कठोपनिषत् पञ्चमी वल्ली

कठोपनिषत्

पञ्चमी वल्ली

पुरमेकादशद्वारमजस्यावक्रचेतसः ।

अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ॥ एतद्वै तत् ॥ १ ॥

पञ्चमीवल्लीप्रकाशिका

पुरम् इति । जननादिविक्रियारहितस्य ऋजुबुद्धेः विवेकिन आत्मनः, एकादशेन्द्रियलक्षणबहिर्निर्गमद्वारोपेतं शरीराख्यं पुरं भवति । पुरस्वामिनः यथा पुरं विविक्तं भवति; तथा शरीरमपि स्वात्मनो विविच्य ज्ञातं भवति । अविवेकिनस्तु देह आत्मैव भवतीति भावः ।

अनुष्ठाय न शोचति - विविच्य जानन्, देहानुबन्धिभिः दुःखैः, कामादिभिश्च विमुक्तो भवति इत्यर्थः । विमुक्तश्च विमुच्यते - जीवद्दशायाम् आध्यात्मिकादिदुःख रागद्वेषादिविमुक्त एव सन्, ‘भोगेन तु इतरे क्षपयित्वाऽथ सम्पद्यते’ (ब्र.सू.४-१-१९) इति न्यायेन प्रारब्धकर्मावसाने अचिरादिना विरजां प्राप्य प्रकृतिसम्बन्धविमुक्तो भवतीत्यर्थः । एतद्वै तत् - एतन्मन्त्रप्रतिपाद्यमुक्तस्वरूपमपि, परमात्मात्मकमेव इत्यर्थः ॥ १ ॥

हँसश्शुचिषत् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।

नृषत् वरसत् ऋतसत् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥२॥

पुनरपि अस्य सर्वात्मतामेव द्रढयति - हँसश्शुचिषत् इति । हँस: - सूर्यः, शुचौ - ग्रीष्मर्तौ, सीदति वर्तते इति - शुचिषत्, तेजस्वीति यावत् । वासयतीति वसुः - वायुः । अन्तरिक्षसत् - अन्तरिक्षगतो वायुः, होता वेदिषत् - वेद्यन्तर्वर्तमानः ऋत्विग्विशेषः; अग्निर्वा । अतिथिर्दुरोणसत् - दुरोणं गृहम्, गृहागतोऽतिथिः । नृषत् - नृषु आत्मतया वर्तमानम्, वरसत् - वरेषु देवेषु च तथा वर्तमानम्, ऋते - सत्यलोके सीदतीति ऋतसत्, व्योमसत् - व्योम्नि परमपदे वर्तमानं च प्रत्यक्तत्त्वम् अब्जा: - जलजाः, गोजा: - भूजाः, ऋतजाः - यज्ञोत्पन्नाः कर्मफलभूताश्च स्वर्गादयः इति यावत् । यद्वा - चिरकालस्थायितया ऋतशब्दिताकाशजा इत्यर्थः । अद्विजाः - पर्वतजाः, एतत् सर्वं बृहत् ऋतम् - अपरिच्छिन्नसत्यरूपब्रह्मात्मकमित्यर्थः ॥ २ ॥

ऊर्ध्वं प्राणमुन्नमयत्यपानं प्रत्यगस्यति ।

मध्ये वामनमासीनं विश्वे देवा उपासते ॥३॥

ऊर्ध्वं प्राणम् इति । सर्वेषां हृदयगतः परमात्मा । प्राणवायुम् ऊर्ध्वमुखन्नमयति । अपानवायुम् अधोमुखं क्षिपति । मध्ये - हृदयपुण्डरीकमध्ये आसीनं वामनम् - वननीयम् भजनीयं अथवा हृदयपुण्डरीकपरिमिततया ह्रस्वपरिमाणमित्यर्थः । तं विश्वेदेवा: - सत्त्वप्रकृतयः सर्वेऽपि उपासते इत्यर्थः ॥ ३ ॥

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।

देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ॥ एतद्वै तत् ॥ ४ ॥

एवं परमात्मनामुपासीनस्य, ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ (छां.उ. ६-१४-२) इति श्रुत्युक्तरीत्या शरीरपात एव अन्तरायः, न किञ्चित् कर्तव्यं परिशिष्यत इत्याह – अस्य विस्रंसमानस्य इति । अस्य - उपासकस्य, देहिनः, शरीरस्थस्य - शरीरप्रतिष्ठितस्य; दृढशरीरस्येति यावत् । एवम्भूतस्य वा, विस्रंसमानस्य - शिथिलीभवद्गात्रस्य वा, देहाद्विमुच्यमानस्य - म्रियमाणस्य वा किमत्र परिशिष्यते? कृतकृत्यत्वात् कर्तव्यं किमपि न अविशिष्यते इति भावः । एतद्वै तत् पूर्ववत् ॥ ४ ॥

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।

इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितो ॥ ५ ॥

तस्य सर्वप्राणिप्राणनहेतुत्वरूपं महिमानमाह - न प्राणेन इति । केन इतरेण जीवन्ति इत्यत्राह - यस्मिन्नेतौ उपाश्रितौ । यदधीनं प्राणापानयोरपि जीवनम् तदधीनमेव सर्वेषां जीवनमिति भावः ॥ ५ ॥

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥६॥

हन्त त इदमिति । गुह्यम् - अतिरहस्यं सनातनं ब्रह्म, ते पुनरपि प्रवक्ष्यामि । हन्त इति स्वगतम्, आश्चर्ये । हे गौतम ! आत्मा मरणम् - मोक्षं प्राप्य, यथा यत्प्रकारविशिष्टो भवति, तथा पुनरपि मुमुक्षवे रागाद्यनुपहताय उपदेशयोग्याय तुभ्यं वक्ष्यामि इत्यर्थः ॥ ६ ॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥

अधिकारिविशेषनिर्देशपरेण, ‘हन्त ते’ इत्यनेन सूचितमर्थं विवृणोति - योनिम् इति । अन्ये - परमात्मतत्त्वश्रवणविमुखाः त्वद्विसदृशाः, शरीरपरिग्रहाय, ब्राह्मणादियोनिं प्रपद्यन्ते । अन्ये स्थावरभावमनुगच्छन्ति स्वानुष्ठितयज्ञादिकर्मोपासनानतिक्रमणेन; ‘रमणीयचरणाः’ (छां.उ.५-२०-७), ‘तं विद्याकर्मणी समन्वारभेते’ (बृ.उ.६-४-२) इत्यादिश्रुत्यनुरोधादिति भावः ॥ ७ ॥


य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ॥ एतद्वै तत् ॥ ८॥

एवं शिष्यं, प्ररोचनया अभिमुखीकृत्य प्रकृतमनुसरति - य एषु सुप्तेषु जागर्ति इति । सर्वेषु सुप्तेषु जीवेषु, कामं कामम् - णमुलन्तमिदम् । संकल्प्य संकल्प्य इत्यर्थः; न तु ‘सर्वान् कामान् छन्दतः प्रार्थयस्व’ (क.उ.१-२६) इति प्रकृताः पुत्रादयः कामशब्देन निर्देश्यन्ते । अयं चार्थः सन्ध्याधिकरणभाष्यश्रुतप्रकाशिकयोः स्पष्टः । संकल्प्य संकल्प्य स्वच्छन्दानुरोधेन निमिमाणः पुरुषो योऽस्ति तदेव शुक्रम् -प्रकाशकं तदेवानन्याधीनम् अमृतमुच्यते इत्यर्थः । शिष्टं स्पष्टम् । नित्यमुक्तानाम् तदेव अमृतम् इत्यवधारणस्य नानुपपत्तिः इति द्रष्टव्यम् ॥

एतेन अमृतान्तरनिषेधात् मुक्तपरमात्मनोः अभेदप्रत्याशा प्रत्युक्ता; अत्रत्य अमृतशब्दस्य निरुपाधिकामृतवाचित्वात् ॥ ८ ॥

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥

‘एक एव आत्मा सर्वेषाम् अहमर्थतया आस्ते’ इत्यस्य अर्थस्य दुर्बोधत्वात् तदृढीकरणाय पुनरपि उपदिशति - अग्निर्यथैकः इति । यथा एकः तेजो धातुः, त्रिवृत्करणकृतव्याप्त्या अण्डान्तर्गतलोके प्रविष्टस्सन् , रूपं रूपम् - रूपे रूपे, भौतिकव्यक्तिषु वीप्सायां द्विर्वचनम् । प्रतिरूप: - प्रत्युप्तं रूपं यस्य स तथोक्तः । सर्वासु भौतिकव्यक्तिषु तेजोधातो: मिलितत्त्वेन प्रतिसंक्रान्तरूपत्वात् प्रतिरूपत्वमस्तीति द्रष्टव्यम् । तथा एक एव सन् परमात्मा, प्रतिवस्तु प्रतिसंक्रान्तान्तर्यामिविग्रहः, बहिश्च व्याप्नोति इत्यर्थः ॥ ९ ॥

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥

उदाहरणान्तरमाह - वायुर्यथा इति । पूर्ववत् ॥ १० ॥

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।

एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥

आत्मत्वाविशेषेऽपि जीवात्मवत् दोषाः परमात्मनि न भवन्ति इत्येतत् सदृष्टान्तमाह - सूर्यो यथा इति । ‘रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः’ (बृ.उ.७-५-१), ‘आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्’ (ऐ.उ.२-४) इति श्रुत्यनुसारेण, यथा सूर्यः चक्षुरधिष्ठातृतया तदन्तर्गतोऽपि, बहिर्निर्गतैश्चक्षुर्मलादिभिः न स्पृश्यते । तथा परमात्मा सर्वभूतेषु आत्मतया वर्तमानोऽपि, तद्गतैर्दोषैः, न स्पृश्यते; तस्य स्वाभाविकापहतपाप्मत्वादिगुणयुक्ततया स्वेतरसमस्त बाह्यत्वात् - विलक्षणत्वात् इत्यर्थः ॥ ११ ॥

एको वशी सर्वभूतान्तरात्मा एकं बीजं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥

एको वशी इति । एकः - समाभ्यधिकरहितः । वशः - इच्छा । सोऽस्यास्तीति वशी । ‘जगद्वशे वर्तते’ इत्युक्तरीत्या, वशवर्तिप्रपञ्चक इति वाऽर्थः । ‘इमौ स्म मुनिशार्दूल, किंकरौ समुपस्थितौ’ (रा.बा.३१-४) इत्युक्तरीत्या भक्तवश्यः इति वा अर्थः। एकं बीजम् ‘तमः परे देव एकी भवति’ (सु.उ.२) इति श्रुत्युक्तरीत्या स्वेन एकीभूताविभागावस्थं तमोलक्षणं बीजम्, महदादिबहुविधप्रपञ्चरूपेण य: करोति, तम्, ‘य आत्मनि तिष्ठन्’ (बृ.उ.मा.पा.३-७-३०) इत्युक्तरीत्या स्वान्तर्यामिणं ये पश्यन्ति, तेषामेव मुक्तिरित्यर्थः ॥ १२ ॥

नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥

नित्यो नित्यानाम् इति । नित्यश्चेतन एक एव सन् बहूनां नित्यानां चेतनानाम् अपेक्षितार्थान् अनायासेन प्रयच्छति । शिष्टं स्पष्टम् ॥ १३ ॥

तदेतदिति मन्यन्ते निर्देश्यं परमं सुखम् । कथत्रु तद् विजानीयां किमु भाति विभाति वा ॥ १४ ॥

एवमुक्तः शिष्य आह - तदेतदिति इति । तत् - अलौकिकं परमानन्दरूपम् ब्रह्म, एतत् इति करतलामलकवत् अपरोक्षं भवादृशाः निष्पन्नयोगा: मन्यन्ते । भवादृशाः साक्षात्कर्तुं शक्नुवन्ति इत्यर्थः । कथं रूपादिहीनब्रह्मग्रहणासमर्थमानसः अहं विजानीयाम् । तत् किं दीप्तिमत्तया भासते? तत्रापि विस्पष्टं प्रकाशत? उत तेजोऽन्तरसंवलनान्न विस्पष्टं प्रकाशते इति प्रश्नः ॥ १४ ॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५ ॥

इति कठोपनिषदि पञ्चमी वल्ली

परमात्मनः योगयुगालम्बनाय ‘आदित्यवर्णं तमसः परस्तात्’ (श्वे.उ.३-८) ‘सदैकरूपरूपाय’ (वि.स.उपोद्घात) इति प्रमाणप्रतिपन्नशुभाश्रयदिव्यमङ्गलविग्रहोऽस्ति; तद्विशिष्टः परमात्मा विभाति सर्वातिशायिदीप्तिमान् इत्याह - न तत्र सूर्यो भाति इति । अयं च मन्त्रः, ‘ज्योतिर्दर्शनात्’ (ब्र.सू.१-३-४०) इति सूत्रे, ‘सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं च अङ्गुष्ठप्रमितस्य ज्योतिर्दृश्यते’ इति भाष्येण विवृतः । इदञ्च भाष्यम् - ‘न तत्र सूर्य’ इत्यादिमन्त्रे पूर्वार्धस्य अर्थमाह सर्वतेजसां छादकमिति । उत्तरार्धस्य पूर्वपादार्थमाह - सर्वतेजसां कारणभूतमिति । अनुभानम् । पश्चाद्भानम् । तेन कार्यकारणभाव: सिद्धः पौर्वापर्यनिमयो हि! कार्यकारणभाव इति भावः । चतुर्थपादार्थमाह - अनुग्राहकमिति । ‘यस्यादित्यो मामुपयुज्य भाति’ इत्यादिश्रुतिश्च अनुग्राहकत्वे प्रमाणम् इति व्यासार्यै: विवृतम् ।

तदीयदीप्तिसाक्षात्कारसम्भवे तेजोऽन्तराणामभिभूतत्त्वम्, प्रथमार्धार्थः; तेजोऽन्तरोत्पत्तौ तदुपादानद्रव्यानुग्राहकत्वरूपं निमित्तत्वम् , तृतीयपादार्थः, चाक्षुषरश्म्यनुग्राहकचन्द्रातापादेरिव, उत्पन्नस्यापि तेजसः स्वसम्बन्धेन स्वकार्यकरणसामर्थ्याधायकत्व लक्षणानुग्राहकत्वम्, चतुर्थपादार्थ इत्यप्यर्थस्तत्रैव द्रष्टव्यः ।

अधिष्ठानब्रह्मरूपभानव्यतिरिक्तभानशून्यत्वम् अध्यस्तप्रपञ्चस्य तृतीयपदार्थ इति यत् परैरुच्यते, तदयुक्तम् । तथा हि सति भान्तमिति कर्त्रर्थशतृप्रत्ययस्य ‘शिष्यज्ञानं प्रकाशते’ इतिवदभेदेऽपि कथञ्चित्सम्भवेऽपि, अनुभाति इत्यस्य शब्दस्यायोगात् । न हि देवदत्ते गमनक्रियाव्यतिरिक्तगमनक्रियाशून्ये तिष्ठति यज्ञदत्ते, गच्छति ‘देवदत्तं यज्ञदत्तोऽनुगच्छति’ इति प्रयोगो दृष्टचरः । ननु - वह्निमेव दहन्तम् अयोऽनुदहति इति प्रयोगो दृष्टचर - इति चेत् न; अयसः पृथक् दग्धृत्वाभावे निश्चितवतः तत्प्रतिपिपादयिषया तादृशप्रयोगस्य सम्प्रतिपन्नत्वाभावात् ।

ननु - तदीयदीप्तिसाक्षात्कारसम्भवे तेजोन्तराणामभिभूतत्वम् इति भवदभिमतार्थोऽपि न युज्यते; तदीयदीप्तिसाक्षात्कारवतामपि मक्तानां तेजोन्तरसाक्षात्कारदर्शनेन सजातीय संवलनाधीनाग्रहणलक्षणाभिभवस्य अभावादिति चेत् - उच्यते । बद्धविषयमेवैतत् । बद्धानां तत्साक्षात्काराप्रसक्तेरिदं कथमिति चेन्न बद्धानामेवार्जुनादीनां तत्साक्षात्कारदर्शनात् । यद्वा - कालिदासकवौ परिगण्यमाने, इतरः कुकविः अकविः इतिवद्भाति ब्रह्मणि परिगण्यमाने, सूर्यादितेजोन्तरं न भाति; अतः तदेव ब्रह्म अतिभास्वरूपशालीति पूर्वार्धार्थः । तदीयदीप्तिसाक्षात्कारसम्भवे तेजोन्तराणामभिभूतत्वम् इति व्यासार्यवचनस्यापि अयमेवार्थः । इममेवार्थम् इतरतेजसां स्वरूपोत्पत्तौ फलजनने च परमात्मानुग्रहसापेक्षत्वप्रदर्शकेन, तमेव भान्तम् इत्युत्तरार्धेन द्रढयतीति न दोषः इत्यवगन्तव्यम् । पूर्वार्धस्य यथाश्रुत एवार्थः । ननु अतिभास्वररूपवति सूर्यादौ प्रत्यक्षेण अनुभूयमाने, न भाति इति प्रत्यक्षविरुद्धं कथम् अभिधीयते इत्यत्राह - तमेव भान्तमनुभाति इति । इदञ्च परिदृश्यमानं भास्वररूपं न स्वाभाविकम् ,

‘यदादित्यगतं तेजो जगत् भासयतेऽखिलम् । यञ्चन्द्रमसि यञ्चाग्नौ तत्तेजो विद्धि मामकम् ॥ (भ.गी. १५-१२) इति । विवृतं चैतत् भगवता भाष्यकृता - ‘अखिलस्य जगतो भासकम् एतेषाम् आदित्यादीनां यत्तेजः तत् मदीयं तेजः । तैस्तैराराधितेन मया तेभ्यो दत्तमिति विद्धि’, इति । अतो अन्धकारे खद्योततुल्यानामेतेषां भास्वररूपशालिनां न भाति इति व्यपदेशो युज्यत इति भावः ॥ १५ ॥

इति पञ्चमीवल्लीप्रकाशिका