं हे नचिकेतः प्रजानन् विज्ञातवान्सन्नहमित्यर्थः। प्रब्रवीमि तन्निबोधेति च शिष्यबुद्धिसमाधानार्थं वचनम् ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) हे नसिगेद! नऩ्ऱाग विसेषमाग अऱिन्द नाऩ् उऩक्कु ऎदु उऩ्ऩाल् वेण्डप्पट्टदो अन्द स्वर्क्कलोगत्तै अडैवदऱ्काऩ सुलबमाऩ सादऩमागिय अक्ऩियैक् कुऱित्तुक् कूऱुगिऱेऩ्। ऎऩ्ऩुडैय वसऩङ्गळै ऒरुमुगप्पडुत्तप्पट्ट मऩदुडऩ् अऱिन्दु कॊळ्। नऩ्ऱाग अऱिन्दुगॊळ् ऎऩ्ऱु कूऱियदु सिष्यऩुडैय पुत्तियै समनिलैबडुत्तुवदऱ्काऩ वसऩमागुम्।
अधुनाग्निं स्तौति — अनन्तलोकाप्तिं स्वर्गलोकफलप्राप्तिसाधनमित्येतत् , अथो अपि प्रतिष्ठाम् आश्रयं जगतो विराट्स्वरूपेण, तम् एतम् अग्निं मयोच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायाम्। विदुषां बुद्धौ निविष्टमित्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इप्पॊऴुदु अक्ऩिवित्तैयै स्तुदि सॆय्गिऱार्। अऩन्द लोगत्तिऩ् अडैवु अदावदु स्वर्क्कलोगत्तै अडैवदऱ्काऩ सादऩम् ऎऩ्बदागुम्। अव्वाऱु इरुन्दालुम् जगत्तिऱ्कु विराट् रूबमाय् आस्रयमागिऱदु। ऎऩ्ऩाल् कूऱप्पोगिऱ अन्द इदु कुगैयिल् अदावदु ञाऩिगळुडैय पुत्तियिल् इरुप्पदै नी अऱिवायाग ऎऩ्बदु पॊरुळ्।
इदं श्रुतेर्वचनम् —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इदु वेदवसऩमागुम्।
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५ ॥
लोकादिं लोकानामादिं प्रथमशरीरित्वात् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाच उक्तवान्मृत्युः तस्मै नचिकेतसे। किञ्च, याः इष्टकाः चेतव्याः स्वरूपेण यावतीर्वा सङ्ख्यया यथा वा चीयतेऽग्निर्येन प्रकारेण सर्वमेतदुक्तवानित्यर्थः। स चापि नचिकेताः तत् मृत्युनोक्तं प्रत्यवदत् यथावत्प्रत्ययेनावदत् प्रत्युच्चारितवान्। अथ अस्य प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनरेवाह वरत्रयव्यतिरेकेणान्यं वरं दित्सुः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) नसिगेदऩाल् केट्कप्पट् उलगत्तिल् मुदलिल् तोऩ्ऱिय रूबम्(सरीरम्) आगिय अन्द अक्ऩियैक् कुऱित्तु अन्द नसिगेदऩिडम् म्रुत्यु कूऱिऩार्। मेलुम् ऎव्वाऱु सॆय्य वेण्डिय वगैयुम्, ऎण्णिक्कैगळैयुम् अल्लदु ऎव्वाऱु अक्ऩियै सॆय्यवेण्डुम् ऎऩ्ऱु ऎल्लावऱ्ऱैयुम् कूऱिऩार्। अन्द नसिगेदऩुम् म्रुत्युवाऩवर् कूऱियवाऱु नऩ्ऱाग पुरिन्दुगॊण्डु अदैक्कुऱित्तु तिरुप्पिक्कूऱिऩार्। अवर् तिरुम्बिक्कूऱियदैक् कण्डु। सन्दोषमडैन्द म्रुत्यु मऱुबडियुम् मूऩ्ऱु वरङ्गळैत् तविर वेऱु ऒरु वरत्तै कॊडुप्पदऱ्कु इच्चै उडैयवरागि इव्वाऱु कूऱिऩार्।
कथम् ?
ज्ञानानन्द-भारती - द्राविडी
ऎव्वाऱु?
तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः।
तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥
तं नचिकेतसम् अब्रवीत् प्रीयमाणः शिष्यस्य योग्यतां पश्यन्प्रीयमाणः प्रीतिमनुभवन् महात्मा अक्षुद्रबुद्धिः वरं तव चतुर्थम् इह प्रीतिनिमित्तम् अद्य इदानीं ददामि भूयः पुनः प्रयच्छामि। तवैव नचिकेतसः नाम्ना अभिधानेन प्रसिद्धः भविता मयोच्यमानः अयम् अग्निः। किञ्च, सृङ्कां शब्दवतीं रत्नमयीं मालाम् इमाम् अनेकरूपां विचित्रां गृहाण स्वीकुरु। यद्वा, सृङ्काम् अकुत्सितां गतिं कर्ममयीं गृहाण। अन्यदपि कर्मविज्ञानमनेकफलहेतुत्वात्स्वीकुर्वित्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) सिष्यऩुडैय योक्कियदैयै अऱिन्दु पिरियमडैन्दवराऩ महात्मा अदावदु सिऱन्द पुत्तियुडैय म्रुत्यु, नसिगेदसैक् कुऱित्तु कूऱलाऩार्। इप्पॊऴुदु उऩक्कु ऎऩ्ऩुडैय पिरियत्तिऩ् कारणमाग इङ्गु मऱुबडियुम् नाऩ्गावदु वरम् तरुगिऱेऩ्। ऎऩ्ऩाल् कूऱप्पोगिऱ इन्द अक्ऩि उऩ्ऩुडैय नसिगेदस् ऎऩ्ऱ पॆयराल् पिरसित्तमागुम्। मेलुम् च्रुङ्गा अदावदु रत्ऩमयमाऩ इन्द अनेग विदमाऩ विसित्तिरमाऩ मालैयै अदावदु कोर्वैयै किरहित्तुक्कॊळ्। अल्लदु सिरुङ्गाम् - अदावदु उत्तममाऩ कदियैक् कॊडुक्कुम् कर्ममयमाऩ कदियैक् किरहित्तुक्कॊळ्। इदऩुडैय तात्पर्यम् ऎऩ्ऩवॆऩिल् इदैत्तविर अनेग पलऩ्गळुक्कुक् कारणमाऩ कर्मविक्ञाऩत्तै ऎऩ्ऩिडमिरुन्दु अऱिन्दुगॊळ्।
पुनरपि कर्मस्तुतिमेवाह —
ज्ञानानन्द-भारती - द्राविडी
(अ।कै) मऱुबडियुम् कर्मत्तिऩ् स्तुदियैये कूऱुगिऱार्:-
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू।
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्य मां शान्तिमत्यन्तमेति ॥ १७ ॥
त्रिणाचिकेतः त्रिः कृत्वा नाचिकेतोऽग्निश्चितो येन सः त्रिणाचिकेतः ; तद्विज्ञानवान्वा। त्रिभिः मातृपित्राचार्यैः एत्य प्राप्य सन्धिं सन्धानं सम्बन्धम् , मात्राद्यनुशासनं यथावत्प्राप्येत्येतत्। तद्धि प्रामाण्यकारणं श्रुत्यन्तरादवगम्यते ‘यथा मातृमान्पितृमान्’ (बृ. उ. ४। १। २) इत्यादेः। वेदस्मृतिशिष्टैर्वा प्रत्यक्षानुमानागमैर्वा। तेभ्यो हि विशुद्धिः प्रत्यक्षा। त्रिकर्मकृत् इज्याध्ययनदानानां कर्ता तरति अतिक्रामति जन्ममृत्यू।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) नासिगेदा अक्ऩियागत्तै मुम्मुऱैसॆय्दल् अल्लदु त्रिनासिगेदा अक्ऩियै अऱिन्दवऩायुम् अदै अत्ययऩम् सॆय्दवऩायुम्, अदै अऩुष्टाऩम् सॆय्बवऩायुम् इरुप्पदाल् त्रिनासिगेदा ऎऩ्ऱु कूऱप्पडुगिऱदु। मादा, पिदा, आसारियऩ् आगिय मूवर्गळै अडैन्दु अवर्गळुडैय सम्बन्दत्ताल् अदावदु मादा मुदलियवर्गळ् कूऱियवाऱु (अऱिवुऱुत्तियवाऱु) अडैन्दु ऎऩ्बदागुम्। इदऱ्कु वेऱु ऒरु सुरुदियिऩ् पिरमाण वायिलाय् अऱियप्पडुगिऱदु। अदावदु “मात्रुमाऩ् पित्रुमाऩ् आसारियवाऩ् प्रूयात्” मादा उडैयवऩ्, पिदा उडैयवऩ् आसार्यऩ् उडैयवऩ् कूऱट्टुम् ऎऩ्ऱु सुरुदि वाक्कियम्। वेदम्, स्मिरुदि, सिष्ट्ट पुरुषर्गळै अडैन्दवर्गळुक्कुम् पिरत्यक्ष अऩुमाऩ आगमङ्गळिऩ् सम्बन्दत्तै अडैन्दवर्गळुक्कुम्, विसुत्ति अदावदु सित्त सुत्तियाऩदु प्रत्यक्षम्। (स्पष्टमाग तॆरिगिऱदु) त्रिगर्मक्रुत् अदावदु यक्ञम्, अत्ययऩम्, ताऩम् आगिय इन्द मूऩ्ऱु कर्माक्कळैयुम् सॆय्द कर्त्ता जऩ्म मरणत्तैक् कडक्किऱाऩ्।
किञ्च, ब्रह्मजज्ञम् , ब्रह्मणो हिरण्यगर्भाज्जातो ब्रह्मजः ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः। सर्वज्ञो ह्यसौ। तं देवं द्योतनाज्ज्ञानादिगुणवन्तम् , ईड्यं स्तुत्यं विदित्वा शास्त्रतः, निचाय्य दृष्ट्वा चात्मभावेन इमां स्वबुद्धिप्रत्यक्षां शान्तिम् उपरतिम् अत्यन्तम् एति अतिशयेनैति। वैराजं पदं ज्ञानकर्मसमुच्चयानुष्ठानेन प्राप्नोतीत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) मेलुम् प्रह्मजक्ञम् ऎऩ्बदु प्रह्मत्तिऩिडमिरुन्दु अदावदु हिरण्य कर्बत्तिडमिरुन्दु उण्डावदु प्रह्मजक्ञ: पिरह्म्मजक्ञ: ऎऩ्ऱाल् सर्वक्ञम् ऎऩ्बदु पॊरुळ्। अन्द तेवऩै अदावदु तेजोमयमाऩदाल् ञाऩ मुदलिय कुणमुडैयवराय् इरुप्पदाल्। स्तुदिक्कत्तगुन्दवरुम्, अदै सास्तिरमूलमाग अऱिन्दु अदै आत्म पावमाग पार्त्तु अदै तऩ्ऩुडैय पुत्तियिल् प्रत्यक्षमाग आत्यन्दिग सान्दियै अदावदु उबरदियै अडैगिऱाऩ्। (ञाऩगर्म समुच्चयत्तै अडैवाऩ् ऎऩ्बदु इदऩ् पॊरुळागुम्।)
इदानीमग्निविज्ञानचयनफलमुपसंहरति, प्रकरणं च —
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) इप्पॊऴुदु अक्ऩि विक्ञाऩमुम् अन्द यक्ञत्तिऩ् पलऩैक् कूऱि इन्द पिरगरणत्तै मुडिक्किऱार्।
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम्।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८ ॥
त्रिणाचिकेतः त्रयं यथोक्तम् ‘या इष्टका यावतीर्वा यथा वा’ इति। एतत् विदित्वा अवगम्य यश्च एवम् आत्मस्वरूपेण अग्निं विद्वान् चिनुते निर्वर्तयति नाचिकेतमग्निं क्रतुम् , सः मृत्युपाशान् अधर्माज्ञानरागद्वेषादिलक्षणान् पुरतः अग्रतः, पूर्वमेव शरीरपातादित्यर्थः, प्रणोद्य अपहाय, शोकातिगः मानसैर्दुःखैर्विगत इत्येतत् , मोदते स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिपत्त्या ॥
ज्ञानानन्द-भारती - द्राविडी
तिरिनासिगेदस्तिरयम् मुऩ्बु कूऱप्पट्टऎन्द इष्ट्टि उळ्ळदो अदै उळ्ळवाऱु अऱिन्दु पुरिन्दुगॊण्डु ऎवऩ् आत्म स्वरूबमागवे अन्द नासिगेदाक्ऩि ऎऩ्ऱ यक्ञत्तै मूऩ्ऱुमुऱै ऎन्द वित्वाऩ् सॆय्गिऩ्ऱाऩो अवऩ् म्रुत्यु पासत्तिलिरुन्दु अदावदु अदर्म, अक्ञाऩ रागदुवेषादिगळागिय लक्षणङ्गळै सरीरम् उळ्ळबोदे नीक्कि मऩदिल् तोऩ्ऱुम् तुक्कङ्गळ् अऱ्ऱवऩाय् स्वर्क्कलोगत्तिल् अदावदु वैराज्यत्तिल् विराट् आत्म रूबत्तै अडैन्दु अदिल् मगिऴ्गिऱाऩ्। (मगिऴ्च्चि अडैगिऩ्ऱाऩ्।) (इदुवरै तन्दै मगऩ् उऱवु, अवर्गळुळ् ऒरुवर् पाल् मऱ्ऱॊरुवरुक्कुळ्ळ अऩ्बु, पोऩ्ऱ विषयङ्गळैयुम्, स्वर्क्कलोगम् पोऩ्ऱवैगळै अडैवदऱ्काऩ उबायङ्गळ् पोऩ्ऱवैगळायुमुळ्ळ कर्मगाण्ड विषयङ्गळैये इव्विरु वरङ्गळ् विळक्किऩ। इव्वाऱु कर्मगाण्डत्तिल् अवित्या। काम कर्मरूबमाऩ संसारमे आत्माविल् आरोबणञ् जॆय्यप्पट्टदागुम्। अव्वाऱु आऩ्माविल् आरोबिक्कप्पट्ट अवित्तैयै नीक्कि आऩ्माविऩ् सुत्तस्वरूबत्तै विळक्कुवदऱ्काग मूऩ्ऱावदु वरत्तैप् पऱ्ऱियदाऩ अडुत्त मन्दिरम् आरम्बिक्कप्पडुगिऱदु।)
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥
एषः ते तुभ्यम् अग्निः वरः हे नचिकेतः, स्वर्ग्यः स्वर्गसाधनः, यम् अग्निं वरम् अवृणीथाः वृतवान् प्रार्थितवानसि द्वितीयेन वरेण, सोऽग्निर्वरो दत्त इत्युक्तोपसंहारः। किञ्च, एतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासः जना इत्येतत्। एष वरो दत्तो मया चतुर्थस्तुष्टेन। तृतीयं वरं नचिकेतः वृणीष्व। तस्मिन्ह्यदत्ते ऋणवानेवाहमित्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) हे! नसिगेद! उऩ् पॊरुट्टु नी केट्ट अक्ऩि वरत्तै अदावदु स्वर्क्क सादऩमाऩ ऎन्द अक्ऩि वित्तैयै वरमागक् केट्टायो अन्द अक्ऩिवरत्तैये इरण्डावदु वरमाग कॊडुत्तिरुक्किऱेऩ्। मेलुम् अन्द अक्ऩियै उऩ् पॆयराल् जऩङ्गळ् कूऱुवार्गळ्। इन्द नाऩ्गावदु वरम् ऎऩ्ऩाल् सन्दोषमाग उऩक्कुक्कॊडुक्कप्पट्टदु। हे! नसिगेद! मूऩ्ऱावदाऩ वरत्तैक् केळ्। अदऩाल् नाऩ् कडऩ् अऱ्ऱवऩावेऩ्।
एतावद्ध्यतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेनावगन्तव्यं यद्वरद्वयसूचितं वस्तु नात्मतत्त्वविषययाथात्म्यविज्ञानम्। अतो विधिप्रतिषेधार्थविषयस्य आत्मनि क्रियाकारकफलाध्यारोपणलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपणशून्यमात्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यमित्युत्तरो ग्रन्थ आरभ्यते। तमेतमर्थं द्वितीयवरप्राप्त्याप्यकृतार्थत्वं तृतीयवरगोचरमात्मज्ञानमन्तरेणेत्याख्यायिकया प्रपञ्जयति। यतः पूर्वस्मात्कर्मगोचरात्साध्यसाधनलक्षणादनित्याद्विरक्तस्यात्मज्ञानेऽधिकार इति तन्निन्दार्थं पुत्राद्युपन्यासेन प्रलोभनं क्रियते।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्)(अह्है³) विदिनिषेदङ्गळ् ऎदऩुडैय पिरयोजऩमो अदै मुऩ् कूऱप्पट्ट मन्दिर पिराह्मणत्तिऩ् वायिलाग इन्द इरण्डु वरङ्गळे काण्बिक्कप्पट्ट वस्तु ऎऩ्ऱु अऱिय वेण्डुम्। इदिल् आत्म तत्तुवत्तिऩ् यदार्त्त ञाऩमऩ्ऱु। आगैयाल् विदिनिषेदार्त्त विषयङ्गळ् आत्माविडत्तिल् किरियगारग पलम् आगिय अत्यारोबम् सॆय्यप्पट्ट सुवाबावमाऩ अक्ञाऩमागिय संसार पीजत्तै नीक्कुवदिऩ् पॊरुट्टु अदैक्काट्टिलुम् वेऱाऩ पिरह्मात्मैक्य ञाऩम् अदावदु किरिया, कारग पल अत्यारोब लक्षणमऱ्ऱमुडिवाऩ निस्च्रेयस पिरयोजऩत्तैत् तॆरिविक्क वेण्डुम् ऎऩ्बदऱ्काग अडुत्तदाग किरन्दम् आरम्बिक्कप्पडुगिऱदु। अदऩ् पॊरुट्टु मूऩ्ऱावदु वरमाग अऱियप्पोगिऱ आत्म ञाऩत्तैक् काट्टिलुम् वेऱाऩ इरण्डावदु वरत्तै अडैन्दिरुन्दालुम् क्रुदार्त्तम् अडैन्ददु आगादु ऎऩ्ऱु इऩिवरुम् कदै विळक्कुगिऱदु। ऎदऩाल् मुऩ्बु अडैन्द कर्मविषयमाऩ सादऩ अनित्तियत्तिलुम् सात्तियलक्ष्णमाऩ अनित्यत्तिलुम् विरक्ति अडैन्दवऩुक्के आत्मञाऩत्तिल् अदिगारम् ऎऩ्बदाल् कर्मत्तै निन्दिप्पदऱ्काग पुत्तिरऩ् मुदलियवैगळैक् कूऱुम् वायिलाग अवऱ्ऱिल् आसैयै उण्डाक्कि इऩिवरुम् कदैयिऩाल् सुरुदि अप्पॊरुळै (कर्म वैराक्य पूर्वगमाऩ पॊरुळै) विळक्कुवदालॆऩ्ग।
नचिकेता उवाच ‘तृतीयं वरं नचिकेतो वृणीष्व’ इत्युक्तः सन् —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै)(अऩुवादम्) हे नसिगेदा मूऩ्ऱावदु वरत्तैक् केळ् ऎऩ्ऱु कूऱप्पट्टवऩाय् नसिगेदऩ् इव्वाऱु कूऱलाऩाऩ्:
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ २० ॥
येयं विचिकित्सा संशयः प्रेते मृते मनुष्ये, अस्ति इत्येके अस्ति शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तो देहान्तरसम्बन्ध्यात्मा इत्येके मन्यन्ते, नायमस्ति इति चैके नायमेवंविधोऽस्तीति चैके। अत्र चास्माकं न प्रत्यक्षेण नाप्यनुमानेन निर्णयविज्ञानम्। एतद्विज्ञानाधीनो हि परः पुरुषार्थ इत्यतः एतत् विद्यां विजानीयाम् अहम् अनुशिष्टः ज्ञापितः त्वया। वराणामेष वरस्तृतीयोऽवशिष्टः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्)इऱन्द मऩिदऩिडत्तिल् ऎऩक्कु सन्देहम् इरुक्किऱदु। सरीरम् इन्दिरियम् पुत्ति इवैगळैक् काट्टिलुम् वेऱाऩ तेहान्दर सम्बन्दि आत्मा इरुक्किऱदु ऎऩ्ऱु ऒरु सिलरुम्, अव्वाऱु इल्लै ऎऩ्ऱु ऒरु सिलरुम् कूऱुगिऩ्ऱऩर्। इव्वाऱु इल्लै ऎऩ्ऱुम् इव्वाऱु इरुक्किऱदु ऎऩ्ऱुम् सिलर् कूऱुवदाल् इदिल् नमक्कु पिरत्तियक्षमागवो, अऩुमाऩत्तालो निर्णयम् सॆय्य मुडियादु। एऩॆऩिल् अदु ञाऩत्तिऩ् अदीऩमाऩ परमबुरुषार्त्तमागुम्। आगैयाल् उङ्गळाल् उबदेसिक्कप्पट्टु नाऩ् अऱिन्दु कॊळ्वेऩाग। नीङ्गळ् अळित्त वरङ्गळिल् मीदमाऩ मूऩ्ऱावदु वरमागुम्।
किमयमेकान्ततो निःश्रेयससाधनात्मज्ञानार्हो न वेत्येतत्परीक्षणार्थमाह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) अन्द नसिगेदऩ् निस्रेयस् सादऩमाऩ आत्मक् ञाऩत्तिऱ्कु पूर्णमाग योक्यम् (अरुगदै) इरुक्किऱदा अल्लदु इल्लैया ऎऩ्बदै अऱिवदऱ्कु परीक्षै सॆय्वदऱ्काग(यमऩ्) इव्वाऱु कूऱुगिऱार्।
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ २१ ॥
देवैरपि अत्र एतस्मिन्वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वम्। न हि सुविज्ञेयं सुष्ठु विज्ञेयम् असकृच्छ्रुतमपि प्राकृतैर्जनैः, यतः अणुः सूक्ष्मः एषः आत्माख्यः धर्मः। अतः अन्यम् असन्दिग्धफलं वरं नचिकेतः, वृणीष्व। मा मां मा उपरोत्सीः उपरोधं मा कार्षीः अधमर्णमिवोत्तमर्णः। अतिसृज विमुञ्च एनं वरं मा मां प्रति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) तेवर्गळुम् मुऩ्बु इन्द (आत्म) वस्तुविऩिडत्तिल् सन्देहम् उडैयवर्गळाय् इरुन्दार्गळ्। सादारण मक्कळुम् इत्तत्वत्तै केट्टुम् नऩ्ऱाग अऱियविल्लै। आगैयाल् इन्द आत्मा ऎऩप्पडुम् तर्मम् मिग सूक्ष्ममाऩदु। आगैयाल् नसिगेदऩ् वेऱु ऒरु पलम् अदावदु सन्देहम् इऩ्ऱिय पलत्तैक् केळ्। तऩमुडैयवऩ् कडऩ् पट्टवऩै इंसिप्पदु पोल् ऎऩ्ऩै इंसिक्कादे। इन्द वरत्तै ऎऩ् पॊरुट्टु विट्टु विडु।
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२ ॥
देवैरत्रापि विचिकित्सितं किलेति भवत एव नः श्रुतम्। त्वं च मृत्यो, यत् यस्मात् न सुज्ञेयम् आत्मतत्त्वम् आत्थ कथयसि। अतः पण्डितैरप्यवेदनीयत्वात् वक्ता च अस्य धर्मस्य त्वादृक् त्वत्तुल्यः अन्यः पण्डितश्च न लभ्यः अन्विष्यमाणोऽपि। अयं तु वरो निःश्रेयसप्राप्तिहेतुः। अतः न अन्यः वरः तुल्यः सदृशः अस्ति एतस्य कश्चिदपि। अनित्यफलत्वादन्यस्य सर्वस्यैवेत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इङ्गु तेवर्गळुम् कूड इन्द वस्तुविऩिडत्तिल् सन्देहमुडैयवर्गळाय् इरुन्दार्गळ् ऎऩ्ऱु उङ्गळिडमिरुन्दु अल्लवा नाङ्गळ् केट्टोम्। हे! मिरुत्युवे! नीङ्गळुम् आत्मदत्तुवत्तै नऩ्ऱाग तॆरिन्दु कॊळ्वदऱ्काऩ योगियदैयै तॆरिविक्कविल्लै। अदऩाल् पण्डिदर्गळालुम् अऱिय मुडियादलाल् इन्द तर्मत्तैप् पऱ्ऱि कूऱुवदिल् उङ्गळुक्कु समाऩमाग ऒरु पण्डिदरैयुम् ऎव्वळवु तेडिऩालुम् किडैक्कमाट्टार्गळ्। इन्द वरम् निस्स्रेयसिऩ् पॊरुट्टागुम्। आगैयाल् इदऱ्कु समाऩमाऩ वेऱु ऒऩ्ऱु किडैयादु। एऩ् ऎऩिल् मऱ्ऱ ऎल्लावरमुम् अनित्यबलम् उडैयदागुम् ऎऩ्बदु इदऩुडैय अबिप्रायम्।
एवमुक्तोऽपि पुनः प्रलोभयन्नुवाच मृत्युः —
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) इव्वाऱु नसिगेदऩ् कूऱिय पिऩ्बुम् मिरुत्युवाऩवर् अवऩै एमाऱ्ऱुवदऱ्काग कूऱुगिऱार्।
शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २३ ॥
शतायुषः शतं वर्षाणि आयूंषि येषां तान् शतायुषः पुत्रपौत्रान् वृणीष्व। किञ्च, गवादिलक्षणान् बहून् पशून् हस्तिहिरण्यम् , हस्ती च हिरण्यं च हस्तिहिरण्यम् , अश्वांश्च। किञ्च, भूमेः पृथिव्याः महत् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व। किञ्च, सर्वमप्येतदनर्थकं स्वयं चेदल्पायुरित्यत आह — स्वयं च त्वं जीव धारय शरीरं समग्रेन्द्रियकलापं शरदः वर्षाणि यावत् इच्छसि जीवितुम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) नूऱु आयुळ् उडैय पुत्तिरबौत्तिरर्गळै (मगऩ्गळ्, पेरऩ्गळै) वरमाग पॆऱ्ऱुक्कॊळ्। मेलुम् पसु मुदलिय लक्षक्कणक्काऩ अनेग पसुक्कळैयुम्, याऩैगळैयुम् तङ्गत्तैयुम्, कुदिरैगळैयुम्, अव्वाऱे मिग विस्तारणमाऩ निलत्तै उडैय राज्यत्तै वरमागप् पॆऱ्ऱुक्कॊळ्। मेलुम् उऩक्कु कुऱुगिय आयुळ् इरुन्दाल् इदॆल्लाम् वीणागुम्। आगैयाल् नी ऎदुवरै जीविक्क इच्चिक्किऱायो अदुवरै इन्द इन्दिरिय मुदलियवैगळै उडैय सरीरत्तै तरित्तुक् कॊण्डु इरु।
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २४ ॥
एतत्तुल्यम् एतेन यथोपदिष्टेन सदृशम् अन्यमपि यदि मन्यसे वरम् , तमपि वृणीष्व। किञ्च, वित्तं प्रभूतं हिरण्यरत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्येतत्। किं बहुना ? महाभूमौ महत्यां भूमौ राजा नचिकेतः त्वम् एधि भव। किञ्चान्यत् , कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि, सत्यसङ्कल्पो ह्यहं देवः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) मुऩ्बु अरुळियदऱ्कु सममाऩ वेऱु वरत्तैयो अल्लदु अदैक् काट्टिलुम् सिऱप्पाऩदु ऎऩ्ऱु नी ऎदै निऩैक्किऱायो अन्द वरत्तैयुम् केळ्। मेलुम् पॊऩ्, रत्तिऩङ्गळ् मुदलिय सॆल्वत्तैयुम् तीर्क्क कालम् वसित्तलैयुम् वरमाग केट्पायाग। हे!नसिगेद: अदिगमाग कूऱि ऎऩ्ऩ पयऩ्। नी विस्तारमाऩ पूमिक्कु राजावाग आवायाग। मेलुम् वेऱु कामऩैगळ् अदावदु तेवर्गळ्, मऩिदर्गळ् ऎदै विरुम्बुवार्गळो अत्तऩै कामऩैगळैयुम् नी विरुम्बियवाऱु अऩुबविप्पदऱ्कु अळिक्किऱेऩ्: एऩ् ऎऩिल् नाऩ् सत्यसङ्गल्बदेवऩ्।
ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व।
इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः ॥ २५ ॥
ये ये कामाः प्रार्थनीयाः दुर्लभाश्च मर्त्यलोके, सर्वान् तान् कामान् छन्दतः इच्छातः प्रार्थयस्व। किञ्च, इमाः दिव्या अप्सरसः, रमयन्ति पुरुषानिति रामाः, सह रथैर्वर्तन्त इति सरथाः, सतूर्याः सवादित्राः, ताश्च न हि लम्भनीयाः प्रापणीयाः ईदृशाः एवंविधाः मनुष्यैः मर्त्यैः अस्मदादिप्रसादमन्तरेण। आभिः मत्प्रत्ताभिः मया प्रदत्ताभिः परिचारिकाभिः परिचारयस्व आत्मानम् , पादप्रक्षालनादिशुश्रूषां कारयात्मन इत्यर्थः। हे नचिकेतः, मरणं मरणसम्बद्धं प्रश्नं प्रेत्यास्ति नास्तीति काकदन्तपरीक्षारूपं मा अनुप्राक्षीः मैवं प्रष्टुमर्हसि ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) मऩिद उलगत्तिल् ऎन्द ऎन्द कामऩैगळ् अवसियम् वेण्डप्पट्टवैयुम् मिगवुम् अरिदागुमो अन्द ऎल्ला कामऩैगळैयुम् नी वेण्डुवायाग, मेलुम् पुरुषर्गळै रमिक्कच् चॆय्वदाल् रामा: ऎऩप्पडुम् तेवलोगत्तु अप्सरसुगळ् रदङ्गळैक् कूडियवर्गळ्, सङ्गीद वात्तियङ्गळै उडैयवर्गळ् आगिय इव्वाऱु उळ्ळवर्गळ् ऎङ्गळैप् पोऩ्ऱवर्गळिऩ् पिरसादम् (अरुळ्) इऩ्ऱि वेऱु सादऩत्ताल् मऩिदर्गळाल् अडैय मुडियादु, ऎऩ्ऩाल् अळिक्कप्पट्ट परिच्चारिणिगळाल् (सेवै सॆय्बवर्गळाल्) परिच्चारम् (सेवैगळ्)सॆय्दु कॊळ्। अदावदु, अवर्गळैक् कॊण्डु उऩक्कु पादम् कऴुवुदल् मुदलिय सेवैगळै सॆय्दु कॊळ्वायाग ऎऩ्बदु पॊरुळ्। हे नसिगेद मरणत्तैक् कुऱिदु उयिर् पिरिन्द उडऩ् जीवऩ् इरुक्किऱदा? अल्लदु इल्लैया ऎऩ्ऱगेळ्वि कागत्तिऩ् पऱ्कळै ऎण्णुवदऱ्कु ऒप्पागुम्। आगैयाल् अदैक् कुऱित्तु केळ्वि नी ऎऴुप्पुवदु पॊरुन्दादु।
एवं प्रलोभ्यमानोऽपि नचिकेता महाह्रदवदक्षोभ्य आह —
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) इव्वाऱु पलवाराग तर्मराजऩ् कुऴप्पमेऱ्पडुत्तिय (आसैयै उण्डाक्किय) पोदिलुम्, कलक्कमुऱाद पॆरुङ्गुळम् पोल् नसिगेदऩ् कूऱलाऩाऩ्। (इह्दु ऎल्लावऱ्ऱिऩिऩ्ऱुम् विरक्ति अडैन्दवऩुम्, सम, तमादि कुणङ्गळोडु कूडियवऩुमे ञाऩमार्क्कत्तैप् पऱ्ऱिय उबदेसम् पॆऱत्तगुन्द अदिगारि ऎऩ्बदऩै विळक्कुगिऱदु इम्मन्दिरम्।)
श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६ ॥
श्वो भविष्यन्ति न वेति सन्दिह्यमान एव येषां भावो भवनं त्वयोपन्यस्तानां भोगानां ते श्वोभावाः। किञ्च, मर्त्यस्य मनुष्यस्य अन्तक हे मृत्यो, यत् एतत् सर्वेन्द्रियाणां तेजः तत् जरयन्ति अपक्षपयन्ति। अप्सरःप्रभृतयो भोगा अनर्थायैवैते, धर्मवीर्यप्रज्ञातेजोयशःप्रभृतीनां क्षपयितृत्वात्। यां चापि दीर्घजीविकां त्वं दित्ससि तत्रापि शृणु। सर्वं यद्ब्रह्मणोऽपि जीवितम् आयुः अल्पमेव, किमुतास्मदादिदीर्घजीविका। अतः तवैव तिष्ठन्तु वाहाः रथादयः, तथा तव नृत्यगीते च ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) (उङ्गळाल् अळिक्कप्पडुम् पोगङ्गळ्) नाळै इरुक्कुमो, इल्लामल् पोगुमो, ऎऩ्ऱु निच्चयमऱ्ऱदागुम्। उङ्गळाल् अळिक्कप्पडुम् पोगङ्गळ् नाळै इल्लामल् पोगुम्। हे म्रुत्यु! मेलुम् मऩिदर्गळिऩ् मुडिवै अळिप्पदु ऎदुवो अदु अप्सरस् मुदलिय पोगङ्गळ् अवैगळ् इन्दिरियङ्गळिऩ् तेजस्सै इल्लामल् सॆय्गिऱदु। तर्मम्, वीरियम्, पिरक्ञादेजस्यसस् (पुगऴ्) मुदलियवैगळै नसिक्कच् चॆय्वदाल् अवैगळ् अनर्त्तङ्गळे। नीङ्गळ् ऎन्द नीण्डायुळै कॊडुत्तीर्गळो अदैक् कुऱित्तुम् केळुङ्गळ्, पिरह्मा मुदल् ऎदु ऎल्लाम् जीविक्किऱदो अदुवॆल्लाम् अल्ब आयुळे। ऎऩ्ऩवॆऩ्ऱु कूऱुवदु नम्मुडैय तीर्क्क आयुळै। आगैयाल् रद मुदलियवैगळुम् अव्वाऱे नडऩम् कीदम् मुदलियवैगळुम् उङ्गळिडमे इरुक्कट्टुम्।
किञ्च-
ज्ञानानन्द-भारती - द्राविडी
मेलुम्
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७ ॥
न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः। न हि लोके वित्तलाभः कस्यचित्तृप्तिकरो दृष्टः। यदि नामास्माकं वित्ततृष्णा स्यात् , लप्स्यामहे प्राप्स्यामहे वित्तम् , अद्राक्ष्म दृष्टवन्तो वयं चेत् त्वा त्वाम्। जीवितमपि तथैव — जीविष्यामः यावत् याम्ये पदे त्वम् ईशिष्यसि ईशिष्यसे प्रभुः स्याः। कथं हि मर्त्यस्त्वया समेत्याल्पधनायुर्भवेत् ? वरस्तु मे वरणीयः स एव यदात्मविज्ञानम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) मऩिदऩ् मिगुन्द सॆल्वत्तिऩाल् तिरुप्ति अडैयमाट्टाऩ्। उलगिल् ऒरुवरुम् सॆल्वत्तै अडैन्ददाल् तिरुप्ति अडैन्ददागप् पार्क्कप्पडविल्लै। ऎङ्गळुक्कु सॆल्वत्तिल् आसैयिरुन्दाल् उङ्गळैप् पार्त्तदिऩालेये इन्द सॆल्वम् किडैत्तिरुक्कुम्। अव्वाऱे जीविदमुम् (आयुळुम्) किडैत्तिरुक्कुम्। नीङ्गळ् ऎदु वरैयिल् यम पदवियिल् यजमाऩऩाग इरुन्दु कॊण्डु नडत्तिक् कॊण्डिरुक्किऱीर्गळो (सासऩै सॆय्दु कॊण्डिरुक्किऱीर्गळो) अदु वरै नाङ्गळ् जीवित्तुक् कॊण्डिरुप्पोम्। मऩिदऩ् उङ्गळै अडैन्दु ऎव्वाऱु अल्बदऩमुम्, आयुळुम् उडैयवऩाग आवाऩ्? अन्द वरमाऩदु आत्म विक्ञाऩमाय् इरुन्दाल् मट्टुमे वरमाग केट्क वेण्डुम्।
यतश्च
ज्ञानानन्द-भारती - द्राविडी
एऩॆऩ्ऱाल्
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ २८ ॥
अजीर्यतां वयोहानिमप्राप्नुवताम् अमृतानां सकाशम् उपेत्य उपगम्य आत्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन् उपलभमानः स्वयं तु जीर्यन् मर्त्यः जरामरणवान् क्वधःस्थः कुः पृथिवी अधश्चासावन्तरिक्षादिलोकापेक्षया तस्यां तिष्ठतीति क्वधःस्थः सन् कथमेवमविवेकिभिः प्रार्थनीयं पुत्रवित्ताद्यस्थिरं वृणीते ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) वयदु कारणमाग तेय्वु, मुदिऱ्सि, मुदलियवैगळ् अऱ्ऱवर्गळुम्, मरण तर्मम् अऱ्ऱवर्गळुमाऩ तेवर्गळाल् तङ्गळ् पोऩ्ऱोरिऩ् पक्कत्तिल् नॆरुङ्गिय पिऩ् अत्तगैय उत्तमर्गळिडत्तिल् उत्तम पुरुषार्त्तम् उळ्ळदु ऎऩ्ऱु अऱिन्दुळ्ळवऩ्। अन्दरिक्षादि लोगङ्गळुक्कुक् कीऴे उळ्ळ मण्णुलगिल् वाऴ्बवऩुम्, मेलुम् तऩक्कुक् कीऴाऩ मऩैवि, मक्कळ् पाल् आसै कॊण्डवऩुम् मूप्पु, मरणम्, इवैगळैक् कॊण्डवऩाऩ अविवेग मऩिदऩाल् वेण्डप्पडुम् पुत्तिरऩ्, सॆल्वम्, पॊऩ्, मुदलाऩ अस्तिर पॊरुळ्गळै ऎव्वाऱु वेण्डुवाऩ्।
‘क्व तदास्थः’ इति वा पाठान्तरम्। अस्मिन्पक्षे चैवमक्षरयोजना— तेषु पुत्रादिषु आस्था आस्थितिः तात्पर्येण वर्तनं यस्य स तदास्थः। ततोऽधिकतरं पुरुषार्थं दुष्प्रापमपि अभिप्रेप्सुः क्व तदास्थो भवेत् ? न कश्चित्तदसारज्ञस्तदर्थी स्यादित्यर्थः। सर्वो ह्युपर्युपर्येव बुभूषति लोकः। तस्मान्न पुत्रवित्तादिलोभैः प्रलोभ्योऽहम्। किञ्च, अप्सरःप्रमुखान् वर्णरतिप्रमोदान् अनवस्थितरूपतया अभिध्यायन् निरूपयन् यथावत् अतिदीर्घे जीविते कः विवेकी रमेत ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) क्व तथास्थ (क्व तदास्त्त) ऎऩ्बदु पाडन्दरम्। इन्द पषत्तिल् अक्षरत्तैच् चेर्क्कवेण्डुम्। अन्द पुत्तिरऩ् मुदलियवैगळिल् आस्त्ता (आसै, पऱ्ऱु) ऎऩ्बदु अदऩ् परमाऩ (अदैक् कुऱित्ते उळ्ळ) पिरविर्त्तियाम्। अदिल् असारत्तै अऱिन्दवऩ् ऒरुवऩुम् अदिल् इच्चै कॊळ्ळमाट्टाऩ्। एऩ् ऎऩिल् ऎल्लोरुम् मेलुम् मेलुम् मेऩ्मैयै अडैय विरुम्बुगिऩ्ऱऩर्। आगैयाल् पुत्तिरऩ् तऩम् मुदलियवैगळिल् लोबत्तै अडैयमाट्टार्गळ्। अव्वाऱे वर्ण रागत्तिऩाल् अडैयप्पडुम् अप्सरस् मुदलिय सुगङ्गळिल् अस्तिरत्तऩ्मैयै पावऩै सॆय्दु अदै मित्या रूबमाय् अऱिन्द विवेगि पुरुषऩ् अदिग कालम् जीविप्पदऱ्कु ऎव्वाऱु इच्चिप्पाऩ्।
अतो विहायानित्यैः कामैः प्रलोभनम् , यन्मया प्रार्थितं
ज्ञानानन्द-भारती - द्राविडी
ऽ आगैयाल् अनित्यमाऩ् कामऩैगळाल् ऎऩ्ऩै वऴिमाऱ्ऱुवदै विडुत्तु, नाऩ् केट्ट मरण विषयमाऩ केळ्विक्कु पदिल् कूऱुङ्गळ् ऎऩ्ऱु वेण्डुगिऱेऩ्।
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९ ॥
यस्मिन् प्रेते इदं विचिकित्सनं विचिकित्सन्ति अस्ति नास्तीत्येवंप्रकारं हे मृत्यो, साम्पराये परलोकविषये महति महाप्रयोजननिमित्ते आत्मनो निर्णयविज्ञानं यत् , तत् ब्रूहि कथय नः अस्मभ्यम्। किं बहुना, योऽयं प्रकृत आत्मविषयः वरः गूढं गहनं दुर्विवेचनं प्राप्तः अनुप्रविष्टः, तस्मात् वरात् अन्यम् अविवेकिभिः प्रार्थनीयमनित्यविषयं वरं नचिकेताः न वृणीते मनसापि इति श्रुतेर्वचनमिति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) हे मिरुत्यो! मरणत्तिऱ्कुप् पिऩ् इरुक्किऩ्ऱदु इल्लै ऎऩ्ऱ विषयत्तिल् सन्देहम् उण्डागिऱदो ऎन्द विषयमाऩदु (ऎन्द आऩ्मावैप् पऱ्ऱि निर्णयिक्कक्कूडिय विषयमाऩदु) परलोग विषयत्तिल् पॆरुम् पयऩैयडैयक् कारणमो अदैक् कूऱुवीराग। अदिगम् कूऱुवाऩेऩ् ऎन्द इन्द आऩ्मा विषयत्तैप् पऱ्ऱिय वरमाऩदु विळक्कक् कडिऩमाऩदो मिगवुम् रहस्यमाऩदो आगैयाल् अदऩिऩ्ऱुम् वेऱुबट्ट मऱ्ऱॊरु वरत्तै नसिगेदऩ् मऩदालुम् केट्कमाट्टाऩ् ऎऩ्बदु सुरुदियिऩ् वाक्कियमागुम्।
इति प्रथमवल्लीभाष्यम् ॥
द्वितीया वल्ली
परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) सिष्यऩै परीक्षित्तु अवऩुक्कु आत्म वित्तैयै अऱिवदऱ्काऩ तगुदियिरुप्पदऩै उणर्न्द तर्मराजऩ् मेलुम् कूऱलाऩार्।
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥
अन्यत् पृथगेव श्रेयः निःश्रेयसं तथा अन्यत् उतैव अपि च प्रेयः प्रियतरमपि ते श्रेयःप्रेयसी उभे नानार्थे भिन्नप्रयोजने सती पुरुषम् अधिकृतं वर्णाश्रमादिविशिष्टं सिनीतः बध्नीतः। ताभ्यां विद्याविद्याभ्यामात्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः। प्रेयःश्रेयसोर्हि अभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते। अतः श्रेयःप्रेयःप्रयोजनकर्तव्यतया ताभ्यां बद्ध इत्युच्यते सर्वः पुरुषः ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) (च्रेयस् मोक्षत्तिऱ्कु सादऩमाऩ (आऩ्म) ञाऩम्) नमक्कु विरुप्पमाऩ मेऩ्मैगळै अल्लदु इऩ्बङ्गळै अळिक्कुम् ज्योदिष्टोम यागङ्गळैप् पऱ्ऱिय ञाऩङ्गळैक् काट्टिलुम् वेऱुबट्टदु। अव्वाऱे प्रेयस् नमक्कु इऩ्बङ्गळैत् तरवल्ल कर्म ञाऩमाऩदु मोक्ष सादऩमाऩ आऩ्म ञाऩङ्गळैक् काट्टिलुम् वेऱुबट्टदु। वॆव्वेऱु पिरयोजऩङ्गळै उडैय अन्दच्स्रेयस्, प्रेयस् ऎऩ्ऱ इरण्डुम् वर्णम्, आस्रमम्, वयदु, अवस्तै, इवैगळुडऩ् कूडिय मऩिदऩै कट्टुप्पडुत्तुगिऱदु। आगैयाल् ऎल्ला पुरुषर्गळैयुम् अवै इरण्डुम् तङ्गळुडैय कर्त्तव्यङ्गळाग ईडुबडुत्तुगिऱदु। अप्युदयत्तिलुम् (अदावदु तोऩ्ऱुगिऩ्ऱ पलऩ्गळिलुम्) अम्रुदत्तिलुम् अडैय वेण्डुम् ऎऩ्ऱ विरुप्पमुळ्ळवऩै च्रेयसिलुम् पिरेयसिलुम् पिरविर्त्तिक्कच् चॆय्गिऱदु। आगैयाल् ऎल्ला पुरुषर्गळुम् च्रेयस् अल्लदु प्रेयस् इवैगळिऩ् पयऩै अडैवदऱ्काग ताम् सॆय्य वेण्डियवऩाग ऎण्णि ईडुबडुगिऱार्गळ्।
ते यद्यप्येकैकपुरुषार्थसम्बन्धिनी विद्याविद्यारूपत्वाद्विरुद्धे इत्यन्यतरापरित्यागेनैकेन पुरुषेण सहानुष्ठातुमशक्यत्वात्तयोः हित्वा अविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्य उपादानं कुर्वतः साधु शोभनं शिवं भवति। यस्त्वदूरदर्शी विमूढो हीयते वियुज्यते अर्थात् पुरुषार्थात्पारमार्थिकात्प्रयोजनान्नित्यात् प्रच्यवत इत्यर्थः। कोऽसौ ? य उ प्रेयः वृणीते उपादत्ते इत्येतत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अवै इरण्डुम् तऩित्तऩियाग पुरुषार्त्त सम्बन्दमुडैय वित्या, अवित्या रूबमाय् विरुत्तमाय् इरुप्पदाल् ऒऩ्ऱैविडामल् ऒरे पुरुषऩाल् अऩुष्ट्टाऩम् सॆय्य मुडियाददाल् अवै इरण्डिऩुळ् अवित्या रूबमागिय पिरेयस्सै विट्टु च्रेयस् मार्क्कत्तै मट्टुमे कडैबिडिप्पवऩे सादु, सोबऩमाऩवऩ्, मङ्गळमाऩवऩ् आगिऱाऩ्। ऎवऩ् ऒरुवऩ् कुऱुगिय पार्वैयुडऩ् मूडऩाय् इरुक्किऱाऩो अवऩ् इन्द पुरुषार्त्तमागिय पारमार्ददिगमाऩ नित्यत्तिलिरुन्दु नऴुवुगिऱाऩ् ऎऩ्बदु पॊरुळ्। अवऩ् यार्? ऎऩिल् इन्द प्रेयस् मार्क्कत्तै कडैबिडिप्पवऩागुम् ऎऩ्बदागुम्।
यद्युभे अपि कर्तुं स्वायत्ते पुरुषेण, किमर्थं प्रेय एवादत्ते बाहुल्येन लोक इति, उच्यते।
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) च्रेयस्, प्रेयस्, ऎऩ्ऱ इव्विरण्डिल् अवरवर् इष्टम् पोल् ऒऩ्ऱैविडुत्तु, मऱ्ऱॊऩ्ऱै एऱ्पदिल् सुदन्दिरम् इरुन्दुम्, एऩ् उलगोर् अदिगमाग च्रेयसै विडुत्तुप् प्रेयसै एऱ्किऩ्ऱऩर् ऎऩ्बदऱ्काऩ कारणत्तै विळक्कप् पोवदु इम्मन्दिरम्।
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २ ॥
सत्यं स्वायत्ते ; तथापि साधनतः फलतश्च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूते इव मनुष्यं पुरुषम् आ इतः एतः प्राप्नुतः श्रेयश्च प्रेयश्च। अतो हंस इवाम्भसः पयः, तौ श्रेयःप्रेयःपदार्थौ सम्परीत्य सम्यक्परिगम्य मनसा आलोच्य गुरुलाघवं विविनक्ति पृथक्करोति धीरः धीमान्। विविच्य च श्रेयो हि श्रेय एव अभिवृणीते प्रेयसोऽभ्यर्हितत्वाच्छ्रेयसः। कोऽसौ ? धीरः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) तऩक्कु स्वदन्दिरम् इरुप्पदु उण्मैये। अप्पडि इरुन्द पोदिलुम् सिरेयसूम्, प्रेयसूम्, सादऩत्तालुम् पलत्तालुम् मन्द पुत्ति उळ्ळवर्गळ्, नल्ल विवेगम् इल्लामल् इरुक्कुम् पॊऴुदु मयक्कमडैन्दवऩ् पोल् मऩिदऩ् इन्द प्रेयस्सै मेऱ्कॊळ्गिऱऩ्। आगैयाल् हंसम् तण्णीरैयुम्, पालैयुम् पिरिप्पदु पोल् अव्विरु च्रेयस्, प्रेयस् आगिय पदार्त्तङ्गळै नऩ्ऱाग मऩदिल् आलोसित्तु परीक्षित्तु ऎदु मेलाऩदु, कीऴाऩदु ऎऩ्ऱु तीरऩ् तऩियागप् पिरित्तु अऱिगिऱाऩ्। अव्वाऱु आलोसित्तु प्रेयस्सैक् काट्टिलुम् सिरेयस् मेलाऩदु ऎऩ्ऱु अऱिन्दु अदै मेऱ्कॊळ्गिऱाऩ्। अन्द तीरऩ् यार् ऎऩिल्? अवऩे पुत्तिमाऩ् ऎऩप्पडुगिऱाऩ्।
यस्तु मन्दः अल्पबुद्धिः सः सदसद्विवेकासामर्थ्यात् योगक्षेमात् योगक्षेमनिमित्तं शरीराद्युपचयरक्षणनिमित्तमित्येतत्। प्रेयः पशुपुत्रादिलक्षणं वृणीते ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इदैक् काट्टिलुम् विबरीद मन्द अल्ब पुत्तियुडैयवऩ् विवेग पुत्ति अऱ्ऱदाल् योग क्षमेत्तिऩ् पॊरुट्टु सरीर मुदलियवैगळिऩ् विरुत्तियिऩ् पॊरुट्टुम्, रक्षिप्पदिऩ् पॊरुट्टुम् अन्द पसु पुत्तिररूबमाऩ प्रेयस्सै मेऱ्कॊळ्गिऱाऩ्।
स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥
स त्वं पुनः पुनः मया प्रलोभ्यमानोऽपि प्रियान् पुत्रादीन् प्रियरूपांश्च अप्सरःप्रभृतिलक्षणान् कामान् अभिध्यायन् चिन्तयन् तेषामनित्यत्वासारत्वादिदोषान् हे नचिकेतः, अत्यस्राक्षीः अतिसृष्टवान् परित्यक्तवानसि ; अहो बुद्धिमत्ता तव। न एताम् अवाप्तवानसि सृङ्कां सृतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयीं धनप्रायाम् ; यस्यां सृतौ मज्जन्ति सीदन्ति बहवः अनेके मूढा मनुष्याः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) हे! नसिगेद! अन्द नी मऱुबडियुम् मऱुबडियुम् उऩ्ऩै आसैक् काट्टिक् कॊण्डिरुन्दालुम् अऩ्बाऩ पुत्तिरर्गळैयुम् (अऴगाऩ) पिरियमाऩ अप्सरस् मुदऱ्कॊण्डु उळ्ळ लक्षणङ्गळै उडैय कामऩैगळै परीक्षित्तु अवैगळुडैय अनित्यत्तुवम् असारत्तुवम् मुदलिय तोषङ्गळै कळैन्दवऩागिऱाय् (विट्टवऩागिऱाय्) उऩ्ऩुडैय पुत्ति पोऱ्ऱुदलुक्कु उरियदु। इन्द अल्बमाऩ मूडर्गळागिय मऩिदर्गळुडैय विरुप्पमागिय सॆल्वङ्गळै नी अडैय माट्टाय्। आऩाल् अनेग मूड जऩङ्गळ् अदिल् मूऴ्गि किडक्किऱार्गळ्।
‘तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते’ इति ह्युक्तम् ; तत्कस्मात् ? यतः
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) (अऩुवादम्) अवै इरण्डिऩुळ् च्रेयस्सै रषित्तुक् कॊळ्बवऩुक्कु नऩ्मै एऱ्पडुगिऱदु। प्रेयस्सै ऎडुत्तुक् कॊण्डाल् अवऩै नासम् सॆय्दु विडुम् अप्पडि इरुक्किऩुम् ऎदऱ्काग प्रेयस्सै किरहित्तुक् कॊळ्ळुम् पडि कूऱियदऱ्कुक् कारणम् ऎऩ्ऩ ऎऩिल्।
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४ ॥
दूरं दूरेण महतान्तरेण एते विपरीते अन्योन्यव्यावृत्तरूपे विवेकाविवेकात्मकत्वात् तमःप्रकाशाविव विषूची विषूच्यौ नानागती भिन्नफले संसारमोक्षहेतुत्वेनेत्येतत् ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) नाना कदियुम् वॆव्वेऱु पलऩ्गळुडऩ् कूडिय संसार निवर्त्तिक्कु इवै इरण्डुम् इरुळुम् पिरगासमुम् पोल् विवेगम्, अविवेगम् उडैयवगळाय् इरुप्पदाल् तूरम् ऎऩप्पट्टदु नाना विदमाऩ कदिगळैयुम् वॆव्वेऱु पलऩ्गळैयुम् उडैय संसारत्तिलिरुन्दु विडुबड कारणमाय् इरुप्पदाल् ऎऩप्पट्टदु।
के ते इति, उच्यते। या च अविद्या प्रेयोविषया विद्येति च श्रेयोविषया ज्ञाता निर्ज्ञाता अवगता पण्डितैः। तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वामहं मन्ये। कस्मात् ? यस्मादविद्वद्बुद्धिप्रलोभिनः कामाः अप्सरःप्रभृतयः बहवोऽपि त्वा त्वां न अलोलुपन्त न विच्छेदं कृतवन्तः श्रेयोमार्गादात्मोपभोगाभिवाञ्छासम्पादनेन। अतो विद्यार्थिनं श्रेयोभाजनं मन्ये इत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अवै इरण्डुम् ऎवै ऎऩ्ऱु कूऱुगिऱार्। पण्डिदर्गळाल् अवित्या प्रेयस् विषयम् ऎऩ्ऱुम्, वित्या ऎऩ्बदु स्रेयस् विषयम् ऎऩ्ऱुम् अऱियप्पट्टदागुम्। अन्द विषयत्तिल् नसिगेदऩागिय नी वित्तैयै अऱिवदिल् तीविर इच्चै उडैयवऩाय् इरुक्किऱाय् ऎऩ्ऱु करुदुगिऱेऩ्। एऩ् ऎऩिल् नी स्रेयो मार्क्कत्ताल् आत्म अऩुबवत्तिल् इच्चैयै सम्बादित्तदाल् अवित्वाऩ्गळिऩ् पुत्तियै सञ्जलिक्कुम् अप्सरस् मुदलिय कामऩैगळ् अनेगम् इरुन्दालुम् अवैगळ् उऩ्ऩै असैक्क मुडियादु। आगैयाल् उऩ्ऩैच् च्रेयसिऱ्कु पात्तिरमाऩ वित्यार्त्तियाग करुदुगिऱेऩ् ऎऩ्बदु अबिप्रायम्
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥
ये तु संसारभाजो जनाः-
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) ऎवर्गळ् संसारत्तिऱ्कु पात्तिरमाऩवर्गळ्
अविद्यायाम् अन्तरे मध्ये घनीभूत इव तमसि वर्तमानाः वेष्ट्यमानाः पुत्रपश्वादितृष्णापाशशतैः, स्वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्रकुशलाश्चेति मन्यमानाः ते दन्द्रम्यमाणाः अत्यर्थं कुटिलामनेकरूपां गतिं गच्छन्तः जरामरणरोगादिदुःखैः परियन्ति परिगच्छन्ति मूढाः अविवेकिनः अन्धेनैव दृष्टिविकलेनैव नीयमानाः विषमे पथि यथा बहवः अन्धाः महान्तमनर्थमृच्छन्ति, तद्वत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎवर्गळ् संसारत्तिऱ्कु पात्तिरमाऩवर्गळ् तिडमाऩ अन्दगारत्तैप् पोल् अवित्तैयिल् इरुन्दुक्कॊण्डु पुत्तिरऩ्, पसु मुदलियवैगळिल् उळ्ळ त्रुष्णा (आसै) ऎऩ्ऱ नू ऱ्ऱुक्कणक्काऩ पास वलैगळाल् सूऴप्पट्टवर्गळ् ताङ्गळे तङ्गळै नाङ्गळ् तीरर्गळ्, पिरक्ञै उडैयवर्गळ् पण्डिदर्गळ् सास्तिरत्तिल् मिगुन्द सामर्त्तियम् उळ्ळवर्गळ् ऎऩ्ऱु करुदिक्कॊण्डु कीऴाऩ अनेग रूबङ्गळैउडैय कदिगळै इच्चित्तवर्गळागिय मूडर्गळाऩ अविवेगिगळ् पार्वैयऱ्ऱ कुरुडऩाल् कडिऩ पादैयिल् अऴैत्तुच् चॆल्लप्पट्टवर्गळाय् अनेग कुरुडर्गळ् मिगप् पॆरिय अनर्त्तत्तै विरुम्बुवदु पोल् (अडैवदु पोल्) मूप्पु, मरणम्, रोगम् मुदलिय तुक्कङ्गळै अडैगिऱार्गळ्।
अत एव मूढत्वात्
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) अदऩालेये मूडत् तऩ्मैयिऩ् कारणमाग
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६ ॥
न साम्परायः प्रतिभाति। सम्परेयत इति सम्परायः परलोकः, तत्प्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः। स च बालम् अविवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठत इत्येतत् ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) साम्बरायम् विळङ्गुवदु इल्लै। परलोगप् पिराप्तियै अळिप्पदु साम्ब्रायम्। परलोगप्राप्त्ति ऎदऩुडैय पिरयोजऩम् ऎऩिल् सास्त्रीयमाऩ सादऩ विसेषमागिय साम्बरायमागुम्। अदावदु अविवेगिगळुक्कु विळङ्गादु, अडैय मुडियाददु आगुम्।
प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेष्वासक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेनाविवेकेन मूढं तमसाच्छन्नम्। स तु अयमेव लोकः योऽयं दृश्यमानः स्त्र्यन्नपानादिविशिष्टः नास्ति परः अदृष्टो लोकः इत्येवं मननशीलः मानी पुनः पुनः जनित्वा वशम् अधीनताम् आपद्यते मे मृत्योर्मम। जननमरणादिलक्षणदुःखप्रबन्धारूढ एव भवतीत्यर्थः। प्रायेण ह्येवंविध एव लोकः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) पुत्तिरऩ्, पसु मुदलिय पलऩ्गळिऩ् पऱ्ऱुडैयवऩ्, अव्वाऱे सॆल्वत्तिल् मोहत्तिऩ् कारणमाग अविवेगत्तिऩाल् तमसाल् मऱैक्कप्पट्टु पिरमादत्तै अडैन्द मूडऩ् ऎन्दस्तीरी, अऩ्ऩम्, पाऩङ्गळ् मुदलियवैगळुडऩ् कूडिय इन्द त्रुच्यलोगत्तैक् काट्टिलुम् वेऱु परलोगम् इल्लै ऎऩ्ऱु करुदुगिऱवऩ् मीण्डुम्, मीण्डुम् पिऱन्दु म्रुत्युवागिय ऎऩ्ऩुडैय अदीऩत्तै अडैगिऱाऩ् (ऎऩ् वसमागिऱाऩ्)। जऩऩ मरण मुदलिय लक्षणङ्गळुडऩ् कूडिय तुक्कङ्गळिल् पन्दप्पडुगिऱाऩ् ऎऩ्बदु पॊरुळ्। इव्वाऱागवे इन्द लोगम् इरुक्किऱदु।
यस्तु श्रेयोर्थी स सहस्रेषु कश्चिदेवात्मविद्भवति त्वद्विधः यस्मात्
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) उऩ्ऩैप् पोऩ्ऱु आयिरत्तिल् ऒरुवऩ् च्रेयस् मार्क्कत्तिल् विरुप्पमुळ्ळवऩ् आत्मवित् आगिऩ्ऱाऩ् एऩ्ऎऩिल्।
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥
श्रवणायापि श्रवणार्थं श्रोतुमपि यः न लभ्यः आत्मा बहुभिः अनेकैः, शृण्वन्तोऽपि बहवः अनेके अन्ये यम् आत्मानं न विद्युः न विदन्ति अभागिनः असंस्कृतात्मानो न विजानीयुः। किञ्च, अस्य वक्तापि आश्चर्यः अद्भुतवदेव, अनेकेषु कश्चिदेव भवति। तथा श्रुत्वापि अस्य आत्मनः कुशलः निपुण एवानेकेषु लब्धा कश्चिदेव भवति। यस्मात् आश्चर्यः ज्ञाता कश्चिदेव कुशलानुशिष्टः कुशलेन निपुणेनाचार्येणानुशिष्टः सन् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) च्रवणम् सॆय्दुम् ऎवऩ् आत्मावै अऱियविल्लैयो अवऩ् अदिगमाग केट्टिरुन्दालुम् अवऩ् आत्मावै अऱियादवऩ् पण्बडुत्तप्पडादवऩ्, आगैयाल् अवऩाल् अऱिय मुडियादु। मेलुम् अदैच् चॊल्बवऩुम् (उबदेसम् सॆय्बवऩुम्) आच्चरियमाऩवऩ्। अनेगरुळ् ऎवऩो ऒरुवऩे आवाऩ्। अव्वाऱे अनेगम् पेर् केट्टिरुन्दालुम् अदिल् ऎवऩो ऒरु सामर्त्तियसालिक्के आत्मा अडैयप्पट्टदागुम्। एऩ् ऎऩिल् निबुऩऩाऩ (सामर्त्तियसालियाऩ) ऒरु आच्चारियराल् उबदेसम् पॆऱ्ऱु अदै अऱिन्द ञादावुम् आच्चरियमागवेयागिऱाऩ्।
कस्मात् ?
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) एऩ् अदु अत्तगैयदु ऎऩ्बदऩै विळक्कुवदु इम्मन्दिरम्।
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः।
अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान्ह्यतर्क्यमणुप्रमाणात् ॥ ८ ॥
न हि नरेण मनुष्येण अवरेण प्रोक्तः अवरेण हीनेन प्राकृतबुद्धिनेत्येतत्। उक्तः एषः आत्मा यं त्वं मां पृच्छसि। न हि सुष्ठु सम्यक् विज्ञेयः विज्ञातुं शक्यः यस्मात् बहुधा अस्ति नास्ति कर्ताकर्ता शुद्धोऽशुद्ध इत्याद्यनेकधा चिन्त्यमानः वादिभिः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इव्वाऱु कूऱप्पट्ट इन्द आत्मावै कुऱित्तु नी ऎऩ्ऩैक् केट्किऱाय् सादारण मऩिदऩाल् उबदेसिक्कप्पट्टदाऩाल् सादारण पुत्ति उळ्ळवऩाल् अऱिन्दु कॊळ्ळ मुडियादु। एऩ् ऎऩिल् पलविदमाग इरुक्किऱदु, इल्लै, कर्त्ता, अगर्त्ता, सुत्तम्, असुत्तम् मुदलिय अनेग विदमाग सिन्दऩै उडैय वादिगळाल् नऩ्ऱाग (तॆळिवाग) अऱिय मुडियादु।
कथं पुनः सुविज्ञेय इति, उच्यते — अनन्यप्रोक्ते अनन्येन अपृथग्दर्शिनाचार्येण प्रतिपाद्यब्रह्मात्मभूतेन प्रोक्ते उक्ते आत्मनि गतिः, अनेकधा अस्तिनास्तीत्यादिलक्षणा चिन्ता गतिः, अत्र अस्मिन्नात्मनि नास्ति न विद्यते सर्वविकल्पगतिप्रत्यस्तमितरूपत्वादात्मनः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎल्ला विगल्बगदिगळुम् आत्माविऱ्कु इल्लाददाल् आत्मावैत् तविरवेऱु ऒऩ्ऱुम् तऩियाग इल्लै ऎऩ्ऱु पिरह्मस्वरूबमागवे आऩ आच्चारियराल् पिरदिबादिक्कप्पट्ट (विळक्कप्पट्ट) आत्माविडत्तिल् इरुक्किऱदु, इल्लै ऎऩ्बदु मुदलिय लक्षणङ्गळुडैय कदिगळ् इल्लै।
अथवा स्वात्मभूते अनन्यस्मिन् आत्मनि प्रोक्ते अनन्यप्रोक्ते गतिः अत्र अन्यावगतिर्नास्ति ज्ञेयस्यान्यस्याभावात्। ज्ञानस्य ह्येषा परा निष्ठा यदात्मैकत्वविज्ञानम्। अतः गन्तव्याभावान्न गतिरत्रावशिष्यते संसारगतिर्वात्र नास्त्यनन्य आत्मनि प्रोक्ते नान्तरीयकत्वात्तद्विज्ञानफलस्य मोक्षस्य ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अल्लदु (अऱिबवऩैक् काट्टिलुम्) अऱिबडुम् पॊरुळ् वेऱाग इल्लाददाल् स्वात्मावाग इरुक्कुम्, तऩ्ऩैक् काट्टिलुम् वेऱागाद आत्मा कूऱप्पट्ट पॊऴुदु वेऱु कदि इल्लै, आत्म एगत्तुवविक्ञाऩमे ञाऩत्तिऩ् (परा) मेलाऩ निष्ट्टैयागुम्। आगैयाल् इङ्गे अडैयप्पड वेण्डियदु इल्लै। आदलाल् इङ्गु कदि ऎऩ्बदु इल्लै। अऩऩ्य (वेऱु अल्लाद) आत्मा उबदेसिक्कप्पट्ट पॊऴुदु संसार कदि इल्लै। अव्वाऱे अदैक् काट्टिलुम् वेऱु इल्लाददाल् विक्ञाऩ पलमागिय मोक्षत्तिऱ्कुम् वेऱु कदि इल्लै।
अथवा प्रोच्यमानब्रह्मात्मभूतेनाचार्येण अनन्यतया प्रोक्ते आत्मनि अगतिः अनवबोधोऽपरिज्ञानमत्र नास्ति। भवत्येवावगतिस्तद्विषया श्रोतुस्तदनन्योऽहमित्याचार्यस्येवेत्यर्थः ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अल्लदु पिरह्मात्म पावत्तै अडैन्द आच्चारियराल् उबदेसिक्कप्पट्टदु। उबदेसिक्कप्पट्टवऩाल् पुरिन्दु कॊळ्ळामल् इरुक्क मुडियादु। केट्टवऩ् (सिरवणित्तवऩ्) ताऩ् अदुवाग इरुक्किऱेऩ् ऎऩ्ऱ अन्द आत्म विषयत्तिऩ् ञाऩम् आच्चारियरैप् पोल् एऱ्पडुम्ऎऩ्बदु पॊरुळ्।
एवं सुविज्ञेय आत्मा आगमवताचार्येणानन्यतया प्रोक्तः। इतरथा अणीयान् अणुतरः अणुप्रमाणादपि सम्पद्यत आत्मा। अतर्क्यम् अतर्क्यः, अणुप्रमाणो न तर्क्यः स्वबुद्ध्यभ्यूहेन केवलेन तर्केण। तर्क्यमाणेऽणुपरिमाणे केनचित्स्थापिते आत्मनि ततोऽणुतरमन्योऽभ्यूहति ततोऽप्यन्योऽणुतरमिति। न हि तर्कस्य निष्ठा क्वचिद्विद्यते ॥
ज्ञानानन्द-भारती - द्राविडी
अऩुवादम्) इव्वाऱु वेदसास्त्तिरत्तै नऩ्गु अऱिन्द आच्चारियराल् तऩ्ऩैत् तविर वेऱु अल्ल ऎऩ्ऱु कूऱप्पट्ट आत्मावै नऩ्ऱाग अऱिन्दु कॊळ्ळ वेण्डुम्, मऱ्ऱवर्गळाल् कूऱप्पडुम् आत्मावाऩदु अणुवागुम्। आगैयाल् सुय पुत्तियिऩाल् केवलम् ऊगिक्क मुडियादु। ऒरुवऩ् तर्क्कम् सॆय्दु आत्मा तर्क्कत्तिऩाल् अणु अळवे उळ्ळदु ऎऩ्ऱु कूऱिऩाल् इरण्डावाऩ्, अदै विड अणुमात्तिरम् ऎऩ्बाऩ्। अव्वाऱे मूऩ्ऱामवऩुम् इव्वाऱे मुऱ्ऱिलुम् अणुवैये निलै नाट्टुवाऩ् ऎऩ्बदु तॆळिवागिऱदु। एऩ् ऎऩिल् कुदर्क्कत्तिऱ्कु इरुप्पु ऎऩ्बदे किडैयादु।
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥
अतोऽनन्यप्रोक्त आत्मन्युत्पन्ना येयमागमप्रभवा मतिः, नैषा तर्केण स्वबुद्ध्यभ्यूहमात्रेण आपनेया नापनीया न प्रापणीयेत्यर्थः ; नापनेतव्या वा ; नोपहन्तव्या। तार्किको ह्यनागमज्ञः स्वबुद्धिपरिकल्पितं यत्किञ्चिदेव कल्पयति। अत एव च येयमागमप्रभूता मतिः अन्येनैव आगमाभिज्ञेनाचार्येणैव तार्किकात् , प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) आगैयाल् आगम तर्सियागिय आच्चारियार् वायिलाग उबदेसम् सॆय्यप्पट्ट आत्माविडत्तिल् उण्डाऩ सास्तिरङ्गळिल् कूऱप्पट्ट आत्म विषयमाऩ पुत्ति(मदि)याऩदु इन्द तर्क्कत्तिऩाल् अदावदु सॊन्द पुत्तियिऩ् ऊगत्ताल् मात्तिरम् अडैय मुडियादु। अव्वाऱे इन्द सास्तिरङ्गळाल् उण्डाऩ आत्म विषयग पुत्तियै तर्क्कत्तिऩाल् अऴिक्क मुडियादु। एऩ् ऎऩिल् तार्क्किगर्गळ् सास्तिरत्तै अऱियादवर्गळ्। पिरियमाऩवऩे! आगैयाल्दाऩ् इन्द कुरु सास्तिरत्ताल् उण्डाऩ आत्मबुत्ति(मदि)याऩदु तार्क्किगर्गळैक् काट्टिलुम् वेऱाऩ आत्म वित्तुगळागिय आच्चारियर्गळाल् उबदेसिक्कप्पट्टाल् अदु तिड ञाऩत्तिऩ् पॊरुट्टागिऱदु।
का पुनः सा तर्कागम्या मतिः इति, उच्यते —
ज्ञानानन्द-भारती - द्राविडी
मेलुम् तर्क्कत्तिऩाल् अऱिय मुडियाद अन्द मदियाऩदु यादॆऩिल्? सॊल्लप्पडुगिऱदु।
यां त्वं मतिं मद्वरप्रदानेन आपः प्राप्तवानसि। सत्या अवितथविषया धृतिर्यस्य तव स त्वं सत्यधृतिः। बतासीत्यनुकम्पयन्नाह मृत्युर्नचिकेतसं वक्ष्यमाणविज्ञानस्तुतये। त्वादृक् त्वत्तुल्यः नः अस्मभ्यं भूयात् भवतात्। भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा। कीदृक् ? यादृक्त्वं हे नचिकेतः प्रष्टा ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) नी ऎऩ्ऩुडैय वरप्पिरसादत्ताल् इन्द आत्म पुत्तियै (मदियै) अडैन्दवऩाय् इरुक्किऱाय्। सत्यमुम्, तैरियमुम् ऎवऩुक्किरुक्किऱदो अवऩ् सत्य तिरुदि: अदु नीयाय् इरुक्किऱाय्। मिरुत्युवाऩवर् इऩिक् कूऱप्पोगुम् विक्ञाऩत्तैप् स्तुदिप्पदऩ् पॊरुट्टु करुणै कूर्न्दवराय् हे नसिगेदा! उऩ्ऩैप् पोऩ्ऱु नी ऎव्वाऱु विक्ञाऩत्तैप् पऱ्ऱि केट्टायो अव्वाऱु केट्कुम् सिष्यऩो, अल्लदु पुत्तिरऩो, उण्डागट्टुम् उऩ्ऩैप् पोऩ्ऱु ऒरु सिष्यऩ् वेण्डुम् ऎऩ्बदागुम्।
पुनरपि तुष्ट आह — कर्मफलकी अनित्यत-
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम् नसिगेदऩ्बाल् मगिऴ्वुऱ्ऱ तर्मराजऩ् कूऱलाऩार्
जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्।
ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०
॥
जानाम्यहं शेवधिः निधिः कर्मफललक्षणः निधिरिव प्रार्थ्यत इति। असौ अनित्यम् अनित्य इति जानामि। न हि यस्मात् अनित्यैः अध्रुवैः यत् नित्यं ध्रुवम् , तत् प्राप्यते परमात्माख्यः शेवधिः। यस्त्वनित्यसुखात्मकः शेवधिः, स एवानित्यैर्द्रव्यैः प्राप्यते।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) सेवदि ऎऩ्ऱाल् निदि। अदावदु ऎदाऩदु निदियैप् पोल् (सॆल्वत्तैप् पोल्) वेण्डप्पडुगिऱदो अदु कर्मबल लक्षणमाऩ निदियागुम्। अदु अनित्यमाऩदु। अदु नित्यम् अल्ल। आगैयाल् अनित्यमुम्, निच्चयमऱ्ऱदुमाऩदाल् नित्यमुम् निच्चयमाऩदुमाऩ परमात्मा ऎऩप्पडुम् अन्द सेवदि। (निदियाऩदु)यै अडैय मुडियादु। ऎदाऩदु अनित्यमाऩ सुगमुडैयदाऩ सेवदिदाऩ् अनित्यमाऩ तिरव्यङ्गळाल् अडैयप्पडुम्।
हि यतः, ततः तस्मात् मया जानतापि नित्यमनित्यसाधनैः प्राप्यत इति नाचिकेतः चितः अग्निः अनित्यैः द्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतोऽग्निः निर्वर्तित इत्यर्थः। तेनाहमधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यमापेक्षिकं प्राप्तवानस्मि ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎदऩाल् इव्वाऱो अदऩाल् नाऩ् नित्यमाऩदै अनित्तियमाऩ सादऩैगळाल् अडैय मुडियादु ऎऩ्ऱु अऱिन्दिरुन्द पोदिलुम् नासिगेद अक्ऩि होमत्तै अनित्यमाऩ तिरव्यङ्गळाऩ पसु मुदलिय सुवर्क्कसुग सादऩङ्गळाल् सॆय्दिरुक्किऱेऩ् ऎऩ्बदु पॊरुळ्। अदऩाल् नाऩ् अदिगारत्तै अडैन्दु आबेक्षिग नित्यमाऩ नित्यस्ताऩमागिय स्वर्क्कत्तै अडैन्दवऩाय् इरुक्किऱेऩ्।
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम्।
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥
११ ॥
त्वं तु कामस्य आप्तिं समाप्तिम् , अत्र हि सर्वे कामाः परिसमाप्ताः, जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठाम् आश्रयं सर्वात्मकत्वात् , क्रतोः उपासनायाः फलं हैरण्यगर्भं पदम् , अनन्त्यम् आनन्त्यम् , अभयस्य च पारं परां निष्ठाम् , स्तोमं स्तुत्यं महत् अणिमाद्यैश्वर्याद्यनेकगुणसंहतम् , स्तोमं च तन्महच्च निरतिशयत्वात् स्तोममहत् , उरुगायं विस्तीर्णां गतिम् , प्रतिष्ठां स्थितिमात्मनोऽनुत्तमामपि दृष्ट्वा धृत्या धैर्येण धीरः नचिकेतः, धीमान् बुद्धिमान्सन् अत्यस्राक्षीः परमेवाकाङ्क्षन्नतिसृष्टवानसि सर्वमेतत्संसारभोगजातम्। अहो बतानुत्तमगुणोऽसि ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) हे! नसिगेदा! नी ऎल्ला कामऩैगळैयुम् इङ्गेये अडैयप्पट्टवऩाय् इरुक्किऱाय्। जगत्तिल् सादिक्कवेण्डिय अत्यात्म, अदिबूद, अदिदॆय्वङ्गळुक्कॆल्लाम् आस्रयमाय् सर्वात्मावाय् इरुप्पदाल् कर्माक्कळुडैय पलमागिय हिरण्यगर्ब पदम् मुडिविल्लाददु अबयम् मेलाऩ निष्ट्टै निरदिसयमाय् इरुप्पदालुम्, अणिमादि अष्ट ऐस्वर्यङ्गळागिय अनेग कुणङ्गळुडैयदायुम् इरुप्पदाल् पोऱ्ऱुदऱ्कु उरिय महत् आगुम्। मेलुम् विस्तीरणमाऩ कदि उडैदायुम् स्तिरमाऩदुम्, आत्मावुक्कु ऒप्पाऩदायुम् अन्दप्परम् पॊरुळैये कुऱिक्कोळागक् कॊण्डु ऎल्ला संसारबोगक् कूट्टङ्गळैयुम् तीरऩागिय नी तैरियमाय् परित्तियागम् सॆय्दुविट्टाय् उऩदु उत्तमाऩ नऱ्कुणङ्गळैप्पऱ्ऱि ऎऩ्ऩ सॊल्वदु?
यं त्वं ज्ञातुमिच्छस्यात्मानं
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) नी ऎन्द आत्मावै अऱिय इच्चिक्किऱायो
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥
तं दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दर्शः अतिसूक्ष्मत्वात् तम् , गूढं गहनम् , अनुप्रविष्टं प्राकृतविषयविज्ञानैः प्रच्छन्नमित्येतत्। गुहाहितं गुहायां बुद्धौ हितं निहितं स्थितं तत्रोपलभ्यमानत्वात्। गह्वरेष्ठं गह्वरे विषमे अनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम्। यत एवं गूढमनुप्रविष्टो गुहाहितश्च, अतोऽसौ गह्वरेष्ठः ; अतो दुर्दर्शः ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द आत्मावै नी अऱिय विरुम्बुगिऩ्ऱऩैयो अदै अऱिवदु (पार्प्पदु) मिगक् कडिऩम्। एऩ् ऎऩिल् मिगवुम् सूक्ष्ममाऩदु अडर्न्द विषय विगारङ्गळिऩाल् मऱैक्कप्पट्टदागुम्। कुहाहिदम् पुत्तियिल् इरुप्पऩ (निलैबॆऱ्ऱुळ्ळदु) अदै अङ्गु अऱियप्पडुवदाल् कुहाहिदम् मिगुन्द कडिऩमाऩ अऩर्त्तङ्गळिल् इरुप्पदाल् कह्वरेष्ट्टमागुम्। ऎङ्गु इव्वाऱु रगस्यमाय् मऱैक्कप्पट्टदाय् ऎल्लावऱ्ऱिलुम् ऊडुऱुवि पुत्तियिल् इरुप्पदाल् अदु कह्वरेष्ट्ट:! आगैयाल् अदै अऱिवदु मिगक्कडिऩमागुम्।
तं पुराणं पुरातनम् अध्यात्मयोगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानमध्यात्मयोगः तस्याधिगमः प्राप्तिः तेन मत्वा देवम् आत्मानं धीरः हर्षशोकौ आत्मन उत्कर्षापकर्षयोरभावात् जहाति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द पऴमैयाऩ आत्मयोगत्तिऩाल् विषयङ्गळिल् इरुन्दु तिरुप्पि तऩ्ऩिल् सित्तत्तै वैत्तल् आत्मयोगम् ऎऩप्पडुम्। अदऩाल् तेवऩाऩ आत्मावै नऩ्ऱाग अऱिन्द तीरऩाऩवऩ् आत्माविऱ्कु निऱैवु, कुऱैवु इरण्डुम् इल्लाददाल् सुगदुक्कङ्गळै पोक्कुगिऱाऩ्।
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
मेलुम्
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १३ ॥
एतदात्मतत्त्वं यदहं वक्ष्यामि, तच्छ्रुत्वा आचार्यसकाशात् सम्यगात्मभावेन परिगृह्य उपादाय मर्त्यः मरणधर्मा धर्मादनपेतं धर्म्यं प्रवृह्य उद्यम्य पृथक्कृत्य शरीरादेः अणुं सूक्ष्मम् एतम् आत्मानम् आप्य प्राप्य सः मर्त्यः विद्वान् मोदते मोदनीयं हि हर्षणीयमात्मानं लब्ध्वा। तदेतदेवंविधं ब्रह्म सद्म भवनं नचिकेतसं त्वां प्रत्यपावृतद्वारं विवृतम् अभिमुखीभूतं मन्ये, मोक्षार्हं त्वां मन्ये इत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) नाऩ् ऎन्द इन्द आत्मदत्तुवत्तै कूऱप्पोगिऱेऩो अदैक् केट्टु आच्चारिय पिरसादत्ताल् तिडमाऩ आत्म पावऩैयाल् अदै किरहित्तुक् कॊण्डु (पुरिन्दु कॊण्डु) मरण तर्मम् उडैय मऩिदऩ् अन्द तर्मङ्गळुडऩ् कूडिय आत्मावै तेहादिगळिलिरुन्दु पिरित्तु अणुवाय् सूक्ष्ममाय् उळ्ळ इन्द आत्मावै अडैन्दु मऩिदऩ् अदावदु वित्वाऩ् आऩन्दप्पड वेण्डिय आत्मावै अडैन्दु आऩन्दमाय् इरुक्किऱाऩ्। अन्द इन्द विदमाऩ पिरह्म पवऩत्तिऩ् वायिलै (त्वारत्तै) नोक्कि इरुक्किऱाय्। अदावदु नी मोक्षवायिलिऩ् विळिम्बै नोक्कि इरुक्किऱाय् ऎऩ्बदागुम्।
यद्यहं योग्यः, प्रसन्नश्चासि भगवन् , मां प्रति
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) हे पगवऩ्! नाऩ् योक्कियऩाय् इरुन्दाल् ऎऩ्ऩैक् कुऱित्तु पिरसऩ्ऩम् (सन्दोषम्) अडैन्दवराय् इरुक्किऱीर्।
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥
अन्यत्र धर्मात् शास्त्रीयाद्धर्मानुष्ठानात्तत्फलात्तत्कारकेभ्यश्च पृथग्भूतमित्यर्थः। तथा अन्यत्र अधर्मात् विहिताकरणरूपात् पापात् , तथा अन्यत्रास्मात्कृताकृतात् , कृतं कार्यमकृतं कारणमस्मादन्यत्र। किञ्च, अन्यत्र भूताच्च अतिक्रान्तात्कालात् भव्याच्च भविष्यतश्च तथा अन्यत्र वर्तमानात्। कालत्रयेण यन्न परिच्छिद्यत इत्यर्थः। यदीदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानासि तद्वद मह्यम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्यत्र (अऩ्यत्र) वेऱु इडत्तिल् (वेऱाऩदु) ऎऩ्ऱाल् सास्तिरत्तैक् काट्टिलुम्, तर्म अऩुष्टाऩत्तैक् काट्टिलुम्, अदऩ् पलऩैक्काट्टिलुम्, सॆयल्गळैक् काट्टिलुम् वेऱाऩदु ऎऩ्बदु पॊरुळ्। अव्वाऱे अऩ्यत्र ऎऩ्ऱाल् अदर्मत्तैक् काट्टिलुम् अव्वाऱे कारियत्तैक् काट्टिलुम्, कारणत्तैक् काट्टिलुम् वेऱाऩदु। मेलुम् अव्वाऱे इऱन्दगाल, वरुङ्गाल, निगऴ्गालङ्गळाल् परिच्चिऩ्ऩम् (वेऱु) आगादु ऎऩ्बदु पॊरुळ्। ऎन्द इव्वाऱु ऎल्ला वियाबारङ्गळुक्कुम् अप्पाऱ्पट्टदाय् अऱिय मुडियाददाय् इरुक्किऱ वस्तुवै पार्क्किऱीरो (अऱिगिऱीरो) अदै ऎऩक्कुक् कूऱुङ्गळ्।
इत्येवं पृष्टवते मृत्युरुवाच, पृष्टं वस्तु विशेषणान्तरं च विवक्षन् -
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इव्वाऱु केट्कप्पट्टवऩुक्कु, अवऩ् केट्ट वस्तुवै वेऱुविसेषणङ्गळुडऩ् विळक्क विरुम्बि यमराजा कूऱुगिऱार्।
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥
१५ ॥
सर्वे वेदा यत्पदं पदनीयं गमनीयम् अविभागेन अविरोधेन आमनन्ति प्रतिपादयन्ति, तपांसि सर्वाणि च यद्वदन्ति यत्प्राप्त्यर्थानीत्यर्थः। यदिच्छन्तो ब्रह्मचर्यं गुरुकुलवासलक्षणमन्यद्वा ब्रह्मप्राप्त्यर्थं चरन्ति, तत् ते तुभ्यं पदं यज्ज्ञातुमिच्छसि सङ्ग्रहेण सङ्क्षेपतः ब्रवीमि ओं इत्येतत्। तदेतत्पदं यद्बुभुत्सितं त्वया तदेतदोमिति ओंशब्दवाच्यमोंशब्दप्रतीकं च ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎल्ला वेदङ्गळुम् ऎन्द अडैय वेण्डिय पदत्तै आत्माविडत्तिल् विबागम् इल्लामल् उऱैक्किऩ्ऱदो, ऎल्ला तबस्विगळालुम् ऎदु कूऱप्पडुगिऱदो, ऎदु अडैयवेण्डियदाय् वेण्डप्पडुगिऱदो ऎदै विरुम्बि पिरह्मसरिय विरदत्तै अऩुष्ट्टिक्किऱार्गळो अदै उऩ् पॊरुट्टु नी ऎन्द पदत्तै अऱिय विरुम्बिऩायो अदै सुरुक्कमाग कूऱुगिऱेऩ्।
ज्ञानानन्द-भारती - द्राविडी
अदु ओम् ऎऩ्बदागुम्। अदु उऩ्ऩाल् अऱिय विरुम्बप्पट्ट पदमागुम्। अन्द इन्द ओम् सप्तमाऩदु वाच्चियमागुम्। मेलुम् इन्द ओम् सप्तम् पिरदीगमागवुम् आगुम्।
अतः
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) आगैयाल्
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥
एतद्ध्येवाक्षरं ब्रह्म अपरम् एतद्ध्येवाक्षरं परं च। तयोर्हि प्रतीकमेतदक्षरम्। एतद्ध्येवाक्षरं ज्ञात्वा उपास्य ब्रह्मेति यो यदिच्छति परमपरं वा तस्य तत् भवति। परं चेत् ज्ञातव्यम् , अपरं चेत् प्राप्तव्यम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्द अक्षरमे परबिरह्ममायुम्, अबरबिरह्ममायुम् इरुक्किऱदु। परम्, अबरम् इरण्डिऱ्कुम् इन्द अक्षरमे प्रदीगम्। इन्द अक्षरत्तैये परप्पिरह्ममाग अऱिन्दुम् अबरप्पिरह्ममाग उबासित्तुम् ऎवऩ् इन्द पिरह्मत्तै परमागवो अबरमागवो ऎदै इच्चिक्किऩ्ऱाऩो अदै अडैगिऱाऩ्। परम् ऎऩ्ऱाल् अऱियप्पड वेण्डियदु। अबरम् ऎऩ्ऱाल् अडैयप्पड वेण्डियदु।
यत एवम् ,
ज्ञानानन्द-भारती - द्राविडी
ऎदऩाल् इव्वाऱो अदऩाल्
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥
अत एव एतत् ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम्। एतदालम्बनं परम् अपरं च, परापरब्रह्मविषयत्वात्। एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते। परस्मिन्ब्रह्मण्यपरस्मिंश्च ब्रह्मभूतो ब्रह्मवदुपास्यो भवतीत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्द ओम्गार आलम्बऩम् (अक्षरम्) पिरह्मत्तै अडैवदऱ्काऩ आलम्बऩङ्गळिल् मिगवुम् च्रेष्टमाऩदागुम्। परप्रह्मम् अबरह्मम् विषयमाय् इरुप्पदाल् इन्द आलम्बऩम् परम्, अबरम् ऎऩ्ऱागुम्। इन्द आलम्बऩत्तै अऱिन्दु प्रह्म लोगम् अदावदु परप्रहमत्तिल् निलैत्तु महिमैयै अडैगिऱाऩ्। अबरप्रह्मत्तै पिरह्मम् पोल् उबासिक्कत्तक्कदागिऱदु।
अन्यत्र धर्मादित्यादिना पृष्टस्यात्मनोऽशेषविशेषरहितस्यालम्बनत्वेन प्रतीकत्वेन चोङ्कारो निर्दिष्टः अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तॄन्प्रति। अथेदानीं तस्योङ्कारालम्बनस्यात्मनः साक्षात्स्वरूपनिर्दिधारयिषयेदमुच्यते ।
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) सादऩैयऱ्ऱवऩुक्कु उबदेसित्तल् पयऩ्दराददोडु तीमैयैयुम् उण्डाक्कुम् ऎऩ्बदाल्, मन्द, मत्यम अदिगारि पेदमाग, सादऩङ्गळुम्, उबदेसिक्कप्पडुगिऩ्ऱऩ। इव्वाऱु सादऩङ्गळै उबदेसिप्पदऩ् मूलमाग नी केट्ट आऩ्मस्वरूबत्तैयुम् विळक्क मुऱ्पडुगिऱेऩ् ऎऩ्ऱु कूऱामल् कूऱित् तॊडङ्गुगिऱार्। ऎव्वुबादि तर्ममऱ्ऱ परमात्मा, मन्द, मत्यमम्, अदिगारिगळ् उणरुम् पॊरुट्टु, पिरणवत्तैप् पऱ्ऱुक् कोडाग कॊण्डदु पोलवुम्, अव्पिरणवत्ताल् कुऱिप्पिडप्पडुवदु पोलवुम् कूऱप्पट्टदेयऩ्ऱि, अव्वाऩ्म स्वरूबत्तिऱ्कु ऎत्तगैय उबादियुम् किडैयादु ऎऩ्बदु पॊरुळ्। इदुवे इन्द मन्दिरत्ताल् विळक्कप्पडुगिऱदु।
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥
न जायते नोत्पद्यते म्रियते वा न म्रियते च उत्पत्तिमतो वस्तुनोऽनित्यस्यानेका विक्रियाः, तासामाद्यन्ते जन्मविनाशलक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वेति। विपश्चित् मेधावी अपरिलुप्तचैतन्यस्वभावत्वात्।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) उण्डावदुम् इल्लै, मरिप्पदुम् इल्लै। उऱ्पत्ति उडैय अनित्तियवस्तुक्कळुक्के अनेग विदमाऩ माऱुबाडुगळ् (विगारङ्गळ्) उळ्ळऩ। आगैयाल् आरम्बमुम् मुडिवुम् उडैयवैगळुक्के पिऱप्पु, अऴिवु मुदलिय विगारङ्गळ् इन्द आत्माविडत्तिल् किडैयादु। मुदलिल् पिऱप्पु इऱप्पु अऱ्ऱदु ऎऩ्ऱु कूऱियदु ऎल्ला माऱुबाडुगळुम् अऱ्ऱदु ऎऩ्बदऱ्काग, अदु अन्द आत्मा माऱुबाडु अऱ्ऱु इरुप्पदाल् (विबच्चित्) मेदावि ऎऩप्पडुम्।
किञ्च, नायमात्मा कुतश्चित् कारणान्तरात् बभूव न प्रभूतः। अस्माच्चात्मनो न बभूव कश्चिदर्थान्तरभूतः। अतोऽयमात्मा अजो नित्यः शाश्वतः अपक्षयविवर्जितः। यो ह्यशाश्वतः, सोऽपक्षीयते ; अयं तु शाश्वतः अत एव पुराणः पुरापि नव एवेति। यो ह्यवयवोपचयद्वारेणाभिनिर्वर्त्यते, स इदानीं नवः, यथा कुड्यादिः ; तद्विपरीतस्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थः। यत एवम् , अतः न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे ; तत्स्थोऽप्याकाशवदेव ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) मेलुम् इन्द आत्म एदो ऒरु कारणत्तिलिरुन्दु उण्डागविल्लै। आत्मा तऩ्ऩिडत्तिलुरुन्दु एदो ऒरु वेऱु वस्तुवाग तोऩ्ऱविल्लै। आगैयाल् आत्मा पिऱप्पऱ्ऱदु, नित्यमाऩदु, ऎप्पॊऴुदुम् उळ्ळदु, वळर्वदुम् किडैयादु, ऎदु निलै अऱ्ऱदो अदुवे विरुत्तियुडैयदागुम्। इन्द आत्मा सास्वदमाऩदु। आगैयाल् अदु पुराण: ऎऩप्पडुगिऱदु। मुऩ्ऩुम् पुदिदागवे इरुक्किऱदु। कुडम् मुदलियवैगळ् पोल् ऎदु अवयमुडैयदाय् इरुप्पदे विरुत्ति (आरम्बम्) उडैयदाय् पुदिदु ऎऩ्गिऱोम्। आऩाल् इङ्गु आत्मा अदऱ्कुमाऱाय् ऎप्पॊऴुदुम् पुदिदागवे इरुक्किऱदु। अदऱ्कु विरुत्ति किडैयादु। सास्तिरङ्गळाल् सरीरत्तै वॆट्टि हिंसित्तालुम् अदु हिंसैक्कु उळ्ळागादु। सरीरत्तिल् इरुन्दालुम् आगासम् पोल् असङ्गमाय् इरुक्किऱदु।
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥
ज्ञानानन्द-भारती - द्राविडी
(इत्तगैय असङ्ग स्वबावमाऩ, अदावदु ऎप्पऱ्ऱुम् अऱ्ऱ आऩ्मावै अऱियादु सरीरमे आऩ्मा ऎऩ्ऱु ऎण्णियवऩ् तऩ्ऩै)
एवं भूतमप्यात्मानं शरीरमात्रात्मदृष्टिः हन्ता चेत् यदि मन्यते चिन्तयति इच्छति हन्तुं हनिष्याम्येनमिति योऽप्यन्यो हतः सोऽपि चेन्मन्यते हतमात्मानं हतोऽहमिति उभावपि तौ न विजानीतः स्वमात्मानम् ; यतः नायं हन्ति अविक्रियत्वादात्मनः, तथा न हन्यते आकाशवदविक्रियत्वादेव। अतोऽनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारः नात्मज्ञस्य, श्रुतिप्रामाण्यान्न्यायाच्च धर्माधर्माद्यनुपपत्तेः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इव्वाऱु उळ्ळ आत्मावै सरीर मात्तिरत्तिल् आत्म पुत्ति उळ्ळवऩ् कॊल्लुवदऱ्कु (अडिप्पदऱ्कु) कर्त्तावागत् तऩ्ऩै ऎण्णि इन्द आत्मावै कॊल्लुम् (अडित्तल्) सॆयलुक्कु कर्त्तावाक्कि इवऩैक् कॊल्लप्पोगिऱेऩ् ऎऩ्ऱु ऎण्णुबवऩुम्, इवऩैक् काट्टिलुम् वेऱु ऒरुवऩै अडिक्कप्पट्टवऩ् ऎवऩो अवऩुम् नाऩ् अडिक्कप्पट्टेऩ् ऎऩ आत्मावै हऩऩक्किरियै उडैयवऩाय् ऎण्णुगिऱवऩुमागिय अव्विरुवरुम् तङ्गळदु यदार्त्त आत्मस्वरूबत्तै अऱिन्दवर्गळागार्। एऩ् ऎऩिल् आत्मा किरियै अऱ्ऱदाल् कॊल्लुवदुम्, कॊल्लप्पडुवदुम् अऩ्ऱु। इव्वाऱु आगासम् पोल् अविक्किरियैयाय् इरुप्पदाल् आत्मा हऩऩक्किरियैक्कु कर्त्ता आवदिल्लै। आगैयाल् अक्ञाऩिक्के तर्मादर्मङ्गळ् आगिऱ संसारम् आत्म ञाऩिक्कोवॆऩिल् संसारमाऩदु किडैयादु। च्रुदि पिरमाणत्तालुम्, युत्तियिऩालुम् तर्मादर्मङ्गळ् आत्मक् ञाऩिक्कुप् पॊरुन्दादु।
कथं पुनरात्मानं जानातीति, उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै)आऩाल् ऎव्वाऱु आऩ्मावै अऱिगिऱाऩ् ऎऩ्बदु कूऱप्पडुगिऱदु।
अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ २० ॥
अणोः सूक्ष्मात् अणीयान् श्यामाकादेरणुतरः। महतो महत्परिमाणात् महीयान् महत्तरः पृथिव्यादेः ; अणु महद्वा यदस्ति लोके वस्तु, तत्तेनैवात्मना नित्येनात्मवत्सम्भवति। तदात्मना विनिर्मुक्तमसत्सम्पद्यते। तस्मादसावेवात्मा अणोरणीयान्महतो महीयान् , सर्वनामरूपवस्तूपाधिकत्वात्। स च आत्मा अस्य जन्तोः ब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहितः आत्मभूतः स्थित इत्यर्थः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अणुबरिणामम् उळ्ळ स्यामाग ऎऩ्ऱ ताऩियत्तैक् काट्टिलुम् मिगवुम् सूक्ष्ममाऩदु पिरिदिवि मुदलिय पॆरियदाय् उळ्ळदैक् काट्टिलुम् मिगप् पॆरियदु। उलगिल् मिग सूक्ष्ममागवो, मिगप् पॆरिदाग उळ्ळ वस्तुक्कळ् ऎवै उळ्ळऩवो अवै ऎल्लाम् अन्द नित्यमाऩ आत्माविऩाल् आत्मावै पोल् तोऩ्ऱुगिऩ्ऱदु। अवै आत्माविडमिरुन्दु विडुबट्टाल् अदु असत्तागिविडुम्। आगैयाल् ऎल्ला नाम रूबङ्गळुम् आत्माविऱ्कु उबादियाय् इरुप्पदाल् अणुविऱ्कु अणुवायुम्, महत्तिऱ्कु महत्तायुम् इन्द आत्मा उळ्ळदु। इन्द आत्मावाऩदु इन्द पिरह्मा मुदल् स्तम्ब परियन्दम् उळ्ळ ऎल्ला जीवरासिगळिऩुडैय कुगैयागिय इरुदयत्तिल् वैक्कप्पट्टु आत्मावाय् विळङ्गुगिऱदु, अदावदु ऎल्लोरुळ्ळुम् अन्दरात्मावाय् इरुक्किऱदु ऎऩ्बदु पॊरुळ्।
तम् आत्मानं दर्शनश्रवणमननविज्ञानलिङ्गम् अक्रतुः अकामः, दृष्टादृष्टबाह्यविषयेभ्य उपरतबुद्धिरित्यर्थः। यदा चैवं तदा मनआदीनि करणानि धातवः शरीरस्य धारणात्प्रसीदन्तीत्येषां धातूनां प्रसादादात्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यति अयमहमस्मीति साक्षाद्विजानाति ; ततो विगतशोको भवति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द पार्त्तल्, केट्टल्, सिन्दित्तल्, अऱिदल्, इवैगळै लिङ्गमाग (किरिया पदमाग) उडैय आत्मा अगर्त्ता काममऱ्ऱदु, तिरुष्ट्ट अदिरुष्ट्ट वॆळि विषयङ्गळिल् इरुन्दु नीङ्गिय पुत्ति ऎऩ्बदु पॊरुळ्। ऎप्पॊऴुदु इव्वाऱो अप्पॊऴुदु मऩ मुदलिय करणङ्गळागिय तादुक्कळ् अदावदु सरीरत्तै तरिप्पदाल् अन्द तादुक्कळुडैय पिरसादत्ताल् आत्माविऩुडैय महिमैयागिय कर्मनिमित्तत्ताल् उण्डागुम् वळर्च्चि, कुऱैदल् अऱ्ऱदाय् पार्क्किऱदु। अदु नाऩाय् इरुक्किऱेऩ् ऎऩ्ऱु साक्षात्ताय् अऱिगिऱदु। आगैयाल् तुक्कमऱ्ऱदाय् आगिऱदु।
अन्यथा दुर्विज्ञेयोऽयमात्मा कामिभिः प्राकृतपुरुषैर्यस्मात्
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मऱ्ऱ कामम् उळ्ळ सादारण मऩिदर्गळुक्कु इन्द आत्मावै अऱिवदु मिगक् कडिऩम् ऎदऩाल् ऎऩिल्।
आसीनो दूरं व्रजति शयानो याति सर्वतः।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥
आसीनः अवस्थितोऽचल एव सन् दूरं व्रजति शयानः याति सर्वतः, एवमसावात्मा देवो मदामदः समदोऽमदश्च सहर्षोऽहर्षश्च विरुद्धधर्मवानतोऽशक्यत्वाज्ज्ञातुं कः तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) असैयामल् इरुन्दु कॊण्डे वॆगु तूरम् सॆल्गिऱदु। पडुत्तुक् कॊण्डे ऎल्ला इडत्तिऱ्कुम् सॆल्गिऱदु। इव्वाऱु इन्द आत्मावागिय तेवऩ् सन्दोषमायुम्, सन्दोषम् अऱ्ऱवऩायुम् विरुत्तदर्मङ्गळै उडैयवऩाय् इरुप्पवऩ्। आगैयाल् अवऩै अऱिवदु मुडियाददाल् अन्द मदामद तेवऩै (आत्मावै) ऎऩ्ऩैत् तविर ऎवऩ्दाऩ् अऱिवदऱ्कु तगुदि उळ्ळवऩावाऩ्।
अस्मदादेरेव सूक्ष्मबुद्धेः पण्डितस्य विज्ञेयोऽयमात्मा स्थितिगतिनित्यानित्यादिविरुद्धानेकधर्मोपाधिकत्वाद्विरुद्धधर्मवान् विश्वरूप इव चिन्तामणिवत्कस्यचिदवभासते। अतो दुर्विज्ञेयत्वं दर्शयति — कस्तं मदन्यो ज्ञातुमर्हतीति।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎङ्गळैप् पोऩ्ऱ सूक्ष्म पुत्तियुळ्ळ पण्डिदर्गळुक्के आत्मा नऩ्ऱाग अऱियत्तक्कदागिऱदु। इरुत्तल्, सॆल्लुदल्, नित्यम्, अनित्यम्, पोऩ्ऱ माऱुबाडुडैय (विरुत्त) तर्मङ्गळाऩ उबादिगळै उडैयदाय् इरुप्पदालुम् सिन्दामणियैप् पोऩ्ऱुम् विच्वरूबत्तैप् पोऩ्ऱुम् तोऩ्ऱुगिऩ्ऱदु। आगैयाल् ऎऩ्ऩैत् तविर याराल्दाऩ् अदै अऱिय मुडियुम् ऎऩ्ऱु कूऱियदाल् आत्मावै अऱिवदु ऎऩ्बदु मिगक् कडिऩम् ऎऩ्ऱु उणर्त्तप्पडुगिऱदु।
करणानामुपशमः शयनं करणजनितस्यैकदेशविज्ञानस्योपशमः शयानस्य भवति। यदा चैवं केवलसामान्यविज्ञानत्वात्सर्वतो यातीव यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन् मनआदिगतिषु तदुपाधिकत्वाद्दूरं व्रजतीव। स चेहैव वर्तते ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्दिरियङ्गळागिय करणङ्गळिऩ् उबसममे (अडक्कुदले) सयऩमागुम्। इन्दिरियङ्गळाल् उण्डागुम् एगदेस विञ्ञाऩत्तिऩ् उबसमम् (अडङ्गुदल्) सयऩिप्पवऩुक्कु उण्डागुम्। ऎप्पॊऴुदु इव्वाऱु सामाऩ्य विञ्ञाऩम् इरुक्कुम् पॊऴुदु ऎङ्गुम् सॆल्वदु पोलवुम्, ऎप्पॊऴुदु विसेष विञ्ञाऩत्तिल् इरुन्दु कॊण्डु तऩ् स्वरूबत्तिल् इरुन्दु कॊण्डु मऩम् सॆल्लुम् वऴिगळिल् अदऩुडैय उबादियाय् इरुप्पदाल् तूरमाय् सॆल्लुवदु पोल् तोऩ्ऱुगिऱदु। आऩाल् अदु इङ्गेये इरुक्किऱदु।
तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) अदै अऱिवदऩाल् तुक्कत्तैयुम् कडक्क मुडियुम् ऎऩ्बदैयुम् तॆरिविक्किऱार्।
अशरीरं शरीरेषु अनवस्थेष्ववस्थितम्।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥
अशरीरः स्वेन रूपेणाकाशकल्प आत्मा तम् अशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेषु अनवस्थेषु अवस्थितिरहितेष्वनित्येषु अवस्थितं नित्यम् अविकृतमित्येतत्। महान्तम्। महत्त्वस्यापेक्षिकत्वशङ्कायामाह — विभुं व्यापिनम् आत्मानम् ; आत्मग्रहणं स्वतोऽनन्यत्वप्रदर्शनार्थम्। आत्मशब्दः प्रत्यगात्मविषय एव मुख्यः तमीदृशामात्मानं मत्वा अयमहमिति, धीरः धीमान् न शोचति। न ह्येवंविधस्वात्मविदः शोकोपपत्तिः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) असरीरम् ऎऩ्बदु सुवरूबमाय् आगासत्तिऱ्कु ऒप्पाऩदु आत्मा। अन्द सरीरमाऩदु तेव, पित्रु, मऩुष्य मुदलिय सरीरङ्गळागिय निलै पॆऱाद अदावदु इरुप्पु इल्लाद सरीरङ्गळिल् नित्यमाय् विगारमऱ्ऱदाय् इरुक्किऩ्ऱदु। महान्दम् अदावदु महत्तुवत्तिऩ् आबेक्षिगसङ्गै ऎऴुम्बॊऴुदु विबु ऎऩ्ऱु कूऱुगिऱार्। विबु ऎऩ्बदु वियाबग आत्मावै कुऱिक्किऱदु। आत्मा पिरत्यक् आत्मावाग किरहित्तुक् कॊळ्वदु, इरण्डुम् ऒऩ्ऱे ऎऩ्बदैत् तॆरिविप्पदऱ्कागवे आगुम्। इङ्गु आत्म सप्तमाऩदु पिरत्यक् आत्म विषयमे मुक्कियमागुम्। इव्वाऱाग आत्मावै अऱिन्दु अदु नाऩ् ऎऩ्ऱु तीरऩ् अदावदु पुत्तिमाऩ् तुक्कत्तै अडैयमाट्टाऩ्। इव्विदमाऩ आत्मावै अऱिन्दवऩ् सोगत्तै अडैयमाट्टाऩ्।
यद्यपि दुर्विज्ञेयोऽयमात्मा तथाप्युपायेन सुविज्ञेय एवेत्याह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इन्द आत्मावै अऱिवदु मिगक् कडिऩमाऩदायिऩुम् उबायत्तिऩाल् सुलबमाग अऱिन्दु कॊळ्ळलाम् ऎऩ्बदै कूऱुगिऱार्
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूंस्वाम् ॥ २३ ॥
नायमात्मा प्रवचनेन अनेकवेदस्वीकरणेन लभ्यः ज्ञेयः ; नापि मेधया ग्रन्थार्थधारणशक्त्या ; न बहुना श्रुतेन न बाहुश्रुत्येन केवलेन। केन तर्हि लभ्य इति, उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्द आत्मा अनेग वेदङ्गळैक् कऱ्ऱलागिऱ पिरवसऩत्तिऩाल् अऱिय मुडियादु। सास्त्तिरार्त् तङ्गळै नऩ्ऱाग तारणै सॆय्युम् सक्तियिऩालुम् अऱिय मुडियादु। कुरु उबदेसमिऩ्ऱि अनेग विदमाऩ सिरवणत्तिऩालुम् अऱिय मुडियादु। अव्वाऱाऩाल् ऎदऩाल् अदै अडैयमुडियुम् ऎऩ्बदै उबदेसिक्किऱार्।
यमेव स्वमात्मानम् एष साधको वृणुते प्रार्थयते, तेनैवात्मना वरित्रा स्वयमात्मा लभ्यः ज्ञायत इत्येतत्। निष्कामश्चात्मानमेव प्रार्थयते। आत्मनैवात्मा लभ्यत इत्यर्थः। कथं लभ्यत इति, उच्यते — तस्यात्मकामस्य एष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं स्वां तनूं स्वकीयं याथात्म्यमित्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) सादगऩाऩवऩ् ऎन्द तऩ् आत्मावै अडैय पिरार्त्तिक्किऱाऩो अन्द सादगऩाल् ताऩ् विरुम्बिय आत्मावै अडैयक् कूडियवऩागिऱाऩ्। तऩ् आत्मावै अडैवदिल् इच्चै उळ्ळवऩुक्के इन्द आत्मावाऩदु तऩ्ऩुडैय यदार्त्तत्तैप् पिरगासप्पडुत्तुगिऱदु। ऎव्वाऱु अऱियप्पडुगिऱदु ऎऩ्बदु कूऱप्पडुगिऱदु। आत्मावै अडैय विरुप्पमुळ्ळवऩुक्कु इन्द आत्मा पिरगासप्पडुत्तप्पडुगिऱदु। अदावदु पारमार्त्तिगमाऩ तऩ्ऩुडैय स्वरूबत्तै यदार्त्त स्वरूबत्तैप् पिरगासप्पडुत्तुगिऱदु।
किञ्चान्यत् ।
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम् मऱ्ऱॊऩ्ऱु उळ्ळदु।
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ २४ ॥
न दुश्चरितात् प्रतिषिद्धाच्छ्रुतिस्मृत्यविहितात्पापकर्मणः अविरतः अनुपरतः। नापि इन्द्रियलौल्यात् अशान्तः अनुपरतः। नापि असमाहितःअनेकाग्रमनाः विक्षिप्तचित्तः। समाहितचित्तोऽपि सन्समाधानफलार्थित्वात् नापि अशान्तमानसः व्यापृतचित्तो वा। प्रज्ञानेन ब्रह्मविज्ञानेन एनं प्रकृतमात्मानम् आप्नुयात् , यस्तु दुश्चरिताद्विरत इन्द्रियलौल्याच्च, समाहितचित्तः समाधानफलादप्युपशान्तमानसश्चाचार्यवान् प्रज्ञानेन एवं यथोक्तमात्मानं प्राप्नोतीत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) सुरुदि स्मिरुदिगळिल् विलक्कप्पट्टदाऩ पाव कर्माक्कळिल् इरुन्दु विलगादवऩाल् इन्द आत्मा अडैय मुडियादु। इन्दिरियङ्गळिऩ् सञ्जलत्ताल् सान्दि अडैयादवऩाल् अडैय मुडियादु। मऩमाऩदु ऒरु निलैयिल् निऱुत्तप्पट्ट पॊऴुदुम् अनेग वॆळि विषयङ्गळिल् नोक्कुळ्ळवऩ् कलङ्गिय सित्तमुळ्ळवऩ्, अवऩ् मऩदै ऒरु निलैप्पडुत्तिऩालुम् समादियिल् उळ्ळ पलत्तिल् इच्चै उळ्ळवऩाय् सान्दमऱ्ऱ कलङ्गिय मऩमुडैयवऩ् पिरक्ञाऩत्तिऩाल् अदावदु पिरह्म्म ञाऩत्तिऩाल् इन्द आत्मावै अडैय मुडियादु। ऎवऩ् ऒरुवऩ् तुर् नडवडिक्कैगळिल् इरुन्दु विलगियुम् इन्दिरियङ्गळिऩ् सञ्जलत्तिलिरुन्दु ओय्वडैन्दुम् उळ्ळ समाहिदसित्तमुळ्ळवऩाय् समादि पलऩिलुम् उबसान्दि अडैन्द मऩदुडैयवऩ् सिऱन्द आसार्यऩै अडैन्दु अवर् उबदेसित्त ञाऩत्तिऩाल् आत्मावै अडैवाऩ् ऎऩ्बदु पॊरुळ्।
यस्त्वनेवंभूतः
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऎवऩ् इव्वाऱु इल्लैयो
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥
यस्त्वनेवंभूतः यस्य आत्मनः ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे सर्वधर्मविधारके अपि सर्वप्राणभूते उभे ओदनः अशनं भवतः स्याताम् , सर्वहरोऽपि मृत्युः यस्य उपसेचनमिवौदनस्य, अशनत्वेऽप्यपर्याप्तः, तं प्राकृतबुद्धिर्यथोक्तसाधनानभियुक्तः सन् कः इत्था इत्थमेवं यथोक्तसाधनवानिवेत्यर्थः, वेद विजानाति यत्र सः आत्मेति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎल्ला तर्मङ्गळैयुम् ताङ्गु किऩ्ऱवर्गळुम्, ऎल्लोरैयुम् काप्पाऱ्ऱुगिऩ्ऱवर्गळागिय पिराह्मणर् क्षत्तिरियर्गळ् ऎन्द आत्माविऱ्कु उणवागुम्, ऎल्लोरैयुम् कॊल्लुगिऩ्ऱवराऩ म्रुत्युवुम् ऎन्द उणविऱ्कु ऊऱुगाय् पोल् इरुक्किऱार्। साप्पिट्ट पिऩ्बुम् अदु अवरुक्कु पोऱाददागुम्। अन्द आत्मावै सादारण पुत्तियुडऩ् सादऩमऱ्ऱु इव्वाऱु इरुन्दुगॊण्डु ऎव्वाऱु मुऩ्बु कूऱिय सादऩवाऩ् पोल् अन्द आत्मावै ऎव्वाऱु अऱिय मुडियुम्।
इति द्वितीयवल्लीभाष्यम् ॥
तृतीया वल्ली
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥
ऋतं पिबन्तावित्यस्या वल्ल्याः सम्बन्धः —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऋतं पिबन्तौ (रुदम् पिबन्दौ) ऎऩ्ऱु इव्वाऱु मूऩ्ऱावदु वल्लीयिऩ् सम्बन्दमागुम्।
विद्याविद्ये नाना विरुद्धफले इत्युपन्यस्ते, न तु सफले ते यथावन्निर्णीते। तन्निर्णयार्था रथरूपककल्पना, तथा च प्रतिपत्तिसौकर्यम्। एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थं रथरूपकद्वारा द्वावात्मानावुपन्यस्येते —
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) वित्या अवित्या इरण्डुम् वेऱु ऎऩ्ऱुम्, अवै ऒऩ्ऱुक्कॊऩ्ऱु नेर्माऱाऩ पलऩ् उळ्ळऩवॆऩ्ऱुम् कूऱप्पट्टदु। आऩाल् अदऩ् पलत्तुडऩ् कूडियदै उळ्ळबडि निर्णयम् सॆय्यप्पडविल्लै। अदै निर्णयम् सॆय्वदिऩ् पॊरुट्टु (इन्दवल्लीयिल्) रद कल्बऩै नऩ्ऱाग पुरिन्दु कॊळ्वदऱ्काग सॆय्यप्पट्टदु। अव्वाऱे अडैबवऩ्, अडैय वेण्डिय स्ताऩम्, अव्वाऱे सॆल्ल वेण्डियदु, सॆल्ल वेण्डिय इडम् ऎदु ऎऩ्बदै पिरित्तु अऱिवदऱ्काग इरण्डु आत्माक्कळ् ऎऩ्ऱु उबऩ्यासम् सॆय्यप्पडुगिऱदु
ऋतं सत्यम् अवश्यंभावित्वात्कर्मफलं पिबन्तौ ; एकस्तत्र कर्मफलं पिबति भुङ्क्ते नेतरः, तथापि पातृसम्बन्धात्पिबन्तावित्युच्येते च्छत्रिन्यायेन। सुकृतस्य स्वयङ्कृतस्य कर्मणः ऋतमिति पूर्वेण सम्बन्धः। लोके अस्मिञ्शरीरे, गुहां गुहायां बुद्धौ प्रविष्टौ, परमे, बाह्यपुरुषाकाशसंस्थानापेक्षया परमम् , परार्धे परस्य ब्रह्मणोऽर्धं स्थानं परार्धं हार्दाकाशम्। तस्मिन्हि परं ब्रह्मोपलभ्यते। ततः तस्मिन्परमे परार्धे हार्दाकाशे प्रविष्टावित्यर्थः ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ‘ऋतं’ रुदम् ऎऩ्बदु अवसियम् सम्बविक्कक्कूडिय सत्यमाऩ कर्मबलत्तै इरण्डुम् अऩुबविक्किऩ्ऱऩ। अदिल् ऒऩ्ऱु कर्मबलत्तै अऩुबविक्किऩ्ऱदु। मऱ्ऱॊऩ्ऱु अऩुबविक्किऱदिल्लै। अप्पडि इरुन्द पोदिलुम् सत्तिरि नियायत्तै अऩुसरित्तु अऩुबविप्पदुडऩ् सम्बन्दम् इरुप्पदाल् इरण्डुम् अऩुबविक्किऱदु ऎऩ्ऱु कूऱप्पट्टदु। तऩ्ऩाल् सॆय्यप्पट्ट कर्मम् अवसियम् सम्बविक्कुम् ऎऩ्बदुडऩ् सम्बन्दिक्किऱदु। लोगे- ऎऩ्ऱाल् इन्द सरीरत्तिल् कुगैयिल् अदावदु पुत्तियिल् इरण्डुम् नुऴैन्दऩ। परमे ऎऩ्ऱदु वॆळियिल् पुरुषागासमाऩदैक् काट्टिलुम् मेलाऩदु। परम् ऎऩ्ऱदु परह्मत्तिऩुडैय स्ताऩम् अदुवे परार्त्तम्। अदिल्दाऩ् परप्रह्ममाऩदु अडैयप्पडुगिऱदु। आगैयाल् अन्द मेलाऩ पिरह्मस्ताऩमाऩ ह्रुदयागासत्तिल् इरण्डुम् नुऴैन्दऩ ऎऩ्ऱु अर्त्तम् कॊळ्ळप्पडुगिऱदु।
तौ च च्छायातपाविव विलक्षणौ संसारित्वासंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति। न केवलमकर्मिण एव वदन्ति। पञ्चाग्नयो गृहस्थाः। ये च त्रिणाचिकेताः त्रिःकृत्वो नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः ॥
ज्ञानानन्द-भारती - द्राविडी
अव्विरु आत्माक्कळुम् निऴल्, वॆयिल् पोल् संसारि असंसारि तऩ्मैयाल् विलक्षणमाऩवर्गळ् ऎऩ्ऱु पिरह्मत्तै अऱिन्दवर् सॊल्लुगिऱार्गळ्। इव्वाऱु अगर्मिगळ् मट्टुम् कूऱविल्लै। ऎवर्गळ् पञ्जाक्ऩिैय उबासिक्किऩ्ऱ किरहस्तर्गळागिय नासिगेदर्गळुम् कूऱुगिऩ्ऱार्गळ्। ऎवर्गळ् मूऩ्ऱु मुऱै नासिगेदाक्ऩियै (वळर्त्तार्गळो) उबासित्तार्गळो अवर्गळ् पञ्जाक्ऩियै उबासऩै सॆय्युम् किरहस्तर्गळ्। अवर्गळुम् इदैये कूऱुगिऱार्गळ्।
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ २ ॥
यः सेतुः सेतुरिव सेतुः ईजानानां यजमानानां कर्मिणाम् ,
दुःखसन्तरणार्थत्वात्। नाचिकेतं नाचिकेतोऽग्निः तम् , वयं ज्ञातुं चेतुं च
शकेमहि शक्तवन्तः। किञ्च, यच्च अभयं भयशून्यं संसारस्य पारं तितीर्षतां
तरितुमिच्छतां ब्रह्मविदां यत्परम् आश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच्च
ज्ञातुं शकेमहि।
परापरे ब्रह्मणी कर्मिब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः ;
तयोर् एव ह्युपन्यासः कृतः ‘ऋतं पिबन्तौ’ इति ॥
ज्ञानानन्द-भारती - द्राविडी
ऎन्द अक्ऩियाऩदु करैयैप् पोल् (सेदुवैप्पोल्) करैयाग(अबरप्रह्मम्) यागम् सॆय्गिऩ्ऱ यजमाऩर्गळागिय कर्मिगळुक्कु तुक्कत्तै नऩ्ऱाग ताण्डच् चॆय्युम् अन्द नासिगेदाक्ऩियै नाम् अऱिवदऱ्कुम् यागम् सॆय्वदऱ्कुम् समर्त्तर्गळावोम्। मेलुम् संसार करैयै ताण्डुवदऱ्कु तीविर इच्चै उळ्ळवर्गळागिय पिरह्म वित्तुगळुक्कु मेलाऩ आस्रयमाय् इरुक्किऩ्ऱ पयमऱ्ऱदुम्, अक्षरमायुम् इरुक्कुम् आत्मा ऎऩप्पडुम् अन्द पिरह्मत्तै अऱिवदऱ्कुम् समर्त्तर्गळावोम्। कर्मिगळुक्कुम् पिरह्म वित्तुक्कळुक्कुम् आस्रियमाऩ पराबर पिरह्मङ्गळ् अऱियप्पड वेण्डियवैगळ्, अदावदु उबासिक्कवुम् (यागम् सॆय्यवुम्)अऱियवुम् तक्कदु ऎऩ्बदु वाक्कियार्त्तम्। इन्द इरण्डैयुमे “रुदम् पिबन्दौ ” “ऋतं पिबन्तौ” ऎऩ्ऱु उबन्स्यक्कप्पट्टदु।
तत्र यः उपाधिकृतः संसारी विद्याविद्ययोरधिकृतो मोक्षगमनाय संसारगमनाय च, तस्य तदुभयगमने साधनो रथः कल्प्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) उबादियै उडैय संसारि वित्तैयिऩाल् मोक्षत्तै अडैयुम् पॊरुट्टुम् अवित्यैयै उडैय अदिगारि संसारत्तै अडैयुम् पॊरुट्टुम् अवऩुक्कु इरण्डुम् अडैवदऱ्काऩ सादऩैयै रद वडिवमाग कल्बिक्कप्पडुगिऱदु।
आत्मानं रथिनं विद्धि शरीरं रथमेव तु।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥
तत्रात्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि विजानीहि ; शरीरं रथम् एव तु रथबद्धहयस्थानीयैरिन्द्रियैराकृष्यमाणत्वाच्छरीरस्य। बुद्धिं तु अध्यवसायलक्षणां सारथिं विद्धि ; बुद्धिनेतृप्रधानत्वाच्छरीरस्य, सारथिनेतृप्रधान इव रथः। सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण। मनः सङ्कल्पविकल्पादिलक्षणं प्रग्रहमेव च रशनामेव विद्धि। मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ॥
ज्ञानानन्द-भारती - द्राविडी
अवैगळिल् अन्द आत्मावै कर्म पल पोगत्तै उडैय संसारियै रदत्तै ओट्टुम् सारदियाग अऱि। रदत्तिल् कट्टप्पट्ट कुदिरैगळुक्कु सममाग सरिरत्तिऩुडैय इन्दिरियङ्गळाल् नऩ्ऱाग कट्टुप्पट्टुळ्ळदाल् इन्द सरीरम् रदम् ऎऩप्पडुम्। सारदि रूबमाऩ नेदा (नडत्तुबवऩ्) रदत्तिऱ्कु ऎव्वाऱु पिरदाऩमो (मुक्कियमो) अव्वाऱु सरीरत्तिऱ्कु पुत्तियिऩ् नेत्रुत् तऩ्मै (नडत्तुम् तऩ्मै) पिरदाऩमाय् इरुप्पदाल् अत्यावसाय लक्षणमुडैय पुत्तियै सारदि ऎऩ्ऱु अऱि। अनेगमाग ऎल्ला तेहत्तैच् चेर्न्द कारियङ्गळुम् पुत्तियिऩ् कर्त्तव्यमे (पुत्तियिऩ् सॆयले।)मऩदै सङ्गल्ब, विगल्ब मुदलिय लक्षणङ्गळुडऩ् कूडियदै कडिवाळमाग अऱि। कडिवाळङ्गळाल् कट्टुप्पट्ट कुदिरैगळ् पोल् मऩदाल् अल्लवा कट्टुप्पट्टु सुरोत्तिरम् मुदलिय इन्दिरियङ्गळ् पिरविर्त्तिक्किऩ्ऱऩ।
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥
इन्द्रियाणि चक्षुरादीनि हयानाहुः रथकल्पनाकुशलाः, शरीररथाकर्षणसामान्यात्। तेषु इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन्विषयान् विद्धि। आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुतमात्मानं भोक्तेति संसारीति आहुः मनीषिणः विवेकिनः।
ज्ञानानन्द-भारती - द्राविडी
रद कल्बऩै सॆय्युम् सामर्त्तियसालिगळ् सरीरमुम् रदमुम् इऴुत्तल् ऎऩ्बदिल् सममाय् इरुप्पदाल् कण् मुदलिय इन्दिरियङ्गळै कुदिरैगळ् ऎऩ्गिऱार्गळ्। कुदिरैगळाय् कल्बिक्कप्पट्ट अन्द इन्दिरियङ्गळ् विषयङ्गळिल् रूबादि विषयङ्गळै मार्क्कङ्गळाग अऱिगिऩ्ऱऩ ऎऩ्बदै अऱि। सरीरम् इन्दिरियङ्गळ् मऩम् इवैगळुडऩ् कूडि सेर्न्दिरुप्पदै पोक्त्ता अल्लदु संसारि ऎऩ्ऱु विवेगिगळ् कूऱुगिऩ्ऱऩर्।
न हि केवलस्यात्मनो भोक्तृत्वमस्ति ; बुद्ध्याद्युपाधिकृतमेव तस्य भोक्तृत्वम्। तथा च श्रुत्यन्तरं केवलस्याभोक्तृत्वमेव दर्शयति — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४। ३। ७) इत्यादि। एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते, नान्यथा, स्वभावानतिक्रमात् ॥
ज्ञानानन्द-भारती - द्राविडी
केवलम् आत्माविऱ्कु पोक्त्रुत्तुवम् इल्लै। पुत्ति मुदलिय उबादियिऩाल् एऱ्पट्टदे पोक्त्रुत्वम्। अव्वाऱे वेऱु सुरुदियिलुम् काट्टप्पट्टुळ्ळदु, त्याऩिप्पदु पोल् लीलै पोल् ऎऩ्बदु मुदलियवैगळाल् । इव्वाऱु आत्माविऱ्कु उबादि मूलम्दाऩ् पोक्त्रुत्वम् एऱ्पडुगिऱदु ऎऩ्बदाल् पिऩ्ऩाल् सॊल्लप्पडुम् रद कल्बऩैयाऩदु वैष्णव पदमागिय आत्मत्तुव रूबमाऩ ञाऩत्तिऱ्कुम् पॊरुन्दुम्। वेऱु विदमाग सॊऩ्ऩाल् पॊरुन्दादु। एऩ् ऎऩिल् स्वबावत्तिऱ्कु माऱुबाडु एऱ्पडाददे कारणमागुम्।
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥
तत्रैवं सति यस्तु बुद्ध्याख्यः सारथिः अविज्ञानवान् अनिपुणोऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति यथेतरो रथचर्यायाम् अयुक्तेन अप्रगृहीतेन असमाहितेन मनसा प्रग्रहस्थानीयेन सदा युक्तो भवति, तस्य अकुशलस्य बुद्धिसारथेः इन्द्रियाणि अश्वस्थानीयानि अवश्यानि अशक्यनिवारणानि दुष्टाश्वाः अदान्ताश्वाः इव इतरसारथेः भवन्ति ॥
ज्ञानानन्द-भारती - द्राविडी
अव्वाऱु इरुन्दालुम् पुत्ति रूब सारदि अऱियामैयाल् निबुऩत्तऩ्मै इल्लादवऩुमागिय अविवेगि पिरविर्त्तियिलुम् निविर्त्तियिलुम् ऎव्वाऱु मऱ्ऱ रदत्तै ओट्टुबवऩ् कडिवाळम् इल्लामल् इरुन्दाल् ऎव्वाऱो अव्वाऱु कट्टुप्पडाद मऩदुडऩ् कडिवाळत्तिऱ्कु ऒप्पाऩ स्ताऩत्तिल् ऎप्पॊऴुदुम् कूडियवऩाय् इरुक्किऱाऩ्। अन्द सामर्त्तियमऱ्ऱ पुत्तियागिय सारदियिऩुडैय इन्दिरियङ्गळ् कुदिरैगळ् स्ताऩत्तिल् इरुन्दु कॊण्डु वसप्पडामल् तुष्ट्ट कुदिरैगळ् पोल् आगिऩ्ऱऩ।
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥
यस्तु पुनः पूर्वोक्तविपरीतसारथिर्भवति तस्य फलमाह — यस्तु विज्ञानवान् निपुणः विवेकवान् युक्तेन मनसा प्रगृहीतमनाः समाहितचित्तः सदा, तस्य अश्वस्थानीयानीन्द्रियाणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि दान्ताः सदश्वा इवेतरसारथेः ॥
ज्ञानानन्द-भारती - द्राविडी
ऎवऩ् ऒरुवऩ् मुऩ्ऩर् कूऱिय अविवेगि सारदियैक् काट्टिलुम् वेऱुबट्टवऩाऩ सारदियायुम् विक्ञाऩवऩायुम् अडक्किय मऩमुडैय सित्त समादऩमुडैयवऩ् ऎप्पॊऴुदु तऩ्ऩुडैय कुदिरैगळ् स्ताऩत्तिल् उळ्ळ इन्दिरियङ्गळै पिरविर्त्तिक्क सॆय्यवुम्, निवर्त्तिक्क सॆय्यवुम् मुडिवदाल् वसम् अडैन्द अडक्कप्पट्ट नल्ल कुदिरैगळ् पोल् इन्द पुत्ति ऎऩ्ऱ सारदि विळङ्गुगिऱदु।
तत्र पूर्वोक्तस्याविज्ञानवतो बुद्धिसारथेरिदं फलमाह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) अन्द मुऩ्ऩर् कूऱिय विक्ञाऩमऱ्ऱ पुत्तिरूब सारदियिऩ् इन्द पलमाऩदु कूऱप्पडुगिऱदु।
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७ ॥
यस्त्वविज्ञानवान्भवति। अमनस्कः अप्रगृहीतमनस्कः सः तत एव अशुचिः सदैव। न सः रथी तत् पूर्वोक्तमक्षरं यत्परं पदम् आप्नोति तेन सारथिना। न केवलं तन्नाप्नोति, संसारं च जन्ममरणलक्षणम् अधिगच्छति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎवऩ् ऒरुवऩ् अविक्ञाऩवाऩो अवऩ् मऩदैक् कट्टुप्पडुत्तादवऩ्। अवऩ् ऎप्पॊऴुदुम् पवित्तिरमऱ्ऱवऩागवे इरुक्किऱाऩ्। अन्द सारदियिऩाल् अन्द रदियाऩवऩ् मुऩ्ऩर् कूऱप्पट्ट अक्षरमागिय ऎन्द मेलाऩ पदम् उण्डो अदै अडैय माट्टाऩ्। अन्द कैवल्यत्तै मट्टुम् अडैयविल्लै ऎऩ्बदु इल्लै। जऩ्म मरण तर्मङ्गळुडैय संसारत्तै अडैगिऱाऩ्।
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८ ॥
यस्तु द्वितीयो विज्ञानवान् भवति विज्ञानवत्सारथ्युपेतो रथी, विद्वानित्येतत्। युक्तमनाः समनस्कः सः तत एव सदा शुचिः। स तु तत्पदमाप्नोति, यस्मादाप्तात्पदादप्रच्युतः सन् भूयः पुनः न जायते संसारे ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द इरण्डावदु अदिगारि विक्ञाऩमुळ्ळ सारदियुडऩ् कूडिय रदियाऩवऩ् (ञाऩम् उळ्ळवऩ्) ऎऩ्बदागुम्। अडक्किय मऩदुडैयवऩ्दाऩ् ऎप्पॊऴुदुम् पवित्तिरमाऩवऩ्, अवऩे तत्पदत्तै अडैगिऱाऩ्। अडैयप्पट्टदिऩिऩ्ऱुम् नऴुवदल् इल्लामल् इरुन्दु कॊण्डु मऱुबडियुम् संसारत्तिल् पिऱक्क माट्टाऩ्।
किं तत्पदमित्याह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) अन्द पदम् ऎदु? ऎऩ्बदु कूऱप्पडुगिऱदु
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९ ॥
विज्ञानसारथिः यस्तु यो विवेकबुद्धिसारथिः पूर्वोक्तः मनःप्रग्रहवान् प्रगृहीतमनाः समाहितचित्तः सन् शुचिर्नरो विद्वान् , सः अध्वनः संसारगतेः पारं परमेव, अधिगन्तव्यमित्येतत् , आप्नोति, मुच्यते सर्वसंसारबन्धनैः। तत् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानम् , सतत्त्वम् इत्येतत् , यत् असावाप्नोति विद्वान् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) विवेग पुत्तियुळ्ळ सारदि मुऩ्बु कूऱियदु पोल् मऩदैक् कट्टुप्पडुत्तिऩवऩागिय सादु वित्वाऩ् संसारत्तिऩ् ऎल्लैयाऩ (मुडिवाऩ) परत्तैये अडैय वेण्डुम् ऎऩ्बदागुम्। अदावदु संसारत्तिलिरुन्दु विडुबडुगिऱाऩ्। अन्द वित्वाऩ् वियाबगमाऩ परमात्मावागिय वासुदेव स्वरूबमागिय मेलाऩ स्ताऩत्तै अडैगिऱाऩ्।
अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्यारभ्य सूक्ष्मतारतम्यक्रमेण प्रत्यगात्मतयाधिगमः कर्तव्य इत्येवमर्थमिदमारभ्यते ।
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) (अऩुवादम्) इप्पॊऴुदु ऎन्द पदत्तै अडैय वेण्डुम् ऎऩ्बवऩ् स्तूलमागिय इन्दिरियङ्गळ् आरम्बित्तु सूक्ष्मदारदम्मियत्तै अऩुसरित्तु पिरत्यक् आत्म स्वरूबमाग अडैयवेण्डुम् ऎऩ्बदऱ्ताग इदु आरम्बिक्कप्पडुगिऱदु।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १० ॥
स्थूलानि तावदिन्द्रियाणि, तानि यैः परैरर्थैरात्मप्रकाशनायारब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यः ते परा हि अर्थाः सूक्ष्मा महान्तश्च प्रत्यगात्मभूताश्च।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द इन्दिरियङ्गळ् स्तूलङ्गळ् ऎन्द सप्त स्पर्सादि विषयङ्गळ् मूलमाग तऩ्ऩै तॆरियप्पडुत्तिक् कॊळ्ळ आरम्बमाऩदो। अन्द विषयङ्गळ् तऩ्ऩुडैय कारिय पूदमाऩ इन्दिरियङ्गळैक् काट्टिलुम् सूक्ष्ममाऩदु। मेलुम् महाऩायुम् पिरत्यक् आत्मावायुम् इरुक्किऱदु।
तेभ्योऽपि अर्थेभ्यश्च परं सूक्ष्मतरं महत्प्रत्यगात्मभूतं च मनः। मनःशब्दवाच्यं मनस आरम्भकं भूतसूक्ष्मम् , सङ्कल्पविकल्पाद्यारम्भकत्वात्। मनसोऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः, बुद्धिशब्दवाच्यमध्यवसायाद्यारम्भकं भूतसूक्ष्मम्। बुद्धेरात्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वादात्मा महान् सर्वमहत्त्वात् अव्यक्ताद्यत्प्रथमं जातं हैरण्यगर्भं तत्त्वं बोधाबोधात्मकं महानात्मा बुद्धेः पर इत्युच्यते ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द सप्तादि अर्त्तङ्गळै (विषयङ्गळै)क् काट्टिलुम् मेलाऩदु। मिगवुम् सूट्क्ष्ममाऩदुम् महत्तायुम् उळ्ळ प्रत्यक् आत्म पूदमाऩदु मऩमागुम्। मऩ सप्तवाच्चियम् मऩमाऩदु सङ्गल्ब विगल्बङ्गळ् मुदलियवैगळुक्कु आरम्बमाय् इरुप्पदाल् मऩदिऩ् आरम्बम् पूद सूक्षममागुम्। पुत्तियिऩ् आत्मा ऎल्ला पिराणिगळिऩ् पुत्तिगळुक्कु आत्मावाय् इरुप्पदाल् आत्मा ऎल्ला महत्तुवत्तिऱ्कॆल्लाम् महत्तागुम्। अव्यक्तत्तिलिरुन्दु मुदलिल् उण्डाऩ हिरण्यगर्ब तत्तुवम् पोदाबोदात्मगमाग उळ्ळ महत् आत्मा पुत्तियैक् काट्टिलुम् मेलाऩदु।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ ११ ॥
महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं च अव्यक्तं सर्वस्य जगतो बीजभूतम् अव्याकृतनामरूपं सतत्त्वं सर्वकार्यकारणशक्तिसमाहाररूपम् अ-व्यक्तम् अव्याकृताकाशादिनामवाच्यं परमात्मन्य् ओत-प्रोत-भावेन समाश्रितं वट-कणिकायाम् इव वट-वृक्ष-शक्तिः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) महत्तैक् काट्टिलुम् परमाऩदुम् सूक्ष्ममाऩदुम् आऩ पिरत्यक् आत्म पूदम् ऎल्लावऱ्ऱैक् काट्टिलुम् महत्तरम् आगुम्। अव्याक्रुद नाम रूबङ्गळिऩ् सत्तास्वरूबम्। ऎल्ला कारिय कारणङ्गळिऩ् समाहार रूबमागुम्। अव्यक्तम् अव्यागिरुदम्, आगासम् मुदलिय नामङ्गळिऩाल् कुऱिप्पिडप्पट्टदागुम्। परमात्माविडत्तिल् ऒदप्प्रोद पावत्तिऩाल् वडविरुक्ष(आलमरम्) विदैयिल् इरुक्कुम् वडविरुक्ष सक्ति पोल् आच्रियत्तिरुक्किऱदु।
तस्मादव्यक्तात् परः सूक्ष्मतरः सर्वकारणकारणत्वात्प्रत्यगात्मत्वाच्च महांश्च, अत एव पुरुषः सर्वपूरणात्। ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह — पुरुषान्न परं किञ्चिदिति। यस्मान्नास्ति पुरुषाच्चिन्मात्रघनात्परं किञ्चिदपि वस्त्वन्तरम् , तस्मात्सूक्ष्मत्वमहत्त्वप्रत्यगात्मत्वानां सा काष्ठा निष्ठा पर्यवसानम् ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द अव्यक्तत्तैक् काट्टिलुम् मेलाऩ सूक्ष्मदरमाऩदायुम् ऎल्ला कारणङ्गळुक्कुम् कारणमाऩदायुम्, पिरत्यक् आत्मावायुम्, महाऩायुम्, ऎल्लावऱ्ऱिलुम् पूरणमायुम् इरुप्पदाल् पुरुषऩ् ऎऩप्पडुगिऱाऩ्। अदैक् काट्टिलुम् वेऱाऩ मेलाऩ (उत्क्रुष्ट्टमाऩ) पिरसक्तियै निरागरित्तु पुरुषऩैक् काट्टिलुम् मेलाऩदु ऒरु सिऱिदुम् इल्लै ऎऩप्पट्टदु। अन्द पुरुषऩाऩ सिऩ्मात्तरगऩऩैक् काट्टिलुम् मेलाऩ वेऱु वस्तु सिऱिदुम् इल्लै ऎऩ्बदाल् सूक्ष्मत्तुवम्, महत्तुवम्, पिरत्यक्आत्मत्तुवम् इवैगळिऩ् परागाष्ट्टा मेलाऩ निलै अदावदु मुडिवाऩ निलैयागुम्।
अत्र हि इन्द्रियेभ्य आरभ्य सूक्ष्मत्वादि परिसमाप्तम्। अत एव च गन्तॄणां सर्वगतिमतां संसारिणां सा परा प्रकृष्टा गतिः, ‘यद्गत्वा न निवर्तन्ते’ (भ. गी. १५। ६) इति स्मृतेः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इङ्गु इन्दिरियङ्गळ् आरम्बित्तु सूक्ष्मत्तुवम् मुदलियवैगळ् मुडिवु पॆऱुगिऩ्ऱऩ। आगैयाल् ताऩ् (कन्द्रुणाम्) अदावदु ऎल्ला कदिगळै उडैय संसारिगळुक्कु इदु मेलाऩ अदावदु उत्क्रुष्ट्टमाऩ कदियागुम्। अदावदु ऎदै सॆऩ्ऱु अडैन्दु मऱुबडियुम् तिरुम्बुदल् इल्लैयो ऎऩ्ऱु कीदास्म्रुदियिल् कूऱप्पट्टुळ्ळदु।
ननु गतिश्चेदागत्यापि भवितव्यम् , कथम् ‘यस्माद्भूयो न जायते’ (क. उ. १। ३। ८) इति ?
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) सङ्गै सॆल्लुदल् कदि इरुन्दाल् तिरुम्बि वरुदल् अवसियम् एऱ्पड वेण्डुम्। अव्वाऱॆऩिल् ऎदऩाल् मऱुबडियुम् पिऱप्पदिल्लै? ऎऩ्ऱु
नैष दोषः। सर्वस्य प्रत्यगात्मत्वादवगतिरेव गतिरित्युपचर्यते। प्रत्यगात्मत्वं च दर्शितम् इन्द्रियमनोबुद्धिपरत्वेन।
ज्ञानानन्द-भारती - द्राविडी
(समादाऩम्)इन्द तोषम् इल्लै। ऎल्लावऱ्ऱिऱ्कुम् पिरत्यक् आत्मावाय् इरुप्पदाल् अऱिवदेदाऩ् कदि ऎऩ्ऱु उबसारमागक् कूऱप्पट्टदु। पिरत्यक् आत्म तत्तुवमाऩदु इन्दिरिय मऩो पुत्ति इवैगळैक् काट्टिलुम् मेलाऩदाग उत्क्रुष्ट्टमाऩदागक् काट्टप्पट्टदु।
यो हि गन्ता सोऽयमप्रत्यग्रूपं पूरुषं गच्छति अनात्मभूतं न विन्दति स्वरूपेण। तथा च श्रुतिः ‘अनध्वगा अध्वसु पारयिष्णवः’ ( ? ) इत्याद्या। तथा च दर्शयति प्रत्यगात्मत्वं सर्वस्य।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎवऩ् ऒरुवऩ् पिरत्यक् आत्मावै अडैन्दाऩो अवऩे आत्मावै अडैन्दवऩ्। अदऱ्कु विबरीदमाऩ अनात्मावै अडैय माट्टाऩ्। अव्वाऱे सुरुदियुम् कूऱुगिऱदु। “अनध्वगा अध्वसु पारयिष्णवः” (अनत्वगा अत्वसु पारयिष्णव:) ऎऩ्ऱु अदावदु संसारत्तै कडप्पदऱ्कु इच्चै उळ्ळवऩ् मार्क्कम् अऱ्ऱवऩागिऱाऩ्। (एऩ् ऎऩिल् ताऩागवे इरुप्पदाल् मार्क्कम् तेवै इल्लै ऎऩ्बदागुम्) अव्वाऱे ऎल्ला जीवरासिगळुक्कुम् प्रत्यक् आत्मत्वमाग इरुत्तल् काण्बिक्कप्पडुगिऱदु।
एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते।
दृश्यते त्वग्न्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥
एष पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु गूढः संवृतः
दर्शनश्रवणादिकर्मा अविद्यामायाच्छन्नः अत एव आत्मा न प्रकाशते आत्मत्वेन
कस्यचित्। अहो अतिगम्भीरा दुरवगाह्या विचित्रा चेयं माया, यदयं सर्वो
जन्तुः परमार्थतः परमार्थसतत्त्वोऽप्येवं बोध्यमानोऽहं परमात्मेति न गृह्णाति,
अनात्मानं देहेन्द्रियादिसङ्घातम् आत्मनो दृश्यमानम् अपि
घटादिवद् आत्मत्वेनाहम् अमुष्य पुत्र इत्य् अनुच्यमानोऽपि गृह्णाति।
नूनं परस्यैव
मायया मोमुह्यमानः सर्वो लोकोऽयं बम्भ्रमीति। तथा च स्मरणम् — ‘नाहं प्रकाशः सर्वस्य योगमायासमावृतः’ (भ. गी. ७। २५) इत्यादि।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्द परमात्मा पिरह्मा मुदल् सिऱु पूच्चि वरै ऎल्ला जीवरासिगळ् उळ्ळुम् मऱैन्दु पार्त्तल्, केट्टल् मुदलिय कर्मङ्गळ् उळ्ळवऩागवुम् मायैयिऩाल् मऱैक्कप्पट्टुळ्ळवऩागवुम् इरुक्किऱाऩ्। आगैयाल् आत्मा ऒरुवरुक्कुम् आत्मावाग (ताऩाग) विळङ्गविल्लै। मिगवुम् कम्बीरमाऩदुम् विळङ्गाददुम्, विसित्तिरमाऩदुमाऩ इन्द मायैयाऩदु ऎन्द इन्द ऎल्ला जीवरासिगळुम् उण्मैयिल् परमार्त्त तत्तुवमाऩालुम् नाऩ् परमात्मा ऎऩ्ऱु सुरुदियिऩाल् अऱियच् चॆय्यप्पट्टालुम् आत्मावै नाऩ् पिरह्मम् ऎऩ्ऱु पुरिन्दु कॊळ्वदिल्लै। कुडम् मुदलियवैगळ् पोल् तेह इन्दिरियङ्गळ् मुदलियवैगळुडऩ् कूडियदु ऎऩ्ऱु अऱिन्दु इरुन्दालुम् अदै आत्मावाग निऩैत्तु नाऩ् इवरुडैय पुत्तिरऩ् ऎऩ्ऱु कूऱाविट्टालुम् अऱिन्दु कॊळ्गिऱाऩ्। निच्चयमाग परमात्माविऩुडैय मायैयिऩाल् मोहमडैन्दु लोगत्तिल् ऎल्लाम् सुऴऩ्ऱु कॊण्डिरुक्किऩ्ऱऩ। अव्वाऱे स्मिरुदियिलुम् (कीदैयिलुम्) “(नाहम् प्रगास सर्वस्य योगमायया समाविरुत्त)” योग मायैयिऩाल् नऩ्ऱाग मऱैक्कप्पट्टुळ्ळदाल् ऎल्लोरुक्कुम् नाऩ् विळङ्गुवदिल्लै।
ननु विरुद्धमिदमुच्यते — मत्वा धीरो न शोचति, न प्रकाशत इति च। नैतदेवम्। असंस्कृतबुद्धेरविज्ञेयत्वान्न प्रकाशत इत्युक्तम्। दृश्यते तु संस्कृतया अग्न्यया, अग्रमिवाग्न्या तया, एकाग्रतयोपेतयेत्येतत् ; सूक्ष्मया सूक्ष्मवस्तुनिरूपणपरया। कैः ? सूक्ष्मदर्शिभिः ‘इन्द्रियेभ्यः परा ह्यर्थाः’इत्यादिप्रकारेण सूक्ष्मतापारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिनः, तैः सूक्ष्मदर्शिभिः, पण्डितैरित्येतत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) (सङ्गै) आऩाल्मत्वा धीरो न शोचति (मत्वा तीरो न सोच्चदि) (अन्द कूडात्मावै) अऱिन्दवऩ् सोगत्तै अडैयमाट्टाऩ्, “न प्रकाशते” (न पिरगासदे) विळङ्गविल्लै ऎऩ्ऱुम् माऱुबाडाग कूऱप्पट्टदु ऎऩिल् इव्वाऱु अल्ल, नऩ्ऱाग पण्बडुत्तप्पडाद पुत्तियिऩाल् अऱिय मुडियाददाल् पिरगासिप्पदिल्लै ऎऩ्ऱु कूऱप्पट्टदु। आऩाल् अदु (आत्मावाऩदु) यारुक्कु विळङ्गुम्? नल्ल पण्बडुत्तप्पट्ट कूर्मैयाऩ सूक्ष्ममाऩ एगाक्रमऩदु उडैयवर्गळाऩ सूक्ष्म तर्सिगळुक्कु विळङ्गुम्। (इन्दिरियेप्य: पराह्यर्त्ता:) इन्दिरियङ्गळैक् काट्टिलुम् सूक्षम पारम्बरिय विसारत्ताल् परमाऩ सूक्ष्मत्तै तॆरिन्दु कॊळ्ळ सामर्त्तियम् ऎवर्गळुक्कु इरुक्किऱदो अवर्गळ् सूक्षमदर्सिगळ्। अवर्गळे पण्डिदर्गळ्।
तत्प्रतिपत्त्युपायमाह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै)अदै अडैवदऱ्काऩ वऴि कूऱप्पडुगिऱदु,
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३ ॥
यच्छेत् नियच्छेदुपसंहरेत् प्राज्ञः विवेकी। किम् ? वाक् वाचम् ; वागत्रोपलक्षणार्था सर्वेषामिन्द्रियाणाम्। क्व ? मनसी मनसि। छान्दसं दैर्घ्यम्। तच्च मनः यच्छेत् ज्ञाने प्रकाशस्वरूपे बुद्धावात्मनि। बुद्धिर्हि मनआदिकरणान्याप्नोतीत्यात्मा प्रत्यक् च तेषाम्। ज्ञानं बुद्धिम् आत्मनि महति प्रथमजे नियच्छेत्। प्रथमजवत्स्वच्छस्वभावकमात्मनो विज्ञानमापादयेदित्यर्थः। तं च महान्तमात्मानं यच्छेत् शान्ते सर्वविशेषप्रत्यस्तमितरूपे अविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्ये आत्मनि ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) विवेगियाऩवऩ् ऒडुक्क वेण्डुम् ऎदै? वाक्कै। वाक् ऎऩ्ऱ पदमाऩदु ऎल्ला इन्दिरियङ्गळुक्कुम् उबलक्षणमागक् कूऱप्पट्टदु। ऎदिल् ऒडुङ्गच् चॆय्य वेण्डुम्? मऩदिल्। अन्द मऩदै ञाऩत्तिल् अदावदु प्रगास रूबमाऩ पुत्तियिल् अदावदु आत्माविल् ,पुत्ति अल्लवा मऩ मुदलिय करणङ्गळिल् (इन्दिरियङ्गळिल्) वियाबित्तिरुप्पदाल् अवैगळिऩ् आत्मा पिरत्यक् स्वरूबमागुम्। अन्द ञाऩ रूब आत्मावै मुदलिल् तोऩ्ऱिय महत् आगिय आत्माविल् ऒडुङ्गच् चॆय्य वेण्डुम्। मुदलिल् तोऩ्ऱिय महत्तैप् पोल् आत्मावै स्वच्चस्वबावमुळ्ळदाग अडैयच् चॆय् ऎऩ्बदु पॊरुळ्। अन्द महत् आऩ आत्मावै सान्दत्तिल् अदावदु ऎल्ला विसेषङ्गळुम् अऱ्ऱदुम्, माऱुबाडु अऱ्ऱदुम्, ऎल्लार् उळ्ळुम् उळ्ळदुम्, ऎल्ला पुत्ति (पिरत्तियङ्गळुक्कु) विरुत्तिगळुक्कुम् साक्षियाय् उळ्ळदुम् मुक्किय आत्माविडत्तिल् ऒडुङ्गच् चॆय्य वेण्डुम्।
एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः, अतस्तद्दर्शनार्थम
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) (अ-कै) काऩल्, कयिऱु, आगासम् इवैगळिऩ् सॊरूबत्तै अऱिन्ददिऩालेये काऩल् नीर्, कयिऱ्ऱिल् पाम्बु, आगायत्तिऩ् मलिऩम् ऎल्लाम् नीङ्गुवदु पोल् स्वात्म यदार्त्त ञाऩत्ताल् नामम्, रूबम्, कर्म इवै मूऩ्ऱुम् मित्तिया ञाऩत्तिऩाल् वॆळिप्पट्ट किरिया कारग पलत्तै उडैयवैगळ् ऎल्लाम् आत्माविल् इव्वाऱु ऒडुङ्गच् चॆय्दु अन्द पुरुषऩ् तऩ्ऩिल् निलैत्तवऩायुम्,प्रसान्दा आत्मावायुम् किरुदगिरुत्यऩागवुम् आगिऩ्ऱाऩ्। ऎदऩालो अदऩाल् अन्द आत्मावै तरिसिक्क सॆय्य वेण्डियदऱ्काग।
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४ ॥
अनाद्यविद्याप्रसुप्ताः उत्तिष्ठत हे जन्तवः, आत्मज्ञानाभिमुखा भवत ; जाग्रत अज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अनादि अवित्तियिऩाल् तुयिलुम् जीवऩे! ऎऴुमिऩ्। आत्म ञाऩत्तिल् मऩदैक् उळ्मुगमाक्कुङ्गळ्। कोरमाऩ ऎल्ला अनर्त्तङ्गळुक्कुम् कारण पूदमाऩ अक्ञाऩ नित्तिरैयिलिरुन्दु विऴित्तुक् कॊण्डु अन्द अक्ञाऩत्तै नासम् सॆय्।
कथम् ? प्राप्य उपगम्य वरान् प्रकृष्टानाचार्यांस्तत्त्वविदः, तदुपदिष्टं सर्वान्तरमात्मानमहमस्मीति निबोधत अवगच्छत ; न ह्युपेक्षितव्यमिति श्रुतिरनुकम्पया आह मातृवत् , अतिसूक्ष्मबुद्धिविषयत्वाज्ज्ञेयस्य। किमिव सूक्ष्मबुद्धिरिति, उच्यते — क्षुरस्य धारा अग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया। यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसम्पाद्यमित्येतत् ; पथः पन्थानं तत् तं ज्ञानलक्षणं मार्गं कवयः मेधाविनो वदन्ति। ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयस्य ज्ञानमार्गस्य दुःसम्पाद्यत्वं वदन्तीत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎव्वाऱु तत्तुवत्तै अऱिन्द मिगच् चिऱन्द आच्चारियरै अडैन्दु अवर् उबदेसित्त ऎङ्गुम् उळ्ळ आत्मावै नाऩाय् इरुक्किऱेऩ् ऎऩ्ऱु अऱि। अदै निरागरिक्कक् कूडादु ऎऩ्ऱु ऒरु तायैप् पोल् सुरुदियाऩदु करुणैयिऩाल् क्ञेयमाऩदु मिगच् चूक्ष्म पुत्ति विषयमाय् इरुप्पदाल् इव्वाऱु कूऱुगिऱदु। ऎदैप् पोल् सूक्ष्म पुत्ति इरुक्किऱदु ऎऩ्ऱु कूऱप्पडुगिऱदु। कत्ति मुऩै पोल् मिगुन्द कूर्मैयाल् कष्टप्पट्टु नडक्क कूडियदाय् सूक्ष्म पुत्ति इरुक्किऱदु। अदावदु काल्गळाल् नडन्दु सॆल्ल मुडियाददाय् ऎव्वाऱु इरुक्किऱदो अव्वाऱु इरुक्किऱदु। तत्वञाऩलक्षणमार्क्कम् ऎऩ्ऱु मेदाविगळ् कूऱुगिऱार्गळ्। ञेयम् मिगवुम् सूक्ष्ममाय् इरुप्पदाल् अन्द विषयत्तिऩुडैय मार्क्कमुम् मिगक् कडिऩमाऩदु ऎऩ्ऱु कूऱुगिऱार्गळ् ऎऩ्बदु अबिप्रायम्।
तत्कथमतिसूक्ष्मत्वं ज्ञेयस्येति, उच्यते। स्थूला तावदियं मेदिनी शब्दस्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता तथा शरीरम्। तत्रैकैकगुणापकर्षेण गन्धादीनां सूक्ष्मत्वमहत्त्वविशुद्धत्वनित्यत्वादितारतम्यं दृष्टमबादिषु यावदाकाशमिति। ते गन्धादयः सर्व एव स्थूलत्वाद्विकाराः शब्दान्ताः यत्र न सन्ति, किमु तस्य सूक्ष्मत्वादिनिरतिशयत्वं वक्तव्यमित्येतद्दर्शयति श्रुतिः
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ञेय आत्माविऱ्कु अदि सूक्ष्मत्तऩ्मै ऎव्वाऱु ऎऩ्ऱु कूऱप्पडुगिऱदु। सप्तस्पर्स रूबरसगन्दत्तुडऩ् निऱैवुबॆऱ्ऱ सर्व इन्दिरिय विषयङ्गळुडऩ् कूडिय स्तूलमाऩ इन्द पिरुदिवी अव्वाऱे इन्द सरीरमुम् आगुम्। अवऱ्ऱुळ् आगायम् मुदलाऩवऱ्ऱुळ् मुऱ्कूऱिय कन्दमुदलिय ऐन्दु कुणङ्गळुळ् ऒव्वॊरु कुणमुम् कुऱैवदिऩ् मूलम् सूक्ष्मत्तुवम्, महत्तुवम्, विसुत्तत्तुवम्, नित्यत्तुवम् मुदलियवऱ्ऱिऩ् तारदम्यम् पार्क्कप्पडुगिऱदु। आगासम् मुदलिय अदावदु अदऩ् कुणङ्गळ् मुदलियवैगळ् ऎल्लाम् स्तूलमाय् इरुप्पदाल् सप्तम् वरैयिलुम् उळ्ळ विगारङ्गळ् ऎङ्गु इल्लैयो अदऱ्कु अदऩुडैय सूक्ष्मत्तुव मुदलिय निर तिसयत्तुवम् कूऱवेण्डुमा ऎऩ्ऱु सुरुदियाऩदु ऎडुत्तुरैक्किऱदु।
अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ १५ ॥
अशब्दम् अस्पर्शम् अरूपम् अरसम् अगन्धवच् च यत् ,
एतद् व्याख्यातं ब्रह्म।
अव्ययम् , यद्धि शब्दादिमत् , तद्व्येति ; इदं त्वशब्दादिमत्त्वादव्ययं न व्येति न क्षीयते ; अत एव च नित्यम् ; यद्धि व्येति, तदनित्यम् ; इदं तु न व्येति ;
अतो नित्यम्। इतश्च नित्यम् — अनादि अविद्यमानः आदिः कारणमस्य तदिदमनादि।
यच्चादिमत् , तत्कार्यत्वादनित्यं कारणे प्रलीयते यथा पृथिव्यादि ; इदं तु
सर्वकारणत्वादकार्यम् , अकार्यत्वान्नित्यम् ; न तस्य कारणमस्ति यस्मिन्प्रलीयेत।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) सप्तम् अऱ्ऱदुम्, स्पर्समऱ्ऱदुम् रूबमऱ्ऱदुम्, अव्ययमायुम्, अव्वाऱे रसमऱ्ऱदुम् ,वासऩैयऱ्ऱदुमाय् ऎदु उळ्ळदो अदु अव्ययम् पिरह्मम् ऎऩ्ऱु वियाक्यादम् सॆय्यप्पट्टदु——- ऎदु सप्तादिगळै उडैयदो अदु नासमागुम्। आऩाल् इदुवो सप्तम् मुदलियवैगळ् अऱ्ऱदाल् नासमऱ्ऱदु (अव्ययम्) आगैयाल्दाऩ् नित्तियम्, ऎदु नासमागिऱदो अदु अनित्तियमागुम्। अदु नासमडैयादु। आगैयाल् नित्तियम् अनादि ऎऩ्ऱाल् आदियाऩदु, कारणमाऩदु ऎदऱ्कु इल्लैयो अदु अनादि ऎऩप्पडुम्। ऎदऱ्कु आदि अदावदु ऎदऱ्कु कारणम् इरुक्किऱदो अदु कारियमावदाल् अनित्तियम्। ऎव्वाऱॆऩिल् पिरुदिवियादि कारणत्तिल् लयमावदु पोल् आगुम्। आऩाल् इन्द प्रह्ममो ऎल्लावऱ्ऱिऱ्कुम् कारणमावदाल् कारियमागादु। कारियम् अल्लाददाल् नित्तियम्, अदऱ्कु कारणम् इल्लै। आगैयाल् अदु ऎन्द कारणत्तिल् लयमागुम्।
तथा अनन्तम् अविद्यमानोऽन्तः कार्यमस्य तदनन्तम्। यथा कदल्यादेः फलादिकार्योत्पादनेनाप्यनित्यत्वं दृष्टम् , न च तथाप्यन्तवत्त्वं ब्रह्मणः ; अतोऽपि नित्यम्।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अव्वाऱु अऩन्दमुम् आगुम् (अदावदु मुडिवु अऱ्ऱदागुम्)। ऎदऱ्कु मुडिवु (अन्दम्) अदावदु कारियम् इल्लैयो अदु अऩन्दम्। ऎव्वाऱु कदलि मुदलियवैगळ् पऴम् मुदलिय कारियत्तै उऱ्पत्ति सॆय्दालुम् अदिल् अनित्यमाऩदु काणप्पडुगिऱदु। अप्पडियाऩालुम् पिरह्मत्तिऱ्कु मुडिवु इल्लै।(अनन्तत्वम्-अनन्दत्तुवम्) अदऩालुम् नित्तियमागुम्।
महतः महत्तत्त्वाद्बुद्ध्याख्यात् परं विलक्षणं नित्यविज्ञप्तिस्वरूपत्वात् ; सर्वसाक्षि हि सर्वभूतात्मत्वाद्ब्रह्म। उक्तं हि — ‘एष सर्वेषु भूतेषु’ (क. उ. १। ३। १२) इत्यादि। ध्रुवं च कूटस्थं नित्यं न पृथिव्यादिवदापेक्षिकं नित्यत्वम्। तत् एवंभूतं ब्रह्म आत्मानं निचाय्य अवगम्य तम् आत्मानं मृत्युमुखात् मृत्युगोचरादविद्याकामकर्मलक्षणात् प्रमुच्यते वियुज्यते ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) महत् अदावदु पुत्ति ऎऩप्पडुवदैक् काट्टिलुम् वेऱाग नित्य विक्ञप्ति स्वरूबमाय् इरुप्पदाल् ऎल्ला पूदङ्गळुक्कुम् (जीवरासिगळुक्कुम्) अन्दरात्मावाय् इरुक्किऩ्ऱ प्रह्मम् सर्वसाक्षी। अदुवे (एष सर्वेषीबूदेषी) ऎऩ्बदु मुदलियवैगळाल् कूऱप्पट्टुळ्ळदु। (त्रुवम्) कूडस्तनित्तियम्, प्रुदिवियादिगळ् पोल् आबेक्षिग नित्तियत्तुवम् अल्ल। इव्वाऱु प्रह्मात्मावै नऩ्ऱाग अऱिन्द पुरुषऩ् म्रुत्यु वायिलिरुन्दु अदावदु अवित्या काम कर्मरूबम् ऎऩ्ऱ म्रुत्युविडमिरुन्दु विडुबडुगिऱाऩ्।
प्रस्तुतविज्ञानस्तुत्यर्थमाह श्रुतिः —
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) आरम्बिक्कप्पट्ट विक्ञाऩत्तै स्तुदिक्क वेण्डि सुरुदि कूऱुगिऱदु–
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥
नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तम् इदमाख्यानमुपाख्यानं वल्लीत्रयलक्षणं सनातनं चिरन्तनं वैदिकत्वात् उक्त्वा ब्राह्मणेभ्यः श्रुत्वा च आचार्येभ्यः मेधावी ब्रह्मैव लोको ब्रह्मलोकः तस्मिन् ब्रह्मलोके महीयते आत्मभूत उपास्यो भवतीत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) नाचिकेतंम् (नासिगेदम्) ऎऩ्ऱाल् नसिगेदऩ् मूलमाग अडैयप्पट्टदुम् मिरुत्युविऩाल् कूऱप्पट्ट इन्द आक्कियाऩम्(कदै) मूऩ्ऱु वल्लीगळुडैय लक्षणम् ऎप्पॊऴुदुम् उळ्ळदु ऎऩ्ऱु वैदीगमाग इरुप्पदाल्बिराह्मणर्गळुक्कुच् चॊल्लियुम् आच्चार्यर्गळिडम् केट्टुम् मेदावियाऩवऩ् प्रह्ममागिऱलोगत्तिल् अदावदु प्रह्मात्मगमाग इरुन्दु अदै उबासिक्किऩ्ऱाऩ्। आत्म स्वरूबत्तै अडैन्दु उबास्यऩागिऩ्ऱाऩ्।
य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि। प्रयतः श्राद्धकाले वा
तदानन्त्याय कल्पते ॥
तदानन्त्याय कल्पत इति ॥ १७ ॥
यः कश्चिदिमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेत् ग्रन्थतोऽर्थतश्च ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचिर्भूत्वा श्राद्धकाले वा श्रावयेत् भुञ्जानाम् , तत् श्राद्धम् अस्य आनन्त्याय अनन्तफलाय कल्पते समर्थ्यते। द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎवऩ् ऒरुवऩ् अन्द पिरक्रुष्ट्टमाऩ (मेलाऩ) रगसियमाऩ किरन्दत्तै पडित्तु अर्त्तत्तुडऩ् पिरामणर्गळिऩ् सबैयिल् परिसुत्तमाग इरुन्दुगॊण्डु अवर्गळ् केट्कुम् पडि सॆय्वाऩो अल्लदु पिरामणर्गळ् सिरार्त्त कालत्तिल् साप्पिडुम् पॊऴुदु अवर्गळ् केट्कुम् पडि सॆय्वाऩो अवऩुडैय सिरार्त्तमाऩदु मुडिविल्ला पलऩैक् कॊडुक्कुम्। इरण्डावदु मुऱैगूऱियदु इन्द अत्यायत्तिऩ् मुडिवैक् कूऱुगिऱदु।
इति तृतीयवल्लीभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमोऽध्यायः ॥
द्वितीयोऽध्यायः
चतुर्थी वल्ली
पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन्।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥
‘एष सर्वेषु भूतेषु गुढोऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या’ (क. उ. १। ३। १२) इत्युक्तम्। कः पुनः प्रतिबन्धोऽग्र्याया बुद्धेः, येन तदभावादात्मा न दृश्यत इति तददर्शनकारणप्रदर्शनार्था वल्ली आरभ्यते ; विज्ञाते हि श्रेयःप्रतिबन्धकारणे तदपनयनाय यत्न आरब्धुं शक्यते, नान्यथेति —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इन्द ऎल्ला जीवरासिगळिलुम् रगस्यमाय् मऱैन्दिरुक्कुम् आत्मा विळङ्गविल्लै। आऩाल् सूक्ष्म पुत्ति उळ्ळवर्गळुक्कु विळङ्गुम् ऎऩ्ऱु कूऱप्पट्टदु। आगैयाल् ऎदु सूक्ष्म पुत्तिक्कु पिरदि पन्दगमाय् (तडैयाय्) इरुक्किऱदु? ऎदु इल्लाददिऩाल् आत्मा विळङ्गविल्लै ऎऩ्ऱु अन्द अऱिय मुडियाददिऩ् कारणत्तै तॆरिविप्पदऱ्काग इन्द वल्ली आरम्बिक्कप्पडुगिऱदु। स्रेयसिऱ्कु तडैयाय् इरुक्कुम् कारणत्तै अऱिन्दाल् अल्लवा अदै नीक्कुवदऱ्काऩ यत्तऩत्तै (मुयऱ्सियै) आरम्बिक्क मुडियुम्(वेऱु मार्क्कम् इल्लै) वेऱु वऴियिल्लै।
पराञ्चि परागञ्चन्ति गच्छन्तीति, खानि खोपलक्षितानि श्रोत्रादीनीन्द्रियाणि खानीत्युच्यन्ते। तानि पराञ्च्येव शब्दादिविषयप्रकाशनाय प्रवर्तन्ते। यस्मादेवंस्वभावकानि तानि व्यतृणत् हिंसितवान् हननं कृतवानित्यर्थः। कोऽसौ? स्वयम्भूः परमेश्वरः स्वयमेव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति। तस्मात् पराङ् पराग्रूपाननात्मभूताञ्शब्दादीन् पश्यति उपलभते उपलब्धा नान्तरात्मन् नान्तरात्मानमित्यर्थः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) वॆळियिल् सॆल्लुदलुडैय आगास उबलक्षिदङ्गळाऩ स्रोत्तिरम् मुदलिय इन्दिरियङ्गळै (काऩि) ऎऩ्ऱु सॊल्लप्पडुगिऱदु। अवैगळ् वॆळियिल् सॆऩ्ऱु सप्तादि विषयङ्गळै विळक्कुवदऱ्कागप् पिरविर्त्तिक्किऱदु। इव्वाऱु इरुप्पदाल् स्वबावमागवे हिंसै सॆय्बवऩ् ऎऩ्ऱु पॊरुळ्। अवऩ् यार्? स्वयम्बू अदावदु परमेस्वरऩ् अवऩ् ऎप्पॊऴुदुम् स्वदन्दिरमागवे इरुक्किऱाऩ्। परदन्दिरऩ् अल्ल ऎऩ्बदागुम्। आगैयाल् वॆळियिल् उळ्ळ वस्तुक्कळ् अनात्मावाऩ सप्तादिगळै किरहिक्किऱदु अल्लदु अडैगिऱदु। आऩाल् अन्दरात्मावै अडैवदिल्लै।
एवंस्वभावेऽपि सति लोकस्य कश्चित् नद्याः प्रतिस्रोतःप्रवर्तनमिव धीरः धीमान्विवेकी प्रत्यगात्मानं प्रत्यक् चासावात्मा चेति प्रत्यगात्मा। प्रतीच्येवात्मशब्दो रूढो लोके, नान्यत्र। व्युत्पत्तिपक्षेऽपि तत्रैवात्मशब्दो वर्तते ; ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्ततो भावस्तस्मादात्मेति कीर्त्यते’ ; इत्यात्मशब्दव्युत्पत्तिस्मरणात्।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इव्वाऱु स्वबावम् इरुन्दालुम् उलगत्तिल् नदिगळ् तऩ् तिसैयिलिरुन्दु तिरुप्पि विडुवदु पोल् तीर पुरुषऩुम् प्रत्यक् आत्मावै नोक्कि तिरुप्पुगिऱाऩ्(प्रत्यक् आत्मावै अऱिगिऱाऩ्)। उलगिल् आत्मा ऎऩ्ऱ सप्तमाऩदु पिरत्यक्आदावदु ऎल्लावऱ्ऱिऱ्कुम् मूल कारणमाऩ वस्तुविल् रूडमागिऱदु। अदुवे व्युत्पत्ति पक्षत्तिलुम् प्रदीसि ऎऩ्ऱ सप्तम् आत्मा अर्त्तिलेये इरुक्किऱदु। ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्ततो भावस्तस्मादात्मेति कीर्त्यते’ अदावदु अदुवे ऎल्लावऱ्ऱिलुम् वियाबित्तिरुक्किऱदु। ऎल्लावऱ्ऱैयुम् किरहिक्किऱदु। उलगत्तिल् विषयङ्गळिऩ् पोक्तावाग इरुक्किऱदु, मेलुम् ऎप्पॊऴुदुम् सत्पावमागवे इरुक्किऱदु, आगैयाल् अदु आत्मा ऎऩ्ऱ अर्त्तमागिऱदु। इव्वाऱु नाऩ्गु विदमाग आत्म सप्तत्तिऱ्कु व्युत्यत्ति सम्बन्दमाऩदु स्मिरुदियिल् कूऱप्पट्टुळ्ळदु।
तं प्रत्यगात्मानं स्वस्वभावम् ऐक्षत् अपश्यत् पश्यतीत्यर्थः, छन्दसि कालानियमात्। कथं पश्यतीति, उच्यते — आवृत्तचक्षुः आवृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकमिन्द्रियजातमशेषविषयात् यस्य स आवृत्तचक्षुः। स एवं संस्कृतः प्रत्यगात्मानं पश्यति। न हि बाह्यविषयालोचनपरत्वं प्रत्यगात्मेक्षणं चैकस्य सम्भवति। किमिच्छन्पुनरित्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यतीति, उच्यते। अमृतत्वम् अमरणधर्मत्वं नित्यस्वभावताम् इच्छन् आत्मन इत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द पिरत्यक् आत्मावै तऩ्ऩुडैय स्वरूबमाय् पार्क्किऱाऩ्। पार्त्ताऩ् ऎऩ्ऱु इऱन्द कालत्तिल् सन्दसिऩ् पॊरुट्टु वन्ददै निगऴ् कालत्तिल् अर्त्तम् सॆय्य वेण्डुम्, ऎव्वाऱु अऱिगिऱाऩ् ऎऩ्ऱु कूऱप्पडुगिऱदु। आव्रुर्त्त सक्षी: ऎऩ्ऱाल् स्रोत्रम् मुदलाऩ इन्दिरियङ्गळाल् उण्डाऩ ऎल्ला विषयङ्गळिरुन्दुम् उळ्मुगम् तिरुप्पिय पार्वै उडैयवऩ्। इव्वाऱु नऩ्गु पण्बडुत्तप्पट्टवऩे पिरत्यक् आत्मावै अडैगिऱाऩ्। पाह्य विषयङ्गळिऩ् पार्वैयुम्, प्रत्यक्कात्माविऩ् तरिसऩमुम् ऒरुवऩुक्के सम्बविक्कादु। ऎदऩाल् ऎऩिल् मऱुबडियुम् इव्वाऱु मिग मुयऱ्सि सॆय्दु इन्दिरियङ्गळिऩ् स्वबाव पिरविर्त्तियै निरोदम् सॆय्दु तीरऩाऩवऩ् प्रत्यक् आत्मावैप् पार्क्किऱाऩ् ऎऩ्ऱु कूऱप्पट्टदु। अमिरुदत्तुवम् अदावदु मरणमऱ्ऱदऩ्मै अदावदु आत्माविऩुडैय नित्यस्वबावत् तऩ्मैयै इच्चिक्किऱाऩ् ऎऩ्बदु पॊरुळ्।
यत्तावत्स्वाभाविकं परागेवानात्मदर्शनं तदात्मदर्शनस्य प्रतिबन्धकारणमविद्या तत्प्रतिकूलत्वाद्या च परागेवाविद्योपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्यामविद्यातृष्णाभ्यां प्रतिबद्धात्मदर्शनाः
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द आत्मक्ञाऩ विषयत्तिल् स्वबावमागवे पाह्यअनात्म तर्सऩम् आत्म तर्सऩत्तिऱ्कु पिरदिबन्दमाय् इरुप्पदऱ्कु कारणम् अवित्या। एऩॆऩिल् आत्म तर्सऩत्तिऱ्कु अवित्यावे पिरदिगूलमाय् इरुक्किऱदु। अवित्तैयिऩाल् काणप्पडुम् वॆळि नोक्कुडैय तिरुष्ट अदिरुष्ट्ट पोगङ्गळिल् उळ्ळदु त्रुष्णा (आसै) अन्द अवित्या, तिरुष्णा आगिय इवै इरण्डिऩालुम् आत्म तर्सऩम् नऩ्ऱाग तडैसॆय्यप्पट्टुळ्ळदु
पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्।
अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २ ॥
पराचः बहिर्गतानेव कामान् काम्यान्विषयान् अनुयन्ति अनुगच्छन्ति बालाः अल्पप्रज्ञाः ते तेन कारणेन मृत्योः अविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते येन तं पाशं देहेन्द्रियादिसंयोगवियोगलक्षणम्। अनवरतं जन्ममरणजरारोगाद्यनेकानर्थव्रातं प्रतिपद्यन्त इत्यर्थः ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) मन्द पुत्ति उळ्ळ पुरुषऩ् वॆळियिल् उळ्ळ कामऩैगळै नोक्कि सॆल्वाऩ्। आगैयाल् अवित्या काम, कर्म, समुदाय रूबमाऩ म्रुत्युविऩुडैय विस्तारमाग ऎङ्गुम् वियाबित्तिरुक्कुम् पासत्तै अदावदु तेह इन्दिरियादिगळिऩ् सम्योगम् (अडैदल्) वियोगम् (नासमडैदल्) रूबमाऩ पासत्तै (पन्दत्तै) अडैगिऱाऩ्। अदावदु जऩऩमरण जरारोगम् मुदलियवैगळै अडैगिऱार्गळ् ऎऩ्बदु पॊरुळ्।
यत एवम् अथ तस्मात् धीराः विवेकिनः प्रत्यगात्मस्वरूपावस्थानलक्षणम् अमृतत्वं ध्रुवं विदित्वा। देवाद्यमृतत्वं ह्यध्रुवम् , इदं तु प्रत्यगात्मस्वरूपावस्थानलक्षणं ध्रुवम् , ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः। तदेवंभूतं कूटस्थमविचाल्यममृतत्वं विदित्वा अध्रुवेषु सर्वपदार्थेषु अनित्येषु निर्धार्य, ब्राह्मणा इह संसारेऽनर्थप्राये न प्रार्थयन्ते किञ्चिदपि प्रत्यगात्मदर्शनप्रतिकूलत्वात्। पुत्रवित्तलोकैषणाभ्यो व्युत्तिष्ठन्त्येवेत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎदऩाल् इव्वाऱो अदऩाल् विवेगिगळ् पिरत्यक् आत्मस्वरूब अवस्ताऩ लक्षणमाऩ अम्रुदत्तै निच्चयमागत् तॆरिन्दु कॊण्डु मेलुम् तेवर्गळ् मुदलियवर्गळ् निच्चयमाग अम्रुदत्तुवम् अल्ल ऎऩ्ऱु तॆरिन्दु कॊण्डु इन्द प्रत्यक् आत्मस्वरूब अवस्ताऩ लक्षणम् न कर्मणा वर्धते नो कनीयान् (नगर्मणा वर्त्तदे नो कऩियाऩ्) ऎऩ्ऱ वाक्कियत्ताल् कर्मत्तिऩाल् वळर्वदुम् इल्लै, कुऱैवदुम् इल्लै ऎऩ्बदु निच्चयमागिऱदु। इप्पडिप्पट्ट कूडस्त्तम् असैक्क मुडियाददुमाऩ, अमिर्दत्तुवत्तै अऱिन्दु निच्चयमऱ्ऱ ऎल्ला अनित्तिय पदार्त्तङ्गळैयुम् नीक्कि पिरामह्मणर्गळ् अनर्त्तमागिय संसारम् आत्म तर्सऩत्तिऱ्कु पिरदि कूलमाय् (तडैयाय्) इरुप्पदाल् अदिल् सिऱिदुम् ईडुबडमाट्टार्गळ्, पुत्र, वित्त, लोग, आगिय ईषणादिरयङ्गळिलिरुन्दुम् विडुबडुगिऱार्गळ् ऎऩ्बदु पॊरुळ्।
यद्विज्ञानान्न किञ्चिदन्यत्प्रार्थयन्ते ब्राह्मणाः, कथं तदधिगम इति, उच्यते
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) प्राह्म्मणर्गळ् (पिरह्मत्तै अऱिन्दवर्गळ्) ऎदै अऱिन्ददाल् वेऱु ऒऩ्ऱैयुम् इच्चिप्पदु इल्लैयो अदै ऎव्वाऱु अऱिवदु ऎऩ्बदु कूऱप्पडुगिऱदु।
येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान्।
एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत् ॥ ३ ॥
येन विज्ञानस्वभावेनात्मना रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् मैथुननिमित्तान्सुखप्रत्ययान् विजानाति विस्पष्टं जानाति सर्वो लोकः ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) उलगत्तवर्गळ् ऎल्लोरुम् ऎन्द विक्ञाऩ स्वरूबमाऩ आत्मा मूलमाग रूबम्, रय्म्। कन्दम्, सप्तम्, स्पर्सम्, अव्वाऱे मैदुऩत्ताल् उण्डागुम् सुगत्तै स्पष्ट्टमाग अऱिगिऱार्गळो(अदु प्रह्ममागुम्)
ननु नैवं प्रसिद्धिर्लोकस्य आत्मना देहादिविलक्षणेनाहं विजानामीति। देहादिसङ्घातोऽहं विजानामीति तु सर्वो लोकोऽवगच्छति।
ज्ञानानन्द-भारती - द्राविडी
(सङ्गै) उलगत्तिल् आत्मावैक् काट्टिलुम् तेहादिगळै वेऱाय् अऱिगिऱेऩ् ऎऩ्बदु उलगिल् किडैयादु। आऩाल् ऎल्लोरुम् तेहादि सङ्गादऩाऩ नाऩ् अऱिगिऱेऩ् ऎऩ्ऱल्लवा कूऱुगिऱार्गळ्।
ननु देहादिसङ्घातस्यापि शब्दादिस्वरूपत्वाविशेषाद्विज्ञेयत्वाविशेषाच्च न युक्तं विज्ञातृत्वम्। यदि हि देहादिसङ्घातो रूपाद्यात्मकः सन् रूपादीन्विजानीयात् , तर्हि बाह्या अपि रूपादयोऽन्योन्यं स्वं स्वं रूपं च विजानीयुः। न चैतदस्ति। तस्माद्देहादिलक्षणांश्च रूपादीन् एतेनैव देहादिव्यतिरिक्तेनैव विज्ञानस्वभावेनात्मना विजानाति लोकः। यथा येन लोहो दहति सोऽग्निरिति तद्वत् ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अव्वाऱु अल्ल, तेहादि सङ्गादमाय् इरुन्दालुम् सप्तम् मुदलिय स्वरूबत्तैक् काट्टिलुम् तऩियाग वेऱु विषेसम् इल्लाददाल् अवैगळुक्कु विक्ञात्रुत्वम् (अऱियुम् तऩ्मै) पॊरुन्दादु। तेहादि सङ्गादम् रूबम् मुदलियदाय् इरुन्दु कॊण्डु रूबम् मुदलियवैगळै अऱियलाम्। अवैगळ् पाह्यमाय् इरुन्दालुम् रूबादिगळ् ऒऩ्ऱैऒऩ्ऱु तऩ्, स्वरूबत्तै अऱियलाम् ऎऩ्ऱाल् अदु अव्वाऱु अल्ल। आगवे तेहादिस्वरूबङ्गळाऩ रूबादिगळै, तेहादिगळैक् काट्टिलुम् वेऱुबट्टवऩुम् विक्ञाऩ स्वरूबऩुमागिय आत्माविऩालेये लोगमाऩदु अऱिन्दु कॊळ्गिऱदु। ऎदऩाल् इरुम्बाऩदु सुडुगिऱदो अदु अक्ऩि ऎऩ्बदु ऎव्विदमो अव्विदमे इङ्गुम् अऱिग।
आत्मनोऽविज्ञेयम् किम् अत्र अस्मिंल्लोके परिशिष्यते न किञ्चित्परिशिष्यते
सर्वमेव त्वात्मना विज्ञेयम् , यस्यात्मनोऽविज्ञेयं न किञ्चित्परिशिष्यते,
स आत्मा सर्वज्ञः। एतद्वै तत्।
किं तत् यन् नचिकेतसा पृष्टं देवादिभिरपि विचिकित्सितं
धर्मादिभ्योऽन्यत् विष्णोः परमं पदं
यस्मात्परं नास्ति तद्वै एतत् अधिगतमित्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) आत्मावाल् अऱियाददु इन्द उलगत्तिल् ऎदु मिञ्जि उळ्ळदु? आत्मावाल् अऱियाददु सिऱिदुम् इल्लै। ऎल्लाम् आत्मावालेये अऱियप्पडुगिऱदु। ऎदऩाल् आत्मावाल् अऱियाददु सिऱिदुम् इल्लैयो अदऩाल् अन्द आत्मा सर्वक्ञऩ्। अदु यार्? ऎन्द विषयत्तैक् कुऱित्तु नसिगेदसऩ् ऎन्द केळ्वियैक् केट्टारो अदु तेवर् मुदलियवर्गळुक्कुम् सन्देगत्तैक् कॊडुक्क कूडियदु। तर्मा तर्मङ्गळैक् काट्टिलुम् वेऱाऩ विष्णुविऩुडैय परमम्बदम्। अदैक् काट्टिलुम् मेलाऩ पदम् किडैयादु। ऎऩ्ऱु अऱियप्पट्टदागिऱदु ऎऩ्बदु पॊरुळ्।
अतिसूक्ष्मत्वाद्दुर्विज्ञेयमिति मत्वैतमेवार्थं पुनः पुनराह
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मिक्क सूक्ष्ममाय् इरुप्पदाल् अदै अऱिवदु मिगक् कडिऩम् ऎऩ्ऱु करुदि इन्द अर्त्तत्तैये मऱुबडियुम्, मऱुबडियुम् कूऱुगिऱदु।
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥
स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयमित्येतत्। तथा जागरितान्तं जागरितमध्यं जागरितविज्ञेयं च। उभौ स्वप्नजागरितान्तौ येन आत्मना अनुपश्यति लोकः इति सर्वं पूर्ववत्। तं महान्तं विभुमात्मानं मत्वा अवगम्यात्मभावेन साक्षादहमस्मि परमात्मेति धीरः न शोचति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) स्वप्ऩान्दम् अदावदु स्वप्नत्तिऩ् अन्दम् (सुऴुत्ति अवस्तैयैयुम्) स्वप्ऩत्तिऩ् मत्यत्तिल् अऱियक्कूडिय पॊरुळ्गळैयुम् अदावदु स्वप्ऩ जाक्रत्तिल् अन्दर्गदमाऩ पदार्त्तङ्गळै आत्मावाल् तॊडर्न्दु पार्क्कप्पडुगिऱदु। मऱ्ऱवै ऎल्लाम् मुऩ् पोल्, अन्द महाऩुम्, विबुवुमाऩ आत्मावै अऱिन्दु आत्म पावऩैयिऩाल् नाऩ् साक्षात् परमात्म स्वरूबमाय् इरुक्किऱेऩ् ऎऩ्ऱु तीरऩ् (ञाऩि)सोगत्तै अडैयमाट्टाऩ्।
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम्
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात्।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥ ५ ॥
यः कश्चित् इमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धारयितारमात्मानं वेद विजानाति अन्तिकात् अन्तिके समीपे ईशानम् ईशितारं भूतभव्यस्य कालत्रयस्य, ततः तद्विज्ञानादूर्ध्वमात्मानं न विजुगुप्सते न गोपायितुमिच्छति, अभयप्राप्तत्वात्। यावद्धि भयमध्यस्थोऽनित्यमात्मानं मन्यते तावद्गोपायितुमिच्छत्यात्मानम्। यदा तु नित्यमद्वैतमात्मानं विजानाति, तदा कः किं कुतो वा गोपायितुमिच्छेत्। एतद्वै तदिति पूर्ववत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎवऩ् ऒरुवऩ् इन्द मत्वदम् कर्म पलत्तै अऩुबविक्कुम् अन्द जीवऩ् पिराणऩ् मुदलिय कलाबङ्गळैत् तरिक्कुम् आत्मावै। मेलुम् मुक्कालत्तिऱ्कुम् नियन्दावाऩ अन्द आत्मावै मिगच् चमीबमाग (अबेदमाग) अऱिन्दु अदऩाल् अन्द विक्ञाऩत्तै अडैन्ददऱ्कु मेल् आत्मावै रक्षिक्क विरुम्बुवदिल्लै। ऎदुवरैयिलुम् पयम् अत्यस्त्तमाय् आत्मा उळ्ळदो अदु अनित्तियम् ऎऩ्ऱु अऱिगिऱार्गळ्। अप्पॊऴुदु आत्मावै रक्षिक्क इच्चिक्किऱार्गळ्। ऎप्पॊऴुदु आत्मा नित्तियम्, अत्वैदम् ऎऩ्ऱ विक्ञाऩम् एऱ्पट्ट पॊऴुदु ऎदु? यार्? ऎदऩाल्? अदै काप्पाऱ्ऱ निऩैप्पार्गळ्। एतत् वैतदिति (एदत्वैदत् इदि) ऎऩ्बदु मुऩ्बु पोलागुम्।
यः प्रत्यगात्मेश्वरभावेन निर्दिष्टः, स सर्वात्मेत्येतद्दर्शयति —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऎवऩ् ऒरुवऩ् पिरत्यक् आत्मावै परमात्म पावऩैयाग निच्चयमा उबदेसिक्कप्पट्टाऩो अवऩ् सर्वात्मा ऎऩ्बदै विळक्कुगिऱार्।
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत। एतद्वै तत् ॥ ६ ॥
यः कश्चिन्मुमुक्षुः पूर्वं प्रथमं तपसः ज्ञानादिलक्षणाद्ब्रह्मण इत्येतत् ; जातम् उत्पन्नं हिरण्यगर्भम्। किमपेक्ष्य पूर्वमिति, आह — अद्भ्यः पूर्वम् अप्सहितेभ्यः पञ्चभूतेभ्यः, न केवलाभ्योऽद्भ्य इत्यभिप्रायः। अजायत उत्पन्नः यस्तं प्रथमजं देवादिशरीराण्युत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीनुपलभमानं भूतेभिः भूतैः कार्यकरणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्येतत् ; य एवं पश्यति, स एतदेव पश्यति — यत्तत्प्रकृतं ब्रह्म ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द ऒरु मुमूक्षु मुदलिल् तबसिऩाल् अदावदु ञाऩ मुदलिय लक्षणत्तै उडैय अन्द पिरह्मत्तिडमिरुन्दु उण्डाऩदु हिरण्यगर्प्पऩ्। ऎदै अबेक्षित्तु मुदलिल् ऎऩ्ऱु कूऱप्पट्टदु ऎऩ्बदै सॊल्लुगिऱार् (अत्प्य:) मुदलिल् नीरुडऩ् कूडियवैगळाल् उळ्ळ पञ्ज पूदङ्गळिलिरुन्दुम् केवलम् तण्णीरिऩाल् मट्टुमल्ल ऎऩ्बदु अबिप्रायम् (हिरण्यगर्प्पऩ्) तेवादि सरीरङ्गळै उऱ्पऩ्ऩम् सॆय्दु ऎल्लाप् पिराणिगळिऩ् हिरुदय कुहैयिल् नुऴैन्दु कारिय करण रूब पूदङ्गळुडऩ् सप्तादि विषयङ्गळै अऩुबविक्कप्पट्टदाग सॊल्लप्पट्टदु। अव्वाऱु पार्क्कप्पट्ट हिरण्यगर्ब तर्सऩमे प्रगिरुदमाऩ प्रह्म तर्सऩमागुम्।
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम्
या प्राणेन सम्भवति अदितिर्देवतामयी।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत। एतद्वै तत् ॥ ७ ॥
या सर्वदेवतामयी सर्वदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद्ब्रह्मणः सम्भवति
शब्दादीनाम् अदनात् अदितिः
तां पूर्ववद्गुहां प्रविश्य तिष्ठन्तीम्
अदितिम्। तामेव विशिनष्टि — या भूतेभिः भूतैः समन्विता व्यजायत
उत्पन्नेत्येतत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द अन्द तेवदा स्वरूबमाऩ हिरण्य कर्प्पत्तुडऩ् परप्रह्मत्तिडमिरुन्दु उण्डाऩदाय् सप्तम् मुदलियवैगळै पोजऩम् सॆय्वदाल् अदावदु अऩुबवित्तदाल् अदिदियाग अऩुबविप्पदाग इरुक्किऱदु। पुत्ति रूब कुगैयिल् मुऩ्बु पोल् पिरवेसित्तु इरुक्कुम् अन्द अदिदियै अऱि। अन्द अदिदियिऩ् विसेषत्तै विळक्कुगिऱार्। ऎदु पूदङ्गळुडऩ् अदावदु ऎदु पूदङ्गळुडऩ् सेर्न्दु उण्डायिऱ्ऱो ऎऩ्बदागुम्।
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम्
अरण्योर्निर्हितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।
दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः। एतद्वै तत् ॥ ८ ॥
यः अधियज्ञम् उत्तराधरारण्योर्निहितः स्थितः जातवेदा अग्निः पुनः सर्वहविषां भोक्ता अध्यात्मं च योगिभिः, गर्भ इव गर्भिणीभिः अन्तर्वत्नीभिरगर्हितान्नभोजनादिना यथा गर्भः सुभृतः सुष्ठु सम्यग्भृतो लोके, इत्थमेव ऋत्विग्भिर्योगिभिश्च सुभृत इत्येतत्। किञ्च, दिवे दिवे अहन्यहनि ईड्यः स्तुत्यो वन्द्यश्च कर्मिभिर्योगिभिश्चाध्वरे हृदये च जागृवद्भिः जागरणशीलैः अप्रमत्तैरित्येतत्। हविष्मद्भिः आज्यादिमद्भिः ध्यानभावनावद्भिश्च मनुष्येभिः मनुष्यैः अग्निः ; एतद्वै तत् तदेव प्रकृतं ब्रह्म ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) यागत्तिल् अरणिक् कट्टैयिऩ् मेलुम् कीऴुमाग इरुन्दु कॊण्डु मऱुबडियुम् ऎल्ला हविसैयुम् साप्पिडुगिऩ्ऱ पोक्ता अत्यात्म रूब जादवेदा ऎऩप्पडुम् अक्ऩियागुम्। ऎव्वाऱु कर्प्पमडैन्द स्तीरीगळ् सुत्तमाऩ अऩ्ऩ पाऩादिगळाल् तङ्गळुडैय कर्प्पत्तै ऎव्वाऱु मिगवुम् नऩ्ऱाग रक्षिक्किऱार्गळो अव्वाऱु यक्ञम् सॆय्बवर्गळुम्, योगिगळुम् अदै ताङ्गुगिऱार्गळ्। मेलुम् ऒव्वॊरु नाळुम् नल्ल विऴिप्पुणर्च्चि उळ्ळवर्गळुम्, हविस्(नॆय्) मुदलिय यक्ञत्तिऱ्कु तेवैयाऩवगळ् उळ्ळवर्गळुम् तियाऩत्तिल् ईडुबाडु उळ्ळवर्गळुमाऩ मऩिदर्गळ् यागत्तिल् ईडुबाडुळ्ळ कर्मडर्गळुम्, योगिगळाल् ह्रुदयत्तिल् तुदिक्कवुम्, नमस्करिक्कवुम् पट्टदुमाऩ अक्ऩि ऎदुवो अन्द अक्ऩियागवुम्, अदऩ् उबलषणमाऩ विराट्पुरुषऩागुम्। अदु निच्चयमाग अन्द प्रक्रुद पिरह्ममे आगिऱदु।
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम्
यतश्चोदेति सूर्यः अस्तं यत्र च गच्छति ।
तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन। एतद्वै तत् ॥ ९ ॥
यतश्च यस्मात्प्राणात् उदेति उत्तिष्ठति सूर्यः, अस्तं निम्लोचनं तिरोधानं यत्र यस्मिन्नेव च प्राणे अहन्यहनि गच्छति, तं प्राणमात्मानं देवाः सर्वे अग्न्यादयः अधिदैवं वागादयश्चाध्यात्मं सर्वे विश्वे अरा इव रथनाभौ अर्पिताः सम्प्रवेशिताः स्थितिकाले। सोऽपि ब्रह्मैव। तत् एतत्सर्वात्मकं ब्रह्म, उ नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छति, कश्चन कश्चिदपि एतद्वै तत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द पिराणऩिल् इरुन्दु हिरण्यगर्प्परिडमिरुन्दु सूर्यऩ् वॆळिप्पडुगिऱदो, ऒव्वॊरु नाळुम् मऱैगिऱदो अन्द आत्मावाऩ विच्व हिरण्गर्प्पर्ऩिडत्तिल् अदावदु वण्डियिऩ् कुडत्तिल् आराक्काल्गळ् इणैक्कप्पट्टदु पोल् अदि तॆय्वङ्गळाऩ अक्ऩि मुदलिय तेवदैगळुम्, अत्यात्मत्तिल् वाक्कादिगळुमाऩ ऎल्ला तेवदैगळुम् इणैक्कप्पट्टुळ्ळऩ। स्तिदि कालत्तिलुम् अदु पिरह्ममे। अदु सर्वात्मगमाऩ प्रह्ममागुम्। ऒव्वॊऩ्ऱुम् पिरह्मत्तै विट्टु विलगुवदिल्लै ।अदावदु प्रह्मत्तैत् तविर वेऱाग इरुत्तलै अडैवदिल्लै।
यद्ब्रह्मादिस्थावरान्तेषु वर्तमानं तत्तदुपाधित्वादब्रह्मवदवभासमानं संसार्यन्यत्परस्माद्ब्रह्मण इति मा भूत्कस्यचिदाशङ्केतीदमाह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऎदाऩदु प्रह्मा मुदल् स्तावरम् वरै उळ्ळवैगळ् अन्द अन्द उबादिगळाल् अप्रह्मम् पोल् विळङ्गुगिऩ्ऱ संसारि, ऎऩ्ऱुम्, परबिरह्म्मत्तैक् काट्टिलुम् वेऱाऩदु ऎऩ्ऱुम् ऒरुवऩुक्कुम् सङ्गै वरक्कूडादु ऎऩ्ऱु इव्वाऱु कूऱुगिऱार्।
यदेवेह तदमुत्र यदमुत्र तदन्विह।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥
यदेवेह कार्यकारणोपाधिसमन्वितं संसारधर्मवदवभासमानमविवेकिनाम् , तदेव स्वात्मस्थम् अमुत्र नित्यविज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म। यच्च अमुत्र अमुष्मिन्नात्मनि स्थितम् , तदनु इह तदेव इह कार्यकरणनामरूपोपाधिम् अनु विभाव्यमानं नान्यत्।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अविवेगिक्कु ऎदऩादु इङ्गु कारिय करण उबादिगळुडऩ् कूडिय संसार तर्मम् पोल् अवबासित्तुक् कॊण्डिरुक्किऱदो (तोऩ्ऱुवदु पोल् विळङ्गुगिऱदो) अदुदाऩ् तऩ्ऩुळ् निलैत्तिरुक्किऩ्ऱगारणो उबादियिल् नित्यविक् ञाऩगऩ स्वबावमाय् ऎल्ला संसार तर्मङ्गळुम् अऱ्ऱबिरह्मम्। ऎदु अन्द कारणात्माविल् इरुक्किऱदो अन्द आत्माविल् इरुन्दु कॊण्डु अदुवे इङ्गु नाम रूबगरण उबादियै आस्रयत्ते अऱियप्पडुगिऱदु। वेऱु ऒऩ्ऱाल् अल्ल।
तत्रैवं सति उपाधिस्वभावभेददृष्टिलक्षणया अविद्यया मोहितः सन् य इह ब्रह्मण्यनानाभूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्रह्मेति नानेव भिन्नमिव पश्यति उपलभते, स मृत्योर्मरणात् मृत्युं मरणं पुनः पुनः जननमरणभावमाप्नोति प्रतिपद्यते। तस्मात्तथा न पश्येत्। विज्ञानैकरसं नैरन्तर्येणाकाशवत्परिपूर्णं ब्रह्मैवाहमस्मीति पश्येदिति वाक्यार्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इव्वाऱु इरुक्कुम् पॊऴुदु उबादिस्वबाव, पेद तिरुष्ट्टियाल् अवित्तैयिऩाल् मोहित्तवऩागि ऎवऩ् इङ्गु नाना अऱ्ऱबिरह्मत्तिऩिडत्तिल् नाऩ् वेऱु, ऎऩ्ऩैक् काट्टिलुम् पिरह्मम् वेऱु ऎऩ्ऱु नानावाग पिऩ्ऩम् पोल् अऱिगिऱाऩो अवऩ् मऱुबडियुम्, मऱुबडियुम् मरणत्तै अऱिगिऱाऩ्। आगैयाल् अव्वाऱु पार्क्कादे, विक्ञाऩमायुम्, एगरसमायुम्, इडैयऱादु आगासम् पोल् नीक्कमऱनिऱैन्दुळ्ळदुमाऩ परिबूरणमाऩ पिरह्ममाय् नाऩ् इरुक्किऱेऩ् ऎऩ्बदु वाक्कियत्तिऩ् पॊरुळागुम्।
प्रागेकत्वविज्ञानादाचार्यागमसंस्कृत
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) एगत्तुव विक्ञाऩम् अडैवदऱ्कु मुऩ्ऩाल् कुरु, सास्तिरम् इवऱ्ऱाल् पण्बडुत्तप्पट्ट
मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥
मनसैव इदं ब्रह्मैकरसम् आप्तव्यम् आत्मैव नान्यदस्तीति। आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वात् इह ब्रह्मणि नाना नास्ति किञ्चन अणुमात्रमपि। यस्तु पुनरविद्यातिमिरदृष्टिं न मुञ्चति इह ब्रह्मणि नानेव पश्यति, स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदमध्यारोपयन्नित्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) मऩदाल् इन्द एगरस प्रह्मम् आत्मावे वेऱु इल्लै ऎऩ्ऱु अऱियप्पड वेण्डुम्। अडैन्द पॊऴुदु नानात्तुवत्तै स्ताबित्त अवित्तैयिऩ् निवर्त्तियाल् इन्द पिरह्मत्तिऩिडत्तिल् नानात्तुवम् ऎऩ्बदु अणु अळवुम् किडैयादु। मेलुम् ऎवऩ् ऒरुवऩ् सिऱिदळवु पेदत्तै अत्यारोबम् सॆय्दु अवित्तैयागिऱ इरुण्ड तिरुष्ट्टियै विडविल्लैयो, अवऩ् नानावागप् पार्प्पदाल् मिरुत्युविलिरुन्दु मिरुत्युवैये अडैगिऩ्ऱाऩ्।
पुनरपि तदेव प्रकृतं ब्रह्माह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मऱुबडियुम् अप्परम् प्रष्मत्तैप् पऱ्ऱि कूऱुगिऱार्।
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥ १२ ॥
अङ्गुष्ठमात्रः अङ्गुष्ठपरिमाणः। अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्त्यन्तःकरणोपाधिरङ्गुष्ठमात्रः अङ्गुष्ठमात्रवंशपर्वमध्यवर्त्यम्बरवत्। पुरुषः पूर्णमनेन सर्वमिति। मध्ये आत्मनि शरीरे तिष्ठति यः तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा, न तत इत्यादि पूर्ववत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अङ्गुष्ट्ट मात्तिरम् ऎऩ्बदु कट्टै विरल् अळवागुम्। कट्टै विरल् उळ्ळ इरुदय पुण्डरीगत्तिल् उळ्ळ अन्दक् करणत्तै उबादियागक् कॊण्डुळ्ळदु। कट्टै विरल् अळवु उळ्ळ मूङ्गिल् ऒट्टैयिऩ् मत्तियिल् उळ्ळ आगायम् पोल् पुरुषऩ् पूरणमाय् इरुप्पदाल् ऎल्लाम् ऎऩ्बदाल् सरीरत्तिल् नडुविल् इरुक्किऱाऩो अन्द नियन्दावाऩवऩुम् मुक्कालमुम् अऱिन्दवऩुमाऩ आत्मावै अऱिन्दवऩ्। (तऩ्ऩै रक्षिप्पदऱ्कु ऒऩ्ऱुम् विरुम्ब माट्टाऩ्।)
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
मेलुम्
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत् ॥ १३ ॥
अङ्गुष्ठमात्रः पुरुषः ज्योतिरिव अधूमकः, अधूमकमिति युक्तं ज्योतिःपरत्वात्। यस्त्वेवं लक्षितो योगिभिर्हृदये ईशानः भूतभव्यस्य स एव नित्यः कूटस्थः अद्य इदानीं प्राणिषु वर्तमानः स उ श्वोऽपि वर्तिष्यते, नान्यस्तत्समोऽन्यश्च जनिष्यत इत्यर्थः। अनेन ‘नायमस्तीति चैके’ (क. उ. १। १। २०) इत्ययं पक्षो न्यायतोऽप्राप्तोऽपि स्ववचनेन श्रुत्या प्रत्युक्तः, तथा क्षणभङ्गवादश्च।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अङ्गुष्ट मात्तिर उळ्ळ पुरुषऩ् पुगैयऱ्ऱ ज्योदिस् पोऩ्ऱवऩ् ऎऩ्बदाल् इङ्गु अधूमकम् (पुगै अऱ्ऱवऩ्) ऎऩ्बदु पॊरुन्दुम्। योगिगळिऩाल् ह्रुदयत्तिल् पूद पविष्यङ्गळुक्कु नियन्दावाऩ ऎवऩ् काणप्पट्टाऩो नित्यऩुम् कूडस्तऩुमाऩ अवऩ् इप्पॊऴुदुळ्ळ पिराणऩ्गळिल्(जीवर्गळिल्) इरुक्किऱवऩायुम् अवऩे नाळैयुम् इरुक्कप् पोगिऱाऩ्। अवऩुक्कु सममाग वेऱु ऎऩ्ऱु उण्डागप् पोवदिल्लै। अदऩाल् इवऩ् इल्लै ऎऩ्ऱु सिलरुडैय पक्षमाऩदु युक्तियिऩाल् पॊरुन्दविल्लै। अव्वाऱे सुरुदि वाक्कियङ्गळालुम् मऱुक्कप्पडुदिऱदु। अव्वाऱे क्षणबङ्गवादमुम् मऱुक्कप्पडुगिऱदु।
पुनरपि भेददर्शनापवादं ब्रह्मण आह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) पिरम्मत्तिऱ्कु पेद तर्सऩम् इल्लै ऎऩ्बदऩै विळक्कुवदु इन्द मन्दिरम्।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति।
एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥ १४ ॥
यथा उदकं दुर्गे दुर्गमे देशे उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्ववत्सु निम्नप्रदेशेषु विधावति विकीर्णं सद्विनश्यति, एवं धर्मान् आत्मनोऽभिन्नान् पृथक् पश्यन् पृथगेव प्रतिशरीरं पश्यन् तानेव शरीरभेदानुवर्तिनः अनुविधावति। शरीरभेदमेव पृथक् पुनः पुनः प्रतिपद्यत इत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎव्वाऱु मिगक् कडिऩमाऩ उयरत्तिल् उळ्ळ पिरदेसङ्गळिल् पॆय्द मऴै नीराऩदु मलैगळिल् उळ्ळ पळ्ळत्ताक्कुगळिल् ओडि सिदऱि नासमावदु पोल् तर्मङ्गळै अदावदु आऩन्दम्, विषयाऩुबवम्, सैदऩ्यम्, इवैगळै आत्मावैक् काट्टिलुम् वॆव्वेऱाग पार्त्तु ऒव्वॊरु सरीरत्तिलुम् तऩियागप् पार्त्तु अन्द सरीर तर्मङ्गळै नोक्किये ऒडुगिऱाऩ्। मऱबडियुम्, मऱुबडियुम् सरीर पेदत्तैये अडैगिऱाऩ् ऎऩ्बदु पॊरुळ्।
अस्य पुनर्विद्यावतो विध्वस्तोपाधिकृतभेददर्शनस्य विशुद्धविज्ञानघनैकरसमद्वयमात्मानं पश्यतो विजानतो मुनेर्मननशीलस्यात्मस्वरूपं कथं सम्भवतीति, उच्यते
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऎवऩ् (कुरु उबदेसत्ताल्) वित्तै उडैयवऩायुम्, उबादि पेद तर्सऩम् नीङ्गियवऩायुम् उळ्ळाऩो अवऩ् मिक्क सुत्तमाऩ ञाऩएगरसमाय् उळ्ळदुम् अत्वैदमाऩदुमाऩ आत्मावै अऱिन्द मुऩिक्कु (मऩऩ सीलऩुक्कु) आत्म स्वरूबम् ऎव्वाऱु उण्डागिऱदु ऎऩ्बदैक् कूऱुगिऱार्।
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥
यथा उदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नम् आसिक्तं प्रक्षिप्तम् एकरसमेव नान्यथा, तादृगेव भवति आत्माप्येवमेव भवति एकत्वं विजानतो मुनेः मननशीलस्य हे गौतम। तस्मात्कुतार्किकभेददृष्टिं नास्तिककुदृष्टिं चोज्झित्वा मातृपितृसहस्रेभ्योऽपि हितैषिणा वेदेनोपदिष्टमात्मैकत्वदर्शनं शान्तदर्पैरादरणीयमित्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎव्वाऱु सुत्तमाऩ जलत्तिल् सुत्तमाऩ जलत्तै सेर्त्ताल् ऒरे रसमाय् आगिविडुम् (ऒऩ्ऱाय् आगि विडुम्)। आऩाल् वेऱाग आवदिल्लै। हे कौदम! एगत्तुवत्तै अऱिन्द मुऩिक्कु अदावदु मऩऩ सीलरुक्कु आत्मावुम् अव्वाऱे आगुम्। आगैयाल् कुदर्क्क तिरुष्ट्टियैयुम्, नास्तिग कुदिरुष्ट्टियैयुम् विट्टु आयिरक्कणक्काऩ अम्मा अप्पाक्कळैक् काट्टिलुम् नमक्कु हिदत्तै (नऩ्मैयै) कॊडुक्कुम् वेदत्तिल् उबदेसित्त आत्म ऐक्किय तर्सऩत्तै तर्प्पत्तै नीक्कियवर्गळ् आदरिक्क वेण्डुम्। (अदऩ् पडि अऱिन्दु कॊळ्ळ वेण्डुम्)
इति चतुर्थवल्लीभाष्यम् ॥
पञ्चमी वल्ली
पुरमेकादशद्वारमजस्यावक्रचेतसः।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत् ॥ १ ॥
पुनरपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थोऽयमारम्भः, दुर्विज्ञेयत्वाद्ब्रह्मण:-
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) प्रह्मत्तै अऱिवदु मिगक् कडिऩमाऩदाल् मऱुबडियुम् वेऱु पिरगरणत्ताल् पिरह्म तत्तुवत्तै निच्चयम् सॆय्वदऱ्काग इदु आरम्बिक्कप्पडुगिऱदु।
पुरं पुरमिव पुरम्। द्वारद्वारपालाधिष्ठात्राद्यनेकपुरोपकरणसम्पत्तिदर्शनात् शरीरं पुरम्। पुरं च सोपकरणं स्वात्मना असंहतस्वतन्त्रस्वाम्यर्थं दृष्टम्। तथेदं पुरसामान्यादनेकोपकरणसंहतं शरीरं स्वात्मना असंहतराजस्थानीयस्वाम्यर्थं भवितुमर्हति।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) पट्टिणम् पोल् पट्टिणम्, तुवार पालगर्गळ्, अदऩ् अदिष्टाऩ तेवदैगळ् मुदलिय अनेग पट्टिणत्तिऱ्कुक्काऩ उबगरणङ्गळागिय सम्बत्तुक्कळुडऩ् काणप्पडुवदाल् पुरम् (पट्टिणम्) अन्दबुरमुम्, अदऩुडैय उबगरणङ्गळुम् तऩ्ऩुडऩ् सेरामल् स्वादन्दिरयमाग तऩ्ऩुडैय स्वामि (राजा) इरुत्तल् काणप्पडुगिऱदु। अव्वाऱे इन्द सरीरमुम् अनेग उबगरणङ्गळुडऩ् कूडियिरुन्दालुम् ताऩाय् सम्बन्दप्पडाद राजावैप् पोल् स्वामियाय् इरुत्तल् पॊरुन्दुम्।
तच्चेदं शरीराख्यं पुरम् एकादशद्वारम् ; एकादश द्वाराण्यस्य — सप्त शीर्षण्यानि, नाभ्या सहार्वाञ्चि त्रीणि, शिरस्येकम् , तैरेकादशद्वारं पुरम्। कस्य ? अजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य। अवक्रचेतसः अवक्रम् अकुटिलमादित्यप्रकाशवन्नित्यमेवावस्थितमेकरूपं चेतो विज्ञानमस्येति अवक्रचेताः तस्यावक्रचेतसः राजस्थानीयस्य ब्रह्मणः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) सरीरम् ऎऩप्पडुम् पुरत्तिल् पदिऩॊऩ्ऱु तुवारङ्गळ् (ऒट्टैगळ्)। अन्द पदिऩोऱु तुवारङ्गळिल् एऴु तुवारङ्गळ् तलैयिल् इरुक्किऩ्ऱऩ। नाबिक्कुम्, अदऱ्कु कीऴुम् सेर्त्तु मूऩ्ऱु तुवारङ्गळ् इरुक्किऩ्ऱऩ। ऒऩ्ऱु तलैयिऩ् उच्चियिल् उळ्ळदु। इन्द पदिऩोरु तुवारङ्गळ् उडैयदु पुरम्(सरीरम्)। इन्द पुरम् यारुडैयदु? पिऱगबऱ्ऱ, जऩ्मम् मुदलिय विगारङ्गळ् अऱ्ऱ राज स्ताऩत्तिल् उळ्ळ पुरत्तिऱ्काऩ तर्मङ्गळुक्कु विलक्षणमाऩ (वेऱाऩ) आत्माविऱ्का? कुऱुगिय अवक्रसेदस ऎऩ्ऱाल् पुरदर्मत्तैक् काट्टिलुम् वेऱाऩ जऩ्मम् मुदलिय विगारङ्गळ् अऱ्ऱदुम् सूरियऩुडैयप् पिरगासम् पोल् नित्यमाय् इरुक्कुम् एग रूबम्। सेदसऩ्(तैजसऩ्) विक्ञाऩम् ऎदऱ्कु इरुक्किऱदो अदु अवक्रसेत्तस् राजस्ताऩीयमाऩ प्रह्मत्तिऩुडैयदागुम्।
यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा। ध्यानं हि
तस्यानुष्ठानं सम्यग्विज्ञानपूर्वकम्। तं सर्वैषणाविनिर्मुक्तः सन् समं सर्वभूतस्थं ध्यात्वा
न शोचति।
तद्विज्ञानादभयप्राप्तेः
शोकावसराभावात्कुतो भयेक्षा। इहैवाविद्याकृतकामकर्मबन्धनैर्विमुक्तो
भवति। विमुक्तश्च सन्विमुच्यते ; पुनः शरीरं न गृह्णातीत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द पुरम् ऎवरुडैयदो अन्द परमेस्वररै अदावदु अन्द पुरत्तिऩ् स्वामियै अऩुष्ट्टाऩम् सॆय्दु अदावदु तियाऩम् सॆय्दु, त्याऩम् ऎऩ्बदु सम्यक् विक्ञाऩ पूर्वमाय् अऩुष्ट्टाऩम् सॆय्दवर् ऎल्ला ईषणैगळुम् अऱ्ऱवराय् इरुन्दु कॊण्डु ऎल्लोरुळ्ळुम् सममाय् इरुप्पवरै तियाऩम् सॆय्दु सोगत्तै अडैय माट्टार्। अदै अऱिन्ददाल् अबयम् (पयमऱ्ऱदऩ्मै) अडैन्दवऩुक्कु सोगम् अडैवु इल्लाददाल् ऎदऱ्कु पयप्पड वेण्डुम्। इङ्गेये अवित्तैयिऩाल् उण्डाऩ काम कर्म पन्दङ्गळिल् इरुन्दु विडुबट्टवऩागिऩ्ऱाऩ्। मुक्तऩाय् इरुन्दु कॊण्डु मुक्तऩागिऩ्ऱाऩ्। अदावदु मऱुबडियुम् सरीरत्तै अडैवदिल्लै ऎऩ्बदु पॊरुळ्।
स तु नैकपुरवर्त्येवात्मा किं तर्हि सर्वपुरवर्ती। कथम् ?
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) आत्मा ऒरु सरीरत्तिल् मट्टुम् इल्लै। आऩाल् ऎल्ला सरीरत्तिऩ् उळ्ळुम् इरुक्किऱार् अदु ऎव्वाऱु
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥
हंसः हन्ति गच्छतीति। शुचिषत् शुचौ दिवि आदित्यात्मना सीदतीति। वसुः वासयति सर्वानिति। वाय्वात्मना अन्तरिक्षे सीदतीति अन्तरिक्षसत्। होता अग्निः, ‘अग्निर्वै होता’ इति श्रुतेः। वेद्यां पृथिव्यां सीदतीति वेदिषत् , ‘इयं वेदिः परोऽन्तः पृथिव्याः’ (ऋ. मं. १। २२। १६४। ३५) इति मन्त्रवर्णात्। अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् ।ब्राह्मणोऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति दुरोणसत्।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) हंस: ऎऩ्ऱ पदत्तिऩ् तादु अर्त्तमागिय सॆल्लुदल् ऎऩ्बदु (इन्द परमात्मा) ऎङ्गुम् वियाबित्तुळ्ळदु ऎऩ्बदागुम्। सुत्तमाऩ आगायत्तिल् सूरियऩ् मुदलिय तिव्य रूबत्तुडऩ् इरुप्पदाल् शुचिषत् (सुसिषत्) ऎल्लावऱ्ऱैयुम् तऩ्ऩिडत्तिल् वसिक्कच् चॆय्वदाल् (अदिष्ट्टाऩमाग इरुप्पदाल्) वसु ( वसु ) वायु रूबमाय् अन्दरिक्षत्तिल् इरुप्पदुम्होता (होदा) अदुवे अक्ऩियाय् इरुप्पदुम् (अग्निर्वै होता ) ऎऩ्ऱ सुरुदि वाक्कियत्ताल् अक्ऩिये होदा ऎऩ्बदुम् (वेदि) वेदिषत् (वेदिषत्) पूमियिल् सॆल्वदाल् आगुम्। मेलुम् यक्ञ पूमियिऩ् मत्य पागत्तिल् मन्दिर रूबमाय् इरुप्पदालुम् अतिथिः (अदिदि) सोमरसमागुम्। अदु कलसत्तिल् इरुप्पदाल् दुरोणसत् (तुरोणसत्) ऎऩ्ऱुम् कूऱप्पडुगिऱदु। पिराह्मणर्गळिडत्तिल् अदिदि रूबमाय् कलसत्तिल् अदावदु वीट्टिल् इरुक्किऱदु। आगैयाल् त्रोणसत् ऎऩ्गिऱोम्।
नृषत् नृषु मनुष्येषु सीदतीति नृषत्। वरसत् वरेषु देवेषु सीदतीति वरसत्। ऋतसत् ऋतं सत्यं यज्ञो वा, तस्मिन् सीदतीति ऋतसत्। व्योमसत् व्योम्नि आकाशे सीदतीति व्योमसत्। अब्जाः अप्सु शङ्खशुक्तिमकरादिरुपेण जायत इति अब्जाः। गोजाः गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति गोजाः। ऋतजाः यज्ञाङ्गरूपेण जायत इति ऋतजाः। अद्रिजाः पर्वतेभ्यो नद्यादिरूपेण जायत इति अद्रिजाः।
ज्ञानानन्द-भारती - द्राविडी
(निरुषत्) नृषत् मऩिदर्गळिडत्तिल् इरुप्पदुम्, वरसत् (वरसत्) तेवर्गळिडत्तिल् इरुप्पदुम् ऋतसत्(रुदसत्) सत्यम् अल्लदु यक्ञत्तिडत्तिल् इरुप्पदुंव्योमसत् (वयोमसत्) आगासत्तिल् इरुप्पदु, अब्जा(अप्जा) जलत्तिल् सङ्गु, मीऩ् मुदलिय रूबमाय् उण्डाऩदु ऎऩ्बदुम्, प्रुदिवियिल् गोजा (कोजा) नॆल्, यवै मुदलिय रूबमाय् उण्डाऩदागुम्। ऋतजा (रुदजा) यक्ञाङ्ग रूबमाय् उण्डाऩदु। अद्रिजाः (अत्रिजा) मलैगळिल् नदि मुदलिय रूबमाय् उण्डाऩदु।
सर्वात्मापि सन् ऋतम् अवितथस्वभाव एव। बृहत् महान् , सर्वकारणत्वात्। यदाप्यादित्य एव मन्त्रेणोच्यते तदाप्यात्मस्वरूपत्वमादित्यस्याङ्गीकृतमिति ब्रह्मणि व्याख्यानेऽप्यविरोधः। सर्वथाप्येक एवात्मा जगतः, नात्मभेद इति मन्त्रार्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) सर्वात्मावाय् इरुन्दु कॊण्डु रिदम् अऴियाद स्वबावम् उळ्ळदु। ऎल्लावऱ्ऱिऱ्कुम् कारणमाय् इरुप्पदाल् मिगप् पॆरियदु। इन्द मन्दिरत्ताल् सूरियऩैक् कुऱित्तालुम् अन्द सूरियऩुम् आत्म स्वरूबमे ऎऩ्ऱु अङ्गीगरिक्कप्पट्टदाल् सूरियऩै कुऱिक्कुम् पिराह्मणबागत्तिऱ्कु विरोदमिल्लै। ऎङ्गुम् वियाबित्तु ऒऩ्ऱागवे आत्मा जगत्तैक् काट्टिलुम् वेऱल्ल ऎऩ्बदु इन्द मन्दिरत्तिऩ् पॊरुळागुम्।
आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) आत्माविऩुडैय स्वरूबत्तै अऱिवदऱ्काऩ लिङ्गम् (मार्क्कम्) सॊल्लप्पडुगिऱदु।
ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥
ऊर्ध्वं हृदयात् प्राणं प्राणवृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति। तथा अपानं प्रत्यक् अधः अस्यति क्षिपति यः इति वाक्यशेषः। तं मध्ये हृदयपुण्डरीकाकाशे आसीनं बुद्धावभिव्यक्तं विज्ञानप्रकाशनं वामनं वननीयं सम्भजनीयं विश्वे सर्वे देवाः चक्षुरादयः प्राणाः रूपादिविज्ञानं बलिमुपाहरन्तो विश इव राजानम् उपासते तादर्थ्येनानुपरतव्यापारा भवन्तीत्यर्थः। यदर्था यत्प्रयुक्ताश्च सर्वे वायुकरणव्यापाराः, सोऽन्यः सिद्ध इति वाक्यार्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऊर्ध्वं (ऊर्त्वम्) ह्रुदयत्तिलिरुन्दु पिराण विरुत्तियै अदावदु वायुवै मेले सॆऴुत्तुगिऱदो, अदे पोल् अबाऩविरुत्ति रूबमाऩ वायुवै कीऴे तळ्ळुगिऱदो अन्द हिरुदय पुण्डरीग आगासत्तिल् इरुन्दु कॊण्डु पुत्तियिल् विळङ्गुगिऩ्ऱ विक्ञाऩ पिरगासत्तै उडैयवऩुम् वामनं(वामऩम्) पजिक्कत्तक्कदुमाऩ अन्द आत्मावै सक्षु मुदलियवैगळुम् पिराण रूबम् मुदलिय विषयविक्ञाऩमागिऱ पलियैक् (कप्पत्तैक्) कॊडुक्किऱदाय् जीवर्गळ् अरसऩैप्पोल् उबासिप्पदाल् अन्द विषयत्तिलेये (अन्द अर्त्तत्तिलेये) ईडुबट्टु अवऱ्ऱिल् तॊऴिल् (वियाबारम्) उडैयदागिऱदु। वायु करणङ्गळ् इवऱ्ऱिऩ् वियाबारङ्गळ् ऎदऱ्काग ऎवऩाल् एऱ्पट्टदो अत्तगैयवऩ् अवऱ्ऱैक् काट्टिलुम् वेऱागवे इरुक्किऱाऩ् ऎऩ्बदु इन्द वाक्कियत्तिऩ् अर्त्तमागुम्।
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम्
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत् ॥ ४ ॥
अस्य शरीरस्थस्य आत्मनः विस्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः। विस्रंसनशब्दार्थमाह — देहाद्विमुच्यमानस्येति। किमत्र परिशिष्यते प्राणादिकलापे न किञ्चन परिशिष्यते ; अत्र देहे पुरस्वामिविद्रवण इव पुरवासिनां यस्यात्मनोऽपगमे क्षणमात्रात्कार्यकरणकलापरूपं सर्वमिदं हतबलं विध्वस्तं भवति विनष्टं भवति, सोऽन्यः सिद्ध ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्द सरीरत्तिल् इरुक्कुम् इन्द आत्मावाऩवऩ् विस्रंसमाऩाग अदावदु नऴुवुगिऩ्ऱवऩाग इरुक्कुम् पॊऴुदु अदावदु तेहत्तै विट्ट पिऩ् पिराणादिगळिल् ऎदु ताऩ् मिञ्जप् पोगिऩ्ऱदु। नगरत्तिल् स्वामि वॆळिक् किऴम्बिऩाल् नगरत्तिल् ऒरुवरुम् मिञ्ज माट्टार्गळ् अदु पोल् आगुम्! आगवे आत्मा वॆळिक्किऴम्बिय क्षणत्तिलेये कारिय करण सङ्गादम् ऎल्लाम् पलम् इऴन्ददागिऱदु। नष्ट्टमडैगिऱदु। अदैक् काट्टिलुम् वेऱागिऱाऩ्।
स्यान्मतं प्राणापानाद्यपगमादेवेदं विध्वस्तं भवति न तु व्यतिरिक्तात्मापगमात् , प्राणादिभिरेवेह मर्त्यो जीवतीति ; नैतदस्ति —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) सरीरम्, पिराणऩ्, अबाऩऩ् मुदलियवैगळ् वॆळियेऱुवदालेये मऩिदऩ् नष्टमडैगिऱाऩ् ।आगैयाल् कारिय करण सङ्गादत्तैक् काट्टिलुम् वेऱाग आत्मा इल्लै। एऩ् ऎऩिल् पिराणादिगळिऩाल्दाऩ् मऩिदऩ् जीविक्किऱाऩ् ऎऩ्ऱु सिलर् करुदुगिऱार्गळ्। अदु अव्वाऱु अल्ल।( एऩ् ऎऩिल्)
न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५ ॥
न प्राणेन नापानेन चक्षुरादिना वा मर्त्यः मनुष्यो देहवान् कश्चन जीवति न कोऽपि जीवति। न ह्येषां परार्थानां संहत्यकारित्वाज्जीवनहेतुत्वमुपपद्यते। स्वार्थेनासंहतेन परेण संहतानामवस्थानं न दृष्टं केनचिदप्रयुक्तं यथा गृहादीनां लोके ; तथा प्राणादीनामपि संहतत्वाद्भवितुमर्हति।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) तेगमुडैयवऩुम्, मरण तर्मम् उडैयवऩागिय मऩिदऩ् ऒरुवऩुम् पिराणऩाल् जीविक्किऱदिल्लै। अबाऩऩालो कण् मुदलिय इन्दिरियङ्गळालो जीविप्पदिल्लै। इन्द परार्त्तङ्गळ् ऎल्लाम् सेर्न्दु कारियत्तै सॆय्वदाल् जीविप्पदऱ्कुक् कारणमावदु पॊरुन्दादु। उलगिल् वीडु मुदलियवैगळ् ताऩागवे ऒऩ्ऱु सेर्वदालेये मऱ्ऱॊरु सेदऩत्तिऩ् प्रेरणै इल्लामल् अवैगळ् ऒऩ्ऱु सेर्वदु ऎऩ्बदु काणप्पडविल्लै। अव्वाऱे पिराणादिगळिऩ् सेर्क्कैयुम् (सेदऩम्) इल्लामल् जीविप्पदऱ्कुक् कारणमागादु।
अत इतरेण तु इतरेणैव संहतप्राणादिविलक्षणेन तु सर्वे संहताः सन्तः जीवन्ति प्राणान्धारयन्ति। यस्मिन् संहतविलक्षणे आत्मनि सति परस्मिन् एतौ प्राणापानौ चक्षुरादिभिः संहतौ उपाश्रितौ यस्यासंहतस्यार्थे प्राणापानादिः सर्वं व्यापारं कुर्वन्वर्तते संहतः सन् स ततोऽन्यः सिद्ध इत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) आगैयाल् पिराणऩ् मुदलियवैगळिऩ् सेर्क्कैयैक् काट्टिलुम् विलक्षणमाऩ वेऱु ऒऩ्ऱाल् सेर्न्दु कॊण्डु जीविक्किऩ्ऱऩ। पिराणऩै तरिक्किऩ्ऱऩ।अन्द सेर्क्कैगळुक्कु विलक्षणमाऩ परमाऩ आत्माविल् इन्द पिराणऩ् अबाऩऩ्गळ् कण् मुदलियवैगळाल् सेर्न्दु आस्रयत्तै अडैगिऩ्ऱदु। ऎन्द सेर्क्कैयऱ्ऱ(आत्माविडत्तिल्)तिल् पिराणऩ् अबाऩऩ् मुदलियवैगळ् वियाबारङ्गळ् सॆय्दु कॊण्डु इरुप्पदाल् अवैगळिऩ् सेर्क्कैयाल् अन्द आत्मा अन्द सङ्गादत्तैक् काट्टिलुम् वेऱुबट्टवऩाग इरुक्किऱदु।
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥
हन्तेदानीं पुनरपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सनातनं चिरन्तनं प्रवक्ष्यामि। यद्विज्ञानात्सर्वसंसारोपरमो भवति, अविज्ञानाच्च यस्य मरणं प्राप्य यथा च आत्मा भवति यथा आत्मा संसरति तथा शृणु हे गौतम ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) हे कॆळदम इप्पॊऴुदु मऱुबडियुम् उऩ् पॊरुट्टु ऎदै अऱिन्दाल् ऎल्ला संसारङ्गळुम् नीङ्गुमो अन्द इन्द रगस्यमाय् पादुगाक्कप्पड वेण्डिय सनादऩमाऩ पिरह्मत्तै कूऱुगिऱेऩ्। अदै अऱियाददिऩाल् ऎवऩ् मरणत्तैयुम्, पिऱप्पैयुम् अडैन्दु ऎव्वाऱु संसारत्तै अडैगिऱाऩ् ऎऩ्बदैक् केळ्।
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥
योनिं योनिद्वारं शुक्रबीजसमन्विताः सन्तः अन्ये केचिदविद्यावन्तो मूढाः प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थं देहिनः देहवन्तः योनिं प्रविशन्तीत्यर्थः। स्थाणुं वृक्षादिस्थावरभावम् अन्ये अत्यन्ताधमा मरणं प्राप्य अनुसंयन्ति अनुगच्छन्ति। यथाकर्म यद्यस्य कर्म तद्यथाकर्म यैर्यादृशं कर्म इह जन्मनि कृतं तद्वशेनेत्येतत्। तथा यथाश्रुतं यादृशं च विज्ञानमुपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्त इत्यर्थः ; ‘यथाप्रज्ञं हि सम्भवाः’ (ऐ. आ. २। ३। २) इति श्रुत्यन्तरात् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) वेऱु सिल अवित्वाऩ्गळागिय मूडर्गळ् सरीरत्तै ऎडुप्पदऩ् पॊरुट्टु सुक्र पीजत्तै उडैय योऩियै अडैगिऱार्गळ्। अदावदु योऩियिल् प्रवेसिक्किऱार्गळ् ऎऩ्बदु पॊरुळ्। मिगवुम् कीऴाऩवर्गळ् मरणत्तै अडैन्दु मरम् मुदलिय तावर पावत्तै तॊडर्न्दु सॆल्गिऱार्गळ्। कर्मम् ऎव्वाऱो अव्वाऱु रूबत्तै अडैगिऱार्गळ्। इन्द जऩ्मत्तिल् सॆय्द कर्मत्तै ऒट्टियुम्। ऎव्वाऱु विक्ञाऩमाऩदु सम्बादिक्कप्पट्टदो अव्वाऱु अदै ऒट्टियुम् रूबमाऩ सरीरत्तै अडैगिऱार्गळ्“यथा प्रज्ञं हि संभवाः”( यदा प्रक्ञम हि सम्बवा) ऎव्वाऱु पिरक्ञाऩमो अव्वाऱु प्रजैगळ् एऱ्पडुगिऩ्ऱऩ) ऎऩ्ऱु वेऱु सुरुदियिलुम् कूऱप्पट्टुळ्ळदु।
यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति तदाह —
ज्ञानानन्द-भारती - द्राविडी
(अ–कै) रहस्यमाऩ पिरह्मत्तै सॊल्गिऱेऩ् ऎऩ्ऱु मुऩ्बु पिरदिक्ञै सॆय्ददै इप्पोदु कूऱुगिऱार्।
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः। तदेव शुक्रं
तद्ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥ ८ ॥
य एष सुप्तेषु प्राणादिषु जागर्ति न स्वपिति ; कथम् ? कामं कामं तं तमभिप्रेतं स्त्र्याद्यर्थमविद्यया निर्मिमाणः निष्पादयन् , जागर्ति पुरुषः यः, तदेव शुक्रं शुभ्रं शुद्धं तद्ब्रह्म नान्यद्गुह्यं ब्रह्मास्ति। तदेव अमृतम् अविनाशि उच्यते सर्वशास्त्रेषु। किञ्च, पृथिव्यादयो लोकास्तस्मिन्नेव सर्वे ब्रह्मणि श्रिताः आश्रिताः, सर्वलोककारणत्वात्तस्य। तदु नात्येति कश्चनेत्यादि पूर्ववदेव ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द ऒरुवऩ् पिराणादिगळ् तऩ् वियाबारङ्गळिलिरुन्दु विरामम्(विडुबट्ट पॊऴुदु) विरामम् अडैयामल् विऴित्तुक् कॊण्डिरुक्किऱाऩो, अदु ऎव्वाऱु ऎऩिऩ्, अवित्तैयिऩाल् स्तीरी मुदलिय तऩक्कु विरुप्पमाऩ पदार्त्तङ्गळै उण्डु पण्णिक् कॊण्डु ऎन्द पुरुडऩ् इरुक्किऱाऩो अदुदाऩ् सुक्रम्। सुप्रम्। सुत्तमाऩ अदुवे पिरह्मम्। वेऱु कुह्यमाऩ (रहस्यमाऩदु) इल्लै ऎऩ्बदागुम्। अदुवे सर्वसास्तिरङ्गळिलुम् विनासम् अऱ्ऱदु ऎऩ्ऱु सॊल्लप्पडुगिऱदु। मेलुम् अदु ऎल्ला लोगङ्गळुक्कुम् कारणमाय् इरुप्पदाल् ऎल्ला पिरुदिवि मुदलियवैगळ् अन्द पिरह्मत्तिल् आस्रयत्तवैगळाय् इरुक्किऩ्ऱऩ। अदावदु अदै ऒऩ्ऱुम् कडन्दु इरुक्कादु ऎऩ्बदु मुऩ् पोलवे आगुम्।
अतः कुतार्किकपाषण्डबुद्धिविचालितान्तःकरणानां प्रमाणोपपन्नमप्यात्मैकत्वविज्ञानमसकृदुच्यमानमप्यनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादने आदरवती पुनः पुनराह श्रुतिः —
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) अनेग तार्क्किगर्गळिऩ् मूड पुत्तियिऩाल् सलऩमडैन्द अन्दक्करणम् उडैयवर्गळुक्कु पिरामणर्गळ् सास्तिरप् पिरमाऩत्तै उडैयवर्गळाय् इरुन्दालुम् आत्मा ऒऩ्ऱे ऎऩ्ऱ विक्ञाऩत्तै अनेग तडवै कूऱप्पट्टालुम् नेर्मैयाऩ पुत्तियऱ्ऱ प्रामणर्गळिऩ् मऩदिल् पदिवदिल्लै ऎऩ्बदाल् अदै नऩ्ऱाग विळक्कि कूऱुवदऱ्काग आदरवुडैय सुरुदियाऩदु मऱुबडियुम्, मऱुबडियुम् ऎडुत्तु उरैक्किऩ्ऱदु।
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥
अग्निः यथा एक एव प्रकाशात्मा सन् भुवनम् , भवन्त्यस्मिन्भूतानीति भुवनम् , अयं लोकः, तमिमं प्रविष्टः अनुप्रविष्टः, रूपं रूपं प्रति, दार्वादिदाह्यभेदं प्रतीत्यर्थः, प्रतिरूपः तत्र तत्र प्रतिरूपवान् दाह्यभेदेन बहुविधो बभूव ; एक एव तथा सर्वभूतान्तरात्मा रूपं रूपं सर्वेषां भूतानामभ्यन्तर आत्मा अतिसूक्ष्मत्वाद्दार्वादिष्विव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश्च स्वेनाविकृतेन रूपेण आकाशवत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎव्वाऱु ऒरे अक्ऩियाऩदु पिरगास स्वरूबमाग इरुन्दु कॊण्डु पुवऩत्तिल् अदावदु पिराणिगळ् उण्डावदाल् पुवऩमयमाऩ लोगत्तिल् इन्द अक्ऩियाऩदु ऒव्वॊरु कट्टै मुदलियवैगळिल् अन्द, अन्दरूबमागप् पिरवेसित्तु अन्द ऎरिक्कुम् सत्तियिऩ् पेदमाय् तोऩ्ऱि अनेग विद विद पेद रूबङ्गळाय् तोऩ्ऱुगिऱदु। अव्वाऱे आत्मा ऒऩ्ऱागवे इरुन्दु कॊण्डु ऎल्ला पूदङ्गळुक्कुम् अन्दरात्मावाऩदु ऎल्ला जीव रासिगळ् उळ्ळुम् आत्मा मिगवुम् सूक्ष्ममाय् इरुप्पदाल् कट्टै मुदलियवैगळिल् इरुप्पदु पोल् ऎल्ला तेहङ्गळुळ्ळुम् नुऴैन्दु इरुप्पदाल् वॆळियिलुम् तऩ्ऩुडै विगारमऱ्ऱ सुवरूबवमादाल् आगासम् पोल् ऒव्वॊरु रूबत्तिलुम् विळङ्गुगिऱदु।
तथान्यो दृष्टान्तः —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) अव्वाऱु वेऱु तिरुष्ट्टान्दम्
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥
वायुर्यथैक इत्यादि। प्राणात्मना देहेष्वनुप्रविष्टः। रूपं रूपं प्रतिरूपो बभूवेत्यादि समानम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎव्वाऱु वायुवाऩदु ऒऩ्ऱागवे इरुन्दु कॊण्डु पिराणात्मावाय् ऒव्वॊरु रूबमाय् अन्द पिरदिरूबमाय् आगिऱदु मुदलियवैगळ् मुऩ्बोलाम्।
एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्यादिति प्राप्ते, इदमुच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इव्वाऱु ऒऩ्ऱे सर्वात्मावाय् इरुक्कुम् पॊऴुदु संसार तुक्कमाऩदु परमात्माविऱ्के उण्डागुम् ऎऩ्बदाल् इव्वाऱु कूऱप्पडुगिऱदु।
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥
सूर्यः यथा चक्षुष आलोकेनोपकारं कुर्वन्मूत्रपुरीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुः अपि सन् न लिप्यते चाक्षुषैः अशुच्यादिदर्शननिमित्तैराध्यात्मिकैः पापदोषैः बाह्यैश्च अशुच्यादिसंसर्गदोषैः एकः सन् , तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎव्वाऱु सूरियऩ् कण्गळुक्कु तऩ् पिरगासत्तिऩाल् पार्प्पदऱ्कु उबगारमाय् इरुन्दुगॊण्डु मल मूत्तिरम् मुदलिय असुत्त पदार्त्तङ्गळै पिरगासप् पडुत्तुवदाल् अदैप् पार्प्पवऩ् ऎल्ला लोगङ्गळुक्कुम् कण् रूबमाय् इरुन्दालुम् असुत्तमाऩ पदार्त्तङ्गळै पार्प्पदाल् उण्डागुम् आत्यात्मिग पाब तोषङ्गळुम् अव्वाऱे असुत्तप् पदार्त्तङ्गळिऩ् सेर्क्कैयाल् एऱ्पडुम् पाह्य तोषङ्गळ् ऒट्टुवदिल्लै। अव्वाऱे ऎल्ला पूदङ्गळुक्कुम् ऒरे अन्द रात्मावाय् इरुन्दालुम् तुक्कङ्गळ् ऒट्टुवदिल्लै। (सम्बन्दप्पडुवदु इल्लै) आत्मावाऩवऩ् ऎल्लावऱ्ऱिऱ्कुम् पाह्यमाय् इरुक्किऩ्ऱाऩ्।
लोको ह्यविद्यया स्वात्मन्य् अध्यस्तया कामकर्मोद्भवं दुःखमनुभवति। न तु सा परमार्थतः स्वात्मनि। यथा रज्जुशुक्तिकोषरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति, संसर्गिणि विपरीतबुद्ध्यध्यासनिमित्तात्तु तद्दोषवद्विभाव्यन्ते ; न तद्दोषैस्तेषां लेपः, विपरीतबुद्ध्यध्यासबाह्या हि ते ;
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) उलगिल् अत्यासमाऩ अवित्तैयिऩाल् तऩदु आत्माविडत्तिल् कामम् कर्मङ्गळिऩाल् उण्डागुम् तुक्कत्तै अऩुबविक्किऱाऩ्। अन्द अवित्यैयाऩदु उण्मैयिल् तऩ् आत्माविडत्तिल् इल्लै। ऎव्वाऱु कयिऱु, सुत्ति, काऩल्नीर् आगासम् इवैगळिल् सर्प्पम्, वॆळ्ळि, नीर्, आगायमलर्, रज्जु (कयिऱु) मुदलियवैगळिल् इयऱ्कैयाग तोष रूबङ्गळ् इल्लै।संसर्क्कत्तिऩिडत्तिल् विबरीद पुत्तियिऩ् अत्तियास निमित्तत्ताल् अवैगळ् तोषङ्गळ् पोल् पाविक्कप्पडुगिऱदु। अवैगळ् अन्द तोषङ्गळाल् तीण्डप्पडुवदु इल्लै। एऩ् ऎऩिल् अदु विबरीद पुत्तियिऩाल् उण्डाऩ अत्यासत्तैक् काट्टिलुम् पाहियमागुम् (वॆळियिल् इरुक्किऱदु)
तथा आत्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पादिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्ममरणादिदुःखमनुभवति ; न त्वात्मा सर्वलोकात्मापि सन् विपरीताध्यारोपनिमित्तेन लिप्यते लोकदुःखेन। कुतः ? बाह्यः रज्ज्वादिवदेव विपरीतबुद्ध्यध्यासबाह्यो हि स इति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अव्वाऱु आत्माविऩिडत्तिल् ऎल्ला लोगङ्गळुम् किरियागारग पल रूबमाऩ विक्ञाऩत्तिऩाल् सर्प्प मुदलिय स्ताऩत्तिल् विबरीदमाऩ अत्यासम् सॆय्दु अदऩ् निमित्तमाग जऩ्म मरणादि तुक्कम् अऩुबविक्किऱार्गळ्। आत्मा ऎल्ला लोगमाय् इरुन्दु कॊण्डु विबरीद अत्तियास आरोब निमित्तत्ताल् एऱ्पडुम् लोग तुक्कङ्गळिऩाल् तीण्डप्पडुवदिल्लै। एऩ्? अदैक् काट्टिलुम् वॆळियिल् इरुक्किऱदु। अदु रज्जु मुदलियवैगळ् पोल् विबरीद पुत्ति अत्यासत्तैक् काट्टिलुम् पाह्यमाय् (वॆळियिल्) इरुक्किऱदु ऎऩ्बदागुम्।
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
मेलु
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥
स हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः,
न तत्-समो ऽभ्यधिको वान्योऽस्ति।
वशी, सर्वं ह्यस्य जगद्वशे वर्तते।
कुतः ? सर्वभूतान्तरात्मा।
यत एकम् एव सदैकरसम् आत्मानं विशुद्ध-विज्ञान-घन-रूपं नामरूपाद्य्-अशुद्धोपाधि-भेदवशेन बहुधा अनेकप्रकारेण यः करोति
स्वात्म-सत्ता-मात्रेण अचिन्त्य-शक्तित्वात् ,
तत् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेणाभिव्यक्तमित्येतत् —
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द आत्मावे परमेच्वरऩ्, ऎङ्गुम् निऱैन्दवर्, स्वदन्दिरर् ऒरुवरे। अन्द आत्मावैक् काट्टिलुम् सममो, अदिगमाऩदो, वेऱु ऒऩ्ऱु इल्लै। अवरे वसि (वशी) इन्द जगत् ऎल्लाम् अवर् वसमाय् इरुक्किऱदु। ऎदऩाल्? ऎल्ला पूदङ्गळिलुम् अन्दरात्मावाय् इरुक्किऱदु। अदऩाल् एगमायुम् ऎप्पॊऴुदुम् एगरस रूबम् आत्माविऱ्कु नाम रूब मुदलिय असुत्त उबादि पेदत्ताल् आत्माविऩुडैय सत्तामात्तिरत्तिऩालुम् तऩ्ऩुडैय असिन्द्य रूबसक्तियिऩालुम्, सुवदन्दिरमाय् अनेग पिरगारमाग ऎवऩ् सॆय्गिऱाऩो अवऩ् तऩ् सरीरत्तिल् उळ्ळ ह्रुदयागासत्तिल् अदावदु पुत्तियिल् सैदऩ्यागारमाय् अबिवियक्तमागिऱदु।(तॆरिगिऱदु)
न हि शरीरस्याधारत्वम् आत्मनः, आकाशवद् अमूर्तत्वात् ;
आदर्शस्थं मुखमिति यद्वत् —
तमेतम् ईश्वरम् आत्मानं
ये निवृत्त-बाह्य-वृत्तयः अनुपश्यन्ति
आचार्यागमोपदेशम् अनु साक्षाद् अनुभवन्ति धीराः विवेकिनः,
तेषां परमेश्वर-भूतानां
शाश्वतं नित्यं सुखम् आत्मानन्द-लक्षणं भवति,
नेतरेषां बाह्यासक्त-बुद्धीनाम् अविवेकिनां स्वात्मभूतम् अपि, अविद्या-व्यवधानात् ॥
ज्ञानानन्द-भारती - द्राविडी
आगायम् पोल् रूबम् इल्लाददाल् आत्माविऱ्कु सरीरम् आदारम् आगादु। कण्णाडियिल् तोऩ्ऱुम् मुगम् कण्णाडिक्कु आदारम् आगाददु पोल्। अन्द ईस्वरऩागिय आत्मावै ऎवर्गळ् वॆळि विरुत्तिगळिलिरुन्दु विडुबट्टवर्गळ् अऱिन्दु कॊळ्गिऱार्गळ्। अन्द आत्मावै कुरु सास्तिर उबदेसत्तिऩाल् साक्षात्ताग अऱिगिऱार्गळ्। तीरर्गळागिय विवेगिगळ् परमेच्वर रूबत्तै अडैन्दवर्गळुक्कु सास्वदम्, नित्यम्, सुगम्, आत्माऩन्दम् एऱ्पडुगिऱदु। (अडैयप्पडुगिऱदु) वॆळि विषयङ्गळिल् पऱ्ऱु उळ्ळ पुत्ति उडैय अविवेगिगळुक्कु स्वात्म पूदमाय् इरुन्दालुम् अवित्तैयिऩाल् मऱैक्कप्पडुवदाल् अवर्गळाल् अऱिय मुडियादु।
किञ्च,
ज्ञानानन्द-भारती - द्राविडी
मेलुम्
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥
नित्यः अविनाशी नित्यानाम् अविनाशिनाम्। चेतनः चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनाम्। अग्निनिमित्तमिव दाहकत्वमनग्नीनामुदकादीनामात्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषाम्। किञ्च, स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानुग्रहनिमित्तांश्च कामान् यः एको बहूनाम् अनेकेषाम् अनायासेन विदधाति प्रयच्छतीत्येतत्। तम् आत्मस्थं ये अनुपश्यन्ति धीराः, तेषां शान्तिः उपरतिः शाश्वती नित्या स्वात्मभूतैव स्यात्। न इतरेषाम् अनेवंविधानाम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अनित्यमाऩ विनासम् उडैयवऱ्ऱिऱ्कु नित्यमाय् विनासम् अऱ्ऱदाय् इरुक्किऱदु। सेदऩङ्गळाऩ पिरह्मा मुदलिय जीवर्गळुक्कु सेदऩम्, अक्ऩि इल्लाद नीर् मुदलियवैगळ् अक्ऩि निमित्तमाग ताहगत्तुवम् (कॊळुत्तुम् तऩ्मै) ऎव्वाऱो अव्वाऱु आत्मा अल्लाद मऱ्ऱवैगळुक्कु आत्म सैदऩ्य निमित्तमागवे सेदयित्रुवम् (सेदऩत्तऩ्मै)। मेलुम् आत्मा सर्वक्ञऩ्, सर्वेष्वरऩ्, काममुडैय संसारिगळुक्कु अवर्गळुडैय कामत्तिऱ्कु तगुन्दवाऱु अवर्गळ् विरुम्बिय कर्म पलत्तै तऩ्ऩुडैय अऩुक्किरह निमित्तत्ताल् कामऩैगळै ऒऩ्ऱागवे इरुन्दु कॊण्डु अनायसमाग अनेगर्गळुक्कु कॊडुक्किऱार्। अन्द आत्माविलिरुप्पवरै ऎन्द तीरर्गळ् अदै अऱिगिऱार्गळो अवर्गळुक्कु सास्वदमाऩ नित्य सास्वदमाऩ स्वात्म पूदमाऩ सान्दियैयुम्, उबरदियैयुम् अडैगिऱार्गळ्। इवर्गळैक् काट्टिलुम् वेऱाऩवऩ् अडैवदिल्लै।
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४ ॥
यत् तद्-आत्म-विज्ञान-सुखम् अनिर्देश्यं निर्देष्टुमशक्यं
परमं प्रकृष्टं प्राकृतपुरुष-वाङ्मनसयोरगोचर् अमपि सन्निवृत्तैषणा ये ब्राह्मणास्ते
तदेतत्प्रत्यक्षमेवेति मन्यन्ते, कथं नु केन प्रकारेण तत्सुखमहं विजानीयाम्
इदमित्यात्मबुद्धिविषयमापादयेयं यथा निवृत्तविषयैषणा यतयः। किमु तत् भाति
दीप्यते प्रकाशात्मकं तत् यतोऽस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं
दृश्यते किं वा नेति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द अन्द आत्म विक्ञाऩम् सुगमायुम्, इव्वाऱु इरुक्किऱदु ऎऩ्ऱु कुऱिप्पिड मुडियाददुम् परम् आऩदुम् सादारण मऩिदर्गळुक्कु वाक्कु मऩदिऱ्कु ऎट्टाददायुम् इरुन्दालुम् एषणा तिरयम् नीङ्गियवर्गळाय् ऎन्द पिराह्म्णर्गळ् इरुक्किऱार्गळो ऎन्द ऒऩ्ऱु उण्डो अदै पिरत्यक्षमाय् अऱिगिऱार्गळ् ऎऩ्ऱु करुदुगिऱेऩ्। ऎव्वाऱु, ऎव्विदमाग नाऩ् अन्द आत्म सुगत्तै तॆरिन्दु कॊळ्वेऩ्? ऎव्वाऱु एषणैगळ् निविर्त्ति अडैन्द सादुक्कळ् पोल् “इदु” ऎऩ्ऱु आत्म पुत्तिक्कु विषयमागच् चॆय्वेऩ्? ऎदु पिरगासात्मगमाग उळ्ळदो अदु नम् पुत्तिक्कु विळङ्गुमाऱु तॆळिवाग प्रगासिक्किऱदो? अल्लदु इल्लैया? ऎऩ्ऱु अडिक्कडि विसारम् सॆय्य वेण्डुम्।
अत्रोत्तरमिदम् — भाति च विभाति चेति। कथम् ?
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इदऱ्कुबदिल् इन्द आत्मा सामाऩ्यमायुम् पिरगासिक्किऱदु, विसेषमायुम् प्रगासिक्किऱदु अदु ऎव्वाऱु?
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५ ॥
न तत्र तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यः भाति तद्ब्रह्म न प्रकाशयतीत्यर्थः। तथा न चन्द्रतारकम् , नेमा विद्युतो भान्ति, कुतः अयम् अस्मद्दृष्टिगोचरः अग्निः। किं बहुना ? यदिदमादित्यादिकं भाति तत् तमेव परमेश्वरं भान्तं दीप्यमानम् अनुभाति अनुदीप्यते। यथा जलोल्मुकादि अग्निसंयोगादग्निं दहन्तमनुदहति न स्वतः, तद्वत्। तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि विभाति।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द स्वात्म स्वरूबमाऩ प्रह्मत्तै ऎल्लावऱ्ऱैयुम् पिरगासिक्कच् चॆय्दालुम् सूर्यऩाल् पिरगासिक्कच् चॆय्य मुडिवदिल्लै ।अन्द प्रह्मत्तै अदऩाल् पिरगासिक्कच् चॆय्य मुडियादु ऎऩ्बदु पॊरुळ्। अव्वाऱे सन्दिरऩ्, नक्षत्तिरम्, मिऩ्ऩल् इवैगळालुम् पिरगासिक्क सॆय्य मुडियादु। इव्वाऱु इरुक्कुम् पॊऴुदु नम् कण्गळुक्कु पुलप्पडुम् अक्ऩियिऩाल् ऎव्वाऱु मुडियुम्। अदिगम् कूऱुवाऩेऩ् अन्द सूरियऩ् मुदलाऩ ऎवैगळ् ऎल्लाम् प्रगासित्तुक् कॊण्डिरुक्किऱदो अवै ऎल्लाम् अन्द परमात्माविऩाल् प्रगासप्पडुत्तप्पट्टु अदऩै ऒट्टिये पिरगासित्तुक् कॊण्डिरुक्किऱदु। ऎव्वाऱु जलम्, कट्टै मुदलियवैगळ् अक्ऩियिऩ् सम्योगत्ताल् अक्ऩि तहिक्किऩ्ऱदे तविर अदऱ्कु सुबावमाग इल्लैयो अव्वाऱे अन्द आत्म पिरगासत्ताल् सूरियऩ् मुदलियवैगळ् ऎल्लाम् पिरगासिक्किऩ्ऱऩ।
यत् एवं तदेव ब्रह्म भाति च विभाति च। कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते। न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्यम् , घटादीनामन्यावभासकत्वादर्शनात् भारूपाणां च आदित्यादीनां तद्दर्शनात् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎदऩालो अदऩाल् अन्द पिरह्मम् सामाऩ्यमाग पिरगासिक्किऩ्ऱदु। मेलुम् विसेष रूबमागवुम् पिरगासिक्किऱदु। कारियत्तिल् उळ्ळ अनेग विद पिरगासत्तिऩाल् अन्द पिरह्मत्तिऩुडैय पिरगास रूबमाऩदु सुबावमागवे उळ्ळदु ऎऩ्ऱु पुलप्पडुगिऱदु। सुबावमाग (सॊन्दमाग) इल्लाद प्रगासत्तैक् कॊण्डु मऱ्ऱवैगळैप् पिरगासिक्कच् चॆय्य मुडियादु अल्लवा। ऎव्वाऱु कडम्(कुडम्) मुदलियवैगळ् पिऱवऱ्ऱै पिरगासप्पडुत्तुम् तऩ्मैयिल्लामल् इरुप्पदुम् पिरगास रूबङ्गळाऩ सूरियऩ् मुदलियवैगळुक्कु पिरगासप्पडुत्तुम् तऩ्मै काणप्पडुवदे कारणमागुम्।
इति पञ्चमवल्लीभाष्यम् ॥
षष्ठी वल्ली
ऊर्ध्वमूलोऽवाक्शाख
एषोऽश्वत्थः सनातनः।
तदेव शुक्रं तद् ब्रह्म
तदेवामृतम् उच्यते।
तस्मिंल्लोकाः श्रिताः सर्वे
तदु नात्येति कश्चन।
एतद्वै तत् ॥ १ ॥
तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके, एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्रह्मणः स्वरूपावदिधारयिषया इयं षष्ठी वल्ली आरभ्यते ।
ज्ञानानन्द-भारती - द्राविडी
(अ–कै) उलगत्तिल् ऎव्वाऱु कारियत्तै इलवम् पञ्जै अऱिवदाल् मरत्तिऩ् मूलम् निच्चयिक्कप्पडुवदु पोल् संसारत्तै अदावदु सुग तुक्काऩुबवत्तै कारियमागक् कॊण्ड विरुक्षत्तै काण्बदाल् अदऩ् मूलमागिय पिरह्मत्तिऩ् स्वरूब अवदियै निर्दारणम् सॆय्वदऱ्काग इन्द आऱावदु वल्ली आरम्बिक्कप्पडुगिऱदु।
ऊर्ध्वमूलः ऊर्ध्वं मूलं यत् तद्विष्णोः परमं पदम् अस्येति
सोऽयमव्यक्तादिस्थावरान्तः संसारवृक्षः ऊर्ध्वमूलः।
वृक्षश्च व्रश्चनात् विनश्वरत्वात्।
अ-विच्छिन्न-जन्म-जरा-मरण-शोकाद्य्-अनेकानर्थात्मकः
प्रतिक्षणम् अन्यथा-स्वभावः
मायामरीच्य्-उदक-गन्धर्व-नगरादिवद् दृष्ट-नष्ट-स्वरूपत्वाद्
अवसाने च वृक्षवद् अभावात्मकः
कदलीस्तम्भवन् निःसारः
अनेक-शत-पाषण्ड-बुद्धि-विकल्पास्पदः
तत्त्वविजिज्ञासुभिर् अनिर्धारितेदन्तत्त्वः
वेदान्तनिर्धारित-पर-ब्रह्म-मूल-सारः
अविद्या-काम-कर्माव्यक्त-बीज-प्रभवः
अ-पर-ब्रह्म–विज्ञान-क्रिया-शक्ति-द्वयात्मक-हिरण्यगर्भाङ्कुरः
सर्वप्राणि-लिङ्ग-भेद-स्कन्धः तत्-तत्-तृष्णा-जलासेकोद्भूत-दर्पः
बुद्धीन्द्रिय-विषय-प्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशः
यज्ञदानतपआद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलः
तत्तृष्णासलिलावसेकप्ररूढजटिलीकृतदृढबद्धमूलः
सत्यनामादिसप्तलोकब्रह्मादिभूतपक्षिकृतनीडः
प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसिताक्रुष्टरुदितहाहामुञ्चमुञ्चेत्याद्यनेकशब्दकृततुमुलीभूतमहारवः
वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेदः एष संसारवृक्ष अश्वत्थः
अश्वत्थवत्कामकर्मवातेरितनित्यप्रचलितस्वभावः।
स्वर्गनरकतिर्यक्प्रेतादिभिः शाखाभिः अवाक्शाखः, अवाञ्चः शाखा यस्य सः,
सनातनः अनादित्वाच्चिरप्रवृत्तः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऊर्ध्वमूलम् (ऊर्त्व मूलम्) विष्णु मूलम् (ऎऩ्ऱाल्) मेलाऩ अदावदु पगवाऩ् विष्णुविऩुडैय परमबदमागुम्। अदु इदु अव्यक्तम् वरैयिलुम् उळ्ळ संसार विरुक्षत्तिऱ्कु (ऊर्ध्वमूलम्।) मेलाऩ कारणमागुम्। वॆट्टप्पडुवदाल् विरुक्षम् ऎऩप्पडुगिऱदु। जऩ्म मरण सोगम् मुदलिय अनेग अनर्त्तङ्गळुडैयदु। ऒव्वॊरु क्षणमुम् माऱुबडुम् सुबावमुडैयदु। मायैयाऩ काऩल् नीर् कन्दर्व नगरम् मुदलियवैगळ् पोल् त्रुष्ट्ट नष्ट्ट सुबाव मुडैयदाल् (पार्क्कुम् पॊऴुदे नसिक्कुम् सुवबावमुडैयदाल् मुडिविल् विरुक्षम् पोल् (मरम् पोल्) स्वबावमुडैयदु। वाऴैत्तण्डु पोल् सारमऱ्ऱदु। अनेग नू ऱ्ऱुक् कणक्काऩ पाषाण्डर्गळ् तङ्गळ् पुत्तियिऩाल् सॆय्यप्पडुम् विगल्बङ्गळुक्कु इरुप्पिडमाऩदु। तत्तुव ञाऩिगळालुम् इव्वाऱुदाऩ् इरुक्किऱदु ऎऩ्ऱु निर्णयम् सॆय्यमुडियाददु। वेदान्दिगळाल् निर्दारणम् सॆय्यप्पट्ट परप्रह्मत्तै मूल कारणमाग उडैयदु। अवित्या, काम कर्म अव्यक्त पीजत्तिलिरुन्दु उण्डाऩ अबरप्रह्म विक्ञाऩ किरिया सक्ति आगिय इरण्डु विद सक्ति स्वरूबमाऩ हिरण्य कर्प्पऩै मुळैयाग उडैयदु। ऎल्ला पिराणिगळिऩ् लिङ्ग पेदमाऩदु किळैगळागुम्। आसै (तिरुष्णै) ऎऩ्ऱ जलत्ताल् नऩैक्कप्पट्टु कॊऴुप्पु(तर्प्पम्) उडैयदागिऱदु। ञऩेन्दिरियङ्गळाल् किरहिक्कप्पडुम् विषयङ्गळ् तळिर्गळागिऩ्ऱऩ। स्रुदि स्मिरुदि नियायम् उबदेसम् इवैगळ् इलैगळागिऩ्ऱऩ। यागम्, ताऩम्, तवम्, मुदलिय अनेगविद किरियैगळागिऱ पुष्पङ्गळै उडैयदु। पिराणिगळाल् जीविक्कुम् वरैयिलुम् मुडिवऱ्ऱ पलऩ्गळै उडैयदु। अन्द पलऩ्गळिल् आसै ऎऩ्ऱ जलम् तॆळित्तदाल् वळर्च्चि उडैयदु। सत्वगुणम् मुदलियवैगळ् कलन्दु स्तिरमाऩदु (वासऩैगळै)मागिय मूलत्तै उडैयदु। सत्यलोगम् मुदलिय एऴु लोगङ्गळिल् प्रह्म तेवऩ् मुदलिय पक्षिगळाल् कट्टप्पट्ट कूट्टै उडैयदु। पिराणिगळुडैय सुगदुक्कङ्गळिऩाल् एऱ्पडुम् सन्दोषम्, सोगम् इवैगळाल् उण्डागुम् नडऩमाडुदल्, पाट्टुबाडुदल्, वात्तियम् वासित्तल्, विळैयाडुदल्, इरैच्चल्बोडुदल्, सिरित्तल्, कैदट्टुदल्, अऴुदल्, ऐयो, ऐयो, विडु विडु ऎऩ्ऱल् मुदलियवैगळाल् मिगुन्द नॆरुक्कमाय् सत्तमिडुदल् आगियवैगळै उडैत्ताऩदु। वेदान्दत्तिल् पिरदि पादिक्कप्पट्ट (आत्) मदर्सऩम् ऎऩ्ऩुम् प्रह्मात्म (असङ्ग) तडैयऱ्ऱ कत्तियिऩाल् वॆट्टक् कूडियदाऩ इन्द संसार विरुक्षमाऩदु अस्वत्तमागुम्। (अरसमरमागुम्) अदावदु अस्वत्त मरम् पोल् कामम्, कर्मम्, आगिय काऱ्ऱिऩाल् असैक्कप्पट्टदाय् ऎप्पॊऴुदुम् असैन्दु कॊण्डिरुक्किऩ्ऱ तऩ्मै उडैयदाय् इरुक्किऱदु। स्वर्क्कम्। नरगम्, मिरुगम्, पिरेद मुदलिय किळैगळैक् कॊण्डदाय् इरुप्पदाल् अदु कीऴ् नोक्कियवैगळै उळ्ळऩ। अदु सऩादऩ अनादियाय् इरुप्पदाल् वॆगु कालमाय् पिरविर्त्तिक्किऱदु।
यद् अस्य संसारवृक्षस्य मूलं
तद् एव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिःस्वभावं
तद् एव ब्रह्म सर्वमहत्त्वात्।
तदेव अमृतम् अविनाशस्वभावम् उच्यते
कथ्यते सत्यत्वात्।
वाचारम्भणं विकारो नामधेयम् अनृतम् अन्यद् अतो मर्त्यम्।
तस्मिन् परमार्थसत्ये ब्रह्मणि
लोकाः गन्धर्वनगर-मरीच्य्-उदक-माया-समाः
परमार्थ-दर्शनाभावावगमनाः श्रिताः आश्रिताः
सर्वे समस्ताः उत्पत्ति-स्थिति-लयेषु।
तदु तद्ब्रह्म नात्येति नातिवर्तते
मृदादिकमिव घटादिकार्यं कश्चन कश्चिदपि विकारः। एतद्वै तत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎदु इन्द संसार विरुक्षत्तिऩ् कारणमो(मूलमो) अदुदाऩ् सुत्तमाऩदु, सैदऩ्यज्योदि स्वरूबमाऩदु। (सैदऩ्य ज्योदि स्वबावमाऩदु) ऎल्लावऱ्ऱिऱ्कुम् मगत्ताय् (पॆरियदाय्) इरुप्पदाल् अदुवे पिरह्मम्। अदुवे सत्यमाय् इरुप्पदाल् अम्रुदम्, नासमऱ्ऱ स्वबावमुडैयदु ऎऩ्ऱु सॊल्लप्पडुगिऱदु। उलगिल् उळ्ळ विगारङ्गळुम् (कारियङ्गळुम्) पॆयर्गळुम् वाक्किऩालेये वॆळिप्पडुगिऱदु। अदु अनात्मावागुम्। आगैयाल् पिरह्मत्तैक् काट्टिलुम् वेऱाऩ पॊरुळ्गळ् अऴियक्कूडियदागुम्। अन्द परमार्त्त सत्यमाऩ पिरह्मत्तिऩिडत्तिल् उऱ्पत्ति स्तिदिलयम् उडैय कारियङ्गळागिऱ ऎल्ला लोगङ्गळुम् कन्दर्व नगरम्, काऩल् नीर् पोऩ्ऱ मायैक्कु सममाऩदुम्, परमार्त्त तरिसऩत्ताल् सुबावम् आगक्कूडियवैगळ् आस्रयत्तिरुक्किऩ्ऱऩ। कुडम् मुदलिय कारियङ्गळ् मण् मुदलिय कारियत्तै आस्रयप्पदु पोल् ऎन्द कारियमुम् प्रह्मत्तैक् कडन्दु इरुप्पदिल्लै इदुवे अन्द प्रह्ममागुम्।
यद्विज्ञानादमृता भवन्तीत्युच्यते, जगतो मूलं तदेव नास्ति ब्रह्म ; असत एवेदं निःसृतमिति-
ज्ञानानन्द-भारती - द्राविडी
(सङ्गै) (अ-कै) ऎदै अऱिन्दाल् अम्रुदत्तै अडैवार्गळ् ऎऩ्ऱु कूऱप्पट्टदो अदु प्रह्ममे इल्लै। अदु असत्। अदिल् इरुन्दुदाऩ् ऎल्लाम् उण्डायिऱ्ऱु ऎऩ्बदु सरियल्लै।
समाधानम् - तत् न —
ज्ञानानन्द-भारती - द्राविडी
(समादाऩम्) अव्वाऱु अल्ल
यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥
यदिदं किञ्च यत्किञ्चेदं जगत्सर्वं प्राणे परस्मिन्ब्रह्मणि सति एजति कम्पते, तत एव निःसृतं निर्गतं सत् प्रचलति नियमेन चेष्टते। यदेवं जगदुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयम् , महच्च तत् भयं च बिभेत्यस्मादिति महद्भयम् , वज्रमुद्यतम् उद्यतमिव वज्रम् ; यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते, तथेदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणमप्यविश्रान्तं वर्तत इत्युक्तं भवति। ये एतत् विदुः स्वात्मप्रवृत्तिसाक्षिभूतमेकं ब्रह्म अमृताः अमरणधर्माणः ते भवन्ति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎन्द इन्द जगत् उण्डो अदु पिराणण् अदावदु परप्पिरह्मम् इरुप्पदाल् असैगिऱदु। अन्द पिरह्मत्तिलिरुन्दे वॆळिप्पट्टु नियममाग सॆयल्बडुगिऱदु। ऎदु इव्वाऱु जगत्तिऩ् सिरुष्ट्टि मुदलियवैयिऩ् कारणमाग ऎन्द पिरह्मम् उण्डो अदु महत् पयमागुम्। ऎदऩिडमिरुन्दु पयम् उण्डागिऱदो महत् पयम् ऎऩप्पडुम्। मेलुम् अदु तूक्किय वज्रम् (वज्रायुदम्) पोल् इरुक्किऱदु। वज्रत्तै उयर्त्तिय ऎजमाऩऩ् तऩ्ऩै नोक्कुम् पॊऴुदु वेलैक्कारऩ् तऩ् वेलैगळिल् (कट्टळैगळिल्) नियममाग ईडुबडुवाऩ्। अदैप् पोल् सन्दिरऩ्, सूरियऩ् किरहङ्गळ् नक्षत्तिरङ्गळ् मुदलियवैगळै लक्षणमाग उडैय जगत् ईस्वरऩुडैय कट्टळैगळै नियममाग ऒरु क्षणमुम् ऒय्विल्लामल् नडक्किऱदु ऎऩ्ऱु कूऱप्पट्टदागिऱदु। ऎवर्गळ् तऩ्ऩुडैय अन्दक् करण विरुत्तियिऩ् साक्षियुम् एगमुमाऩ पिरह्मत्तै अऱिगिऱार्गळो अवर्गळ् अम्रुदम् ऎऩप्पडुम् मरण तर्ममऱ्ऱवर्गळाय् आगिऱार्गळ्।
कथं तद्भयाज्जगद्वर्तत इति, आह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऎव्वाऱु अदऩ् पयत्ताल् जगत् इरुक्किऱदु ऎऩ्बदु कूऱप्पडुगिऱदु।
भयादस्याग्निस्तपति भयात्तपति सूर्यः।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥
भयात् भीत्या अस्य परमेश्वरस्य अग्निः तपति ; भयात्तपति सूर्यः, भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः। न हि, ईश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद्वज्रोद्यतकरवन्न स्यात् , स्वामिभयभीतानामिव भृत्यानां नियता प्रवृत्तिरुपपद्यते ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) परमेच्वरऩुडैय पयत्ताल् अक्ऩि तहिक्किऱदु। पयत्तिऩाल् सूरियऩ् तहिक्किऱाऩ्। पयत्ताल् इन्दिरऩुम्, वायुवुम्, ऎमऩुम् (म्रुत्युवुम्) ओडुगिऱदु। सामर्त्तियमुडैय ईस्वरर्गळागिय उलगत्तै आळुगिऱवर्गळ् वज्रत्तै उयर्त्तिय कै उडैयवर्गळाय् नियन्दा (नडत्तुबवर्) इल्लै ऎऩिल् ऎजमाऩऩिडत्तिल् पयमुळ्ळ वेलैक्कारर्गळ् पोल्, अवर्गळुक्कु नियमिक्कप्पट्ट पिरविर्त्तियिल् ईडुबड माट्टार्गळ्।
तच्च
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम् अन्द (पयत्तिऱ्कुक् कारणमाऩ) प्रह्मत्तै
इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसः।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥
इह जीवन्नेव चेत् यद्यशकत् शक्तः सन् जानातीत्येतत् , भयकारणं ब्रह्म बोद्धुम् अवगन्तुम् , प्राक् पूर्वं शरीरस्य विस्रसः अवस्रंसनात्पतनात् संसारबन्धनाद्विमुच्यते। न चेदशकद्बोद्धुम् , ततः अनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकाः तेषु सर्गेषु, लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति ; शरीरं गृह्णातीत्यर्थः। तस्माच्छरीरविस्रंसनात्प्रागात्मावबोधाय यत्न आस्थेयः
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्द उलगिल् जीवित्तिरुक्कुम् पॊऴुदे ऎऩ्ऱाल् इन्द सरीरम् विऴुम् मुऩ्बे इन्द पयत्तिऱ्कु कारणम् पिरह्मम् ऎऩ्ऱु अऱिवदऱ्कु सक्ति उळ्ळवऩाय् इरुन्दाल् इन्द सरीरम् विऴुम् मुऩ् संसार पन्दत्तिलिरुन्दु विडुबडुवाय्। अऱिय सक्ति इल्लै ऎऩिल् अदै अऱियाददिऩाल् सर्क्कत्तिल् अदावदु सिरुष्ट्टियिल् अऴुत्तुवाय्। पडैक्कप्पड वेण्डियवैगळागिय, जीवर्गळ् ऎदिल् पडैक्कप्पडुगिऩ्ऱऩरो अदु सर्क्कम् ऎऩप्पडुम् पिरुदिवि मुदलिय लोगङ्गळागुम्। अच्चिरुष्ट्टिक्कप्पट्ट लोगत्तिल् सरीरत्तै ऎडुप्पदऩ् सामर्त्तियमुडैयवर्गळागिऱार्गळ्। अदावदु सरीरत्तै ऎडुक्किऱार्गळ् ऎऩ्बदु पॊरुळ्। आगैयाल् सरीरम् विऴुम् मुऩ् पिरत्यक् आत्मावै अऱिवदऱ्कु मुयऱ्सि सॆय्य वेण्डुम्।
यस्मादिहैवात्मनो दर्शनमादर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते, न लोकान्तरेषु ब्रह्मलोकादन्यत्र। स च दुष्प्रापः ,कथमिति? उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऎदऩाल् कण्णाडियिल् तोऩ्ऱुम् मुगम् पोल इङ्गे इन्द सरीरत्तिलेये आत्म तर्सऩम् स्पष्ट्टमाग(तॆळिवाग) एऱ्पडुमो, पिरह्म्म लोगत्तैत् तविर मऱ्ऱलोगङ्गळिल् तॆळिवाग तोऩ्ऱुवदु इल्लैयो, पिरह्म्म लोगत्तै अडैवदु मिगक् कडिऩमाऩदो आगैयाल् (इन्द तेहत्तिलेये अडैय मुयऱ्सिक्क वेण्डुम्) अदु ऎव्वाऱु ऎऩ्ऱु कूऱप्पडुगिऱदु।
यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके।
यथाप्सु परीव ददृशे तथा गन्धर्वलोके च्छायातपयोरिव ब्रह्मलोके ॥ ५ ॥
यथा आदर्शे प्रतिबिम्बभूतमात्मानं पश्यति लोकः अत्यन्तविविक्तम् , तथा इह आत्मनि स्वबुद्धावादर्शवन्निर्मलीभूतायां विविक्तमात्मनो दर्शनं भवतीत्यर्थः।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) लोगमाऩदु (उलगम्) ऎव्वाऱु कण्णाडियिल् पिरदिबिम्ब रूबमाऩ तऩ्ऩै तॆळिवाग पार्क्किऱदो अव्वाऱु आत्माविल् (तऩ्ऩिल्) अदावदु कण्णाडियिल् पार्प्पदु पोल् निर्मलमाऩ तऩ्ऩुडैय पुत्तियिल् आत्म तर्सऩमाऩदु तॆळ्ळत् तॆळिवाग इरुक्किऱदु (पार्क्कप्पडुगिऱदु) ऎऩ्बदु पॊरुळ्।
यथा स्वप्ने अविविक्तं जाग्रद्वासनोद्भूतम् , तथा पितृलोके अविविक्तमेव दर्शनमात्मनः कर्मफलोपभोगासक्तत्वात्। यथा च अप्सु अविविक्तावयवमात्मस्वरूपं परीव ददृशे परिदृश्यत इव, तथा गन्धर्वलोके अविविक्तमेव दर्शनमात्मनः एवं च लोकान्तरेष्वपि शास्त्रप्रामाण्यादवगम्यते। छायातपयोरिव अत्यन्तविविक्तं ब्रह्मलोक एवैकस्मिन्। स च दुष्प्रापः, अत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात्। तस्मादात्मदर्शनाय इहैव यत्नः कर्तव्य इत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎव्वाऱु स्वप्ऩत्तिल् जाक्रत्तिऩ् वासऩैयिऩाल् उण्डाऩ वस्तुवैप् पोल् तॆळिवाग इल्लैयो अव्वाऱु पित्रु लोगत्तिल् कर्म पल पोगत्तिल् ईडुबट्टिरुप्पदिऩाल् आत्म तर्सऩम् तॆळिवु पॆऱाददागवे इरुक्किऩ्ऱदु। ऎव्वाऱु तण्णीरिल् अवयवङ्गळै तॆळिवुबड पिरित्तु अऱिय मुडियाददु पोल् कन्दर्व लोगत्तिल् आत्म स्वरूबम् तॆळिवऱ्ऱदाय् विळङ्गुगिऱदु। अव्वाऱे वेऱु मऱ्ऱ लोगङ्गळिलुम् तॆळिवाग अऱिय मुडियादु ऎऩ्बदै सास्तिरप् पिरमाणत्तिऩाल् अऱिगिऱोम्। प्रह्म लोगम् मट्टुम् निऴल्, वॆयिल् पोल् मिगवुम् तॆळिवाग आत्म तर्सऩम् एऱ्पडुगिऱदु। अदावदु मुऱ्ऱिलुम् सिऱन्द कर्म ञाऩत्तिऩाल् अडैयप्पडुवदाय् इरुप्पदाल् अदै अडैवदु मिगक् कडिऩम्। आगैयाल् आत्म तर्सऩत्तिऩ् पॊरुट्टु इङ्गेये अदावदु इन्द तेहत्तिलेये मुयऱ्सि (पुरुषप्रयत्तऩम्) सॆय्य वेण्डुम् ऎऩ्बदु अबिप्रायम्।
कथमसौ बोद्धव्यः, किं वा तदवबोधे प्रयोजनमिति, उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै)अदै ऎव्वाऱु अऱिन्दु कॊळ्ळ वेण्डुम्? अदै अऱिवदऩाल् ऎऩ्ऩदाऩ् पिरयोजऩम्? ऎऩ्बदु कूऱप्पडुगिऱदु।
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥
इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः पृथगुत्पद्यमानानाम् अत्यन्तविशुद्धात्केवलाच्चिन्मात्रात्मस्वरूपात् पृथग्भावं स्वभावविलक्षणात्मकताम् , तथा तेषामेवेन्द्रियाणाम् उदयास्तमयौ च उत्पत्तिप्रलयौ जाग्रत्स्वप्नावस्थाप्रतिपत्त्या नात्मन इति मत्वा ज्ञात्वा विवेकतो धीरः धीमान् न शोचति, आत्मनो नित्यैकस्वभावत्वाव्यभिचाराच्छोककारणत्वानुपपत्तेः। तथा च श्रुत्यन्तरम् ‘तरति शोकमात्मवित्’ (छा. उ. ७। १। ३) इति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) तत्तम् विषयत्तै अऱिवदऱ्काऩ पिरयोजऩत्तिऩ् पॊरुट्टु तऩ्दऩ् कारणमागिय आगासादिगळिलिरुन्दु तऩित्तऩियाय् उण्डागिऩ्ऱ च्रोत्तिरादिगळ् मिगवुम् सुत्तमायुम्, ऒऩ्ऱायुम् उळ्ळ सिऩ्मात्तिर स्वबावत्तैक् काट्टिलुम् वेऱाऩ स्वाबावम् उळ्ळ तऩ्मै उडैयऩ। अव्वाऱे जाक्रत् स्वप्ऩत्तै अबेक्षित्त इन्दिरियङ्गळुक्के उऱ्पत्ति पिरळयङ्गळ् एऱ्पडुगिऩ्ऱऩ, आत्माविऱ्कु अल्ल ऎऩ्ऱु अऱिन्द तीरऩ् सोगत्तै अडैवदिल्लै। आत्म नित्य एग स्वबावमुडैयदाय् पिऱऴ्च्चि अऱ्ऱु इरुप्पदाल् सोगत्तिऱ्कु कारणत् तऩ्मै इल्लै ऎऩ्बदागुम्। अव्वाऱे वेऱु सुरुदियिलुम् “तरति शोकमात्मविद्” (तरदि सोगमात्मवित्)आत्मावै अऱिन्दवऩ् सोगत्तै कडक्किऱाऩ् ऎऩ्ऱु कूऱप्पट्टुळ्ळदु।
यस्मादात्मनः इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिरधिगन्तव्यः यस्मात्प्रत्यगात्मा स सर्वस्य ; तत्कथमिति, उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै)ऎदऩाल् आत्मावैक् काट्टिलुम् इन्दिरियङ्गळुक्कु वेऱाग इरुत्तल् ऎऩ्ऱु सॊल्लप्पट्टदो अदु तऩियाग वॆळियिल् इरुक्किऱदु ऎऩ्ऱु पुरिन्दु कॊळ्ळक् कूडादु। एऩ् ऎऩिल् अदु ऎल्लावऱ्ऱिऱ्कुम् अन्दरात्मावाय् इरुप्पदाल्। अदु ऎव्वाऱु ऎऩ्ऱु कूऱप्पडुगिऱदु।
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥
इन्द्रियेभ्यः परं मन इत्यादि। अर्थानामिहेन्द्रियसमानजातीयत्वादिन्द्रियग्रहणेनैव ग्रहणम्। पूर्ववदन्यत्। सत्त्वशब्दाद्बुद्धिरिहोच्यते ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्दिरियङ्गळैक् काट्टिलुम् मेलाऩ मऩदु मुदलियवैगळ्। इङ्गु इन्दिरियङ्गळ् समाऩ जादियाय् इरुप्पदाल् इन्दिरयङ्गळै किरहित्तदिऩालेये अवैगळुम् किरहिक्कप् पट्टवैगळ् आगिऩ्ऱऩ। मऱ्ऱवै मुऩ् पोल्, सत्तुव सप्तम् इङ्गु पुत्तियैक् कुऱिक्किऱदु।
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ॥
अव्यक्तात्तु परः पुरुषः व्यापकः, व्यापकस्याप्याकाशादेः सर्वस्य कारणत्वात्। अलिङ्गः लिङ्ग्यते गम्यते येन तल्लिङ्गं बुद्ध्यादि, तदविद्यमानं यस्य सोऽयमलिङ्गः एव च ; सर्वसंसारधर्मवर्जित इत्येतत्। यं ज्ञात्वा आचार्यतः शास्त्रतश्च मुच्यते जन्तुः अविद्यादिहृदयग्रन्थिभिर्जीवन्नेव ; पतितेऽपि शरीरे अमृतत्वं च गच्छति। सोऽलिङ्गः परोऽव्यक्तात्पुरुष इति पूर्वेणैव सम्बन्धः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अव्यक्तत्तैक् काट्टिलुम् मेलाऩवऩ् ऎल्लावऱ्ऱिऱ्कुम् कारणमाय् इरुप्पदाल् आगुम् आगासम् मुदलियवैगळिऩ् वियाबगत्तैक् काट्टिलुम् वियाबगमाय् इरुक्किऱदु। ऎदऩाल् अऱिय मुडियाददु अऱियप्पडुगिऱदो अदु पुत्ति मुदलिय लिङ्गम् ऎऩप्पडुगिऱदु। अवै इल्लाददाल् अलिङ्गम् ऎऩप्पडुगिऱदु। संसार तर्मम् अऱ्ऱदु ऎऩ्बदागुम्। आच्चारियरिडत्तिलिरुन्दुम् सास्तिरत्तिऩालुम् अदै अऱिन्दु अवित्यै मुदलिय ह्रुदय मुडुच्चुगळै नीक्कि जीवित्तिरुक्कु पॊऴुदे मुक्ति अडैगिऩ्ऱाऩ्। सरीरम् वीऴ्न्द पिऩ्ऩुम् अम्रुदत्तुवत्तै अडैगिऩ्ऱाऩ्। अवऩ् लिङ्गमऱ्ऱवऩ्, अव्यक्तत्तैक् काट्टिलुम् मेलाऩ पुरुषऩ् ऎऩ्ऱु मुन्दिय वाक्कियत्तिऩ् सम्बन्दम्।
कथं तर्हि तस्य अलिङ्गस्य दर्शनमुपपद्यत इति, उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै लिङ्गम् (सिऩ्ऩम्) अऱ्ऱ आत्माविऩ् तर्सऩम् ऎव्वाऱु एऱ्पडुम् ऎऩ्बदैप् पऱ्ऱिक् कूऱप्पडुगिऱदु।
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥
न सन्दृशे सन्दर्शनविषये न तिष्ठति प्रत्यगात्मनः अस्य रूपम्। अतः न चक्षुषा सर्वेन्द्रियेण, चक्षुर्ग्रहणस्योपलक्षणार्थत्वात् , पश्यति नोपलभते कश्चन कश्चिदपि एनं प्रकृतमात्मानम्।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) इन्द पिरत्यक् आत्म विषयत्तिल् स्तिरत्तऩ्मै एऱ्पडुवदिल्लै। आगैयाल् ऒरुवऩुम् इन्द पिरगिरुद आत्मावै कण्गळाल् अदावदु ऎल्ला इन्दिरियङ्गळालुम् अऱिन्दु कॊळ्ळ मुडिवदिल्लै। इन्द कण्गळ् ऎऩ्बदु ऎल्ला इन्दिरियङ्गळुक्कुम् उबलक्षणमागुम्।
कथं तर्हि तं पश्येदिति, उच्यते — हृदा हृत्स्थया बुद्ध्या, मनीषा मनसः सङ्कल्पादिरूपस्य ईष्टे नियन्तृत्वेनेति मनीट् तया मनीषा विकल्पवर्जितया बुद्ध्या। मनसा मननरूपेण सम्यग्दर्शनेन अभिक्लृप्तः अभिसमर्थितः अभिप्रकाशित इत्येतत्। आत्मा ज्ञातुं शक्य इति वाक्यशेषः। तमात्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎव्वाऱुदाऩ् अदै (आत्मावै) अऱिगिऱार्गळ् ऎऩ्बदु कूऱप्पडुगिऱदु। “ ह्य्दा ” (ह्रुदा) ह्रुदयत्तिल् इरुक्कुम् पुत्तियिऩाल् अदावदु मनीषा(मऩीषा) मऩदिऩ् सङ्गल्ब मुदलिय रूबङ्गळिऩ् नियन्दवाय् इरुक्किऩ्ऱदाल् “मनीट्”(मऩीट्) ऎऩ्ऱ अन्द ह्रुदा ऎऩ्ऱाल् इन्द विगल्बमऱ्ऱ पुत्तियिऩाल् मऩऩरूब यदार्त्त तर्सऩ मूलमाय् पिरगासप्पट्टु अन्द आत्मा अऱिय मुडिगिऱदु। आत्मावै अऱिय मुडियुम् ऎऩ्बदु इन्द वाक्कियत्तिऩ् सेषमागुम्। (पागमागुम्) अन्द आत्मावे पिरह्मम् ऎऩ्ऱु ऎवऩ् अऱिगिऱाऩो अवऩ् मरणमऱ्ऱदऩ्मैयै अडैगिऱाऩ्।
सा हृन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) अन्द ह्य्न्मनीट् (ह्रुऩ्मऩीट्) विगल्ब मऱ्ऱ सुत्तबुत्तियै अडैवदु ऎऩ्बदिऩ् पॊरुट्टु ऎव्वाऱु अदऱ्कु वेण्डिय योगमाऩदु कूऱप्पडुगिऱदु।
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥ १० ॥
यदा यस्मिन्काले स्वविषयेभ्यो निवर्तितानि आत्मन्येव पञ्च ज्ञानानि — ज्ञानार्थत्वाच्छ्रोत्रादीनीन्द्रियाणि ज्ञानान्युच्यन्ते — अवतिष्ठन्ते सह मनसा यदनुगतानि, येन सङ्कल्पादिव्यावृत्तेनान्तःकरणेन। बुद्धिश्च अध्यवसायलक्षणा न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते, ताम् आहुः परमां गतिम् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎप्पॊऴुदु तऩ् विषयङ्गळिल् इरुन्दु निवर्त्ति अडैन्दु आत्माविलेये ऐन्दु ञाऩङ्गळ् (पञ्चज्ञेनेन्द्रियाणि) अदावदु ञाऩत्तै पिरयोजऩमाग उडैयदाल् सुरोत्तिरम् मुदलिय इन्दिरियङ्गळै ञाऩङ्गळ् ऎऩ्ऱु कूऱप्पडुगिऩ्ऱऩ, अवैगळ् ( मनसा ) मऩदुडऩ् अदावदु अदिल् तॊडर्न्दु उण्डागुम् सङ्गल्बङ्गळ् अऱ्ऱ अन्दक्करणत्तुडऩ् इरुक्किऩ्ऱऩवो, अत्यवसाय लक्षणमाऩ पुत्तियुम् तऩदु वियाबारङ्गळिल् प्रविरुत्तिप्पदु इल्लैयो, अन्द निलैये मेलाऩ निलै ऎऩ्ऱु कूऱुवर्।
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥
ताम् ईदृशीं तदवस्थां योगमिति मन्यन्ते वियोगमेव सन्तम्। सर्वानर्थसंयोगवियोगलक्षणा हीयमवस्था योगिनः। एतस्यां ह्यवस्थायाम् अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ आत्मा स्थिरामिन्द्रियधारणास्थिरामचलामिन्द्रियधारणां बाह्यान्तःकरणानां धारणमित्यर्थः ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द इव्वाऱाऩ अवस्तैयिल् उण्मैयिल् वियोगत्तैये (अनर्त्तत्तिऩ् नीक्कत्तैये) योगम् ऎऩ्ऱु करुदुगिऱार्गळ्। योगिगळिऩुडैय अवस्तैयाऩदु ऎल्ला अऩर्त्तङ्गळिल् उळ्ळ सम्योगत्तिऩ् वियोगमे (नीक्कमे)यागुम्। इन्द अवस्तैयिल् ताऩ् अत्यारोब मऱ्ऱवऩाय् तऩ् स्वरूबत्तिल् निलै पॆऱ्ऱिरुक्किऱाऩ् (अन्द अवस्तैयैदाऩ्) स्तिरमाऩ इन्दिरिय तारणै ऎऩ्ऱु सॊल्लुगिऱार्गळ्। स्तिरम् ऎऩ्ऱाल् सलऩमऱ्ऱदु। अदावदु सलऩमऱ्ऱ इन्दिरिय तारणै ऎऩ्बदु पाहिय अन्दक् करणङ्गळिऩ् तारणमागुम्।
अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवान् तदा तस्मिन्काले, यदैव प्रवृत्तयोगो भवतीति सामर्थ्यादवगम्यते। न हि बुद्ध्यादिचेष्टाभावे प्रमादसम्भवोऽस्ति। तस्मात्प्रागेव बुद्ध्यादिचेष्टोपरमात् अप्रमादो विधीयते। अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीमेव निरङ्कुशमप्रमत्तत्वमित्यतोऽभिधीयते अप्रमत्तस्तदा भवतीति। कुतः ? योगो हि यस्मात् प्रभवाप्ययौ उपजनापायधर्मक इत्यर्थः। अतः अपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्रायः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द समयत्तिल् सादगप् पुरुषऩ् (अप्रमत्त) पिरमादम् अऱ्ऱवऩाग अदावदु ऎप्पॊऴुदुम् समादाऩम् उडैयवऩाय् पिरयत्तऩम् सॆय्गिऱाऩ्। ऎप्पॊऴुदुम् योगत्तिल् पिरविर्त्तिक्किऩ्ऱाऩ् ऎऩ्ऱु वाक्कियत्तिऩाल् अऱिगिऱोम्। एऩ् ऎऩिल् पुत्ति मुदलियवैगळ् सेष्ट्टै (सलऩम्) अऱ्ऱिरुक्कुम् पॊऴुदु पिरमादमाऩदु एऱ्पडुवदिल्लै। आगैयाल् पुत्ति मुदलियवैगळिऩ् सेष्ट्टै नीङ्गुवदऱ्कु मुऩ् अप्पिरमादम् विदिक्कप्पडुगिऱदु, अल्लदु ऎप्पॊऴुदु इन्दिरियङ्गळ् स्तिरत् तऩ्मैयै अडैगिऱदो अप्पॊऴुदे तडैयऱ्ऱ अप्पिरमादम् अडैयप्पडुगिऱदु। आगैयाल् अप्पॊऴुदु पिरमत्त इल्लाद निलै उण्डागिऱदु ऎऩ्ऱु कूऱप्पडुगिऱदु। एऩ् ऎऩिल् योगमाऩदु उत्पत्ति विनासम् ऎऩ्ऩुम् तर्मम् उळ्ळदु ऎऩ्बदाल् योगत्तिऱ्कु विनासम् वरामल् इरुप्पदऱ्काग अप्रमादत्तैक् कडैबिडिक्क वेण्डुम्।
बुद्ध्यादिचेष्टाविषयं चेद्ब्रह्म इदं तदिति विशेषतो गृह्येत, बुद्ध्याद्युपरमे च ग्रहणकारणाभावादनुपलभ्यमानं नास्त्येव ब्रह्म। यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चासदिति। अतश्चानर्थको योगोऽनुपलभ्यमानत्वाद्वा नास्तीत्युपलब्धव्यं ब्रह्मेत्येवं प्राप्ते, इदमुच्यते सत्यम्।
ज्ञानानन्द-भारती - द्राविडी
(अ-कै)पिरह्मम् पुत्ति मुदलियवैगळिऩ् वियवगारत्तिऱ्कु विषयमाऩाल् इदु अदु ऎऩ्ऱु विसेषमाग अऱिय मुडियुम्। पुत्ति मुदलियवैगळ् (उबरमम्) वियवगारम् अऱ्ऱिरुक्कुम्बॊऴुदु अऱिवदऱ्काऩ कारणम् इल्लाददाल् अऱिय वेण्डिय प्रह्मम् इल्लवे इल्लै। उलगिल् इन्दिरियङ्गळुक्कु पुलप्पडुम् पॊऴुदु अदु इरुक्किऱदु ऎऩ्बदु पिरसित्तमागुम्। अदऱ्कु विबरीदमाऩदु असत्तागुम्। आगैयाल् अन्द योगम् अनर्त्तमागुम्। अदु अऱिय मुडियाददाल् पिरह्मम् इल्लै ऎऩ्ऱु अऱियप्पडवेण्डुवदु ऎऩ्ऱु आगिऱदु ऎऩ्बदाल् इव्वाऱु कूऱप्पडुगिऱदु। इव्वाऱु कूऱुवदु उण्मैदाऩ्।
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥
नैव वाचा न मनसा न चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यते इत्यर्थः। तथापि सर्वविशेषरहितोऽपि जगतो मूलमित्यवगतत्वादस्त्येव, कार्यप्रविलापनस्यास्तित्वनिष्ठत्वात्। तथा हीदं कार्यं सौक्ष्म्यतारतम्यपारम्पर्येणानुगम्यमानं सद्बुद्धिनिष्ठामेवावगमयति। यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिः, तदापि सा सत्प्रत्ययगर्भैव विलीयते। बुद्धिर्हि नः प्रमाणं सदसतोर्याथात्म्यावगमे।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) वाक्कालुम्, मऩदालुम्, कण्गळालुम्, मऱ्ऱ इन्दिरियङ्गळालुम् अडैय मुडियादु ऎऩ्बदु पॊरुळ्। अव्वाऱु इरुन्दालुम्, ऎल्ला तर्मङ्गळुम् अऱ्ऱु इरुन्दालुम् जगत्तिऩ् मूलम् (कारणम्) ऎऩ्ऱु अऱियप्पट्टदाय् इरुप्पदालुम् (ऎल्लावऱ्ऱिलुम् उळ्ळूडाय् सऩ्मात्तिरमाय् इरुप्पदालुम्) कारियङ्गळिऩ् नासत्तिऩ् अडैवुम् अदिष्ट्टाऩमाऩ सत्तिल् मुडिवदालुम् अदु सत्तागवे इरुक्किऱदु। अव्वाऱु इरुप्पदाल् इन्द कारियमुम् सूक्ष्मम्, सूक्ष्मदरम्, सूक्ष्मदमम् ऎऩ्ऱ परम्बरैयैत् तॊडर्न्दु अऱियप्पडुवदाय् ऎल्लावऱ्ऱिऱ्कुम् अदिष्ट्टाऩमाऩ सऩ्मात्तिरमाय् निलैबॆऱ्ऱिरुत्तलै तॆरिविक्किऩ्ऱदु। ऎप्पॊऴुदु पुत्तियाऩदु तऩक्कु विषयमाऩ पदार्त्तत्तिऩ् नासत्ताल् ताऩुम् नासम् आगुम् पॊऴुदु सत् ऎऩ्ऱ विसेषणत्तैत् तऩ्ऩिल् अडक्किक् कॊण्डु सत्पदार्त्तिऱ्कु नासमिल्लामल् नासमागिऱदु। सत् असत् ऎऩ्बदिऩ् यदार्त्तत्तै अऱिवदऱ्कु नमक्कु पुत्तिये पिरमाणम्।
मूलं चेज्जगतो न स्यादसदन्वितमेवेदं कार्यमसदसदित्येव गृह्येत, न त्वेतदस्ति ; सत्सदित्येव तु गृह्यते ; यथा मृदादिकार्यं घटादि मृदाद्यन्वितम्। तस्माज्जगतो मूलमात्मा अस्तीत्येवोपलब्धव्यः। कस्मात् ? अस्तीति ब्रुवतः अस्तित्ववादिन आगमार्थानुसारिणः श्रद्दधानादन्यत्र नास्तिकवादिनि नास्ति जगतो मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद्ब्रह्म तत्त्वत उपलभ्यते ; न कथञ्चनोपलभ्यत इत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) जगत्तिऱ्कु कारणम् इल्लै ऎऩिल् असत्तुडऩ् सेर्न्द इन्द कारियम् असत् ऎऩ्ऱे किरहिक्कप्पडुगिऱदु। अव्वाऱु अल्ल, सत्, सत् ऎऩ्ऱे अऱियप्पडुगिऱदु। ऎव्वाऱॆऩिल् मण्णिल् उण्डाऩ कारियमागिय कडम् मुदलियवैगळ् मण्णुडऩ् कूडियदागवे इरुक्किऩ्ऱऩ। आगैयाल् जगत्तिऱ्कु कारणमागिऱ आत्मा इरुक्किऱदु ऎऩ्ऱु अऱियप्पड वेण्डुम्। एऩ् ऎऩिल्? इरुक्किऱदु ऎऩ्ऱु कूऱुगिऩ्ऱ आत्मा इरुक्किऱदु कूऱुम् आगम अर्त्तै अऩुसरिक्किऩ्ऱ वादिगळुडैय सिरत्तैयैक् काट्टिलुम् वेऱाऩ नास्तिग वादिगळ् जगत्तिऱ्कु कारणम् इल्लै। अन्द कार्यमाऩदु ऎदऩुडऩुम् सम्बन्दप्पडामल् अबावत्तैये मुडिवाग उडैयदु ऎऩ्ऱु निऩैक्कुम् विबरीद तर्सिगळ् ऎव्वाऱु अन्द पिरह्म तत्तुवत्तै अऱिय मुडियुम्? ऎव्वगैयालुम् अडैय मुडियादु ऎऩ्बदु पॊरुळ्।
तस्मादपोह्यासद्वादिपक्षमासुरम्
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) आगैयैाल् असुरत् तऩ्मै उळ्ळ असत्वादि पक्षत्तै निरागरणम् सॆय्दु
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥
अस्तीत्येव आत्मा उपलब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः। यदा तु तद्रहितोऽविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६। १। ४) इति श्रुतेः, तदा तस्य निरुपाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्यात्मनस्तत्त्वभावो भवति। तेन च रूपेणात्मोपलब्धव्य इत्यनुवर्तते ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) असत्तुव पक्षत्तै नीक्कि सत्कारियत्तै उडैयदु ऎऩवुम् पुत्ति मुदलियवैगळै उबादिगळाग उडैयदु ऎऩ्ऱुम् आत्मा इरुक्किऱदॆऩ्ऱु अऱिन्दु कॊळ्ळ वेण्डुम्। ऎप्पॊऴुदु असत् इल्लाद अविक्किरियै (विगार) मऱ्ऱ आत्मा कारणमाय् इरुप्पदाल् अन्द कारणत्तैक् काट्टिलुम् कार्यम् वेऱाग इल्लै“वाचारम्भणं विका®úÉä ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(वाच्चारम्बणम् विगारो नामदेयम् मिरुत्तिगेत्येव सैत्यम्) ऎऩ्ऱु सुरुदियिऩ् वाक्कियमागुम्। अप्पॊऴुदु अन्द निरुबादिग, लिङ्गमऱ्ऱ, सत्, असत् आगिय पिरत्यय विषयङ्गळ् अऱ्ऱ आत्माविऱ्कु तत्तुव पावमाऩदु उण्डागिऱदु। अव्विदमाग आत्मावै अऱिन्दवऩागिऱाऩ् ऎऩ्ऱु सेर्त्तुक् कॊळ्ळ वेण्डुम्।
तत्राप्युभयोः सोपाधिकनिरुपाधिकयोरस्तित्वतत्त्वभावयोः — निर्धारणार्था षष्ठी — पूर्वमस्तीत्येवोपलब्धस्यात्मनः सत्कार्योपाधिकृतास्तित्वप्रत्ययेनोपलब्धस्येत्यर्थः। पश्चात्प्रत्यस्तमितसर्वोपाधिरूप आत्मनः तत्त्वभावः विदिताविदिताभ्यामन्योऽद्वयस्वभावः नेति नेतीत्यस्थूलमनण्वह्रस्वमदृश्येऽनात्म्ये निरुक्तेऽनिलयन इत्यादिश्रुतिनिर्दिष्टः प्रसीदति अभिमुखीभवति। आत्मप्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) सोबादिगम्, निरूबादिगम् इवैगळिऩ् इरुप्पु, तत्व पावत्तै अङ्गु निर्दारणम् सॆय्वदिऩ् पॊरुट्टु ६वदु वेऱ्ऱुमैयिल् कूऱप्पट्टुळ्ळदु। मुऩ्बे इरुक्किऱदु ऎऩ्ऱु अऱियप्पट्ट आत्मा सत्कारियत्तिऩालुम्,सत्कारियङ्गळुक्कु उबयोगप्पडुगिऩ्ऱ कारियङ्गळिऩालुम्, पुत्ति मुदलियवैगळिऩ् उबादियिऩाल् इरुक्किऱदु ऎऩ्ऱ अऱिविऩाल् अऱियप्पट्टवऩुक्कु ऎऩ्बदु पॊरुळ्। पिऩ्बु ऎल्ला उबादिगळुम् नीङ्गि, अऱियप्पडुम् पॊरुळ्, अऱियबडा पॊरुळ् इवैगळैक् काट्टिलुम् वेऱाग अत्वैद स्वरूबबावम् इरुक्किऱदु। “नेति नेति” (नेदि नेदि) इदुवल्ल, इदुवल्ल ऎऩ्ऱुम् “अस्थूलमनण्वह्रस्वम्” (अस्तूलमऩऩ्वह्रूस्वम्) स्तूलमऱ्ऱदु, सूक्ष्ममऱ्ऱदु, कुऱुगिय तऩ्मै अऱ्ऱदु ऎऩ्ऱुम् “अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने” (अत्रुष्ये, अनात्म्ये अनिरुक्ते अनिलयऩे) तिरुष्यमऱ्ऱदु, सरीरमऱ्ऱदु, विसेषमऱ्ऱदु। आदारमऱ्ऱदु, ऎऩ्ऱुम् सुरुदिगळिऩाल् निर्देसिक्कप्पट्ट उण्मैयाऩ निलैयाऩदु मुऩ्बु इरुक्किऱदु ऎऩ्ऱु अऱिन्दवऩुक्कु आत्मप् पिरगासत्तै अडैयुम् पॊरुट्टु (अदावदु तत्व पावत्तै अडैयुम् पॊरुट्टु अदिल् ईडुबडुगिऱाऩ्।)
एवं परमार्थदर्शिनोः-
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इव्वाऱु परमार्द तर्सिगळ्
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥
यदा यस्मिन्काले सर्वे कामाः कामयितव्यस्यान्यस्याभावात् प्रमुच्यन्ते विशीर्यन्ते ; ये अस्य प्राक्प्रतिबोधाद्विदुषो हृदि बुद्धौ श्रिताः आश्रिताः ; बुद्धिर्हि कामानामाश्रयः नात्मा, ‘कामः सङ्कल्पः’ (बृ. उ. १। ५। ३) इत्यादिश्रुत्यन्तराच्च ;
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎप्पॊऴुदु ऎल्ला कामऩैगळुम् अदावदु कामऩैगॊळ्ळ वेण्डिय वेऱु ऒऩ्ऱुम् इल्लाददाल् अवैगळिलिरुन्दु विडुबडुगिऱार्गळ्। ञाऩम् एऱ्पडुवदऱ्कु मुऩ् पुत्तियै ऎन्द कामऩैगळ् आस्रयित्तु इरुन्दऩवो अन्द कामऩैगळुक्कु पुत्तिये आस्रयम्। आत्मा अल्ल। (काम, सङ्ल्ब) ऎऩ्ऱु मऱ्ऱ सुरुदियिलुम् कूऱप्पट्टुळ्ळदु।
अथ तदा मर्त्यः प्राक्प्रबोधादासीत् स प्रबोधोत्तरकालमविद्याकामकर्मलक्षणस्य मृत्योर्विनाशात् अमृतो भवति गमनप्रयोजकस्य मृत्योर्विनाशाद्गमनानुपपत्तेः। अत्र इहैव प्रदीपनिर्वाणवत्सर्वबन्धनोपशमात् ब्रह्म समश्नुते ब्रह्मैव भवतीत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ञाऩम् एऱ्पडुम् मुऩ् मऩिदऩाग (मरण तर्मम् उडैयवऩाय्) इरुन्दाऩ्। अवऩ् ञाऩम् अडैन्द पिऩ् अवित्या काम कर्म लक्षणमुळ्ळ मरण तर्मत्तिऩ् नासत्ताल् मरणमऱ्ऱदऩ्मैयै अडैगिऱाऩ्।(अमिरुदमागिऩ्ऱाऩ्) कमऩक्किरियैयै एऱ्पडुत्तुम् मिरुत्यु नासमडैन्ददाल् कमऩम् अऱ्ऱदाल् इङ्गेये तीबम् (तऩ्ऩिल्) सान्दमावदु पोल् ऎल्ला पन्दङ्गळुम् अऱ्ऱु पिरह्मत्तै अडैगिऱाऩ्। अदावदु पिरह्ममागवे आगिऱाऩ्।
कदा पुनः कामानां मूलतो विनाश इति, उच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऎप्पॊऴुदु कामऩैगळ् वेऱुडऩ् नासम् अडैयुम् ऎऩ्बदु कूऱप्पडुगिऱदु।
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५ ॥
यदा सर्वे प्रभिद्यन्ते भेदमुपयान्ति विनश्यन्ति हृदयस्य बुद्धेरिह जीवत एव ग्रन्थयो ग्रन्थिवद्दृढबन्धनरूपा अविद्याप्रत्यया इत्यर्थः। अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाहमित्येवमादिलक्षणाः तद्विपरीतात् ब्रह्मात्मप्रत्ययोपजनात् ब्रह्मैवाहमस्म्यसंसारीति विनष्टेष्वविद्याग्रन्थिषु तन्निमित्ताः कामा मूलतो विनश्यन्ति। अथ मर्त्योऽमृतो भवति एतावद्धि एतावदेवैतावन्मात्रं नाधिकमस्तीत्याशङ्का कर्तव्या। अनुशासनम् अनुशिष्टः उपदेशः सर्ववेदान्तानामिति वाक्यशेषः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) ऎप्पॊऴुदु जीवित्तिरुक्कुम् पॊऴुदे मुडिच्चुगळ् (ह्रुदयक्रन्दिगळ्) पोऩ्ऱ तिडमाग पन्दप्पट्ट अवित्या कारियङ्गळागिऱ ऎल्लात्तोऱ्ऱङ्गळुम् नीङ्गि पेदमऱ्ऱदाय् इरुक्किऱदो अप्पॊऴुदु नाऩ् इन्द सरीरम्, इन्द सरीरम् ऎऩ्ऩुडैयदु, इन्द सॆल्वम् ऎऩ्ऩुडैयदु, नाऩ् सुगी, तुक्की इवै मुदलिय लक्षणङ्गळुक्कु विबरीदमाऩ अहम् पिरह्मास्मि (नाऩ् पिरह्ममाय् इरुक्किऱेऩ्) ऎऩ्ऱ पिरह्मात्म ञाऩम् उण्डागि नाऩ् संसारम् अऱ्ऱवऩ् ऎऩ्ऱु अवित्तिया मुडिच्चिलिरुन्दुम् अदऩ् निमित्तमाऩ कामऩैगळिलिरुन्दुम् मुऱ्ऱिलुम् विडुबडुगिऱाऩ्। आगैयाल् मरण तर्मम् उडैयवऩ् मरण मऱ्ऱ तऩ्मै अदावदु अम्रुदमागिऱाऩ्। इदऱ्कु मेलाग ऒऩ्ऱु इरुक्किऱदु ऎऩ्ऱ सङ्गै सॆय्यदक्कदल्ल, आगैयाल् ऎल्ला वेदान्द सास्तिरङ्गळिऩुडैय उबदेसम् इदुवागुम्।
निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ताविद्यादिग्रन्थेः जीवत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यते, ‘अत्र ब्रह्म समश्नुते’ (क. उ. २। ३। १४) इत्युक्तत्वात् ‘न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४। ४। ६) इति श्रुत्यन्तराच्च ।
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) ऎल्ला विसेषङ्गळागिय पेदमुम् अऱ्ऱ ऎङ्गुम् नीक्कमऱ्ऱ वियाबित्तुळ्ळ प्रह्मत्तै अडैन्ददिऩाल् नीङ्गिय ऎल्ला अवित्या प्रत्ययत्तैयुम् उडैयवऩ् जीवित्तुक् कॊण्डिरुक्कुम् पॊऴुदे पिरह्ममाऩवऩागिय वित्वाऩुक्कु जीवऩ्मुक्तऩुक्कु कदि ऎऩ्बदु (मार्क्कम्) किडैयादु। “अत्र ब्रह्म समश्नुते” ( इङ्गेये पिरह्मत्तै अडैगिऱाऩ्) इन्द सुरुदि वाक्कियत्ताल् अऱिगिऱोम् “न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति।” (न तस्य प्राणा उत्क्रामऩ्दि प्रह्मैव सऩ्प्रह्माप्येदि) अवऩुडैय पिराणऩ् वॆळिक्किळम्बुवदिल्लै। प्रह्ममागवे इरुन्दु कॊण्डु प्रह्ममागवे आगिऱदु ऎऩ्ऱु वेऱु सुरुदियिऩालुम् अऱिगिऱोम्।
ये पुनर्मन्दब्रह्मविदो विद्यान्तरशीलिनश्च ब्रह्मलोकभाजः ये च तद्विपरीताः संसारभाजः, तेषामेष गतिविशेष उच्यते प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतये ।
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम् ऎवर्गळ् पिरह्मत्तै नऩ्ऱाग अऱियादवर्गळो (अक्ञाऩिगळ्) मऱ्ऱुम् उबासऩै मुदलिय वेऱु वित्तैयिल् तिऱमैयाऩवर्गळो अवर्गळ् पिरह्म लोगत्तै अडैवार्गळ्। ऎवर्गळ् अवर्गळैक् काट्टिलुम् माऱाऩवर्गळागियवर्गळ् संसारत्तै अडैगिऱार्गळ्। अवर्गळुडैय कदि विसेषङ्गळ् कूऱप्पडुगिऱदु। इङ्गु कूऱप्पडुगिऱदुम्, उक्किरुष्ट्टमाऩदुमाऩ पिरह्म वित्तैयिऩ् पलत्तै स्तुदिप्पदऱ्कु कूऱप्पडुगिऱदु।
किञ्चान्यत् , अग्निविद्या पृष्टा प्रत्युक्ता च। तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः। तत्र —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) मेलुम् अक्ऩि वित्तै नसिगेदऩाल् केट्कप्पट्टु यमराजावाल् पदिल् कूऱप्पट्टदु। अन्द अक्ऩि वित्तैयै अडैवदिऩ् मुऱैयैप् पऱ्ऱि कूऱवेण्डुम् ऎऩ्बदऱ्काग इन्द मन्दिरम् आरम्बिक्कप्पडुगिऱदु। अव्विडत्तिल्
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६ ॥
शतं च शतसङ्ख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृदयाद्विनिःसृताः नाड्यः सिराः ; तासां मध्ये मूर्धानं भित्त्वा अभिनिःसृता निर्गता एका सुषुम्ना नाम। तया अन्तकाले हृदये आत्मानं वशीकृत्य योजयेत् ।
ज्ञानानन्द-भारती - द्राविडी
नू ऱ्ऱि ऒऩ्ऱु ऎण्णिक्कै उळ्ळ नाडिगळुम्, सुषुमऩा ऎऩ्ऱ ऒरु नाडियुम्, पुरुषऩुडैय इरुदयत्तिलिरुन्दु सुषुमऩा ऎऩ्ऱ नाडि तलैयिऩ् उच्चियैप् पिळन्दु सॆल्गिऱदु। कडैसि कालत्तिल् अन्द आत्मावै (मऩदै) तऩ्ऩुडैय ह्रुदयत्तिल् वसम् सॆय्दु ऒऩ्ऱच् चॆय्य वेण्डुम्।
तया नाड्या ऊर्ध्वम् उपरि आयन् गच्छन् आदित्यद्वारेण अमृतत्वम् अमरणधर्मत्वमापेक्षिकम् — ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ (वि. पु. २। ८। ९७) इति स्मृतेः — ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान्। विष्वङ् नानागतयः अन्या नाड्यः उत्क्रमणे उत्क्रमणनिमित्तं भवन्ति संसारप्रतिपत्त्यर्था एव भवन्तीत्यर्थः ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अन्द नाडिगळ् मेल् नोक्कि सॆऩ्ऱु आदित्य मण्डल वऴियाग आबेक्षिग अम्रुद तर्मत्तै अडैगिऱदु। “आभूतसंप्लवं स्थानममृतत्वं विभाव्यत” (आबूद सम्ब्ळवम् स्ताऩमम्रुदत्वम् विबाव्यदे) ऎल्ला पूदङ्गळुम् नासमागुम् वरै इरुक्कुम् स्ताऩम् अम्रुदत्वम् ऎऩप्पडुगिऱदु। ऎऩ्बदु स्म्रुदि वाक्कियम्। कालत्तिऩ् मुडिविल् पिरह्मावुडऩ् ऒप्पुवमैयऱ्ऱ पोगङ्गळै पिरह्म लोगत्तिल् अऩुबवित्तु विट्टु मुक्कियमाऩ अम्रुदत्तै अडैगिऱाऩ्। इदैत् तविर अनेद कदिगळै उडैय नाडिगळ् उत्किरमणत्तिऱ्कु निमित्तङ्गळाग इरुक्किऩ्ऱऩ। अवैगळ् संसार कदियैये अडैबवैगळाय् इरुक्किऩ्ऱऩ।
इदानीं सर्ववल्ल्यर्थोपसंहारार्थमाह —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) इप्पॊऴुदु ऎल्लावल्ली अर्त्तङ्गळैयुम् मुडिविऱ्कु कॊण्डु वरुवदऱ्काग सॊल्लप्पडुगिऱदु।
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः। तं
स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥
अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा सदा जनानां सम्बन्धिनि हृदये संनिविष्टः यथाव्याख्यातः ; तं स्वात् आत्मीयात् शरीरात् प्रवृहेत् उद्यच्छेत् निष्कर्षेत् पृथक्कुर्यादित्यर्थः। किमिवेति, उच्यते — मुञ्जादिवेषीकाम् अन्तःस्थां धैर्येण अप्रमादेन। तं शरीरान्निष्कृष्टं चिन्मात्रं विद्यात् विजानीयात् शुक्रं शुद्धम् अमृतं यथोक्तं ब्रह्मेति। द्विर्वचनमुपनिषत्परिसमाप्त्यर्थम् , इतिशब्दश्च ॥
ज्ञानानन्द-भारती - द्राविडी
(अऩुवादम्) अङ्गुष्ट्ट मात्तिरमाय् (कट्टैविरल् अळविल्) उळ्ळ पुरुषऩ् ऎप्पॊऴुदुम् जऩङ्गळुडऩ् सम्बन्दप्पट्ट इरुदयत्तिल् अन्दरात्मावाय् मुऩ् वियाक्कियाऩम् सॆय्यप्पट्टवाऱु इरुक्किऱाऩ्। अवऩै तऩ्ऩुडैय सरीरत्तिलिरुन्दु पिरिक्क वेण्डुम् ऎव्वाऱु ऎऩिल् कूऱप्पडुगिऱदु। पिरमादम् (अऱियामै) इल्लामल् तैरियमाग मुञ्जिप् पुल्लिल् इरुन्दु अदऩ् उळ्ळिरुक्कुम् ईक्कैयैप् पिरिप्पदु पोल् आगुम्। अन्द सरीरत्तिऩिऩ्ऱु पिरिक्कप्पट्टदु, सिऩ्मात्तिरम्, सुत्तमाऩदु, अम्रुदम्, पिरह्मम् ऎऩ्ऱु अऱि। इङ्गु इरु मुऱैगूऱियदु इन्द उबनिषत्तु मुडिवुक्कु वरुगिऱदु ऎऩ्बदऱ्काग।
विद्यास्तुत्यर्थोऽयमाख्यायिकार्थोपसंहारः अधुनोच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अह्है³) वित्तैयै स्तुदिप्पदऩ् पॊरुट्टु इन्द कदैयिऩ् (आक्यायिगैयिऩ्) मुडिवाऩदु इप्पॊऴुदु सॊल्लप्पडुगिऩ्ऱदु।
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्।
ब्रह्म प्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥ १८ ॥
मृत्युप्रोक्ताम् एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं समस्तं सोपकरणं सफलमित्येतत्। नचिकेताः अथ वरप्रदानान्मृत्योः लब्ध्वा प्राप्येत्यर्थः। किम् ? ब्रह्म प्राप्तोऽभूत् मुक्तोऽभवदित्यर्थः। कथम् ? विद्याप्राप्त्या विरजः विगतरजाः विगतधर्माधर्मः विमृत्युः विगतकामाविद्यश्च सन् पूर्वमित्यर्थः।
ज्ञानानन्द-भारती - द्राविडी
मिरुत्युविऩाल् ऎव्वाऱु कूऱप्पट्टदो अन्द पिरह्म वित्यावुम् योग विदियुम् ऎल्ला सादऩङ्गळुम् पलऩुम् उडैयदागुम्। नसिगेदऩ् म्रुत्युमिडमिरुन्दु वरत्तै अडैन्दु ऎऩ्बदु पॊरुळ् पिऩ् ऎऩ्ऩ नडन्ददु? प्रह्मत्तै अडैन्दवऩाग आऩाऩ्। अदावदु मुक्तऩाग आऩाऩ् ऎव्वाऱु? वित्तैयै अडैन्ददाल् पुण्णिय पाबङ्गळ् अऱ्ऱवऩागवुम्, मिरुत्यु अदावदु कामम् अवित्तै अऱ्ऱवऩागवुम् इरुन्दु कॊण्डु विमुक्तऩाय् आगिऱाऩ्।
न केवलं नचिकेता एव, अन्योऽपि य एवं नचिकेतोवदात्मवित् अध्यात्ममेव निरुपचरितं प्रत्यक्स्वरूपं प्राप्यतत्त्वमेवेत्यभिप्रायः। नान्यद्रूपमप्रत्यग्रूपम्। तदेवमध्यात्मम् एवम् उक्तेन प्रकारेण वेद विजानातीति एवंवित् , सोऽपि विरजाः सन् ब्रह्म प्राप्य विमृत्युर्भवतीति वाक्यशेषः ॥
ज्ञानानन्द-भारती - द्राविडी
नसिगेदऩ् मट्टुम् अल्ल मऱ्ऱवर्गळुम् नसिगेदऩ् पोल् आत्म ञाऩियुम् इन्द सरीरत्तिल् इरुक्कुम् पॊऴुदे पिरत्यक् स्वरूबत्तै अडैन्दु तत्तुवमागवे आगिऱाऩ् ऎऩ्बदु पॊरुळ्। प्रत्यक्काग इल्लाद वेऱु रूबत्तै अडैवदिल्लै। इव्वाऱु अन्द अत्यात्मत्तै कूऱप्पट्टवाऱु अऱिन्द ञाऩि, अवऩुम् पुण्णिय पाबङ्गळ् अऱ्ऱवऩाय् पिरह्मत्तै अडैन्दु कामम् अवित्तै अऱ्ऱवऩागिऱाऩ्। ऎऩ्बदु सेर्त्तुक् कॊळ्ळप्पड वेण्डुम्।
अथ शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्थेयं शान्तिरुच्यते —
ज्ञानानन्द-भारती - द्राविडी
(अ-कै) सिष्यऩ् कुरु इवर्गळुक्कु पिरमादत्तिऩाल् (तवऱुगळिऩाल् एऱ्पट्ट अनियायत्ताल् वित्तैयै किरहित्तल्, उबदेसित्तल् इवैगळिऩ् निमित्तमाग एऱ्पडुम् तोषङ्गळ् सान्दि अडैवदऱ्काग (नीङ्गुवदऱ्काग) सान्दि ऎऩ्ऱु कूऱप्पट्टदु।
सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ १९ ॥
सह नौ आवाम् अवतु पालयतु विद्यास्वरूपप्रकाशनेन।
कः ? स एव परमेश्वरः उपनिषत्प्रकाशितः। किञ्च, सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु। सहैव
आवां विद्याकृतं वीर्यं सामर्थ्यं करवावहै निष्पादयावहै। किञ्च, तेजस्विनौ
तेजस्विनोरावयोः यत् अधीतं तत्स्वधीतमस्तु। अथवा, तेजस्वि नौ आवाभ्यां यत्
अधीतं तदतीव तेजस्वि वीर्यवदस्त्वित्यर्थः। मा विद्विषावहै
शिष्याचार्यावन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनिमित्तं द्वेषं मा
करवावहै इत्यर्थः। शान्तिः शान्तिः शान्तिरिति त्रिर्वचनं
सर्वदोषोपशमनार्थम् इत्योमिति॥
ज्ञानानन्द-भारती - द्राविडी
वित्यास्वरूबत्तै पिरगासिक्क सॆय्दु ऎङ्गळ् इरुवरैयुम् सेर्त्तु काप्पाऱ्ऱु। यार् (काप्पाऱ्ऱुवदु) उबनिषत्तुक्कळाल् प्रगासप् पडुत्तप्पट्ट अन्द परमेच्वरऩे। मेलुम् ऎङ्गळ् इरुवरैयुम् अन्द पलऩै अडैवित्तु ऎङ्गळैक् काप्पाऱ्ऱु। ऎङ्गळ् इरुवरुक्कुम् सेर्त्तु वित्तैयिऩाल् एऱ्पडुम् सामर्त्तियत्तै अडैयच् चॆय्। मेलुम् तेजस्सै अडैन्द नाङ्गळ् नऩ्ऱाग अत्ययऩम् सॆय्ददु वीरियवत् आगट्टुम् ऎऩ्बदु पॊरुळ्। सिष्यऩ् आच्चारियऩागिय नाङ्गळ् इरुवरुम् ऎङ्गळुक्कुळ् त्वेषम् इल्लामल् इरुप्पोमाग। अदावदु सिष्यऩ् आच्चारियऩ् इरुवरुक्कुळ्ळुम् परस्परम् पिरमादत्ताल् (अऱिविऩ्मैयाल्) उण्डागुम् अत्ययऩम् (पडित्तल्) अत्याप्पऩम् (पडिप्पित्तल्) इवैगळिऩ् निमित्तमाग उण्डागुम् तुवेषम् इऩ्ऱि इरुप्पोमाग सान्दि, सान्दि, सान्दि ऎऩ्ऱु मुम्मुऱै कूऱियदुम् ओम् ऎऩ्ऱु कूऱियदुम् ऎल्ला तोषङ्गळुम् नीङ्गुवदऱ्काग।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ काठकोपनिषद्भाष्यम् सम्पूर्णम् ॥
इति षष्ठी वल्ली ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये द्वितीयोऽध्यायः ॥