21.1
इन्द्रो मरुतः सहस्रमजिनात् स्वां विशं सोमाय राज्ञे प्रोच्य तस्माद्राज्ञे प्रोच्य विशं जिनन्ति तौ यमोऽशृणोन्मरुतो ह सहस्रमज्याशिष्टामिति स आगच्छत् सोऽब्रवीदुप मास्मिन् सहस्रे ह्वयेथामिति तमुपाह्वयेतां स यमोऽपश्यदेकाङ्गां सहस्रेऽपि सहस्रस्य पयो बिभ्रतीं सोऽब्रवीदियमेव ममास्तु सहस्रं युवां विकल्पयेथामिति तावब्रूतां यथा वाव त्वमेतां पश्यस्येवमावमेतां पश्याव इति
तया वा इदं सहस्रं विकल्पयामहा इत्यब्रुवंस्तामुदके प्रावेशयᳪंस्तेऽब्रुवन्नᳪंशानाहरामहै यस्मै न इयं प्रथमायादेष्यति इति तेᳪंशानाहरन्त सोमस्य प्रथम ऐदथेन्द्रस्याथ यमस्य
तेऽब्रुवन् सोमाय राज्ञ उदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयस इति सा बभ्रुः पिङ्गाक्ष्येकवर्षोदैत् तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयसः सा या सोमक्रयणी सैव सा
तृतीयेन चास्य तस्या आत्मनस्तृतीयेन च सहस्रस्य पयसः सोमः क्रीतो भवति य एवं विद्वान् सोमं क्रीणाति यस्मा एवं विदुषे सोमं क्रीणन्ति
तेऽब्रुवन्निन्द्रायोदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयस इति सा शबली पष्ठौह्युदैत् तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयसः सा येन्द्रियैष्या सैव सा
तृतीयेन चास्य तस्या आत्मनस्तृतीयेन च सहस्रस्य पयस इन्द्रियैष्या दत्ता भवति य एवं विद्वानिन्द्रियैष्यां ददाति यस्मा एवं विदुष इन्द्रियैष्यां ददाति
तेऽब्रुवन् यमायोदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयस इति सा जरती कुष्ठाशृङ्ग्यदैद्धूम्रा वा दित्यौहीर्मतो ह्रसीयसी तृतीयेन चात्मनः तृतीयेन च सहस्रस्य पयसः सा यानुस्तरणी सैव सा
तृतीयेन चास्य तस्या आत्मनस्तृतीयेन च सहस्रस्य पयसोऽनुस्तरणी कृता भवति य एवं विद्वाननुस्तरणीं करोति यस्मा एवं विदुषेऽनुस्तरणीं कुर्वन्ति नाचकृवान्मन्यते
तदाहुर्ब्रह्मवादिनो न वा अमुष्मिन् लोके सहस्रयाडलोकोऽस्तीति तद्यावदितः सहस्रस्य गौर्गवि प्रतिष्ठिता तावदस्माल्लोकादसौ लोकः सरस्रयाजी वा इमान् लोकान् व्याप्नोत्यथो यावत् सहस्रं योजनान्यथो सहस्रमाश्वीनान् यथो यावत् सहस्रमह्नयानि तद्गवा गवा स्पृणोति समाक्रमणाय वा एता दीयन्ते
सहस्रं यदसृजत तस्य तार्प्यं योनिरासीद्यत् तार्प्यं प्रत्यस्य नयति सयोनित्वाय
21.2
प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टाः पराच्य आयन्नत्स्यति न इति बिभ्यत्यः सोऽब्रवीदुप मा वर्तध्वं तथा वै वोऽत्स्यामि यथाद्यमाना भूयस्यः प्रजनिष्यथ इति ताभ्यो वैनं ऋतं ब्रूहीत्यब्रुवंस्ताभ्य ऋतनिधनेनर्तमब्रवीदीनिधनेनावयत् त्रिणिधनेन प्राजनयदेतैर्ह वा इदं सामभिर्मृत्युः प्रजा अत्ति च प्रजनयति
अद्यमानस्य भूयो भवति य एवं वेद
ज्येष्ठसामानि वा एतानि श्रेष्ठसामानि प्रजापतिसामानि
गच्छति ज्यैष्ठयं श्रैष्ठयं य एवं वेद
एतैर्वै सामभिः प्रजापतिरिमान् लोकान् सर्वान् कामान् दुग्धे यदाच्या दुग्धे तदाच्या दोहानामाच्या दोहत्वम्
सर्वानिमान् लोकान् कामान् दुग्धे य एवं विद्वानेतैस्सामभिः स्तुते
इमे वै लोका एतानि सामान्ययमेवर्तनिधनमन्तरिक्षमीनिधनं द्यौस्त्रिणिधनम्
यथा क्षेत्रज्ञः क्षेत्राण्यनुसञ्चरत्येवमिमान् लोकाननुसञ्चरति य एवं वेद
अग्नेर्वा एतानि वैश्वानरस्य सामानि यत्र वा एतैरशान्तैः स्तुवन्ति तत् प्रजा देवो घातुको भवत्यग्निमुपनिधाय स्तुवते स्वाया एव तद्देवतायाः साम्येक्षाय नमस्कृत्योद्गायति शान्तैस्स्तुवन्ति
21.3
वाग्वै शबली तस्यास्त्रिरात्रो वत्सस्त्रिरात्रो वा एतां प्रदापयति
तद्य एवं वेद तस्मा एषा प्रत्ता दुग्धे
योऽलमन्नाद्याय सन्नथान्नं नाद्यात्
बरासीं परिधाय तप्तं पिबन् द्वादश रात्रीरधः शयीत
या द्वादशी स्यात् तस्या उपव्युषं शबलीहोमं हुत्वा पुरा वाग्भ्यः सम्प्रवदितोर्यत्र ग्राम्यस्य पशोर्नाशृणुयात् तदरण्यं परेत्य दर्भस्तम्बमालभ्य शबलि शबलीति त्रिराह्वयेद्यदन्यच्छुनश्च गर्दभाच्च प्रतिवाश्यते सा समृद्धा
यदि न प्रतिवाश्येत संवत्सरे पुनराह्वयेत
शबलि समुद्रोऽसि विश्वव्यचा ब्रह्म देवानां प्रथमजा ऋतस्यान्नमसि शुक्रमसि तेजोऽस्यमृतमसि तां त्वा विद्म शबलि दीद्यानां तस्यास्ते पृथिवी पादोऽन्तरिक्षं पादो द्यौः पादः समुद्रः पाद एषासि शबलि तां त्वा विद्म सा न इषमूर्जं धुक्ष्व वसोर्धारां शबलि प्रजानां शचिष्ठा व्रतमनुगेषं स्वाहा
21.4
चतुष्टोमोऽग्निष्टोम एकविंश उक्थ्यः सर्वस्तोमोऽतिरात्रः
प्रजापतेर्वा अक्ष्यश्वत् तत् परापतत् तदश्वोऽभवत् तदश्वस्याश्वत्वं तद्देवा अश्वमेधेन प्रत्यदधुरेष वाव प्रजापतिं सर्वं करोति योऽश्वमेधेन यजते
एष वाव सशरीरः सम्भवत्यमुष्मै लोकाययोऽश्वमेधी
सरघा वा अश्वस्य सक्थ्यावृहत् तद्देवाश्चतुष्टोमेन प्रत्यदधुर्यच्चतुष्टोमो भवत्यश्वस्य सर्वत्वाय
यत् तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति तस्मात् त्रिभिस्तिष्ठन् प्रतितिष्ठति सर्वान् पलायमानः प्रतिदधाति
अन्तो वा अश्वः पशूनामन्तोऽनुष्टुप्छन्दसामन्तो विष्णुर्देवतानामन्तश्चतुष्टोमस्स्तोमानामन्तस्त्रिरात्रो यज्ञानां यद्वैप्लव्योऽनुष्टुभः प्रतिपदो भवन्ति चतुष्टोम स्तोमस्त्रिरात्रो यज्ञोऽन्त एव तदन्तं प्रतिष्ठापयति
एकविंशमहर्भवति यस्मिन्नश्व आलभ्यत एकविंशो वा इतोऽसावादित्यो द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति
तस्य महानाम्न्यः पृष्ठं भवन्ति
अन्यदन्यद्वा एताश्छन्दोऽन्योन्य एते पशव आलभ्यन्त एता वा एतं समाप्नुवन्ति यन्महानाम्न्यः पृष्ठं भवन्त्यश्वस्य सर्वत्वाय
पार्थुरश्मं ब्रह्मसाम भवति
ईश्वरो वा एषोऽयतोऽधृतः परां परावतमेतो रश्मिना वा अश्वो धृतो यत् पार्थुरश्मं ब्रह्मसाम भवत्यश्वस्यैव यत्यै
सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति
एकयूपो वैकादशिनी वान्येषां यज्ञानां भवत्येकविंशिन्यश्वमेधस्य खादिरो वा बैल्वो वा पार्णो वाऽन्येषां यज्ञानां भवति नैचुदार एकविंशत्यरत्निरश्वमेधस्य नान्येषां पशूनां तेजन्या अवद्यन्त्यवद्यन्त्यश्वमेधस्य दक्षिणतोऽन्येषां पशूनामवद्यन्त्युत्तरतोऽश्वमेधस्य प्लक्षशाखास्वन्येषां पशूनामवद्यन्ति वेतसशाखास्वश्वमेधस्य यूपे ग्राम्यान् पशून्नियुञ्जन्त्यारोकेष्वारण्यान् धारयन्त्या ग्राम्यान् पशून् लभन्ते प्रारण्यान् सृजन्ति
21.5
त्रयस्त्रिवृतोऽतिरात्राः सर्वे षोडशिमन्तः
यो राज्य आशंसेत स एतेन यजेत
राजा वा एष स्तोमानां राज्यमेवास्मिन् दधाति
यदाक्षाराणि प्रथममहर्भजन्त एकाक्षरा वै वाग्वाचोऽनतिवादाय
अथ यत् द्व्यक्षरणिधनमाज्यदोहं भवत्युत्तरयोरहोरभिसन्तत्या अन्वहमाज्यदोहानि भवन्त्यन्वहमेवैनं पशुभिः समर्धयन्ति
सर्वे षोडशिमन्तो भवन्तीन्द्रियं वीर्यं षोडशीन्द्रियेणैवैनान् वीर्येण समर्धयति
21.6
चतुर्विंशाः पवमानास्त्रिवृन्त्याज्यानि पञ्चदशानि पृष्ठानि सप्तदशोऽग्निष्टोमश्चतुश्चत्वारिंशाः पवमानाः पञ्चदशान्याज्यानि सप्तदशानि पृष्ठान्येकविंशोऽग्निष्टोमः सोक्थोऽष्टाचत्वारिंशाः पवमाना एकविंशान्याज्यानि त्रिणवानि पृष्ठानि त्रयस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत् सन्धिश्छन्दोमपवमानः
पशुकामो यजेत्
पशवो वै छन्दोमा यच्छन्दोमाः पवमाना भवन्ति पशूनेवावरून्धे
उभये स्तोमा युग्मन्तश्चायुजश्च तत् मिथुनं तस्मान्मिथुनात् प्रजायते
21.7
त्रिवृत् प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनमष्टाचत्वारिंशं तृतीयसवनं सोक्थमेकविंशं प्रातस्सवनन् त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं सोक्थमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् सन्धिरन्तर्वसुः
इमे लोकास्त्रिरात्रः
अस्तीव वा अयं लोकोऽस्तीवासौ छिद्रमिवान्तरिक्षम्
अस्तीव त्रिरात्रस्य प्रथममहरस्तीवोत्तमं छिद्रमिव मध्यतः
पशवो वै छन्दोमा यच्छन्दोमा मध्यतो भवन्त्यपिहित्या एवाच्छिद्रतायै
21.8
त्रिवृत् प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं एकविंशं प्रातस्सवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं सोक्थं चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनमष्टाचत्वारिंशं तृतीयसवनं सोक्थमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् सन्धिः पराकः
पराकेण वै देवाः स्वर्गं लोकमायन् स्वर्गकामो यजेत पराङेवैतेन स्वर्गं लोकमाक्रमते
यद्वा एतस्याकं तदस्य पराक्तत् पराकस्य पराकत्वम्
न वै तत्र जग्मुषे किञ्चनाऽकम्
नास्मा अकं भवति य एवं वेद
प्रजायास्त्वकॢप्तः पराङ्ह्येवैतेन स्वर्गं लोकमाक्रमते तद्यदेकविंशः षोडशी भवति पञ्चदशी रात्रिस्त्रिवृत् सन्धिस्तेनास्मिन् लोके प्रतितिष्ठति
21.9
चतुर्विंशाः पवमानास्त्रिवृन्त्याज्यानि पञ्चदशानि पृष्ठानि सप्तदशोऽग्निष्टोमश्चतुर्विंशाः पवमानाः पञ्चदशान्याज्यानि सप्तदशानि पृष्ठान्येकविंशोऽग्निष्टोमः सोक्थश्चतुर्विंशाः पवमानाः सप्तदशान्याज्यान्येकविंशनि पृष्ठानि त्रिणवोऽग्निष्टोमः सोक्थश्चतुर्विंशाः पवमाना एकविंशान्याज्यानि त्रिणवानि पृष्ठानि त्रयस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत् सन्धि
अत्रिरकामयत चत्वारो मे वीरा आजायेरन्निति स एतमपश्यत् तस्य चत्वारो वीरा आजायन्तास्य चत्वारो वीरा जायन्ते य एवं वेद
एकं स्तोममुत्सृज्यैकमभ्यारभते वीरजननं वै स्तोमो वीरमेवास्मै तत् प्रजनयति
चतुर्विंशाः पवमाना भवन्ति चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
अग्निष्टोमः प्रथममहरूक्थो द्वितीयं षोडशी तृतीयमतिरात्रश्चतुर्थं नानावीर्यतायै
नानावीर्याण्यहानि करोति
गायत्रं वै प्रथममहस्त्रैष्टुभं द्वितीयं जागतं तृतीयमानुष्टुभं चतुर्थम्
तदाहुर्यत् तृतीयेऽहनि षोडशिनं गृह्णीयुस्तृतीयेनाह्नानुष्टुभमाप्नुयुरच्छन्दश्चतुर्थमहः स्यादानुष्टुभो वै षोडशीति
चतुर्थेऽहनि षोडशी ग्रहीतव्यः स्व आयतने षोडशी गृह्यते
छन्दोभिरहानि नानावीर्याणि करोति
नौधसं प्रथमस्याह्नो ब्रह्मसाम श्यैतं द्वितीयस्य श्रायन्तीयं तृतीयस्य त्रैशोकं चतुर्थस्य
तदाहुरपभ्रंश इव वा एष यत् ज्यायसः छन्दसोऽधि कनीयश्छन्द उपैतीति
तद्यदेषा चतुर्थेऽहन्यतिजगती क्रियतेऽनपभ्रंशाय
कालेयं प्रथमस्याहोऽच्छावाकसाम माधुच्छन्दसं द्वितीयस्य रौरवं तृतीयस्य समन्तं चतुर्थस्य नानावीर्यतायै नानावीर्याण्यहानि करोति
अभित्वा वृषभा सुत"इति तृतीयस्याह्नो रथन्तरं कस्तमिन्द्र त्वा वसव इति वामदेव्यं यज्ञा यथा अपूर्व इति चतुर्थस्याह्नो बृहत् एदु मधोर्मदिन्तरम्"इति वामदेव्यं छन्दसां नानावीर्यतायै नानावीर्याण्यहानि करोति
21.10
त्रिवृत् पञ्चदशोऽग्निष्टोमः प्रथममहः
अथोत्तरस्याह्नोश्चतुर्विंशं वहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि सप्तदशमच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशे द्वे पृष्ठे एकविंशं तृतीयसवनंं सोक्थम्
तृतीयस्याह्न एकविंशं बहिष्पवमानं त्रीणि चाज्यानि पञ्चदशमच्छावाकस्य चतुर्विंशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणवं तृतीयसवनं द्वे चोक्थे एकविंशमच्छावाकस्य
चतुर्थस्याह्नश्चतुर्विशाः पवमानाः पञ्चदशं होतुराज्यं सप्तदशानि त्रीण्येकविंशानि पृष्ठानि त्रयस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
जमदग्निः पुष्टिकाम एतमाहरत् स इमान् पोषानपुष्यत्
यदिदमाहुर्नवा ऊर्वौ पलितौ सञ्जानाते इति
तत् सर्वानेवैतेन पोषान् पुष्यति
जगती छन्दोभिः सम्पद्यते
जगती वै छन्दसां परमं पोषं पुष्टा परममेवैते पोषं पुष्यति
पुरोडाशिन्य उपसदो भवन्ति पशवो वै पुरोडाशाः पशुष्वेव प्रतितिष्ठन्ति
अग्ने वेर्होत्र वेरध्वरमापितरं वैश्वानरमवसेऽकरिन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देवावश्विनौ मधुकशयाद्येमं यज्ञं यजमानाय मिमिक्षतमिन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देव विष्ण उर्वद्यास्मिन् यज्ञे यजमानायाधि विक्रमस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देव सोम रेतोधा अद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देव सवितः सुसावित्रमद्यास्मिन् यज्ञे यजमानासुवस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देव धातः सुधाताद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देवा ग्रावाणो मधुमतीमद्यास्मिन् यज्ञे यजमानाय वाचं वदतेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देव्यदिते स्वादित्यामद्यास्मिन् यज्ञे यजमानायासुवस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
देव्य आपो नन्नम्यध्वमद्यास्मिन् यज्ञे यजमानायेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
सदस्सदः प्रजावानृभुर्जुषाण इन्द्राय देवेभ्यो जुहुता हविस्स्वाहा
देव त्वष्टः सुरेतोधा अद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
आग्नेय एककपाल आश्विनो द्विकपालो वैष्णवस्त्रिकपालः सौम्यश्चतुष्कपालः सावित्रः पञ्चकपालो धात्रः षट्कपालो मारूतः सप्तकपालो बार्हस्पत्योऽष्टाकपालो मैत्रो नवकपालो वारूणो दशकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः
21.11
त्रिवृत प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातस्सवनं सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनं सोक्थं सप्तदशं प्रातस्सवनमेकविंशं माध्यन्दिनं सवनं त्रिणवं तृतीयसवनं सोक्थमेकविंशं प्रातस्सवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
वसिष्ठः पुत्रहतो हीन इवामन्यत स एतमपश्यत् सोऽग्रं पर्यैद्यो हीन इव मन्येत स एतेन यजेत
यत् स्तोमात् स्तोममभिसंक्रामत्यग्रादेवाग्रं रोहति वसिष्ठस्य जनित्रे भवतः प्रजात्यै
प्रत्यवरोहीण्युत्तमस्याह्न उक्थानि भवन्ति प्रतिष्ठित्यै
21.12
त्रिवृदग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थ एकविंशोऽतिरात्रो विश्वामित्रस्य सञ्जयः
जह्नुवृचीवन्तो राष्ट्र आहिंसन्त स विश्वामित्रो जाह्नवो राजैतमपश्यत् स राष्ट्रमभवदराष्ट्रमितरे
भ्रातृव्यवान् यजेत
भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
ज्योतिर्वा एष विहृतः
ज्योतिः प्रजानां भवति य एवं वेद
चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठति
एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
21.13
द्वे त्रिवृती सवने पञ्चदशमेकं द्वे पञ्चदशे सवने सप्तदशमेकं द्वे सप्तदशे सवने एकविंशमेकं द्वे एकविंशे सवने त्रिणवमेकं द्वे त्रिणवे सवने त्रयस्त्रिंशमेकं प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
देवाश्च वा असुराश्चास्पर्धन्त ते न व्यजयन्त तेऽब्रुवन् वाचो मिथुनेन विजयामहै यतरे नो वाचो मिथुनं न प्रतिविन्दांस्ते परा भवानिति ते देवा एक इत्यब्रुवन्नेकेत्यसुरा वाचो मिथुनं प्रत्यविन्दन् द्वाविति देवा अब्रुवन् द्वे इत्यसुरा वाचो मिथुनं प्रत्यविन्दनंस्त्रय इति देवा अब्रुवंस्तिस्र इत्यसुरा वाचो मिथुनं प्रत्यविन्दंश्चत्वार इति देवा अब्रुवंश्चतस्त्र इत्यसुरा वाचो मिथुनं प्रत्यविन्दन् पञ्चेति देवा अब्रुवन्नासुरा अविन्दंस्ततो देवा अभवन् परासुराः
भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
संवत्सरं वा एषां तद्वीर्यमन्नाद्यमवृञ्जत
संवत्सरं वीर्यमन्नाद्यं भ्रातृव्यस्य वृङ्क्ते य एवं वेद
पञ्चरात्रो वा एष पाङ्क्तः पुरूषः पाङ्क्ताः पशवस्तेन पुरूषं च पशूंश्चाप्नोति
अस्थूरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमावहर्वहतो यं कामं कामयते तमेतेनाभ्यश्नुते
यत्र यत्र ह्यस्थूरिणा कामयते तत् तदभ्यश्नुते
अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै
प्रत्यवरोहीण्युत्तमस्याह्न उक्थानि भवन्ति प्रतिष्ठित्यै
21.14
त्रिवृदग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थः पञ्चदश उक्थः सप्तदशोऽतिरात्रः पञ्चशारदीयो मरुतां स्तोमः
यः कामयेत बहु स्यामिति स एतेन यजेत
मरूतो वै देवानां भूयिष्ठा बहुरेव भवति
सप्तदशं स्तोमा नातियन्ति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति
अगस्त्यो वै मरूद्भ्य उक्ष्णः प्रौक्षत् तानिन्द्रायाबध्नात् ते वज्रमादायाभ्यपतन् स एतत् कयाशुभीयमपश्यत् तेनाशमयत्
यत् कयाशुभीयं शस्यते शान्त्या एव
सप्तदश पृश्नीनुक्ष्णः पञ्चवर्षान् सप्तदश पृश्नीस्त्रिवत्सा अप्रवीतास्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति
ततः संवत्सरे नवनीतपृश्नीररूणा आनयन्ति तांश्चैवोक्ष्णस्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे राजीवा आनयन्ति तांश्चैवोक्ष्णस्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे पिशङ्गीरानयन्ति तांश्चैवोक्ष्णस्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे सारङ्गीरानयन्ति तांश्चैवोक्ष्णस्तान् पर्यग्निकृतान् पोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति
ततः संवत्सरे सोमा भवन्ति
त्रींस्त्रीनन्वहमालभन्ते पञ्चोत्तमेऽहनि
अजोऽग्नीषोमीयः
ऐन्द्रा मारुतो उक्षाणो मारुत्यो वत्सतर्यः
यदि रूद्रोऽभिमन्योताग्नये रूद्रवते पुरोडाशमष्टाकपालं निरूप्याथान्यमालभेत
यदि संशीर्यैत भौममेककपालं निरूप्याथान्यमालभेत
यद्यवसीदेर्नैरृतं चरुं निरूप्याथान्यमालभेत यद्यप्सु म्रियेतापोनप्त्रीयं चरुं निरूप्याथान्यमालभेत यद्यन्धस्यात् सौर्यं चरुं निरूप्याथान्यमालभेत
यदि श्लवणो वा कुटो वा स्याद्बार्हस्पत्यं चरुं निप्याथान्यमालभेत
यदि पलायेत वायव्यं चरुं निरूप्याथान्यमालभेत
यदि प्रासहाजयेयुरिन्द्राय प्रसह्वन एकादशकपालं निरूप्याथान्यमालभेत
यद्यन्येन मृत्युना म्रियेत प्राजापत्यं द्वादशकपालं निरूप्याथान्यमालभेत
एतेन वा एकयावा गान्दमो वेतस्वतीष्ट्वा सर्वामृद्धिमार्ध्नोत्
सर्वामृद्धिमृध्नोति य एवं वेद
21.15
ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्य आयुरतिरात्रः
संवत्सरो वै व्रतं तस्य वसन्त ऋतुर्मुखं ग्रीष्मश्च वर्षाश्च पक्षौ शरन्मध्यं हेमन्तः पुच्छम्
तस्माच्छरदमोषधयोऽभिसम्पच्यन्ते शरद्धि मध्यं संवत्सरस्य
अकृतं वा एते कुर्वन्ति ये पुरा संवत्सरात् व्रतमुपयन्ति
एतद्वै व्रतमाप्तं यत् पञ्चरात्रे पञ्च ह्यृतवः
आप्तेन व्रतेन स्तुते सर्वमायुरेति य एवं वेद