०१
षड्विंशब्राह्मणम्
अथ प्रथमोऽध्यायः
ॐ ब्रह्म च वा इदमग्रे सुब्रह्म चास्ताम् ॥१॥ ततः सुब्रह्मण्योदक्रामत् ॥२॥ अथ ह देवा यज्ञेन ब्रह्म पर्य्यगृह्णत ॥३॥ अग्निर्वै ब्रह्माऽसावादित्यः सुब्रह्म ॥४॥ तद्देवा यज्ञस्य सन्धावन्वैच्छन् ॥५॥ एष वै यज्ञस्य सन्धिर्य्यत्रैष उत्करः ॥६॥ तस्मादत्करे तिष्ठन्त्सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति ॥७॥ सुब्रह्मण्योँ ३ सुब्रह्मण्योँ ३ सुब्रह्मण्यो ३ मिति स्त्रियमिव त्रिराह ॥८॥ त्रिषत्या वै देवाः॥९॥ इन्द्रागच्छेति ॥१०॥ यदाहेन्द्रागच्छेत्येतद्वा अस्य प्रत्यक्षं नाम तेनैवैनं तदाह्वयति ॥११॥ हरिव आगच्छेति ॥१२॥ पूर्व्यपक्षापरपक्षौ वा इन्द्रस्य हरी ताभ्याँ हीदँ सर्व्वँ हरति ॥१३॥ मेधातिथेर्मेषेति ॥१४॥ मेधातिथिँ ह काण्व्यायनम्मेषो भूत्वा जहार ॥१५॥ वृषणश्वस्य मेन इति ॥१६॥ वृषणश्वस्य ह मेनस्य मेनका नाम दुहिताऽऽस ताँ हेन्द्रश्चकमे ॥१७॥ गौरावस्कन्दिन्निति ॥१८॥ गौरमृगो ह स्म भूत्वावस्कन्द्यारण्याद्राजानं पिबति ॥१९॥ अहल्यायै जारेति ॥२०॥ अहल्याया ह मैत्रेय्या जार आस ॥२१॥ कौशिक ब्राह्मणेति ॥२२॥ कौशिको ह स्मैनां ब्राह्मण उपन्येति ॥२३॥ गौतम ब्रुवाणेति ॥२४॥ देवासुरा ह सँयत्ता आसँस्तानन्तरेण गोतमः शश्राम तमिन्द्र उपेत्योवाचेह नो भवाँस्पशश्चरत्वित नाहमुत्सह इत्यथाहं भवतो रूपेण चराणीति यथा मन्यस इति स यत्तद्गोतमो वा ब्रुवाणश्चचार गोतमरूपेण वा तदेतदाह गौतमेति ॥२५॥ इत्यहे सुत्यामागच्छ मघवन्निति ॥२६॥ तद्यथार्हतो ब्रूयादित्यहे वः पक्तास्मि तदागच्छतेत्येवमेवैतद्देवेभ्यः सुत्यां प्राह ॥२७॥ देवा ब्राह्मण इति ॥२८॥ देवा हैव देवा अथ हैते मनुष्यदेवा ये ब्राह्मणाः शुश्रुवाँसोऽनूचानास्ते मनुष्यदेवाः ॥२९॥ आहुतय एव (भागधेयं) देवानां दक्षिणा मनुष्यदेवानामाहुतिभिर्ह देवान् प्रीणाति दक्षिणाभिर्मनुष्यदेवाञ्छुश्रूषोऽनूचानान् ब्राह्मणान् प्रीणाति ॥३०॥ इति प्रथमः खण्डः ॥१/१॥
अथ यत्र सुब्रह्मण्यः सुब्रह्मण्यमाह्वयत्येतस्मिन्ह कालेऽसुररक्षाँसि देवानाँ यज्ञमजिघाँसन् ॥१॥ ते देवा निहवमेवाकुर्व्वत ब्रह्मोँ ३ सुब्रह्मो ३ मिति ॥२॥ तानादित्यः पर्ज्जन्यः पुरोबलाको भूत्वाऽभिप्रैत्तान्वृष्ट्याऽशन्या विद्युताऽहन् ॥३॥ तदाहुः स्त्री सुब्रह्मण्या३ पुमा३न्नपुंसका३ मिति ॥४॥ सर्व्वमेवेति ब्रूयात् ॥५॥ यत्पर्ज्जन्यः पुरोबलाको भूत्वाऽभिप्रैत्तेन पुमान्यद्वृष्ट्या यदशन्या तेन स्त्री यद्विद्युता तेन नपुँसकं तस्मात्सर्वमेवेति ब्रूयात् ॥६॥ तदाहुर्ऋक् सुब्रह्मण्या ३ यजू३ः सामा ३ इति सर्वमेवेति ब्रूयादृच इवास्या नामधेयँ सुब्रह्मण्येति तस्मादृङ्मन्त्र एव खल्वयं निगदभूतो भवति तस्माद्यजुः ॥७॥ सामकारिणः कुर्व्वन्ति यथाऽन्यैः सामभिस्तस्मात्साम तस्मात्सर्वमेवेति ब्रूयात् ॥८॥ तद्वा एतत्सुब्रह्मण्यामाहूय यजमानँ वाचयति रक्षसामपहत्यै ॥९॥ सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पाद इत्याह यान्येव पृथिव्यामसुररक्षाँसि तान्येव तेनापहते सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पाद इत्याह यान्येवान्तरिक्षेऽसुररक्षाँसि तान्येव तेनापहते सासि सुब्रह्मण्ये तस्यास्ते द्यौः पाद इत्याह यान्येव दिव्यसुररक्षाँसि तान्येव तेनापहते सासि सुब्रह्मण्ये तस्यास्ते दिशः पाद इत्याह यान्येव दिक्ष्वसुररक्षाँसि तान्येव तेनापहते परो रजास्ते पञ्चमः पाद इत्याह पराँ रजसो वै ब्रह्मणः स्थानं तदेतदाह सा न इषमूर्जं धुक्ष्वेत्याहैषमेवास्मा ऊर्ज्जं दुग्धे वीर्य्यमन्नाद्यं धेहीत्याह वीर्य्यमेवास्मा अन्नाद्यं दधाति ॥१०॥ ब्रह्म श्रीर्व्वै नामैतत्साम यत्सुब्रह्मण्या तस्मात्प्रातरनुवाक उपाकृते विसँस्थिते च यज्ञे सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति ॥११॥ एष वै ब्रह्म सुब्रह्म चाप्नोति य एतदनो युक्तँ सुब्रह्मण्याय ददाति ॥१२॥ ब्रह्मणा चैवास्य श्रिया च यज्ञँ समर्द्धयति य एवँ वेद ॥१३॥ अथो खल्वाहुर्य्यच्चाव गतँ यच्चानवगतँ सर्व्वस्यैषैव प्रायश्चित्तिरिति तस्मादेवँविदँ सुब्रह्मण्यं कुर्व्वीत नानेवँ विदम् ॥१४॥ इति द्वितीयः खण्डः ॥१/२॥
एकच्छन्दः प्रातस्सवनं तस्मादेकपात्पुरुषो हरत्यन्यं प्रत्यन्येन तिष्ठति ॥१॥ त्रिच्छन्दा माध्यन्दिनः पवमानस्तस्मात्त्रयोऽधः प्राणाः ॥२॥ द्वे गायत्र्याँ सामनी तस्माद्द्वयमधरेण प्राणेन करोति ॥३॥ द्वे बृहत्याँ सामनी तस्माद्वयमुत्तरेण ॥४॥ एकं त्रिष्टुभि साम तस्मादेकैव नाभिः ॥५॥ प्राणानामिव तु विधृतिः ॥६॥ अथ यदेव तत ऊर्ध्वं तानि पृष्ठानि ॥७॥ बार्हतान्येकगायत्रीकाणि तस्माद् बृहत्य एव पर्श(श)वो बृहत्य एव कीकसाः पृष्ठमभिसमायन्ति ॥८॥ अथ यदेव तत ऊर्ध्वँ स आर्भवः पवमानः ॥९॥ प्राणो गायत्री श्रोत्रे उष्णिक्ककुभौ वागनुष्टुप् चक्षुर्जगती ॥१०॥ पुष्टिर्य्यदन्यत् ॥११॥ द्वे गायत्र्याँ सामनी तस्माद्द्वयं प्राणेन करोति प्राणिति चापानिति चैकं छन्दः ककुबुष्णिहौ द्वे सामनी तस्मात्समानँ सच्छ्रोत्रं द्वेधैव श्रृणोति द्वे अनुष्टुभि सामनी तस्मादद्वयँ वाचा करोति सत्यं चानृतं च वदत्येकं जगत्याँ साम तस्मादद्वे अक्षिणी सती समानं पश्यतो न हि पश्चादायन्तं पश्यति ॥१२॥ अथ यदेव तत ऊर्ध्वं मूर्धा तद्यज्ञायज्ञीयम् ॥१३॥ मूर्धा स्वानां भवति य एवँ वेद ॥१४॥ अध इव वा अन्यान्यङ्गान्युपरीव मूर्धाऽध इवास्मा अन्ये स्वा भवन्त्युपरीव स्वानां भवति य एवँ वेद ॥१५॥ यज्ञो वा अथ जज्ञ इत्याहुरेष वाव जात एषोऽवलुप्त-जरायुरेष आर्त्विजीनो य एतँ वेदमनुब्रूते यदा वा एतँ वेदमनुब्रूतेऽथ हैनँ श्रृण्वन्त्यसावन्ववोचतेति तद्वै स जायते ॥१६॥ ऊनाक्षरा गायत्री प्रातस्सवने प्रजानां प्रजात्या ऊनादिव हि प्रजाः प्रजायन्ते ॥१७॥ ऊनाक्षरा गायत्र्यामहीयवे प्रजानां प्रजात्या ऊनादिव हि प्रजाः प्रजायन्ते ॥१८॥ ऊनाक्षरा गायत्री पृष्ठेषु वामदेव्ये यजमानलोक एव स मध्ये हि यज्ञस्य यजमानः ॥१९॥ ऊनाक्षरा गायत्री सँहिते प्राणापानयोरुच्चार ऊनादिव हि प्राणापानावुच्चरतः॥२०॥ ऊनाक्षरँ यज्ञायज्ञीयं प्राणानामुत्सृष्ट्यै ॥२१॥ यो हि पूर्णमुपधमेद्यदि प्रतीयाद्विपदेद्यदि न प्रतीयाद्विष्यन्देत ॥२२॥ तदाहुस्सवनानां च वा एत उदानाः प्राणानां चोत्सृष्टिरिति॥२३॥ इति तृतीयः खण्डः ॥१/३॥
अध्वर्य्यवित्याहोद्गाता मा स्म मेऽनिवेद्य होत्रे प्रातरनुवाकमुपाकरोरिति ॥१॥ सोऽध्वर्युः प्राह ॥२॥ स हूतो व्रजति स पूर्वया द्वारा हविर्धाने प्रपद्यते ॥३॥ स दक्षिणस्य हविर्धानस्योत्तरं चक्रमभ्यप श्रयमाण उदङ्ङासीनो विश्वरूपा गायति ॥४॥ क्षत्रँ वै स्तोत्रँ विट्शस्त्रं क्षत्रेणैवास्मै विशमनु वीर्य्यमनु वर्त्त्मानं करोत्यथो स्तुतशस्त्रयोरेव समारम्भायाव्यवसँस्राय सन्तत्यै ॥५॥ एतद्ध स्माह ग्लावो मैत्रेयः प्राह्णे वा अद्याहं पापवसीयसँ व्याकरिष्यामीति स ह स्म सदस्येवोपवसथ्येऽहन्युदासीनो विश्वरूपा गायति ॥६॥ तदुपवादोऽस्त्यध्वर्यो किँ स्तुतँ स्तत्रँ होता प्रातरनुवाकेनान्वशँसीदिति स ब्रूयादकार्षमहं तद्यन्मम कर्म होतारं पृच्छतेति होतः किं स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशँसीरिति स ब्रूयादकार्षमहं तद्यन्मम कर्म उद्गातारं पृच्छतेति उद्गातः किँ स्तुतँ स्तोत्रँ होता प्रातरनुवाकेनान्व शँसीदिति स ब्रूयादकार्षमहं तद्यन्मम कर्म्मागासिषं यद्गेयमिति ॥७॥ तं चेद्ब्रूयुस्तमो वै त्वमगासीर्न्द ज्योतिरिति ॥८॥ स ब्रूयाज्ज्योतिस्तेन येन ज्योतिः ज्योतिस्तेन येन ज्योतिस्तेन येन गायत्रीज्योतिस्तेन येन छन्दो ज्योतिस्तेन येन सामज्योतिस्तेन येन देवता ज्योतिरेवाहमगासिषं न तमो युष्माँस्तु पाप्मना तमसा विध्यानीत्याह पाप्मनेवैनाँस्तत्तमसा विध्यति ॥९॥ युञ्जे वाचँ शतपदीमित्याह वाग्वा व शतपद्यृक् शतपदी शतसनिमेव तदात्मानं च यजमानञ्च करोति ॥१०॥ गाये सहस्रवर्त्तनीति साम वै सहस्रवर्त्तनि सहस्रसनिमेव तदात्मानं च यजमानञ्च करोति ॥११॥ गायत्रं त्रैष्टपभं जगदिति गायत्रँ वै प्रातस्सवनं त्रैष्टुभं माध्यन्दिनँ सवनं जागतं तृतीयसवनँ सवनान्येव तद्यथास्थानं यथारूपं कल्पयति ॥१२॥ विश्वारूपाणि सम्भृतेति विश्वमेव तद्वित्तमात्मने च यजमानाय च सम्भरति ॥१३॥ देवा ओकाँसि चक्रिर इति ॥१४॥ ओको हास्मिन् यज्ञः कुरुते य एवँ वेद ॥१५॥ असितमृगा ह स्म वै पुरा कश्यपा उद्गायन्त्यथ ह युवानमनूचानं कुसुरुबिन्दमौद्दालकिं ब्राह्मणा उद्गीथाय वव्रे ते होचुः परि वै नोऽयमार्त्त्विज्यमादत्ते हन्तेममनुव्याहरामेति तं हानुव्याहरिष्यन्त उपनिषेदुः स होवाच ब्राह्मणा नमो वो अस्तु प्राह्णे वा अहँ यज्ञँ समस्थापयँ यथा तु वै ग्रामस्य यातस्य शीर्णँ वा भग्नँ वानु समावहेदेवँ वा अहँ यज्ञस्यातोऽधिकरिष्यामीति ते ह हिं कृत्योत्तस्थुः क इदमस्मा अवोचदिति ॥१६॥ इति चतुर्थः खण्डः ॥१/४॥
इन्द्रो ह वै विश्वामित्रायोक्थमुवाच वसिष्ठाय ब्रह्म वागुक्थमित्येव विश्वामित्राय मनो वाव ब्रह्म वसिष्ठाय ॥१॥ तद्वा एतद्वासिष्ठं ब्रह्म ॥२॥ अपि हैवँविदँ वा वासिष्ठँ वा ब्रह्माणं कुर्वीएठत ॥३॥ तद्यथोभयवर्तनिना रथेन याँ यां दिशं प्रार्थयते तां तामभि प्राप्नोत्येवमेतेनोभयवर्त्तनिना यज्ञेन यं कामं कामयते तमभ्यश्नुते ॥४॥ अथार्धभाग्वै मनः प्राणानां स यद् व्याहरति वाचि तन्मनः प्रतिष्ठापयति तद्यथैकवर्तनिना रथेन न काञ्चन दिशँ व्यश्नुते तादृगेतत् ॥५॥ यावदृचा यजुषा साम्ना कुर्य्युस्तावद्ब्रह्मा वाचँयमो बुभूषेत् ॥६॥ प्रजापतिर्व्वा इमाँस्त्रीन् वेदानसृजत त एनँ सृष्टा नाधिन्वन् तानभ्यपीडयत्तेभ्यो भूर्भुवः स्वरित्यक्षरत् । भूरित्यृग्भ्योऽक्षरत्सोऽयँ लोकोऽभवत् भुवरिति यजुर्भ्योऽक्षरत् सोऽन्तरिक्षलोकोऽभवत् स्वरिति सामभ्योऽक्षरत्स स्वर्ग्गो लोकोऽभवत् ॥७॥ तद्यद्यृक्त उल्बणं क्रियते गार्हपत्यं परेत्य भूः स्वाहेति जुहुयादयँ वै लोको गार्हपत्योऽयँ लोक ऋग्वेदस्तद्वा इमं च लोकमृग्वेदं च स्वेन रसेन समर्द्धयति ॥८॥ अथ यदि यजुष्ट उल्बणं क्रियेतान्वाहार्यपचनं परेत्य भुवः स्वाहेति जुहुयादन्तरिक्षलोको वा अन्वाहार्य्यपचनोऽन्तरिक्षलोको यजुर्व्वेदः तद्वा अन्तरिक्षलोकं च यजुर्वेदं च स्वेन रसेन समर्द्धयति ॥९॥ अथ यदि सामत उल्बणं क्रियेताहवनीयं परेत्य स्वः स्वाहेति जुहुयात्स्वर्गे९य वै लोक आहवनीयः स्वर्गोरी लोकः सामवेदस्तद्वै स्वर्गञ्च लोकँ सामवेदञ्च स्वेन रसेन समर्द्धयति ॥१०॥ अतो वाव यतमस्मिन्नेव । कतमस्मिँश्चोल्बणं क्रियेत सर्वेष्वेवानुपर्य्यायं जुहुयात्तथा हास्य यज्ञोऽस्कन्नः स्वगाकृतो भवतीति ॥११॥ अथ स्कन्नाद्वा भिन्नाद्वा त्रेधा यज्ञ उत्क्रामति देवान्दिवं तृतीयमन्तरिक्षमनुष्याँस्तृतीयं पृथिवीं पितॄँस्तृतीयम् ॥१२॥ तदभिमृशेद्देवान्दिवँ यज्ञोऽगात्ततो मा द्रविणमष्ट्वन्तरिक्षं मनुष्यान्यज्ञोऽगात्ततो मा द्रविणमष्टु पृथिवीं पितॄन् यज्ञोऽगात्ततो मा द्रविणमष्टु यत्र क्व च यज्ञोऽगात्ततो मा द्रविणमष्ट्विति तद्वा आत्मानं च यजमानञ्च स्वेन रसेन समर्द्धयति ॥१३॥ वरुणो वा एतद्विष्णौ यज्ञमुपार्प्मयति ॥१४॥ यद्यज्ञ उल्बणं क्रियते तदप उपनिनयेद्ययोरोजसा स्कभिता रजाँसि वीर्येभिर्व्वीरतमा शविष्ठा या पत्येते अप्रतीता सहोभिर्विष्णु अगन्वरुणा पूर्व्वहूतौ स्वाहेति तद्वा आत्मानं च यजमानञ्च स्वेन रसेन समर्द्धयति ॥१५॥ इति पञ्चमः खण्डः ॥१/५॥
ये विराजमतियजन्ते विराजमेव त ईप्सन्तोऽमुष्मिँल्लोके श्राम्यन्ति अथ य (एनामर्व्वाग्दभ्नुवन्ति) एनामर्वाक्स्तुवन्ति विराजमेव त ईप्सन्तोऽमुष्मिँल्लोके श्राम्यन्ति तेषां तथा श्राम्यताँ सुकृतं क्षीयते न हि तदमुष्मिँल्लोके शक्नुवन्ति यदस्माल्लोकादकृत्वा प्रयन्ति ॥१॥ एतद्ध स्मा होद्दालक आरुणिः कथं ते यजेरन् कथँ वा याजयेयुर्य्ये यज्ञस्य व्यृद्धेन न नन्दन्ति नन्दन्ति यत्समृद्धेनेति ॥२॥ अहँ वाव काले यजेयाहं काले याजयेयँ योऽहँ यज्ञस्य व्यृद्धेन न नन्दामि नन्दामि यत्समृद्धेनेति ॥३॥ अपि ह स्वादेव कामाद्यज्ञस्य व्यर्द्धयति भूयसी रूपाप्सीरुपाप्स्यामि भिषक्कृत्वा ॥४॥ एतद्ध स्म वै तद्विद्वानाह यावद्वा ऋचा होता करोति होतृष्वेव तावद्यज्ञः यावद्यजुषाध्वर्युरध्वर्य्युष्वेव तावत् यावत्साम्नोद्गातोद्गातृष्वेव । तावद्ब्रह्मण्येव तावद्यज्ञो यत्रोपरताः॥५॥ तस्मात्तस्मिन्नन्तर्धौ ब्रह्मा वाचँयमो बुभूषेत् ॥६॥ स यदि प्रमत्तो व्याहरेदेता वा व्याहृतीर्मनसानुद्रवेत् भूर्भुवः स्वरिति ॥७॥ वैष्णवीँ वर्च्चम् इदं विष्णुर्व्वि चक्रम इति ॥८॥ राज्ञो ह मितस्य मर्कटोँऽशूनादाय वृक्षमापुप्रुवे ॥९॥ स हारुणिराहुतिमुद्यत्योवाच पुनर्वैनान्निवप्स्यस्यतो वाव मृतोऽवपप्स्यस इति ॥१०॥ स होवाच किँ होष्यसीति ॥११॥ प्रायश्चित्तमिति ॥१२॥ किं प्रायश्चित्तमिति ॥१३॥ सर्व्वप्रायश्चित्तमिति ॥१४॥ किँ सर्व्वप्रायश्चित्तमिति ॥१५॥ महाव्याहृतिरेव मघवन्निति ॥१६॥ स होवाचोम् आरुणे यदाहुतिमनूचिषे कथं नु विदाञ्चकर्थ मर्क्कटोँशूनादत्तेति ॥१७॥ स होवाच यच्चावगतँ यच्चानवगतँ सर्वस्यैषैव प्रायश्चित्तिरिति ॥१८॥ तस्मादेतामेव जुहुयात् ॥१९॥ अपि वाज्ञातँ यदनाज्ञातँ यज्ञस्य क्रियते मिथ्वग्नेत् तदस्य कल्पय त्वँ हि वेत्थ यथायथँ स्वाहेति अपि वा प्राजापत्यां प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहेति तद्वा आत्मानञ्च यजमानञ्च स्वेन रसेन समर्द्धयति ॥२०॥ अथ यद्वै किञ्च यज्ञे मृन्मयं भिद्येत तदभिमृशेत् भूमिर्भूमिमगान्माता मातरमप्यगाद्भूयाम पुत्रैः पशुभिर्य्योऽस्मान् द्वेष्टि स भिद्यतामिति तद्वा आत्मानञ्च यजमानञ्च स्वेन रसेन समर्द्धयति ॥२१॥ इति षष्ठः खण्डः ॥१/६॥
घ्नन्तीव वा एतत्सोमँ राजानं प्रेव मीयते यदेनमभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यं चरुं तस्मात्पुरुषाय पुरुषायानुस्तरणी क्रियते ॥१॥ साध्यानाँ वै देवानां सत्रमासीनानाँ शर्करा अक्षसु जज्ञिरे ते हेन्द्रमुपनिषेदुः कथं नु तेषाँ शर्करा अक्षसु जायेरन् यास्त्वँ विद्या इति तेभ्य एतत्सौम्ये चरौ श्यावमाज्यं प्रयच्छत् तदवेक्षन्त ते प्रापश्यन् प्रपश्यत्यनन्धो भवति य एवँ विद्वान्त्सौम्यं चरुमवेक्षते ॥२॥ योऽलमन्नाद्याय सन्नथान्नं नाद्याद्दक्षिणार्धँ सदसो गत्वैतँ सौम्यातिशेषं प्राश्नीयाज्जनँ वा एतस्मादन्नाद्यं क्रामति योऽलमन्नाद्याय सन्नथान्नं नात्ति जनोऽस्मात्पितरो जन्येनैवान्नेनान्नमत्ति अन्नादो भवति ॥३॥ इति सप्तमः खण्डः ॥१/७॥
इति प्रथमोऽध्यायः
०२
अथ द्वितीयोऽध्यायः
प्रजापतिरकामयत बहुः स्यां प्रजायेयेति स एताँ रेतस्यामृचँ साम्ना प्रच्छन्नामगायत् यदृचमसाम्नीमगास्यदस्थ्यमाँसमजनिष्यत यत्सामानृचं माँसमनस्थिकमजनिष्यत ऋचँ साम्ना प्रच्छन्नां गायति तस्मात्पुरुषः प्रच्छन्नो माँसेन त्वचा लोम्ना जायते ॥१॥ त्रिरुद्गृह्णाति ॥२॥ त्रय इमे लोका एषाँ लोकानामवरुद्ध्यै त्रिभ्यश्च रेतः सिच्यते ॥३॥ न हिं कुर्यात् ॥४॥ वज्ज्रो वै हिङ्कारो बलमिव रेतो यद्धिंकुर्याद्वज्ज्रेण हिङ्कारेण रेतः सिक्तँ विच्छिन्द्यात् ॥५॥ रेतस्या छन्दसा प्राजापत्या देवतया सर्व्वमेतया ध्यायन् गायेत्सर्व्वँ हीदँ रेतः ॥६॥ द्वितीयां गायति ॥७॥ तस्या द्वे अक्षरे सशयनी व्यतिषजति मध्यमस्य च पादस्योत्तममुत्तमस्य च प्रथमम् ॥८॥ व्यतिषक्तौ प्राणापानौ प्रजा दधतः ॥९॥ गायत्री छन्दसाग्ग्नेयी देवतया पृथिवीमेतया ध्यायन्गायेत् ॥१०॥ तृतीयां गायति ॥११॥ तां बलवदिवोरसेव गायति ॥१२॥ तस्या द्वे उत्तमार्द्धेऽक्षरे द्योतयति ॥१३॥ चक्षुरेव तद्युनक्ति तस्माद्युक्तं चक्षुः ॥१४॥ त्रिष्टुप् छन्दसैन्द्रीदेवतयान्तरिक्षमेतया ध्यायन्गायेत् ॥१५॥ चतुर्थीं गायति ॥१६॥ तस्याश्चत्वारि चत्वार्य्यक्षराणि निक्रीडयन्निव गायत्या द्वादशेभ्योऽक्षरेभ्यः ॥१७॥ द्वादशाक्षरपदा जगती पशवो वै जगती पशुष्वेव प्रतितिष्ठति ॥१८॥ तस्याश्चत्वार्युत्तमार्धेऽक्षराणि द्योतयति॥१९॥ श्रोत्रमेव तद्युनक्ति तस्माद्युक्तँ श्रोत्रँ श्रोत्रे द्वे प्रतिश्रवणे द्वे तस्मात्पुरुषः सर्व्वादिशः श्रृणोति अपि पराङ् यन् प्रत्यङ् श्रृणोति ॥२०॥ जगती छन्दसा सौरीदेवतया दिवमेतया ध्यायन्गायेत् ॥२१॥ पञ्चमी गायति ॥२२॥ तां निनर्द्दन्निव गायति ॥२३॥ आह बहुतमात्पुरुषादन्नमत्ति अन्नादो भवति य एवँ वेद ॥२४॥ निरुक्तां चानिरुक्तां गायति ॥२५॥ निरुक्तेन वै वाचो भुञ्जतेऽनिरुक्तमस्या उपजीवन्ति भुङ्क्ते वाचमुपैनां जीवति य एवँ वेद ॥२६॥ अनुष्टुप् छन्दसा प्राजापत्या देवतया सर्व्वमेतया ध्यायन्गायेत्सर्व्वँ हीदं प्राजापत्यम् ॥२७॥ षष्ठीं गायति ॥२८॥ तस्या द्वे द्वे अक्षरे उदासं गायत्या षड्भ्योऽक्षरेभ्यः॥२९॥षड़ृतव ऋतुष्वेव प्रतितिष्ठति ॥३०॥ पङ्क्तिश्छन्दसा सौमीदेवतया दिश एतया ध्यायन् गायेत् ॥३१॥ इहेव च वा एष इहेव च मनसा गच्छति यो गायत्रे प्रातःसवने त्रिष्टुभं गायति जगतीं गायत्यनुष्टुभं गायति पङ्क्तिं गायत्यास्ते ॥३२॥ गायत्रे द्वे गायति ॥३३॥ प्राणमेव तदभ्येति प्राणो हि गायत्रं पन्थानमेव तदभ्येति पन्था हि गायत्रम्॥३४॥ रथन्तरवर्णामुत्तमां गायति ॥३५॥ इयँ वै रथन्तरमस्यामेव प्रतितिष्ठति ॥३६॥ इति प्रथमः खण्डः ॥२/१॥
बहिष्पवमाने धूर्गानम् – ता वा एता देवलोकाय युज्यन्ते यत्पराच्यः ॥१॥ प्रतीच्यो मनुष्यलोकाय ॥२॥ एष वाव जात एषोऽवलुप्तजरायुरेष आर्त्त्विजीनो यस्य धुरो गीयन्ते यश्चैवँ विद्वान धुरो गायति जातमेवैनमन्नाद्याय परिवृणक्ति उभावन्नमत्त उद्गाता च यजमानश्च ॥३॥ या प्रथमा तामन्नाद्यं ध्यायन् गायेत् ॥४॥ रेतस एव तत्सिक्तायान्नाद्यं प्रतिदधाति॥५॥ न हिं कुर्य्यात्॥६॥ यद्धिङ्कुर्याद्वज्ज्रेण हिङ्कारेण रेतस्सिक्तँ विच्छिन्द्यात् ॥७॥ रेतस्या छन्दो युज्यते मनो धीयते ॥८॥ या द्वितीया तां गायत्रीमागां गायँस्तस्या द्वे अक्षरे सशयनी व्यतिषजति मध्यमस्य च पदस्योत्तममुत्तमस्य च प्रथमँ व्यतिषक्तौ प्राणापानौ प्रजा दधतो गायत्रीछन्दो युज्यते प्राणापानौ धीयेते ॥९॥ या तृतीया तां त्रिष्टुभमागां गायँस्तस्या द्वे उत्तमार्धेऽक्षरे द्योतयति चक्षुरेव तद्युनक्ति तस्माद्विरूपं चक्षुः कृष्णमन्यच्छुक्लमन्यत्त्रिष्टुप्छन्दो युज्यते चक्षुषी धीयेते ॥१०॥ या चतुर्थी तां जगतीमागां गायँस्तस्याश्चत्वार्य्युत्तमार्धेऽक्षराणि द्योतयति श्रोत्रमेव तद्युनक्ति तस्माद्युक्तँ श्रोत्रँ श्रोत्रे द्वे प्रतिश्रवणे द्वे तस्मादपि पराङ् यन् प्रत्यङ् श्रृणोति जगतीछन्दो युज्यते श्रोत्रे धीयेते ॥११॥ या पञ्चमी तामनुष्टुभमागां गायँश्चतुर्धा व्यावृज्य गायेत् चतुर्धा वा इदं पुरुषो वीर्याय विकृतो जायते वीर्यायैवैनां तद्व्यावृज्य गायति उच्चावचामिव गायेदुच्चावचैव हि वाक् संक्ष्णुत्येव गायेत् संक्ष्णुत्येव हि वाचं पुरुषो वदत्यनुष्टुप्छन्दो युज्यते वाग्धीयते ॥१२॥ या षष्ठी तां पङ्क्तिमागां गायँस्तस्या द्वे द्वे अक्षरे उदासं गायत्याषड्भ्योऽक्षरेभ्यः षड़ृतव ऋतुष्वेव प्रतितिष्ठति पङ्क्तिश्छन्दो युज्यते समानोदानौ धीयेते ॥१३॥ सदिति प्रथमाया धुरो निधनँ रेतसो ह्यधि सज्जायते ॥१४॥ समिति द्वितीयायाः रेतसो ह्यधि सम्भवः ॥१५॥ स्वरिति तृतीयायाः प्रस्वर्ग्गँल्लोकं जानाति॥१६॥ इडेति चतुर्थ्याः पशवो वा इडा पशुष्वेव प्रतितिष्ठति ॥१७॥ वागिति पञ्चम्याः सर्व्वा अस्मिन्पुण्या वाचो वदन्ति ॥१८॥ य एवँ वेद ॥१९॥ या प्रथमा तामायच्छन्निव गायेदायत इव ह्ययमवाङ् प्राणः ॥२०॥ या द्वितीया तां घोषिणीमिव गायेद्घोषीव ह्ययमपानः॥२१॥ या तृतीया तामुद्यच्छन्निव गायेदुद्यत इव ह्ययं उदानः॥२२॥ या चतुर्थी तां निक्रीडयन्निव गायेन्निक्रीडित इव ह्ययँ व्यानः ॥२३॥ या पञ्चमी तां निरुक्तामनिरुक्तामिव गायेन्निरुक्तोऽनिरुक्त इव ह्ययं समानः॥२४॥ या षष्ठी तामुदासमिव गायेदुदस्त इव ह्ययमुदानो यच्छृङ्गम् ॥२५॥ रथन्तरवर्णामुत्तमां गायेदियँ वै रथन्तरमस्यामेव प्रतितिष्ठति॥२६॥ इति द्वितीयः खण्डः॥२/२॥
देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त ते देवाः प्रजापतिमुपाधावन् ॥१॥ तेभ्य एतान् धुरः प्राणान् प्रायच्छत् मनः प्रथममथ प्राणमथ चक्षुरथ श्रोत्रमथ वाचम् ॥२॥ ताभ्यः पञ्चभ्यो धूर्भ्यः पुरुषं च पशूँश्च निरमिमीत ॥३॥ तेन पुरुषेणासुरानधूर्व्वन् यदधूर्व्वँस्तद्धुरां धूस्त्वं धूर्व्वति पाप्मानं भ्रातृव्यं य एवं वेद ॥४॥ यो वै धुरां धूस्त्वँ वेद धुरा धुरा भ्रातृव्या द्वसीयान्भवति एतद्वै धुरां धूस्त्वँ यन्नाना वीर्य्या नानारूपा नानाछन्दस्या नानादेवत्याः समानँ हिं कारमभिसम्पद्यन्ते एतद्वै धुरां धूस्त्वं धुरा धुरा भ्रातृव्याद्वसीयान्भवति य एवँ वेद ॥५॥ यो वै धूर्षु महाव्रतँ वेद सर्व्वा अस्मिन् पुण्या वाचो वदन्ति ॥६॥ शिरो गायत्र्युरस्त्रिष्टुप् मध्यं जगती पादावनुष्टुप् सर्वा अस्मिन् पुण्या वाचो वदन्ति य एवँ वेद ॥७॥ यो वा एवं धुरो विद्वानथासां व्रतं चरत्यागमिष्यतोऽस्य पूर्वेद्युः पुण्या कीर्त्तिरागच्छति ॥८॥ सुरभिरेव गन्धो गायत्र्या व्रतं दर्शनीयं त्रिष्टुभः श्रवणीयं जगत्याः यदेव वाचा पुण्यँ वदति तदनुष्टुभस्तदु सर्व्वासाँ व्रतम् ॥९॥ तदु विद्वाँसमाहुरिति नोऽवादीरिति तदनादृत्यम् ॥१०॥ यस्य वै धुरो विगीतास्तस्य सङ्गीताः ॥११॥ यस्य वा एता बहिष्पवमाने विगीयान्तराज्येषु सङ्गायन्ति तस्य वै धुरो विगीतास्तस्य सङ्गीताः ॥१२॥ यः कामयेतैकधा यजमानँ यश ऋच्छेद्यथादिष्टं प्रजाः स्युरिति होतुराज्ये गायेदेकधा यजमानँ यश ऋच्छति यथादिष्टं प्रजा भवन्ति ॥१३॥ यः कामयेत कल्पेरन् प्रजा यथादिष्टँ यजमानः स्यादिति यथाज्यं गायेत्कल्पन्ते प्रजा यथादिष्टँ यजमानो भवति ॥१४॥ यो वा एवं धुरो वेदानपजय्यमात्मने च यजमानाय च लोकं जयत्यति यजमानमात्मानं मृत्युं परँ स्वर्ग्गँल्लोकँ हरति ॥१५॥ इति तृतीयः खण्डः ॥२/३॥
प्राञ्चमग्ग्निमुन्नयन्ति तस्मात् प्राङासीनो होतान्वाह प्राङासीनो यजति प्राङासीनः शँसति ॥१॥ असावादित्यः प्राङपाङ् सञ्चरति तस्मात् अध्वर्युः प्राङपाङ् सञ्चरति ॥२॥ अथैष चन्द्रमा दक्षिणेनैति तस्माद्ब्रह्माणं दक्षिणत आसयन्ति ॥३॥ अथैतस्यामुदीच्यां दिशि भूयिष्ठँ विद्योतते तस्मादेतां दिशमुद्गाता प्रत्युद्गायति ॥४॥ अथैष आकाशो मध्यतो भूतानां सन्नस्तस्मान्मध्ये सदस्यमासयन्ति ॥५॥ उच्चावचा वा आप उतेव गाधा भवन्त्युतेव गम्भीरास्तस्माद्धोत्राशँसिन उतेव पञ्चर्चेन कुर्व्वन्त्युतेव भूयसा ॥६॥ आदित्यस्यैव गतँ रश्मयोऽनुयन्ति तस्मादध्वर्य्योरेव गतं चमसाध्वर्य्िवोऽनुयन्ति ॥७॥ इति चतुर्थःखण्डः॥२/४॥
स प्रातस्सवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥ अग्ग्निर्म्मे होता समोपह्वयताँ होतरुपमाह्वयस्वेत्युच्चैः ॥२॥ आदित्यो मेऽध्वर्युः समोपह्वयतामध्वर्य्य उपमाह्वयस्वेत्युच्चैः ॥३॥ चन्द्रमा मे ब्रह्मा समोपह्वयतां ब्रह्मन्नुपमाह्वयस्वेत्युच्चैः॥४॥ पजन्यो म उद्गाता समोपह्वयतामुद्गातरुपमाह्वयस्वेत्युच्चैः॥५॥ आकाशो मे सदस्यः समोपह्वयताँ सदस्योपमाह्वयस्वेत्युच्चैः ॥६॥ आपो मे होत्राशँसिनस्तेमोपह्वयन्ताँ होत्राशँसिन उपमाह्वयध्वमित्युच्चैः ॥७॥ रश्मयो मे चमसाध्वर्य्यवस्तेमोपह्वयन्तां चमसाध्वर्य्यव उपमाह्वयध्वमित्युच्चैः॥८॥ ता वा एता देवता ऋत्विजामेव वाग्भिरुपह्वयन्ते ॥९॥ स उपहतो भक्षयति ॥१०॥ प्राणो यजमानोऽथो यत्रैतासां देवतानाँल्लोकस्तदुपहूतो भवति ॥११॥ इति पञ्चमः खण्डः॥२/५||
माध्यन्दिने सवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥ वाङ्मे होता स मोपह्वयताँ होतरुप माह्वयस्वेत्युच्चैः चक्षुर्म्मेऽध्वर्युः स मोपह्वयतामध्वर्य्य उप मा ह्वयस्वेत्युच्चैर्मनो मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुपमाह्वयस्वेत्युच्चैः श्रोत्रं म उद्गाता स मोपह्वयतामुद्गातरुप मा ह्वयस्वेत्युच्चैः ॥२॥ योऽयमन्तश्चक्षुष्याकाशः स मे सदस्यस्स मोपह्वयताँ सदस्योपमाह्वयस्वेत्युच्चैर्य्या इमा अन्तश्चक्षुष्यापस्ते मे होत्राशँसिनस्ते मोपाह्वयन्ताँ होत्राशँसिन उप मा ह्वयध्वमित्युच्चैरङ्गानि मे चमसाध्वर्य््व स्ते मोपह्वयन्तां चमसाध्वर्य्यव उप मा ह्वयध्वमित्युच्चैः ॥३॥ ता वा एता देवता ऋत्विजामेव वाग्भिरुपह्वयन्ते ॥४॥ स उपहूतो भक्षयति ॥५॥ अपानो यजमानोऽथो यत्रैतासां देवतानाँल्लोकस्तदुपहूतो भवति ॥६॥ इति षष्ठः खण्डः॥२/६॥
स तृतीयसवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥ प्राणो मे होता स मोपह्वयताँ होतरुप मा ह्वयस्वेत्युच्चैरपानो मेऽध्वर्युः स मोपह्वयतामध्वर्य्य उप मा ह्वयस्वेत्युच्चैर्व्व्यानो मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुप मा ह्वयस्वेत्युच्चैः समानो म उद्गाता स मोपह्वयतामुद्गातरुप मा ह्वयस्वेत्युच्चैः॥२॥ योऽयमन्तः पुरुष आकाशः स मे सदस्यः स मोपह्वयताँ सदस्योप मा ह्वयस्वेत्युच्चैर्य्या इमा अन्तः पुरुष आपस्ते मे होत्राशँसिनस्ते मोपह्वयन्ताँ होत्राशँसिन उप माह्वयध्वमित्युच्चैर्ल्लोमानि मे चमसाध्वर्य्यवस्ते मोपह्वयन्तां चमसाध्वर्यव उप माह्वयध्वमित्युच्चैः ॥३॥ ता वा एता देवता ऋत्विजामेव वाग्भिरुपह्वयन्ते ॥४॥ स उपहूतो भक्षयति ॥५॥ स उदानो यजमानोऽथो यत्रैतासां देवतानाँ ल्लोकस्तदुपहूतो भवति॥६॥सर्व्वेषां वै वषट्कर्ता चमसं भक्षयेत् ॥७॥ देवानाँ वा एतद्यज्ञस्य मुखँ यदुद्गातृचमसं तस्मादुद्गातृचमसं नान्यो भक्षयेत् ॥८॥ एवँविदुषो ह वै यज्ञो न व्यथते एवँविदुषो ह वै यजमानस्य स्वर्ग्ग्यं पुत्र्यं पशव्यमिष्टं भवति एवँ विद्वान् ह वै यजमानो द्विषन्तं भ्रातृव्यमभि भवति अथ वा अतो यज्ञे हीनं कुर्य्यात् ॥९॥ इति सप्तमः खण्डः॥२/७॥
इति द्वितीयोऽध्यायः ।
३
अथ तृतीयोऽध्यायः
यद्धोता जहाति वाग्घ तद्यजमानं जहाति स यत्तत्करोति स्वाँ वाचँ यजमाने दधाति स विष्वङ् वाचामुष्मिँल्लोके सम्भवति ॥१॥ यदध्वर्युर्जहाति चक्षुर्ह तद्यजमानं जहाति स यत्तत् करोति स्वं चक्षुर्य्यजमाने दधाति स विष्वङ्चक्षुषामुष्मिँल्लोके सम्भवति ॥२॥ यदब्रह्मा जहाति मनो ह तद्यजमानं जहाति स यत्तत् करोति स्वं मनो यजमाने दधाति स विष्वङ् मनसामुष्मिँल्लोके सम्भवति॥३॥ यदुद्गाता जहाति श्रोत्रँ ह तद्यजमानं जहाति स यत्तत्करोति स्वँ श्रोत्रँ यजमाने दधाति स विष्वङ् श्रोत्रेणामुष्मिँल्लोके सम्भवति ॥४॥ यत्सदस्यो जहात्यात्मा ह तद्यजमानं जहाति स यत्तत्करोति स्वमात्मानँ यजमाने दधाति स विष्वङ्ङात्मनामुष्मिँल्लोके सम्भवति ॥५॥ यद्धोत्राशँसिनो जहत्यङ्गानि ह तद्यजमानं जहति ते यत्तत्कुर्वन्ति स्वान्यङ्गानि यजमाने दधति ते विश्वञ्चोऽङ्गैरमुष्मिँल्लोके सम्भवन्ति ॥६॥ यच्चमसाध्वर्य्यवो जहति लोमानि ह तद्यजमानं जहति ते यत्तत्कुर्वन्ति स्वानि लोमानि यजमाने दधति ते विष्वञ्चो लोमभिरमुष्मिँल्लोके सम्भवन्ति॥७॥ तस्मादेवँ विद्यज्ञे हीनं न कुर्य्यात् ॥८॥ अथ वा अत ऋत्विजामेव विज्ञानम् ॥९॥ पशवो हाध्वर्य्युमनुकीर्तिर्होतारँ योगक्षेमो ब्रह्माणमात्मा च प्रजा चोद्गातारम्॥१०॥ इति प्रथमः खण्डः॥३/१॥
स यदि पशुतो व्याधीयेताध्वर्युर्म इदमकरिति विद्यादथ यद्येनं पापिका कीर्त्तिरनूदियाद्धोता म इदमकरिति विद्यादथ यद्यस्य योगक्षेमो व्यथेत ब्रह्मा म इदमकरिति विद्यादथ यद्यात्मना वा प्रजया वा व्याधीयेतोद्गाता म इदमकरिति विद्यात॥१॥ प्राणदेवत्यो वै ब्रह्मा वाग्देवत्या इतर ऋत्विजस्स यदि मन्येत ब्रह्मा स इदमकरिति हरितँ हिरण्यं दर्भानाड्या प्रबध्य स्रुच्यवधाय चतुर्गृहीतमाज्यं गृहीत्वा जुहुयान्नमः प्राणाय वाचस्पतये स्वाहेति यद्यु वा इतरे नमो वाचे प्राणपत्न्यै स्वाहेति यदीतरो यदिवेतरे सर्व्वेष्वेवानुपर्य्यायं जुहुयान्नमः प्राणाय वाचस्पतये स्वाहा नमो वाचे प्राणपत्न्यै स्वाहेति ॥२॥ अथ तद्धिरण्यं ब्रह्मणे दद्यात् ॥३॥ अथ यदाह यज्ञ वाव यज्ञस्य प्रायश्चित्तिरिति पुनर्य्यज्ञ एव स एते उ ह त्वेवाहुती यज्ञविभ्रष्टस्य प्रायश्चित्तिरिति॥४॥ इति द्वितीयः खण्डः॥३/२॥
ते वा ऋत्विजः स यजमानो दैवा वा अन्य ऋत्विजो मानुषा अन्ये यं दैवा याजयन्ति देवलोकमेव स तैरवरुन्धे न मनुष्यलोकमथ यं मानुषा याजयन्ति मनुष्यलोकमेव स तैरवरुन्धे न देवलोकमथ यमुभये याजयन्ति देवलोकं चैव स तैरवरुन्धे मनुष्यलोकं च ॥१॥ स एतान्दैवानृत्विजो वृणीताग्ग्निर्म्मे होतादित्यो मेऽध्वर्युश्चन्द्रमा मे ब्रह्मा पर्ज्जन्यो म उद्गाताकाशो मे सदस्य आपो मे होत्राशँसिनो रश्मयो मे चमसाध्वर्य्यवः ॥२॥ स एतान्दैवानृत्विजो वृत्वाथैतान् मानुषान् वृणीत य एनमभिराधयेयुः ॥३॥ अथ क्षत्रियं देवयजनँ याचेत् ॥४॥ स चेत्तस्मै दद्याद्देवयजनवान् भूया इत्येनं ब्रूयात् ॥५॥ न चेत्तस्मै दद्याद्यदहं देवयजनँ वेद तस्मिँस्त्वावृश्चानीत्येनं ब्रूयात्॥६॥ अग्ग्निर्वां व तद्देवयजनं भूमिर्व्वाव तद्देवयजनमापो वाव तद्देवयजनँ श्रद्धा वाव तद्देवयजनमेतेषु ह वा एनं देवयजनेष्वावृश्चत्यथो हार्त्तिमेवापौरुषेयीन्नेति ॥७॥ अथ तत एत्यर्त्त्विजो देवयजनँ याचेत् ॥८॥ अग्ग्निर्मेयी होता स मे देवयजनं ददातु होतर्द्देवयजनम्मे देहीत्युच्चैरादित्यो मेऽध्वर्य्युस्स मे देवयजनं ददात्वध्वर्य्यो देवयजनम्मे देहीत्युच्चैश्चन्द्रमा मे ब्रह्मा स मे देवयजनं ददातु ब्रह्मन् देवयजनम्मे देहीत्युच्चैः पर्ज्जन्यो म उद्गाता स मे देवयजनं ददातूद्गातर्द्देवयजनम्मे देहीत्युच्चैराकाशो मे सदस्यस्स मे देवयजनं ददातु सदस्य देवयजनम्मे देहीत्युच्चैरापो मे होत्राशँसिनस्ते मे देवयजनं ददतु होत्राशँसिनो देवयजनम्मे दत्तेत्युच्चैः रश्मयो मे चमसाध्वर्य्यवस्ते मे देवयजनं ददतु चमसाध्वर्य्यवो देवयजनम्मे दत्तेत्युच्चैः ॥९॥ ता वा एता देवता ऋत्विजामेव वाग्भिर्द्देवयजनं ददति स दत्ते यजते ॥१०॥ यदुन्नतं भूम्या अनूषरँ यत्र बहुला ओषधयश्चात्वालसारिण्यो यत्रापः स्युः ॥११॥ तस्य न पुरस्ताद्देवयजनमात्रमतिशिष्याद्यावाञ्छम्याप्रासः ॥१२॥ अवरपुरुषा हास्माच्छ्रेयाँसो भवन्ति यस्यैवमतिरेचयन्ति ॥१३॥ कामं दक्षिणत आगामुका हैनं दक्षिणा भवन्ति ॥१४॥ कामं पश्चादवरपुरुषा हास्माच्छ्रेयाँसो भवन्ति ॥१५॥ काममुत्तरत उत्तरा हैनं देवयज्योपनामुका भवत्युत्तरोत्तरणी हास्य श्रीर्भवति ॥१६॥ यस्य पुरस्तात् त्रीणि ज्योतीँषि दृश्येरन्नग्ग्निरापआदित्यस्तद्देवयजनं तत्त्रिशुक्रियम् ॥१७॥ पुरस्ताच्चित्रं देवयजनम् ॥१८॥ पश्चाच्चित्रँ श्मशानकरणम् ॥१९॥ प्रागुदक्प्रवणं देवयजनम् ॥२०॥ पश्चाद्दक्षिणाप्रवणँ श्मशानकरणम् ॥२१॥ यथा वै दक्षिणः पाणिरेवं देवयजनम् ॥२२॥ यथा सव्यस्तथा श्मशानकरणम् ॥२३॥ यथा श्मशानकरणं तथाभिचरणीयानां देवयजनम ॥२४॥ अप्यु हैक आहुर्यस्मिन्नेव कस्मिंश्चिद्देशे श्रद्दधानो यजत ऋध्नोत्येवेति ॥२५॥ इति तृतीयः खण्डः ॥३/३॥
यावान् यज्ञे रसो भवति तेनात एव प्राचीनं प्रचरन्त्यथैतद्यातयाम परिशिष्यतर्ज्जीषन्तन्नाह तस्मै यदवृथैवापास्येयुर्नो तस्मै यदग्ग्नावनु प्रहरेयुस्तेनाप एवाभ्यवयन्ति ॥१॥ आपो वै सर्व्वस्य शान्तिः प्रतिष्ठा ॥२॥ पाप्मानँ हैष हन्ति यो यजते तमिमं पाप्मानँ हतमपो हराणीति ॥३॥ तेनान्तरेण प्रतिपद्यन्ते चात्वालं चोत्करञ्च ॥४॥ एतद्वै देवानां तीर्थम् ॥५॥ तदेतदृषिराहात्मानं तीर्थं क इह प्रवोचद्येन देवाः पथा प्रपिबन्ते सुतस्येति ॥६॥ एतद्वै देवानां तीर्थमतीर्थँ ह्येव यज्ञस्यातोऽन्यत् ॥७॥ तस्मादेतेनैव प्रसृते प्रपद्येतैतेन विष्क्रामेत् ॥८॥ तान् प्रच्युतान् देवयजनादप्राप्तानप एतस्मिन्नवकाशे रक्षाँस्यजिघाँसन्त्स एतदग्ग्नी रक्षोहा सामापश्यत्तान्येतेनापाहत तान्यमुर्ह्यपहतानि सन्तीति देवा अकुर्व्वनित्येवैतद्रक्षाँस्यपसेधति ॥९॥ तस्याहावोऽहाव इति स्तोभान्त्स्तोभत्यहावोस्त्वहावोऽस्त्वित्येवैतद्रक्षाँस्यपसेधति ॥१०॥ अग्ग्निष्टपति प्रतिदहतीत्याह रक्षाँस्येव तत्प्रतिदहति ॥११॥ पादाय पादाय स्तोभा अनुवर्त्तन्ते रक्षसामपहत्यै ॥१२॥ विश्वँ समत्रिणं दह विश्वँ समत्रिणं दहेत्यत्रिणो वै रक्षाँसि पाप्मानोऽत्रिणोऽत्रिण एवैतद्रक्षाँसि पाप्मानमपसेधति ॥१३॥ तस्य त्रिर्निधनमाहुः ॥१४॥ यँ वै सुहतं घ्नन्ति न स पुनरुद्रिङ्क्ते यथाह पुनः पुनरादाय सुहतँ हन्यात्तादृगेतत् ॥१५॥ तद्वा अतिच्छन्दस्सु भवति ॥१६॥ वारणमिव वा एतच्छन्दो यदतिच्छन्दो वारणानीव रक्षाँस्यरण्यायतनानि तद्यथा स्वमरण्यमभयेनातिक्रामेत्तादृगेतत् ॥१७॥ तद्वै सप्तपदासु भवति ॥१८॥ सप्त वै छन्दाँसि चतुरुत्तराणि तद्यथा सर्वैश्छन्दोभिरभयेनातिक्रामेत्तादृगेतत् ॥१९॥ तस्य त्रिर्व्सचन एकविँशतिः पदानि त्रिः सामाह तच्चतुर्विँशतिः ॥२०॥ चतुर्व्विँशतिरर्धमासाः सँवत्सरस्सँवत्सरः साम ॥२१॥ तस्य ह वा एतस्य सँवत्सरस्य साम्नोऽहोरात्राणि हिङ्कारोऽर्धमासाः प्रस्तावो मासा आदिर्ऋतव उद्गीथः पौर्णमास्यः प्रतिहारोऽष्टका उपद्रवोऽमावास्या निधनम् ॥२२॥ तस्य ह वा एतस्य सँवत्सरस्य साम्नो वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम ॥२३॥तस्माद्धेमन्तं प्रजा निधनकृता इवासते निधनरूपमेवैतर्हि ॥२४॥ तदाहुः कां दिशमवभृथमभ्यवेयुरिति ॥२५॥ प्राञ्चोऽभ्यवेयुर्द्देवानाँ वा एषा दिग्यत्प्राची या देवानां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥२६॥ दक्षिणाभ्यवेयुः पाप्मानँ हैष हन्ति यो यजते तमिमं पाप्मानँ हतं दक्षिणाहराणीति पितॄणाँ वा एषा दिग्यद्दक्षिणा या पितॄणां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥२७॥ प्रत्यञ्चोऽभ्यवेयुर्मनुष्याणाँ वा एषा दिग्यत्प्रतीची या मनुष्याणां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥२८॥ उदञ्चोऽभ्यवेयुर्न्नक्षत्राणाँ वा एषा दिग्यदुदीची या नक्षत्राणां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥२९॥ अतो वाव यतमथैव कतमथा चापः स्युस्तदभ्यवेयुः ॥३०॥ यद्वै विद्वान्कर्म्म करोत्यस्मादिदमिति वसीयानेव तेन भवति ॥३१॥ तदाहुः स्रवन्तीष्वभ्यवेयू३ स्थावरासू३ इति ॥३२॥ स्रवन्तीष्वभ्यवेयुः पाप्मानँ हैष हन्ति यो यजते तमिमं पाप्मानँ हतमपः प्रवहतामिति॥३३॥ स्थावरा याः शीपल्यास्तास्वभ्यवेयुरितो मा यज्ञो विक्षुब्धः प्रत्युपतिष्ठाता इति ॥३४॥ अतो वाव यतरथैव कतरथा चापाः स्युस्तदभ्यवेयुः ॥३५॥ यद्वै विद्वान्कर्म्म करोत्यस्मादिदमिति वसीयानेव तेन भवति ॥३६॥ इति चतुर्थः खण्डः ॥३/४॥
एकस्यै हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति स मध्यमया पञ्चभ्यो हिङ्करोति स उत्तमया एकस्यै हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिरिषुस्त्रिवृतो विष्टुतिः ॥१॥ अभिचरन्त्स्तुवीत ॥२॥ अनीकं प्रथमा इषुर्धनुर्ज्ज्या यत्तिस्रस्सन्दधाति व्येव पञ्चभिः सृजते ॥३॥ स्तृणुते भ्रातृव्यँ वसीयानात्मना भवति य एतया स्तुते ॥४॥ इति पञ्चमः खण्डः ॥३/५॥
तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिः ॥१॥ अभिचरन्त्स्तुवीत ॥२॥ वज्ज्रो वै त्रिवृद्वज्ज्रस्त्रिणवो यत्त्रिवृत्त्रिणवाभ्यां पञ्चदशँ विदधाति वज्ज्रमेव तत्सम्यक् सन्दधाति ॥३॥ एवमिव वै वज्ज्रः साधुर्य्यदारम्भणतोऽणीयान् प्रहरणतः स्थवीयान्॥४॥ तेन पाप्मानं भ्रातृव्यँ स्तृणुते वसीयानात्मना भवति य एतया स्तुते ॥५॥ इति षष्ठः खण्डः॥३/६॥ ॥
एतयैवाभिचरन्त्स्तुवीत ॥१॥ वज्ज्रो वै त्रिवृद्वज्ज्रः पञ्चदशो वज्रस्त्रिणवो यत्त्रिवृत्पञ्चदशत्रिणवैः सप्तदशँ विदधाति वज्ज्रमेव तत्सम्यक् सन्दधाति ॥२॥ एवमिव वै वज्ज्रस्साधुर्य्यदारम्भणतोऽणीयान् प्रहरणतः स्थवीयान् ॥३॥ तेन पाप्मानं भ्रातृव्यँ स्तृणुते वसीयानात्मना भवति य एतया स्तुते ॥४॥ इति सप्तमः खण्डः ॥३/७॥
तिसृभ्यो हिङ्करोति स पराचीभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिरभिचरन्त्स्तुवीत ॥१॥ वज्ज्रो वै त्रिवृद्वज्ज्रस्त्रिणवो यत्त्रिवृत्त्रिणवाभ्यामेकविँशँ विदधाति वज्ज्रमेव तत्सम्यक् सन्दधाति ॥२॥ एवमिव वै वज्ज्रस्साधुर्य्यदारम्भणतोऽणीयान्प्रहरणतस्स्थवीयाँस्तेन पाप्मानं भ्रातृव्यँ स्तृणुते वसीयानात्मना भवति य एतया स्तुते ॥३॥ इत्यष्टमः खण्डः॥३/८॥
नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिरभिचरन्त्स्तुवीत ॥१॥ वज्ज्रो वै त्रिणवो वज्ज्रमेव तत्पराञ्चं प्रवर्त्तयति स्तृत्यै तेन पाप्मानं भ्रातृव्यँ स्तृणुते वसीयानात्मना भवति य एतया स्तुते ॥२॥ इति नवमः खण्डः ॥३/९॥
इति तृतीयोऽध्यायः
४
अथ चतुर्थोऽध्यायः
स्वरान्तः प्रथमस्त्रिरात्रो गायत्री ॥१॥ प्राणो वै गायत्री प्रजापतिः स्वरः प्रजापतिमेवाप्नोति ॥२॥ निधनान्तो द्वितीयस्त्रिष्टुप्॥३॥ वीर्य्यँ वै त्रिष्टुप्त्रैष्टुभः पुरुषः पुरुषमेवाप्नोति ॥४॥ इडान्तस्तृतीयो जगती ॥५॥ पशवो वा इडा पशवो जगती जागताः पशवः पशूनेवाप्नोति ॥६॥ प्रसृतच्छन्दाः प्रथमस्त्रिरात्रस्तेन सोऽयातयामा ॥७॥ अथोत्तरस्य च्छन्दांसि व्यूहन्ति त्रिष्टुभः प्रतिपदो भवन्ति त्रिष्टुभाँल्लोके जगत्यो जगतीनां गायत्र्यस्तेन सोऽयातयामा ॥८॥ अथोत्तमस्य च्छन्दाँसि व्येवोहन्ति जगत्यः प्रतिपदो भवन्ति जगतीनाँल्लोके त्रिष्टुभस्त्रिष्टुभां गायत्र्यस्तेनो एव सोऽयातयामा ॥९॥ अभि वा एता अन्योन्यस्यै लोकमभ्यध्यायन काममेवैनागमयत्याप्नोति तं कामँ यस्मै कामायैष आह्रियते ॥१०॥ तस्माद्युजौ न सदृग्वहतस्तस्माद्विपरिणीतौ वहीयाँसौ भवतस्तस्मादुभयतोदन्तः स्यदन्ते ॥११॥ तृचे वा अन्य ऋषयो विराजमपश्यन्वसिष्ठश्चतुर्ऋचे ॥१२॥ तेन स चतुर्ऋचो यस्तृचेऽन्यत्साम भवत्येकर्च्चेऽन्यद्यद्वाव चतसृष्वेकँ साम स एव चतुर्ऋचः ॥१३॥ साम भूयाँसं पोषं पुष्यति तमनु पोषं पोषुको भवति ॥१४॥ एतद्ध स्माह मुञ्जः सोमश्रवस एतँ ह वै वयँ साम्नः पोषं विद्येति तस्माद्वयमप्रतिगृह्णन्तो न सहस्रपोषाच्च्यवामहा इति ॥१५॥ तदु ह स्माह वासिष्ठश्चैकितानेयः साम हैव नूनं भूयाँसं पोषं पुष्यति तमनपोषं पोषको भवति विधवाया इव त्वे वै तज्जन्म यदसाम्नी चतुर्थ्येवं ह वा एते विदुरिति तस्मादेतेषाँ युवानः श्रोत्रियाः पुरायुषः प्रमायुका भवन्ति युवतयो जाया विधवा भवन्तीति यत्तृचेऽन्यत्साम भवत्येकर्चेऽन्यद्यद्वाव चतसृष्वेकँ साम स एव चतुर्ऋच इति ॥१६॥ पशुरतिरिच्यते स ऐन्द्राग्ग्न आलम्भ्यः ॥१७॥ इन्द्राग्ग्नी वै देवानामोजिष्ठौ ता उ अयातयामानौ तावेव तद्युनक्ति स्वर्गस्य लोकस्य समष्ट्यै ॥१८॥ सौर्य्यं ब्रह्मवर्चसकाम आलभेत ॥१९॥ एतस्याँ वा एकादशिन्यामादित्याः सूर्य्यमजनयत्स तेजो ब्रह्मवर्चसमवारुन्ध तेजस्वी ब्रह्मवर्चसी भवति य एवं वेद ॥२०॥ अथो खल्वाहुराग्ग्नेय एवालम्भ्य इत्यग्ग्निर्व्वै सर्व्वा देवतास्तेन न देवतानां कां चनान्तरेति ॥२१॥ इति प्रथमः खण्डः ॥४/१॥
अथैष श्येनः॥१॥ अभिचरन्यजेत ॥२॥ श्येनो वै वयसां क्षेपिष्ठो यथा श्येन आददीतैवमेवैनमेतेनादत्ते ॥३॥ त्रिवृतः पवमाना भवन्ति ॥४॥ त्रिवृद्वै स्तोमानां क्षेपिष्ठो यत्त्रिवृद्भवत्याशीयस्तृणवा इति ॥५॥ रथौ हविर्धाने भवतो रथवज्ज्रमेवास्मै तत्प्रवर्त्तयति स्तुत्यै ॥६॥ वषट्कारणिधनं भवति ॥७॥ एष वै वज्राणामोजिष्ठो यत्साम वज्ज्रो यं बहवो वषट् कुर्वन्ति तमेवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥८॥ उभे बृहद्रथन्तरे भवत उभाभ्यामेवास्मै बृहद्रथन्तराभ्याँ वज्ज्रं प्रहरति स्तृत्यै ॥९॥ पराचीषु रथन्तरं भवति ॥१०॥ पराञ्चमेवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥११॥ तस्य रथन्तरं पृष्ठं बृहत् ब्रह्मसामैष वै साम वज्ज्रस्तमेवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥१२॥ यं कामयेत क्षीयेतेति तस्य बृहत्पृष्ठं कुर्य्याद्रथन्तरं ब्रह्मसाम क्षत्रँ वै बृहत्पशवो रथन्तरं क्षत्रेणैवास्य पशून् हन्त्यपशुर्भवति क्षीयते ॥१३॥ यं कामयेत परां परावतमियान्न प्रतितिष्ठेदिति पवमाने रथन्तरं कुर्यात्बृहत्पृष्ठं प्लवं ब्रह्मसाम बृहद्रथन्तराभ्यामेवैनमेभ्यो लोकेभ्य उद्धृत्य प्लवेन प्रप्लावयति परां परावतमेति न प्रतितिष्ठति ॥१४॥ वार्षाहरे पवमानमुखे भवतः सफौपगवे नानदं क्रूराणि सामानि सम्भवन्ति स्तृत्यै ॥१५॥ तैल्वको वा बाधको वा यूप स्फ्याग्रः ॥१६॥ शवनभ्ये अधिषवणे ॥१७॥ अग्ग्नये रुद्रवते लोहितः पशुः॥१८॥ सादयन्त्युपाँश्वन्तर्यामौ॥१९॥ शरमयं बर्हिः शीर्त्यै ॥२०॥ वैभीतक इध्मो विभित्यै ॥२१॥ लोहितोष्णीषा लोहित वाससो निवीता ऋत्विजः प्रचरन्ति स्तृत्यै ॥२२॥ नव नव दक्षिणा भवन्ति ॥२३॥ नावयन्त्येवैनं तत् ॥२४॥ इति द्वितीयः खण्डः ॥४/२॥
त्रिवृदग्ग्निष्टोमः ॥१॥ तस्येषुँ विष्टुतिं कृत्वाभिचरन्यजेत ॥२॥ इषुवधो वै पुरायुषो भवति यदिषुँ विष्टुतिं करोति पुरैवैनामायुषः प्रवृश्चति ॥३॥ त्रिवृद्वै स्तोमानां क्षेपिष्ठो यत्त्रिवृद्भवत्याशीयस्तृणवा इति ॥४॥ वषट्कारणिधनं भवति ॥५॥ सप्तहं भवत्यासप्तमात्पुरुषादनायतनो भवति यमेतेनाभिचरन्ति ॥६॥ समानमितरच्छ्येनेन ॥७॥ इति तृतीयः खण्डः ॥४/३॥
अथैष सदँशः॥१॥ अभिचरन् यजेत ॥२॥ यद्वै दुरादानँ सदँशेन तदादत्ते ॥३॥ यद्द्वौ द्वौ स्तोमौ सह यथा ह दुरादानँ सदँशेनानुहायाददीतैवमेवैनमेतेनादत्ते ॥४॥ विवृतँ स्तोमँ सम्पद्यते बृहतीं छन्दो वज्ज्रो वै त्रिवत्पशवो बृहतीं वज्ज्रेणैवास्य पशून् हन्त्यपशुर्भवति ॥५॥ वैय्यश्वं भवति व्यश्वमेवैनं करोति ॥६॥ परिष्टुब्धेडं भवति पर्य्येवैनँ वृश्चति ॥७॥ वार्षाहरे पवमानमुखे भवतः काशीतौपगवे नानदं क्रूराणि सामानि सम्भवन्ति स्तृत्यै ॥८॥ निस्सप्तदशस्तेन क्रूरः ॥९॥ समानमितरच्छ्येनेन ॥१०॥ इति चतुर्थः खण्डः ॥४/४॥
अथैष वज्ज्रोऽभिचरन्यजेत वज्ज्रेणैवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥१॥ सर्व्वः पञ्चदशो भवति ॥२॥ वज्ज्रो वै पञ्चदशस्तमेवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥३॥ उक्थ्यः षोडशिमान्भवति॥४॥ पशवो वा उक्थानि वज्ज्रः षोडशी वज्जेणैवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥५॥ तस्य महानाम्न्यः षोडशिसाम भवति॥६॥ वज्ज्रो वै महानाम्न्यो वज्ज्रः षोडशी वज्जेणैवास्मै वज्ज्रं प्रहरति स्तृत्यै ॥७॥ समानमितरत्पूर्वेण ॥८॥ इति पञ्चमः खण्डः॥४/५॥
अतिरात्रश्चतुर्विँशं प्रायणीयमहरभिजित्त्रयस्स्वरसामानो दिवाकीर्त्यमहस्त्रयस्स्वर सामानो विश्वजिन्महाव्रतं चातिरात्रश्च ॥१॥ विश्वेदेवाः सत्रमासत सोमेन राज्ञा गृहपतिना तेऽब्रुवन्त्सोम एव नो राजा सर्व्वत्र विभवेदिति तस्मात्सोमो राजा सर्व्वाणि नक्षत्राण्युपैति सोमो हि रेतोधाः॥२॥ नवाहँ सँवत्सरस्य गर्भमुपयन्ति॥३॥नवाहो वै सँवत्सरस्य प्रतिमा नव प्राणाः प्राणानेवावरुन्धते ॥४॥ प्रजावन्तो जीवा ज्योतिरश्नुवते य एता उपयन्ति ॥५॥ इति षष्ठः खण्डः ॥४/६॥
इति चतुर्थोऽध्यायः
५
अथ पञ्चमोऽध्यायः
प्रजापतिस्तपोऽतप्यत तस्य ह वै तप्यमानस्य मनः प्राजायत देवान्त्सृजेयमिति त इमे देवा असृजन्त दिवा देवानसृजत नक्तमसुरान्यद्दिवा देवानसृजत तद्देवानां देवत्वं यदसूर्यं तदसुराणामसुरत्वं यत्पीतत्वं तत्पितॄणां पितृत्वम् ॥१॥ देवा वै स्वर्ग्गकामास्तपोऽतप्यन्त तेषां तप्यमानानाँ रसोऽजायत पृथिव्यन्तरिक्षं द्यौरिति तेऽभ्यतपँस्तेषां तप्यमानानां रसोऽजायत ऋग्वेदः पृथिव्या यजुर्व्वेदोऽन्तरिक्षात्सामवेदोऽमुष्मात्तेऽभ्यतपँस्तेषां तप्यमानानाँ रसोऽजायत ऋग्वेदाद्गार्हपत्यो यजुर्व्वेदाद्दक्षिणाग्ग्निस्सामवेदादाहवनीयस्तेऽभ्यतपँस्तेषां तप्यमानानां पुरुषोऽजायत सहस्रशीर्षाः सहस्राक्षः सहस्रपात् ॥२॥ ते देवाः प्रजापतिमुपाधावन्वेदशरीरैर्व्वा इदममृतशरीरं न ह वा इदं मृत्योस्समाप्स्यतेति तेऽब्रुवन् को नामासीति ॥३॥ स होवाच यज्ञो नामेति ॥४॥ तेषां प्रजापतिः सद्यो यज्ञसँस्थामुपैति सद्यो ह वा एष यज्ञसँस्थामुपैति ॥५॥ यद्गार्हपत्यं प्रादुष्करोति सा दीक्षणीया यद्दक्षिणग्ग्निं चाहवनीयं च सा प्रायणीया यत्समिधोऽभ्यादधाति ता उपसदः ॥६॥ अथ यस्याज्यमुत्पूतँ स्कन्दति सा वै स्कन्नानामाहुतिस्ततो वै यजमानः प्रमायुर्भवति वरो देयः सैव तस्य प्रायश्चित्तिः ॥७॥ अथ यस्याज्यमनुत्पूतँ स्कन्दत्यसौ वा अस्कन्नानामाहुतिस्ततो वै यजमानस्य चित्तं प्रमायुर्भवति चित्रं देयँ सैव तस्य प्रायश्चित्तिः ॥८॥ यद्गार्हपत्ये जुहोति तत्प्रातःसवनँ यद्दक्षिणाग्ग्नौ जुहोति तन्माध्यन्दिनँसवनँ यदाहवनीये जुहोति तत्तृतीयसवनम् ॥९॥ यन्मार्ज्जयते सोऽस्यावभृथः ॥१०॥ यदन्ना ददाति तेनोदयनीयस्योदवसानीयस्य समाप्त्यै ॥११॥ अथ यस्याग्निर्मथ्यमानो न जायेतान्यमाहृत्यान्यस्मिन्नवकाशे जुहुयात् ब्राह्मणस्य वा हस्तेऽजस्य वा कर्णे कुशस्तम्बे वाप्सु वा जुहुयात् ॥१२॥ अन्यैः शतहुताद्धोमादेकः शिष्यहुतो वरँ शिष्यैः शतहुताद्धोमादेकः पुत्रहुतो वरं पुत्रैः शतहुताद्धोमादेको ह्यात्महुतो वरम् ॥१३॥ स्वयँ होता स्वयं दोही स्वयमेवोपतिष्ठेताग्ग्निहोत्रम् ॥१४॥ हौम्यशेषं दक्षिणा ॥१५॥ सर्व्वैर्ह वा एतस्य यज्ञक्रतुभिरिष्टं भवति य एवं विद्वानग्ग्निहोत्रं जुहोति ॥१६॥ इति प्रथमः खण्डः ॥५/१॥
प्रजापतिर्व्वा एतत्सत्रँ सहस्रसँवत्सरमसृजत तेषां प्रजापतिः सहस्रसँवत्सरं गवामयनेऽवारुन्धद्गवामयनं द्वादशाहे द्वादशाहमतिरात्रेऽतिरात्रँ षोडशिनि षोडशिनमुक्थ्य उक्थ्यमग्ग्निष्टोमेऽग्ग्निष्टोममिष्टिपशुबन्धयोरिष्टिपशुबन्धावग्निहोत्रे सर्व्वैर्ह वा एतस्य यज्ञक्रतुभिरिष्टं भवति य एवँ विद्वानग्ग्निहोत्रं जुहोति ॥१॥ इति द्वितीयः खण्डः ॥५/२॥
प्रजापतिर्द्देवेभ्य औदुम्बरीमुच्छ्रयत्यसुषिरमूलामग्रन्थिं पृथुबुध्नामेकजाम् ॥१॥ यजमानमात्र्यौदुम्बरी भवति ॥२॥ अथ कुब्जवामना यजमाना ह्रस्वाश्चोर्ध्वबाहवः प्रच्छेदनं कुर्य्युः ॥३॥ कतिच्छदनौदुम्बरी भवति नवच्छदनाग्ग्निष्टोम साद्यस्क्रेष्वेकादश वैश्यस्तोमातिरात्रपौण्डरीकेषु सप्तदश वाजपेयाप्तोर्य्याम्णोरेकविँशत्यश्वमेधे अष्टाचत्वारिँशतं पुरुषमेधे अपरिमितँ सर्वमेधे ॥४॥ य एवँ वेद यदौदुम्बरीमुच्छ्रयत्यपचितिमेवाप्नोति ॥५॥ प्रजापतिरकामयतापचितिं प्राप्नवानीत्यूर्गुदुम्बर ऊर्ग्गन्नमन्नँ साम तस्मात्सामगेभ्योऽपचितिं करवाणीति य एवँ वित्त्वौदुम्बरीमुच्छ्रयत्यपचितिमेवाप्नोति ॥६॥ इति तृतीयः खण्डः ॥५/३॥
यूपं करोति सक्षीरँ स्थूलं मूले वालाग्रमनुरूपम् ॥१॥ वज्ज्रो वै यूपो वज्ज्रेणैवास्मै भ्रातृव्यं प्रहरति ॥२॥ अष्टाश्रीः करोति ॥३॥ दशदिशः परिगृह्णात्युभयतः पाङ्क्ते द्वे यूपे करोति ॥४॥ पञ्चदशसप्तदशैकविंशत्यरत्निँ वा ॥५॥ पालाशं पुष्टिकामस्य बैल्वं ब्रह्मवर्चसकामस्य औदुम्बरमन्नाद्यकामस्य खादिरं बलकामस्य वैभीतकराजवृक्षौ भ्रातृव्यवतः क्रमुकाश्वत्थपाषाणा यशस्कामस्य यत्किञ्च यज्ञियं पशुकामस्य ॥६॥ तत्र वर्ज्जनीया भवन्ति गडुलो व्रणिलो व्यावृत्तः कुठिः कुब्जः शूलो दग्धः शुष्कः सुषिरो घुणजग्ध इत्यप्रशस्ताः ॥७॥ अथ प्रशस्ताः शुद्धावर्त्ता अनुपूर्वसमाः प्रशस्ताः ॥८॥ यूपस्याश्रीदैवतान्यग्ग्निः पूर्व्वायाँ यमो दक्षिणायाँ वरुणः पश्चिमायाँ सोम उत्तरायाँ या विदिशस्तास्वादित्यरुद्रमरुद्वसवोऽपराजिताः पितरश्चाधरायाँ साध्याश्चोर्ध्वायाम् ॥९॥ सर्वदेवत्यो वै यूपो यूपो वै बहुरूपो वज्रीष भूत्वा देवानुपतिष्ठते ॥१०॥ ते देवाः प्रजापतिमुपाधावन्यूपेन प्रहरन्त्यारोपयन्त्या योधयन्ति च तद्यूपस्य यूपत्वम् ॥११॥ मूलमरत्निँ सत्वचं निखनेत् ॥१२॥ तस्य यन्नैखान्यं तत्पितॄणाँ यदूर्ध्वं तन्मनुष्याणाँ यत्तदधो रशनाया ओषधिवनस्पतीनाँ यदूर्ध्वँ रशनायास्तद्विश्वेषां देवानाम् ॥१३॥ आप्लावयन्त्यलङ्कुर्व्वन्त्यहतेन वसनेनाच्छादयन्ति चेति ॥१४॥ तद्गन्धर्वाप्सरसाम् ॥१५॥ इन्द्रस्य चषालँ यदूर्ध्वं चषालस्याङ्गुलमात्रं कार्यंचस तत्साध्यानां देवानाम् ॥१६॥ प्राचीँ सन्नमत्येतद्वै विष्णोः परमं पदम् ॥१७॥ तस्यर्त्तवः शरीरँ शिरः संवत्सरो वेदा रूपाणि सँवत्सर एव प्रतितिष्ठति य एवँ वेद ॥१८॥ इति चतुर्थः खण्डः॥५/४॥
ब्रह्मवादिनो वदन्ति कस्माद् ब्राह्मणः सायमासीन सन्ध्यामुपास्ते? कस्मात्प्रातस्तिष्ठन् ? का च सन्ध्या? कश्च सन्ध्यायाः कालः? किञ्च सन्ध्यायाः सन्ध्यात्वम् ? ॥१॥ देवाश्च वासुराश्चास्पर्धन्त तेऽसुरा आदित्यमभिद्रवत्स आदित्योऽबिभेत्तस्य हृदयं कूर्मरूपेणातिष्ठत् ॥२॥ स प्रजापतिमुपाधावत्तस्य प्रजापतिरेतद्भेषजमपश्यदृतं च सत्यं च ब्रह्म चोङ्कारं च त्रिपदां च गायत्रीं ब्रह्मणो मुखमपश्यत् ॥३॥ तस्माद् ब्राह्मणोऽहोरात्रस्य सँयोगे सन्ध्यामुपास्ते सज्ज्योति स्याज्ज्योतिषो दर्शनात्सोऽस्याः कालः सा सन्ध्या तत्सन्ध्यायाः सन्ध्यात्वँ यत्सायमासीनः सन्ध्यामुपास्ते तया वीरस्थानं जयत्यथ यदपः प्रयुङ्क्ते ता विप्रुषो वज्ज्री भवन्ति ता विप्रुषो वज्ज्री भूत्वासुरानपाघ्नन्ति ततो देवा अभवन्परासुरा भवत्यात्मना परास्य भ्रातृव्यो भवति य एवँ वेद यत्सायं च प्रातश्च सन्ध्यामुपास्ते तया वीरस्थानँ स्थानं च सन्ततमविच्छिन्नं भवति य एवँ वेद ॥४॥ इति पञ्चमः खण्डः ॥५/५॥
अथैषा चन्द्रमसः क्षयवृद्धिर्भवति यदा वै चन्द्रमाः क्षीयते चाप्यायते च तदनुव्याख्यास्यामः ॥१॥ पूर्वपक्षे वै देवा दीक्षन्ते तेऽपरपक्षे सोमं भक्षयन्ति तत्रेमानि त्रीणि पात्राण्युपधीयन्ते पृथिवी पात्रमन्तरिक्षं पात्रं द्यौः पात्रमिति तं देवा दिव्येन पात्रेणादित्याः प्रथमं पञ्चकलं पञ्चमीं भक्षयन्ति तेऽन्तरिक्षेण पात्रेण रुद्रा द्वितीयं पञ्चकलं दशमीं भक्षयन्ति ते पृथिव्या पात्रेण वसवस्तृतीयं पञ्चकलं पञ्चदशीं भक्षयन्ति षोडशी कलावशिष्यते षोडशकलो वै चन्द्रमाः स ओषधीश्च वनस्पतीँश्च गाश्च पशूँश्चादित्यं च ब्रह्म च ब्राह्मणाश्चानुप्रविशति तं देवा इन्द्रज्येष्ठाः सोमपाश्चासोमपाश्च यथा पितरं पितामहं प्रपितामहं वा वृद्धं प्रलयमुपगच्छमानँ व्याधिगतं मरिष्यतीति वा ताँ रात्रिँ वसन्ते तदमावास्याया अमावास्यात्वं तस्मादमावास्यायां नाध्येतव्यं भवति ॥२॥ अथ सम्भरणन्तमोषधिभ्यश्च वनस्पतिभ्यश्च गोभ्यश्च पशुभ्यश्चादित्याश्च ब्रह्मणश्च ब्राह्मणाः सन्नयन्ते तात्सान्नाय्यस्य सान्नाय्यत्वम् ॥३॥ चन्द्रमा वै धाता या पूर्व्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्व्वामावास्या सा सिनीवाली योत्तरा सा कुहूर्योऽनुपश्यत्यन्यं न पश्यति तन्मिथुनमेवास्य भवति ॥४॥ पुष्ये चानुमतिर्ज्ज्ञेया सिनीवाली तु द्वापरे खार्व्वायां तु भवेद्राका कृतपर्व्वे कुहूर्भवेत्॥५॥ न्यूने चानुमतिँ विद्याद्यस्मिन्दृश्येत सा सिनीवालीँ राकायान्तु सम्पूर्णश्चन्द्रस्तु कुहूर्न्न दृश्येत ॥६॥ इति षष्ठः खण्डः ॥५/६॥
स्वाहा वै कुतः सम्भूता? कस्य दुहिता? केन प्रकृता? किं गोत्रा? कत्यक्षरा? कतिपदा? कति मात्रा? कति वर्णा? कत्युच्छवासा? किञ्चास्याः शरीरं? कान्यङ्गानि? कानि लोमानि? कति शिराँसि? कति वा चक्षूँषि? किमस्या आस्यं? किं प्रावृता? कौ बाहू? कौ पादौ? क्व च स्थिता? किमधिष्ठाना? कथं च स्वाहां प्रतिगृह्णासि? ब्रूहि स्वाहाया रूपं च दैवतं च ॥१॥ स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहिता ब्रह्मप्रकृता लातव्यसगोत्रा त्रीण्यक्षराण्येकं पदं त्रयोऽस्यै वर्णाः शुक्लः पद्मः सुवर्ण इति चत्वारोऽस्यै वेदाः शरीरँ षडङ्गान्यङ्गान्योषधिवनस्पतयो लोमानि द्वे चास्याः शिरसी एकँ शिरोऽमावास्या द्वितीयं पौर्णमासी चक्षुश्चन्द्रादित्यावाज्यभागौ हुतं दक्षिणा प्रावृता बृहद्रथन्तरमृग्यजुः सामगतिः सा स्वाहा सा स्वधा स वषट्कारः सैषा देवेषु वषट्कारभूता प्रयुज्यते पितृयज्ञेषु स्वधाभूता शकटीमुखीं पृथिवीमन्तरिक्षेण विपर्येति तस्या अग्ग्निर्दैवतं ब्राह्मणो रूपँ यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहेति ॥२॥ तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्चसेनेति ॥३॥ इति सप्तमः खण्डः ॥५/७॥
इति पञ्चमोऽध्यायः
६
अथ षष्ठोऽध्यायः (पञ्चमोऽध्यायः)
अथातोऽद्भुतानां कर्म्मणाँ शान्तिँ व्याख्यास्यामः ॥१॥ पलाशानाँ समिधामष्टसहस्रं जुहुयात् ॥२॥ ऐन्द्रयाम्य वारुणधानदाग्ग्नेयवायव्यसौम्यवैष्णवेत्यष्टौ ॥३॥ इन्द्रायेन्दो मरुत्वते, नाके सुपर्णमुप यत्पतन्तं, घृतवती भुवनानामभिश्रियाभित्यं देवं सवितारमोण्योरग्निंन दूतँ वृणीमहे, वात आ वातु भेषजँ, सोमँ राजानँ वरुणमिदँ विष्णुर्व्विचक्रम इति ॥४॥ एतानि सामप्रभृत्यष्टशतं जपित्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति ॥५॥ स्वस्तिदा विशस्पतिः, स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं, त्यमूषु वाजिनं देवजूतमायुर्विश्वायुश्शतं जीव शरदो वर्धमान इति ॥६॥ एतैः सम्भाराणामुपस्थानं कृत्वा स्वस्ति वाचयित्वा स्वस्ति हास्य भवति स्वस्ति हास्य भवति ॥७॥ इति प्रथमः खण्डः ॥६/१॥
देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त ते देवाः प्रजापतिमुपाधावँस्तेभ्य एतां दैवीँ शान्तिं प्रायच्छत् ॥१॥ ते ततः शान्तीका असुरानभ्यजयँस्ततो देवा अभवन परासुरा भवत्यात्मना परास्य भ्रातृव्यो भवति य एवँ वेद ॥२॥ अथ पूर्वाह्ण एव प्रातराहुतिँ हुत्वा दर्भाञ्छमीँ वीरणान्दधि सर्प्पिः सर्षपान् फलवतीमपामार्ग्गँ शिरीषमित्येतान्याहरेदाहारयेद्वा स्नातः प्रयतः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमल्लिख्याद्भिरभ्युक्ष्याग्ग्निमुपसमाधाय नित्यतन्त्रेणौदन कृसर यवागू रक्तपायस दधि क्षीर घृतपायस घृतमिति घृतोत्तराः पृथक् चरवः सर्व्वे सर्वेषाँ वा पायसः ॥३॥ इति द्वितीयः खण्डः ॥६/२॥
स प्राचीं दिशमन्वावर्त्तते ॥१॥ अथ यदास्य मणिमणिककुम्भ स्थालीदरणमायासो राजकुलविवादो वा यानच्छत्रशय्यासनावसथध्वजपताका गृहैकदेशप्रभञ्जनेषु गजवाजिमुख्या वाप्रमीयाः प्रमीयन्त इत्येवमादीनि तान्येतानि सर्वाणीन्द्रदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ इन्द्रायेन्दो मरुत्वत इति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोतीन्द्राय स्वाहा शचीपतये स्वाहा वज्रपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति तृतीयः खण्डः ॥६/३॥
स दक्षिणां दिशमन्वावर्त्तते ॥१॥ अथ यदास्य प्रजायां पशुषु शरीरे वारिष्टानि प्रादुर्भवन्ति व्याधयो वा अनेक विधा अतिस्वप्नमस्वप्नमतिभोजनमभोजनमालस्यव्रणमजीर्णनिद्राणीत्येवमादीनि तान्येतानि सर्व्वाणि यमदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ नाके सुपर्णमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्डपाणये स्वाहेश्वराय स्वाहा सर्व्वपापशमनाय स्वाहेति व्याहतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति चतुर्थः खण्डः॥६/४॥
स प्रतीचीं दिशमन्वावर्त्तते ॥१॥ अथ यदास्य क्षेत्रगृहसँस्थेषु धान्येष्वीतयः प्रादुर्भवन्तीतयो वानेकविधा आखुपतङ्गपिपीलकमध्वक भौमक शुकशरभकसौक्ष्मक इत्येवमादीनि तान्येतानि सर्व्वाणि वरुणदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ घृतवती इति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभि जुहोति वरुणाय स्वाहा अपां पतये स्वाहा पाशपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत्॥३॥ इति पञ्चमः खण्डः॥६/५॥
स उदीचीं दिशमन्वावर्त्तते ॥१॥ अथ यदास्य कनकरजतवर वस्त्रवज्ज्रवैडूर्य्यमुक्तामणिवियोगो भवत्यारम्भा वा विपद्यन्तेऽथवा अन्यानि क्रूराणि मित्राणि वा विरज्यन्तेऽरिष्टानि वा वयाँसि गृहमध्यासन्ते वाल्मीकभौमानि वा जायन्ते छत्राकँ वोपजायते मधूनि वा निलीयन्त इत्येवमादीनि तान्येतानि सर्व्वाणि वैश्रवण देवतान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ अभित्यं देवमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति वैश्रवणाय स्वाहा यक्षाधिपतये स्वाहा हिरण्यपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति षष्ठः खण्डः॥६/६॥
स पृथिवीमन्वावर्त्तते ॥१॥ अथ यदास्य पृथिवी तटति स्फुटति कूजति कम्पति ज्वलति रुदति धूमायत्यकस्मात्सलिलमुद्गिरति प्लवन्निमज्जति निमग्नमुत्प्लवत्यकाले च पुष्पफलमभिनिवर्त्तयतीत्यश्वतरीगर्भो जायते यदा मज्जति हस्तिनी भूकम्पो जायते प्रासादं भिनत्ति यत्र तत्र राजा विनश्यति गौर्गृहमारोहेद् ग्राममहिषीत्येवमादीनि तान्येतानि सर्व्वाण्यग्ग्निदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ अग्ग्निं दूतँ वृणीमह इति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोत्यग्ग्नये स्वाहा हविष्पतये स्वाहार्च्चिष्पाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति सप्तमः खण्डः॥६/७॥
सोऽन्तरिक्षमन्वावर्त्तते ॥१॥ अथ यदास्य विवाता वाता वाप्यन्तेऽभ्रेषु चापरूपाणि दृश्यन्ते खरकरभमन्थकङ्ककपोतोलूककाकगृध्रश्येन भासवायसगोमायुसँस्थान्युपरि पाँसुमाँसपेश्यस्थिरुधिरवर्षाणि प्रवर्त्तन्ते काकमिथुनानि दृश्यन्ते रात्रौ मणिधनुं पश्येच्छशका ग्रामं प्रविशन्ति वृक्षाः स्रवन्ति रुधिराण्याकाशे राजकुलँ वसन्तीत्येवमादीनि तान्येतानि सर्व्वाणि वायुदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ वात आवातु भेषजमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति वायवे स्वाहा महद्भूताधिपतये स्वाहा शीघ्रपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इत्यष्टमः खण्डः ॥६/८॥
स दिवमन्वावर्त्तते ॥१॥ अथ यदास्य तारावर्षाणि चोल्काः पतन्ति निपतन्ति धूमायन्ति दिशो दह्यन्ति केतवश्वोत्तिष्ठन्ति गवाँ श्रृङ्गेषु धूमो जायते गवाँ स्तनेषु रुधिरँ स्रवत्यत्यर्थँ हिमं निपततीत्येवमादीनि तान्येतानि सर्व्वाणि सोमदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ सोमँ राजानँ वरुणमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति सोमाय स्वाहा नक्षत्राधिपतये स्वाहा शीतपाणये स्वाहेश्वराय स्वाहा सर्व्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति नवमः खण्डः ॥६/९॥
स परं दिवमन्वावर्त्तते ॥१॥ अथ यदास्यायुक्तानि यानानि प्रवर्त्तन्ते देवतायतनानि कम्पन्ते दैवतप्रतिमा हसन्ति रुदन्ति गायन्ति नृत्यन्ति स्फुटन्ति स्विद्यन्त्युन्मीलन्ति निमीलन्ति प्रतिप्रयान्ति नद्यः कबन्धमादित्ये दृश्यते विजले च परिविष्यते केतुपताकच्छत्रवज्ज्रविषाणानि प्रज्वलन्त्यश्वानां च वालधीष्वङ्गाराः क्षरन्त्यहतानि मर्म्माणि कनिक्रदत इत्येवमादीनि तान्येतानि सर्व्वाणि विष्णुदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ इदँ विष्णुर्व्विचक्रम इति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति विष्णवे स्वाहा सर्व्वभूताधिपतये स्वाहा चक्रपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ खननाद्दहनादभिमर्शनाद्गोभिराक्रमणाच्च चतुर्भिः शुद्ध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥४॥ सम्भारान् प्रदक्षिणमानीय ब्राह्मणान् स्वस्ति वाच्य ॥५॥ एतैः सम्भारैर्य्यदुपस्पृष्टं तदभ्युक्षेत् शाम्यति हातः ॥६॥ ब्राह्मणभोजनँ हिरण्यं गौर्व्वासोऽश्वो भूमिर्द्दक्षिणा इति शाम्यति हातः शान्त्यर्थः शान्त्यर्थः ॥७॥ इति दशमः खण्डः ॥६/१०॥
सोऽधस्ताद्दिशमन्वावर्त्तते ॥१॥ अथ यदास्य गवां मानुषमहिष्यजाश्वोष्ट्राः प्रसूयन्ते हीनाङ्गान्यतिरिक्ताङ्गानि विकृतरूपाणि वा जायन्तेऽसम्भवानि सम्भवन्त्यचलानि चलन्तीत्येवमादीनि तान्येतानि सर्व्वाणि रुद्रदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ आ वो राजानमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति रुद्राय स्वाहा पशुपतये स्वाहा शूलपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इत्येकादशः खण्डः ॥६/११॥
स सर्व्वां दिशमन्वावर्त्तते ॥१॥ अथ यदास्य मानुषाणामतिधृतिमतिदुःखँ वा पर्व्वताः स्फुटन्ति निपतन्त्याकाशाद् भूमिः कम्पते महाद्रुमा उन्मूलन्त्यश्मानः प्लवन्ति तटाकानि प्रज्वलन्ति चतुष्पादं पञ्चपादँ वा भवन्तीत्येवमादीनि तान्येतानि सर्व्वाणि सूर्य्यदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ उदुत्यं जातवेदसमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति सूर्याय स्वाहा सर्वग्रहाधिपतये स्वाहा किरणपाणये स्वाहेश्वराय स्वाहा सर्व्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति द्वादशः खण्डः ॥६/१२॥
इति षष्ठोऽध्यायः
इति द्वितीयँ षड्विँशब्राह्मणम्