विश्वास-प्रस्तुतिः
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवꣳ सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥
मूलम्

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एवꣳ सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥

शङ्करः
पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यादि व्याख्यातं वाक्यम् । अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्चरति स एषः सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति, एष आत्मेति ह उवाच एतदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रेतमेव । मघवान् तत्रापि दोषं ददर्श । कथम् ? नाह नैव सुषुप्तस्थोऽप्यात्मा खल्वयं सम्प्रति सम्यगिदानीं च आत्मानं जानाति नैवं जानाति । कथम् ? अयमहमस्मीति नो एवेमानि भूतानि चेति । यथा
जाग्रति स्वप्ने वा । अतो विनाशमेव विनाशमिवेति पूर्ववद्द्रष्टव्यम् । अपीतः अपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः । ज्ञाने हि सति ज्ञातुः सद्भावोऽवगम्यते, न असति ज्ञाने । न च सुषुप्तस्य ज्ञानं दृश्यते ; अतो विनष्ट इवेत्यभिप्रायः । न तु विनाशमेव आत्मनो मन्यते अमृताभयवचनस्य प्रामाण्यमिच्छन् ॥
विश्वास-प्रस्तुतिः
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतꣳ सम्पेदुरेतत्तद्यदाहुरेकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ३ ॥

पूर्ववदेवमेवेत्युक्त्वा आह — यो मया उक्तः त्रिभिः पर्यायैः तमेवैतं नो एवान्यत्रैतस्मादात्मनः अन्यं कञ्चन, किं तर्हि, एतमेव व्याख्यास्यामि । स्वल्पस्तु दोषस्तवावशिष्टः, तत्क्षपणाय वस अपराणि अन्यानि पञ्च वर्षाणि — इत्युक्तः सः तथा चकार । तस्मै मृदितकषायादिदोषाय स्थानत्रयदोषसम्बन्धरहितमात्मनः स्वरूपम् अपहतपाप्मत्वादिलक्षणं मघवते तस्मै ह उवाच । तान्येकशतं वर्षाणि सम्पेदुः सम्पन्नानि बभूवुः । यदाहुर्लोके शिष्टाः — एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास इति । तदेतद्द्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकातः अपसृत्य श्रुत्या उच्यते । एवं किल तदिन्द्रत्वादपि गुरुतरम् इन्द्रेणापि महता यत्नेन एकोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानम् । अतो नातः परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति ॥
इति एकादशखण्डभाष्यम् ॥