विश्वास-प्रस्तुतिः
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्रं इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यभिसम्भवामीति ॥ १ ॥
मूलम्
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्रं इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यभिसम्भवामीति ॥ १ ॥
शङ्करः
श्यामात् शबलं प्रपद्ये इत्यादिमन्त्राम्नायः पावनः जपार्थश्च ध्यानार्थो वा । श्यामः गम्भीरो वर्णः श्याम इव श्यामः हार्दं ब्रह्म अत्यन्तदुरवगाह्यत्वात् तत् हार्दं ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छ्यामात् शबलं शबल इव शबलः अरण्याद्यनेककाममिश्रत्वाद्ब्रह्मलोकस्य शाबल्यं तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वा ऊर्ध्वं गच्छेयम् । यस्मादहं शबलाद्ब्रह्मलोकात् नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रपन्नोऽस्मीत्यभिप्रायः । अतः तमेव प्रकृतिस्वरूपमात्मानं शबलं प्रपद्य इत्यर्थः । कथं शबलं ब्रह्मलोकं प्रपद्ये इति, उच्यते — अश्व इव स्वानि लोमानि विधूय कम्पनेन श्रमं पांस्वादि च रोमतः अपनीय यथा निर्मलो भवति, एवं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माख्यं चन्द्र इव च राहुग्रस्तः तस्माद्राहोर्मुखात्प्रमुच्य भास्वरो भवति यथा — एवं धूत्वा प्रहाय शरीरं सर्वानर्थाश्रयम् इहैव ध्यानेन कृतात्मा कृतकृत्यः सन् अकृतं नित्यं ब्रह्मलोकम् अभिसम्भवामीति । द्विर्वचनं मन्त्रसमाप्त्यर्थम् ॥
इति त्रयोदशखण्डभाष्यम् ॥