विश्वास-प्रस्तुतिः
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १ ॥
मूलम्
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १ ॥
शङ्करः
तद्धैतत् आत्मज्ञानं सोपकरणम् ‘ओमित्येतदक्षरम्’ इत्याद्यैः सहोपासनैः तद्वाचकेन ग्रन्थेन अष्टाध्यायीलक्षणेन सह ब्रह्मा हिरण्यगर्भः परमेश्वरो वा तद्द्वारेण प्रजापतये कश्यपाय उवाच ; असावपि मनवे स्वपुत्राय ; मनुः प्रजाभ्यः इत्येवं श्रुत्यर्थसम्प्रदायपरम्परयागतम् उपनिषद्विज्ञानम् अद्यापि विद्वत्सु अवगम्यते । यथेह षष्ठाद्यध्यायत्रये प्रकाशिता आत्मविद्या सफला अवगम्यते, तथा कर्मणां न कश्चनार्थ इति प्राप्ते, तदानर्थक्यप्राप्तिपरिजिहीर्षया इदं कर्मणो विद्वद्भिरनुष्ठीयमानस्य विशिष्टफलवत्त्वेन अर्थवत्त्वमुच्यते — आचार्यकुलाद्वेदमधीत्य सहार्थतः अध्ययनं कृत्वा यथाविधानं यथास्मृत्युक्तैर्नियमैर्युक्तः सन् इत्यर्थः । सर्वस्यापि विधेः स्मृत्युक्तस्य उपकुर्वाणकं प्रति कर्तव्यत्वे गुरुशुश्रूषायाः प्राधान्यप्रदर्शनार्थमाह — गुरोः कर्म यत्कर्तव्यं तत्कृत्वा कर्मशून्यो योऽतिशिष्टः कालः तेन कालेन वेदमधीत्येत्यर्थः । एवं हि नियमवता अधीतो वेदः कर्मज्ञानफलप्राप्तये भवति, नान्यथेत्यभिप्रायः । अभिसमावृत्य धर्मजिज्ञासां समापयित्वा गुरुकुलान्निवृत्य न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्ये विहिते कर्मणि तिष्ठन् इत्यर्थः । तत्रापि गार्हस्थ्यविहितानां कर्मणां स्वाध्यायस्य प्राधान्यप्रदर्शनार्थमुच्यते — शुचौ विविक्ते अमेध्यादिरहिते देशे यथावदासीनः स्वाध्यायमधीयानः नैत्यकमधिकं च यथाशक्ति ऋगाद्यभ्यासं च कुर्वन् धार्मिकान्पुत्राञ्शिष्यांश्च धर्मयुक्तान्विदधत् धार्मिकत्वेन तान्नियमयन् आत्मनि स्वहृदये हार्दे ब्रह्मणि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य उपसंहृत्य इन्द्रियग्रहणात्कर्माणि च सन्न्यस्य अहिंसन् हिंसां परपीडामकुर्वन् सर्वभूतानि स्थावरजङ्गमानि भूतान्यपीडयन् इत्यर्थः । भिक्षानिमित्तमटनादिनापि परपीडा स्यादित्यत आह — अन्यत्र तीर्थेभ्यः । तीर्थं नाम शास्त्रानुज्ञाविषयः, ततोऽन्यत्रेत्यर्थः । सर्वाश्रमिणां च एतत्समानम् । तीर्थेभ्योऽन्यत्र अहिंसैवेत्यन्ये वर्णयन्ति । कुटुम्बे एवैतत्सर्वं कुर्वन् , स खल्वधिकृतः, यावदायुषं यावज्जीवम् एवं यथोक्तेन प्रकारेणैव वर्तयन् ब्रह्मलोकमभिसम्पद्यते देहान्ते । न च पुनरावर्तते शरीरग्रहणाय, पुनरावृत्तेः प्राप्तायाः प्रतिषेधात् । अर्चिरादिना मार्गेण कार्यब्रह्मलोकमभिसम्पद्य यावद्ब्रह्मलोकस्थितिः तावत्तत्रैव तिष्ठति प्राक्ततो नावर्तत इत्यर्थः । द्विरभ्यासः उपनिषद्विद्यापरिसमाप्त्यर्थः ॥
इति पञ्चदशखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये अष्टमोऽध्यायः समाप्तः ॥