०९

विश्वास-प्रस्तुतिः

अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥

मूलम्

शङ्करः

अथ ह किल इन्द्रः अप्राप्यैव देवान् दैव्या अक्रौर्यादिसम्पदा युक्तत्वात् गुरोर्वचनं पुनः पुनः स्मरन्नेव गच्छन् एतद्वक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददर्श दृष्टवान् । उदशरावदृष्टान्तेन प्रजापतिना यदर्थो न्याय उक्तः, तदेकदेशो मघवतः प्रत्यभात् बुद्धौ, येन च्छायत्मग्रहणे दोषं ददर्श । कथम् ? यथैव खलु अयमस्मिञ्छरीरे साध्वलङ्कृते छायात्मापि साध्वलङ्कृतो भवति, सुवसने च सुवसनः परिष्कृते परिष्कृतः यथा नखलोमादिदेहावयवापगमे छायात्मापि परिष्कृतो भवति नखलोमादिरहितो भवति, एवमेवायं छायात्मापि अस्मिञ्छरीरे नखलोमादिभिर्देहावयवत्वस्य तुल्यत्वात् अन्धे चक्षुषोऽपगमे अन्धो भवति, स्रामे स्रामः । स्रामः किल एकनेत्रः तस्यान्धत्वेन गतत्वात् । चक्षुर्नासिका वा यस्य सदा स्रवति स स्रामः । परिवृक्णः छिन्नहस्तः छिन्नपादो वा । स्रामे परिवृक्णे वा देहे छायात्मापि तथा भवति । तथा अस्य देहस्य नाशमनु एष नश्यति । अतः नाहमत्र अस्मिंश्छायात्मदर्शने देहात्मदर्शने वा भोग्यं फलं पश्यामीति ॥

विश्वास-प्रस्तुतिः

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥

एवं दोषं देहच्छायात्मदर्शने अध्यवस्य स समित्पाणिः ब्रह्मचर्यं वस्तुं पुनरेयाय । तं ह प्रजापतिरुवाच — मघवन् यत् शान्तहृदयः प्राव्राजीः प्रगतवानसि विरोचनेन सार्धं किमिच्छन्पुनरागम इति । विजानन्नपि पुनः पप्रच्छ इन्द्राभिप्रायाभिव्यक्तये — ‘यद्वेत्थ तेन मोपसीद’ (छा. उ. ७ । १ । १) इति यद्वत् । तथा च स्वाभिप्रायं प्रकटमकरोत् — यथैव खल्वयमित्यादि ; एवमेवेति च अन्वमोदत प्रजापतिः ॥

ननु तुल्येऽक्षिपुरुषश्रवणे, देहच्छायाम् इन्द्रोऽग्रहीदात्मेति देहमेव तु विरोचनः, तत्किन्निमित्तम् ? तत्र मन्यते । यथा इन्द्रस्य उदशरावादिप्रजापतिवचनं स्मरतो देवानप्राप्तस्यैव आचार्योक्तबुद्ध्या छायात्मग्रहणं तत्र दोषदर्शनं च अभूत् , न तथा विरोचनस्य ; किं तर्हि, देहे एव आत्मदर्शनम् ; नापि तत्र दोषदर्शनं बभूव । तद्वदेव विद्याग्रहणसामर्थ्यप्रतिबन्धदोषाल्पत्वबहुत्वापेक्षम् इन्द्रविरोचनयोश्छायात्मदेहयोर्ग्रहणम् । इन्द्रोऽल्पदोषत्वात् ‘दृश्यते’ इति श्रुत्यर्थमेव श्रद्दधानतया जग्राह ; इतरः छायानिमित्तं देहं हित्वा श्रुत्यर्थं लक्षणया जग्राह — प्रजापतिनोक्तोऽयमिति, दोषभूयस्त्वात् । यथा किल नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्हमिति च्छायानिमित्तं वास एवोच्यते न च्छया — तद्वदिति विरोचनाभिप्रायः । स्वचित्तगुणदोषवशादेव हि शब्दार्थावधारणं तुल्येऽपि श्रवणे ख्यापितं ‘दाम्यत दत्त दयध्वम्’ इति दकारमात्रश्रवणाच्छ्रुत्यन्तरे । निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति ॥

विश्वास-प्रस्तुतिः

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ॥ ३ ॥

मूलम्

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ॥ ३ ॥

शङ्करः

एवमेवैष मघवन् , सम्यक्त्वया अवगतम् , न च्छाया आत्मा — इत्युवाच प्रजापतिः । यो मयोक्त आत्मा प्रकृतः, एतमेवात्मानं तु ते भूयः पूर्वं व्याख्यातमपि अनुव्याख्यास्यामि । यस्मात्सकृद्व्याख्यातं दोषरहितानामवधारणविषयं प्राप्तमपि नाग्रहीः, अतः केनचिद्दोषेण प्रतिबद्धग्रहणसामर्थ्यस्त्वम् । अतस्तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि — इत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै ह उवाच ॥

इति नवमखण्डभाष्यम् ॥