०८

शङ्करः

तथा च तयोर्विपरीतग्रहणनिवृत्त्यर्थं हि आह —

विश्वास-प्रस्तुतिः

उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति ॥ १ ॥

मूलम्

उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति ॥ १ ॥

शङ्करः

उदशरावे उदकपूर्णे शरावादौ आत्मानमवेक्ष्य अनन्तरं यत् तत्र आत्मानं पश्यन्तौ न विजानीथः तन्मे मम प्रब्रूतम् आचक्षीयाथाम् — इत्युक्तौ तौ ह तथैव उदशरावे अवेक्षाञ्चक्राते अवेक्षणं चक्रतुः । तथा कृतवन्तौ तौ ह प्रजापतिरुवाच — किं पश्यथः इति । ननु तन्मे प्रब्रूतम् इत्युक्ताभ्याम् उदशरावे अवेक्षणं कृत्वा प्रजापतये न निवेदितम् — इदमावाभ्यां न विदितमिति, अनिवेदिते च अज्ञानहेतौ ह प्रजापतिरुवाच — किं पश्यथ इति, तत्र कोऽभिप्राय इति ; उच्यते — नैव तयोः इदमावयोरविदितमित्याशङ्का अभूत् , छायात्मन्यात्मप्रत्ययो निश्चित एव आसीत् । येन वक्ष्यति ‘तौ ह शान्तहृदयौ प्रवव्रजतुः’ (छा. उ. ८ । ८ । ३) इति । न हि अनिश्चिते अभिप्रेतार्थे प्रशान्तहृदयत्वमुपपद्यते । तेन नोचतुः इदमावाभ्यामविदितमिति । विपरीतग्राहिणौ च शिष्यौ अनुपेक्षणीयौ इति स्वयमेव पप्रच्छ — किं पश्यथः इति ; विपरीतनिश्चयापनयाय च वक्ष्यति ‘साध्वलङ्कृतौ’ (छा. उ. ८ । ८ । २) इत्येवमादि । तौ ह ऊचतुः — सर्वमेवेदम् आवां भगवः आत्मानं पश्यावः आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैव आवां हे भगवः लोमनखादिमन्तौ स्वः, एवमेवेदं लोमनखादिसहितमावयोः प्रतिरूपमुदशरावे पश्याव इति ॥

विश्वास-प्रस्तुतिः

तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥

मूलम्

तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥

शङ्करः

तौ ह पुनः प्रजापतिरुवाच च्छायात्मनिश्चयापनयाय — साध्वलङ्कृतौ यथा स्वगृहे सुवसनौ महार्हवस्त्रपरिधानौ परिष्कृतौ च्छिन्नलोमनखौ च भूत्वा उदशरावे पुनरीक्षेथामिति । इह च न आदिदेश — यदज्ञातं तन्मे प्रब्रूतम् इति । कथं पुनरनेन साध्वलङ्कारादि कृत्वा उदशरावे अवेक्षणेन तयोश्छायात्मग्रहोऽपनीतः स्यात् ? साध्वलङ्कारसुवसनादी नामागन्तुकानां छायाकरत्वमुदशरावे यथा शरीरसम्बद्धानाम् , एवं शरीरस्यापि च्छायाकरत्वं पूर्वं बभूवेति गम्यते ; शरीरैकदेशानां च लोमनखादीनां नित्यत्वेन अभिप्रेतानामखण्डितानां छायाकरत्वं पूर्वमासीत् ; छिन्नेषु च नैव लोमनखादिच्छाया दृश्यते ; अतः लोमनखादिवच्छरीरस्याप्यागमापायित्वं सिद्धमिति उदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्य अनात्मत्वं सिद्धम् ; उदशरावादौ छायाकरत्वात् , देहसम्बद्धालङ्कारादिवत् । न केवलमेतावत् , एतेन यावत्किञ्चिदात्मीयत्वाभिमतं सुखदुःखरागद्वेषमोहादि च कादाचित्कत्वात् नखलोमादिवदनात्मेति प्रत्येतव्यम् । एवमशेषमिथ्याग्रहापनयनिमित्ते साध्वलङ्कारादिदृष्टान्ते प्रजापतिनोक्ते, श्रुत्वा तथा कृतवतोरपि च्छायात्मविपरीतग्रहो नापजगाम यस्मात् , तस्मात् स्वदोषेणैव केनचित्प्रतिबद्धविवेकविज्ञानौ इन्द्रविरोचनौ अभूतामिति गम्यते । तौ पूर्ववदेव दृढनिश्चयौ पप्रच्छ — किं पश्यथः इति ॥

विश्वास-प्रस्तुतिः

तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥

मूलम्

तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥

शङ्करः

तौ तथैव प्रतिपन्नौ, यथैवेदमिति पूर्ववत् , यथा साध्वलङ्कारादिविशिष्टौ आवां स्वः, एवमेवेमौ छायात्मानौ — इति सुतरां विपरीतनिश्चयौ बभूवतुः । यस्य आत्मनो लक्षणम् ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्युक्त्वा पुनस्तद्विशेषमन्विष्यमाणयोः ‘य एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ८ । ७ । ४) इति साक्षादात्मनि निर्दिष्टे, तद्विपरीतग्रहापनयाय उदशरावमसाध्वलङ्कारदृष्टान्तेऽप्यभिहिते, आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः । अतः स्वदोषेण केनचित्प्रतिबद्धविवेकविज्ञानसामर्थ्याविति मत्वा यथाभिप्रेतमेव आत्मानं मनसि निधाय एष आत्मेति ह उवाच एतदमृतमभयमेतद्ब्रह्मेति प्रजापतिः पूर्ववत् । न तु तदभिप्रेतमात्मानम् । ‘य आत्मा’ (छा. उ. ८ । ७ । १) इत्याद्यात्मलक्षणश्रवणेन अक्षिपुरुषश्रुत्या च उदशरावाद्युपपत्त्या च संस्कृतौ तावत् । मद्वचनं सर्वं पुनः पुनः स्मरतोः प्रतिबन्धक्षयाच्च स्वयमेव आत्मविषये विवेको भविष्यतीति मन्वानः पुनर्ब्रह्मचर्यादेशे च तयोश्चित्तदुःखोत्पत्तिं परिजिहीर्षन् कृतार्थबुद्धितया गच्छन्तावप्युपेक्षितवान्प्रजापतिः । तौ ह इन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धी इत्यर्थः ; न तु शम एव ; शमश्चेत् तयोर्जातः विपरीतग्रहो विगतोऽभविष्यत् ; प्रवव्रजतुः गतवन्तौ ॥

विश्वास-प्रस्तुतिः

तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥

मूलम्

तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥

शङ्करः

एवं तयोः गतयोः इन्द्रविरोचनयोः राज्ञोः भोगासक्तयोः यथोक्तविस्मरणं स्यात् इत्याशङ्क्य अप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहीर्षुः तौ दूरं गच्छन्तौ अन्वीक्ष्य य आत्मापहतपाप्मा इत्यादिवचनवत् एतदप्यनयोः श्रवणगोचरत्वमेष्यतीति मत्वा उवाच प्रजापतिः — अनुपलभ्य यथोक्तलक्षणमात्मानम् अननुविद्य स्वात्मप्रत्यक्षं च अकृत्वा विपरीतनिश्चयौ च भूत्वा इन्द्रविरोचनावेतौ व्रजतः गच्छेयाताम् । अतः यतरे देवा वा असुरा वा किं विशेषितेन, एतदुपनिषदः आभ्यां या गृहीता आत्मविद्या सेयमुपनिषत् येषां देवानामसुराणां वा, त एतदुपनिषदः एवंविज्ञानाः एतन्निश्चयाः भविष्यन्तीत्यर्थः । ते किम् ? पराभविष्यन्ति श्रेयोमार्गात्पराभूता बहिर्भूता विनष्टा भविष्यन्तीत्यर्थः । स्वगृहं गच्छतोः सुरासुरराजयोः योऽसुरराजः, स ह शान्तहृदय एव सन् विरोचनः असुराञ्जगाम । गत्वा च तेभ्योऽसुरेभ्यः शरीरात्मबुद्धिः योपनिषत् तामेतामुपनिषदं प्रोवाच उक्तवान् — देहमात्रमेव आत्मा पित्रोक्त इति । तस्मादात्मैव देहः इह लोके महय्यः पूजनीयः, तथा परिचर्यः परिचर्यणीयः, तथा आत्मानमेव इह लोके देहं महयन् परिचरंश्च उभौ लोकौ अवाप्नोति इमं च अमुं च । इहलोकपरलोकयोरेव सर्वे लोकाः कामाश्च अन्तर्भवन्तीति राज्ञोऽभिप्रायः ॥

विश्वास-प्रस्तुतिः

तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥

मूलम्

तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥

शङ्करः

तस्मात् तत्सम्प्रदायः अद्याप्यनुवर्तत इति इह लोके अददानं दानमकुर्वाणम् अविभागशीलम् अश्रद्दधानं सत्कार्येषु श्रद्धारहितं यथाशक्त्ययजमानम् अयजनस्वभावम् आहुः आसुरः खल्वयं यत एवंस्वभावः बत इति खिद्यमाना आहुः शिष्टाः । असुराणां हि यस्मात् अश्रद्दधानतादिलक्षणैषोपनिषत् । तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्धमाल्यान्नादिलक्षणया वसनेन वस्त्रादिनाच्छादनादिप्रकारेणालङ्कारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्ति । एतेन कुणपसंस्कारेण अमुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो मन्यन्ते ॥

इति अष्टमखण्डभाष्यम् ॥