०२५

25.1
अतिरात्रश्चतुर्विंशं प्रायणीयमहर्द्वौ त्रिवृत् पञ्चदशौ षडहौ पृष्ठ्यः षडहो द्वौ त्रिवृत् पञ्चदशौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस्त्रयस्त्रिवृत् पञ्चदशाः षडहाः पृष्ठ्यः षडहस्त्रिवृद्बृहस्पतिस्तोमस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ट्यः षडहस्त्रयस्त्रिंशारम्भण एकः पञ्चदशस्त्रिवृत् षडहो द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृत उद्भिच्च बलभिच्च द्वे अहनी द्वौ पञ्चदशत्रिवृतौ षडहौ पृष्ठ्यः षडहो द्वौ पञ्चदशत्रिबृतौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः पञ्चदशत्रिवृत् षडहः पृष्ठ्यः षडहः पञ्चदशत्रिवृत् षडहो गौश्चायुश्च द्वे अहनी छन्दोमदशाहोऽष्टाचत्वारिंशं प्रथममहरथ चतुश्चत्वारिंशं चत्वारिंशं षट्त्रिंशं द्वात्रिंशं त्रिंशं द्वे अष्टाविंशे पञ्चविंशं चतुर्विंशं महाव्रतं चातिरात्रश्च
आदित्यानां मध्ये पृष्ठ्यम्
मध्ये पृष्ठ्येन वा आदित्याः स्वर्गं लोकमाक्रमन्त यन्मध्ये पृष्ठान्युपयन्ति स्वर्गस्य लोकस्याक्रान्त्यै
अन्नं वै पृष्ठान्यन्नमेव तन्मध्यतो धीयते तस्मान्मध्ये सदन्नं धिनोति
पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठन्ति
चक्रे वा एते साकंवृतीयत् त्रिवृत् पञ्चदशौ स्तोमौ यं कामं कामयन्ते तमेतेनाभ्यश्नुवते यत्र यत्र हि चक्रीवता कामयते तत् तदभ्यश्नुते
अथैष त्रिवृद्बृहस्पतिस्तोम एतेन वै बृहस्पतिर्देवानां पुरोधामगच्छत् पुरोधकामा उपेयुर्गच्छन्ति पुरोधां पुर एनान् दधते
अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद्दिवाकीर्त्यमभितः स्वरसामानो भवन्ति शिरस्येव तत् प्राणा धीयन्ते
अथैष पञ्चदश इन्द्रस्तोम उक्थ्य एतेन वा इन्द्रोऽत्यन्या देवता अभवदत्यन्याः प्रजा भवन्ति य एतदुपयन्ति
अथैतानि द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृतो मध्यतः पाप्मनो मुच्यन्त एष वाव देवतल्पो देवतल्पमेव तदारोहन्ति तल्प्या भवन्ति प्रवसीयसस्तल्पमाप्नुवन्ति
अथैतावुद्भिद्बलभिदावेताभ्यां वै बृहस्पतिर्देवेभ्यः पशूनुदसृजत् पशूनेवैताभ्यामुत्सृजन्ते
अथैते गो आयुषी मिथुनौ स्तोमावुपयन्ति प्रजात्यै
अथैष छन्दोमदशाहश्छन्दसां दोहोऽर्वाञ्चि छन्दांस्युपयन्ति तस्मादर्वाञ्चो भुञ्जन्तः पशव उपतिष्ठन्ते
अथैद्व्रतमन्नं वै व्रतं न वा अन्यत्र मुखादन्नं धिनोति यदुपरिष्टाद्व्रतमुपयन्ति मुखत एव तदन्नाद्यं धीयते तस्मान्मुखे सदन्नं धिनोति
अथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
25.2
अतिरात्रश्चतुर्विंशं प्रायणीयमहः पृष्ठ्यः षडहश्चत्वारस्त्रिवृतोऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस्त्रयस्त्रिवृतोऽभिप्लवाः षडहाः पृष्ठ्यः षडहस्त्रिवृद्बृहस्पतिस्तोमस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ट्यः षडहस्त्रयस्त्रिंशारम्भण एकस्त्रिवृदभिप्लवः षडहो द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृत उद्भिच्च बलभिच्च द्वे अहनी चत्वारस्त्रिवृतोऽभिप्लवाः षडहाः पृष्ठ्यः षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थो द्वौ त्रिवृतावभिप्लवौ षडहौ पृष्ठ्यः षडह आयुश्च गौश्च द्वे अहनी छन्दोमदशाहश्चतुर्विंशं प्रथममहर्द्वे अष्टाविंशे त्रिंशं द्वात्रिंशं षट्त्रिंशं चत्वारिंशं चतुश्चत्वारिंशमष्टाचत्वारिंशं चतुर्विंशं महाव्रतं चातिरात्रश्चाङ्गिरसां पुरस्तात् पृष्ठ्यम्
पुरस्तात् पृष्ठ्येन वा अङ्गिरसः स्वर्गं लोकमाक्रमन्त यत् पुरस्तात् पृष्ठान्युपयन्ति स्वर्गस्य लोकस्याक्रान्त्यै
अन्नं वै पृष्ठान्यन्नमेव तन्मुखतो धीयते तस्मान्मुखे सदन्नं धिनोति पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठन्ति
यदन्यच्चक्राभ्यां साकवृद्भ्यां तत्समानमा छन्दोमदशाहात्
अथैष छन्दोमदशाहश्छन्दसां दोह ऊर्ध्वानि छन्दांस्युपयन्त्यनपभ्रंशायैष वाव देवयानः पन्थाः प्र देवयानं पन्थानमाप्नुवन्ति य एतदुपयन्त्यथैतद्व्रतम्
अथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैष प्राणेन प्रयन्ति तमभ्युद्यन्ति
25.3
अतिरात्रस्त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासं महाव्रतं त्रयस्त्रिंशेन मासं त्रिणवेन मासमेकविंशेन मासं सप्तदशेन मासं पञ्चदशेन मासं त्रिवृता मासमतिरात्रः
ऋतवो न प्रत्यतिष्ठंस्त एतेन प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति षड्वा ऋतव ऋतुष्वेवैतेन प्रतितिष्ठन्ति
यद्गतं मध्यत उपयन्ति मध्यत एव तदन्नाद्यं धीयते तस्मान्मध्ये धिनोति
पक्षि वा एतत् सत्त्रायणं यं कामं कामयन्ते तमेतेनाभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत् तदभ्यश्नुते
त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैरेव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति
एतद्वै दृतिवातवन्तौ खाण्दव उपेतो विषुवति वातवानुत्तिष्ठति समापयति दृतिस्तस्मात् तनीयांसो वातवता भूयांसो दार्तेयाः
25.4
मासं दीक्षिता भवन्ति ते मासि सोमं क्रीणन्ति तेषां द्वादशोपसद उपसद्भिश्चरित्वा सोममुपनह्य मासमग्निहोत्रं जुह्वति मासं दर्शपूर्णमासाभ्यां यजन्ते मासं वैश्वदेवेन मासं वरुणप्रघासैर्मासं साकमेधैर्मासं शुनासीर्येण त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासमष्टादश त्रयस्त्रिंशान्यहानि द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
अग्निहोत्रं दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्योऽध्वरः सप्तहोता
एते वाव सर्वेण यज्ञेन यजन्ते य एतदुपयन्ति सर्व एव भवन्ति
ते सर्वे कुण्डपायिनोऽत्सरुकैश्चमसैर्भक्षयन्ति
यो होता सोऽध्वर्युः स पोता य उद्गाता स नेष्टा सोऽच्छावाको यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्तायः प्रस्तोता स ब्राह्मणाच्छंसी स ग्रावस्तुत् यः प्रतिप्रस्थाता सोऽग्नीत् स उन्नेता गृहपतिर्गृहपतिः सुब्रह्मण्यस्सुब्रह्मण्यः
25.5
संवत्सरं दीक्षिता भवन्ति संवत्सरमुपसद्भिश्चरन्ति संवत्सरं प्रसुतो भवति
तत् संवत्सरं दीक्षिता भवन्ति तप एव तेन तप्यन्ते यत् संवत्सरमुपसद्भिश्चरन्ति पुनत एव तेन यत् संवत्सरं प्रसुतो भवति देवलोकमेव तेनापि यन्ति
एतेन वै तपश्चितो देवाः सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति
25.6
त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविंशाः प्रजापतेर्द्वादशसंवत्सरम्
एतेन वै प्रजापतिः सर्वस्य प्रसवमगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतदुपयन्ति
यत् त्रयस्त्रिवृतः संवत्सरा भवन्ति तेजो ब्राह्मवर्चसं त्रिवृत् तेज एव ब्रह्मवर्चसमवरुन्धते यत् त्रयः पञ्च दशा ओजो वीर्यं पञ्चदश ओज एव वीर्यमवरुन्धते यत् त्रयः सप्तदशा अन्नं वै सप्तदशोऽन्नाद्यमेवावरुन्धते यत् त्रय एकविंशाः प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठन्ति
एतेन वै नैमिशीयाः सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति
ते ह सप्तदशेभ्य एवाध्युत्तस्थुस्त उ होचुर्यो नः प्रजायामृध्यातै स एतत् सत्त्रं समापयादिति तदेतत् समीप्सन्तो ब्राह्मणास्सत्त्रमासते
25.7
नव त्रिवृतः संवत्सरा नव पञ्चदशा नव सप्तदशा नवैकविंशाः शाक्त्यानां षट्त्रिंशत् संवत्सरम्
एतेन वै गौरीवितिः शाक्तस्तरसपुरोडाशो यव्यावत्यां सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति
बृहती वा एतत् सत्त्रायणं स्वाराज्यं छन्दसां बृहती प्र स्वाराज्यमाप्नुवन्ति य एतदुपयन्ति
तदेतच्छाक्त्यानां दशवीरमेषां दश वीरा जायन्ते य एतदुपयन्ति
25.8
पञ्चविंशतिस्त्रिवृतः संवत्सराः पञ्चविंशतिः पञ्चदशाः पञ्चविंशतिः सप्तदशाः पञ्चविंशतिरेकविंशाः साध्यानां शतसंवत्सरम्
साध्या वै नाम देवेभ्यो देवाः पूर्व आसंस्त एतत् सत्त्रायणमुपायंस्तेनार्ध्नुवंस्ते सगवः सपुरुषाः सर्व एव सह स्वर्गं लोकमायन्नेवं वाव ते सह स्वर्गं लोकं यन्ति य एतदुपयन्ति
आयुर्वा एतत् सत्त्रायणं शतायुः पुरुषो यावदेवायुस्तदवरुन्धते न ह्यत्यायुषं सत्त्रमस्ति
तदभ्यनूक्ता तानीदहानि बहुलान्यासन् या प्राचीनमुदिता सूर्यस्य यतः परि जार इवाचरन्त्यूषा (?) दादृशे न पुनर्यतीवेति
ज्योतिष्टोमस्यायनेन यन्ति ज्योतिरेव भवन्ति
एकविंशोऽन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविंशोऽन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठन्ति
25.9
अतिरात्रः सहस्रमहान्यतिरात्रोऽग्नेः सहस्रसाव्यम्
एतेन वा अग्निः सवस्य प्रसवमगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतदुपयन्ति
अग्नेर्वै सर्वमाद्यं सर्वमेषामाद्यं भवति य एतदुपयन्ति
अथ यत् सहस्रसाव्यं भवति सहस्राक्षरा वै परमा विराट्परमायामेव विराजि प्रतितिष्ठन्ति
25.10
सरस्वत्या विनशने दीक्षन्ते
तेषां द्वादश दीक्षा द्वादशोपसदः
यदहरतिरात्रो भवति तदहर्वत्सानपाकुर्वन्ति संस्थितेऽतिरात्रे सान्नाय्येन यजन्ते
सान्नाय्येनेष्ट्वाध्वर्युः शम्यां परास्यति सा यत्र निपतति तद्गार्हपत्यस्ततः षट्त्रिंशतं प्रक्रमान् प्रक्रमति तदाहवनीयः
चक्रीवत् सदश्चक्रीवद्धविर्धानं चक्रीवदाग्नीध्रमुलूखलबुध्नो यूपः प्रकृष्य उपोप्त एव नोपरवान् खनन्ति
ते तमापूर्यमाणमावास्येन यन्ति
तेषां पौर्णमास्यां गोष्टोमस्तोमो भवत्युक्थ्यो बृहत्सामा
संस्थिते गोष्टोमे पौर्णमासं निर्वपन्ते ते तमपक्षीयमाणं पौर्णमासेन यन्ति तेषाममावास्यायामायुष्टोमस्तोमो भवत्युक्थ्यो रथन्तरसामा
मित्रावरुणयोरयनम्
एतेन वै मित्रावरुणाविमान् लोकानाजयतामहोरात्रौ वै मित्रावरुणावहर्मित्रो रात्रिर्वरुणोऽर्धमासौ वै मित्रावरुणौ य आपूर्यते स मित्रो योऽपक्षीयते स वरुणः स एष मित्रो वरुणे रेतः सिञ्चति
सरस्वत्या वै देवा आदित्यमस्तभ्नुवन् सा नायच्छत् साभ्यव्लीयत तस्मात् सा कुब्जिमतीव तं बृहत्यास्तभ्नुवन् सायच्छत् तस्माद्बृहती छन्दसां वीर्यवत्तमादित्यं हि तयास्तभ्नुवन्
प्रतीपं यन्ति न ह्यन्वीपमष्ट वै पूर्वेण पक्षसा यन्ति
तद्धि प्रत्येकाप्येति
दृषद्वत्येव
दृषद्वत्या अप्ययेऽपोनप्त्रीयं चरुं निरुप्याथातियन्ति
चतुश्चत्वारिंशदाश्वीनानि सरस्वत्या विनशनात् प्लक्षः प्रास्रवणस्तावदितः स्वर्गो लोकः सरस्वतीसम्मितेनाध्वना स्वर्गं लोकं यन्ति
एतेन वै नमी साप्यो वैदेहो राजाञ्जसा स्वर्गं लोकमैदञ्जसागामेति तदञ्जस्कीयानामञ्जस्कीयत्वम्
स एतदवभृथमभ्यवैद्य एष उत्तरेण स्थूलार्मं ह्रदस्तद्धास्य शतं गावः सहस्रं सम्पेदुः
शते गोष्वृषभमप्यृजन्ति(?) ता यदा सहस्रं सम्पद्यन्तेऽथोत्थानम्
यदा सर्वज्यानिं जीयन्तेऽथोत्थानं यदा गृहपतिर्म्रियतेऽथोत्थानम्
यदा प्लक्षं प्रास्रवणमागच्छन्त्यथोत्थानम्
प्लक्षं प्रास्रवणमागम्याग्नये कामायेष्टिं निर्वपन्ते तस्यामश्वां च पुरुषीं च धेनुके दत्वा
कारपचवं प्रति यमुनामवभृथमभ्यवयन्ति
25.11
अतिरात्रस्त्रिवृत् पञ्चदशमिन्द्राग्न्योरयनं गोआयुषी इन्द्रकुक्षी अतिरात्रः
एतेन वा इन्द्राग्नी अत्यन्या देवता अभवतामत्यन्याः प्रजा भवन्ति य एतदुपयन्ति
इन्द्राग्नी वै देवानामोजिष्ठा ओजिष्ठा भवन्ति य एतदुपयन्ति
अथ यत् त्रिवृत् पञ्चदशमिन्द्राग्न्योरयनं गोआयुषी इन्द्रकुक्षी भवतोऽसंव्याथाय
25.12
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो विश्वजिदभिजिताविन्द्रकुक्षी अतिरात्रः
एतेन वार्यमैतं लोकमजयत्
यदाहुरर्यम्णः पन्था इत्येष वाव देवयानः पन्थाः
प्र देवयानं पन्थानमाप्नुवन्ति य एतदुपयन्ति
तस्मादेषोऽरुणतम इव दिव उपददृशेऽरुणतम इव हि पन्थाः
अथ यत् ज्योतिर्गौरायुस्त्र्यहो विश्वजिदभिजिताविन्द्रकुक्षी भवतोऽसंव्याथाय
25.13
संवत्सरं ब्राह्मणस्य गा रक्षेत् संवत्सरं व्यर्णे नैतन्धवेऽग्निमिन्धीत संवत्सरे परीणह्यग्नीनादधीत
स दक्षिणेन तीरेण दृषद्वत्या आग्नेयेनाष्टाकपालेन शम्यापरासीयात्
इन्द्रश्च रुशमा चांशं प्रास्येतां यतरो नौ पूर्वो भूमिं पर्येति स जयतीति भूमिमिन्द्रः पर्यैत् कुरुक्षेत्रं रुशमा सोऽब्रवीदजैषं त्वेत्यहमेव त्वामजैषमितीन्द्रोऽब्रवीत् तौ देवेष्वपृच्छेतां ते देवा अब्रुवन्नेतावती वाव प्रजापतेर्वेदिर्यावत् कुरुक्षेत्रमिति तौ न व्यजयेताम्
स य आग्नेयेनाष्टाकपालेन दक्षिणेन तीरेण दृषद्वत्याः शम्यापरास्येति त्रिप्लक्षान् प्रति यमुनामवभृथमभ्यवैति तदेव मनुष्येभ्यस्तिरो भवति
25.14
आग्नेयोऽष्टाकापाल ऐन्द्र एकादशकपालो वैश्वदेवश्चरुः
अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते यददीक्षितः कृष्णाजिनं प्रतिमुञ्चते यो मानुष्यृद्धिस्तां तेनर्ध्नोति
अथ यत् तपस्तप्यते या दैवी तां तेन
यदाग्नेयोऽष्टाकपालो भवत्यग्निमुखा वै देवता मुखत एव तद्देवता ऋध्नोत्यथो प्रातस्सवनमेव तेनाप्नोत्यथ यदैन्द्र एकादशकपालो भवत्यैन्द्रं वै माध्यन्दिनं सवणं माध्यन्दिनमेव सवनं तेनाप्नोत्यथ यद्वैश्वदेवश्चरुर्भवति वैश्वदेवं वै तृतीयसवनं तृतीयसवनमेव तेनाप्नोति
एतेन वै पुरो देवमुनिः सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नोति य एतदुपैति
25.15
अतिरात्रावभितोऽग्निष्टोमा मध्ये सर्वो दशदशी संवत्सरो द्वादशो विषुवान् सर्पसामानि विषुवति क्रियन्ते
एतेन वै सर्पा एषु लोकेषु प्रत्यतिष्ठन्नेषु लोकेषु प्रतितिष्ठन्ति य एतदुपयन्ति
जर्वरो गृहपतिः धृतराष्ट्र ऐरावतो ब्रह्मा पृथुश्रवा दौरेश्रवस उद्गाता ग्लावश्चाजगावश्च प्रस्तोतृप्रतिहर्तारौ दत्तस्तापसो होता शितिपृष्ठो मैत्रावरुणः तक्षको वैशालेयो ब्राह्मणाच्छंसी शिखानुशिखौ नेष्टापोतारौ अरुण आटोच्छावाकः तिमिर्घो दौरेश्रुतोऽग्नीत् कौतस्तावध्वर्यू अरिमेजयश्च जनमेजयश्चार्बुदो ग्रावस्तुदजिरः सुब्रह्मण्यश्च कपिशङ्गावुन्नेतारौ षण्डकुषण्डावभिगरापगरौ
एतेन वै सर्पा अपमृत्युमजयन्नपमृत्युं जयन्ति य एतदुपयन्ति तस्मात् ते हित्वा जीर्णां त्वचमतिसर्पन्त्यप हि ते मृत्युमजयन् सर्पा वा आदित्या आदित्यानामिवैषां प्रकाशो भवति य एतदुपयन्ति
25.16
गवामयनं प्रथमः संवत्सरोऽथादित्यानामथाङ्गिरसाम्
एतेन वै गावः प्रजातिं भूमानमगच्छन् प्रजायन्ते बहवो भवन्ति य एतदुपयन्त्येतेन वा आदित्या एषु लोकेषु प्रत्यतिष्ठन् प्रतितिष्ठन्ति य एतदुपयन्त्येतेन वा अङ्गिरसः स्वर्गं लोकमायन् स्वर्गं लोकं यन्ति य एतदुपयन्ति
पर आह्णारस्त्रसदस्युः पौरुकुत्सो वीतहव्यः श्रायसः कक्षीवानौशिजस्त एतत् प्रजातिकामाः सत्त्रायणमुपायंस्ते सहस्रं सहस्रं पुत्रानपुष्यन्नेवं वाव ते सहस्रं सहस्रं पुत्रान् पुष्यन्ति य एतदुपयन्ति
25.17
अतिरात्रः सहस्रं त्रिवृतः संवत्सरा अतिरात्रः प्रजापतेः सहस्रसंवत्सरम्
एतेन वै प्रजापतिः सर्वस्य प्रसवमगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतदुपयन्ति
एतद्वै प्रजापतिर्जीर्या मूर उपैत् तेन जरामपाहताप जरां घ्नते य एतदुपयन्ति
तदेतत् प्रजापतेः सहस्रसंवत्सरमेतेन वै प्रजापतिः सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति
25.18
पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशा पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविंशा विश्वसृजां सहस्रसंवत्सरम्
एतेन वै विश्वसृज इदं विश्वमसृजन्त यद्विश्वमसृजन्त तस्मात् विश्वसृजः
विश्वमेनाननु प्रजायते य एतदुपयन्ति
तपो गृहपतिर्ब्रह्म ब्रह्मेरा पत्न्यमृतमुद्गाता भूतं प्रस्तोता भविष्यत् प्रतिहर्तर्तव उपगातार आर्तवाः सदस्याः सत्यं होतर्तं मैत्रावरुण ओजो ब्राह्मणाच्छंसी त्विषिश्चापचितिश्च नेष्टापोतारौ यशोऽच्छावाकोऽग्निरेवाग्नीद्भगो ग्रावस्तुदूर्गुन्नेता वाक्सुब्रह्मण्यः प्राणोऽध्वर्युरपानः प्रतिप्रस्थाता दिष्टिर्विशास्ता बलं ध्रुवगोपमाशा हविष्येष्यहोरात्राविध्मवाहौ मृत्युः शमितैते दीक्षन्ते
तदेष श्लोको विश्वसृजः प्रथमे सत्त्रमासत सहस्रसमं प्रसुतेन यन्तस्ते ह यज्ञे भुवनस्य गोपा हिरण्मयः शकुनो ब्रह्मनामेति
ब्रह्मणः सलोकतां सार्ष्टितां सायुज्यं गच्छन्ति य एतदुपयन्ति तदेतद्विश्वसृजां सहस्रसंवत्सरमेतेन वै विश्वसृजः सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति