०७

शङ्करः

‘अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतभयमेतद्ब्रह्म’ (छा. उ. ८ । ३ । ४) इत्युक्तम् । तत्र कोऽसौ सम्प्रसादः ? कथं वा तस्याधिगमः, यथा सोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ? येन स्वरूपेणाभिनिष्पद्यते सं किंलक्षण आत्मा ? सम्प्रसादस्य च देहसम्बन्धीनि पररूपाणि, ततो यदन्यत्कथं स्वरूपम् ? इति एतेऽर्था वक्तव्या इत्युत्तरो ग्रन्थ आरभ्यते । आख्यायिका तु विद्याग्रहणसम्प्रदानविधिप्रदर्शनार्था विद्यास्तुत्यर्था च — राजसेवितं पानीयमितिवत् ।

विश्वास-प्रस्तुतिः

य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥

मूलम्

य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥

शङ्करः

य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः, यस्योपासनाय उपलब्ध्यर्थं हृदयपुण्डरीकमभिहितम् , यस्मिन्कामाः समाहिताः सत्याः अनृतापिधानाः, यदुपासनसहभावि ब्रह्मचर्यं साधनमुक्तम् , उपासनफलभूतकामप्रतिपत्तये च मूर्धन्यया नाड्या गतिरभिहिता, सोऽन्वेष्टव्यः शास्त्राचार्योपदेशैर्ज्ञातव्यः स विशेषेण ज्ञातुमेष्टव्यः विजिज्ञासितव्यः स्वसंवेद्यतामापादयितव्यः । किं तस्यान्वेषणाद्विजिज्ञासनाच्च स्यादिति, उच्यते — स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् ; यः तमात्मानं यथोक्तेन प्रकारेण शास्त्राचार्योपदेशेन अन्विष्य विजानाति स्वसंवेद्यतामापादयति, तस्य एतत्सर्वलोककामावाप्तिः सर्वात्मता फलं भवतीति ह किल प्रजापतिरुवाच । अन्वेष्टव्यः विजिज्ञासितव्य इति च एष नियमविधिरेव, न अपूर्वविधिः । एवमन्वेष्टव्यो विजिज्ञासितव्य इत्यर्थः, दृष्टार्थत्वादन्वेषणविजिज्ञासनयोः । दृष्टार्थत्वं च दर्शयिष्यति ‘नाहमत्र भोग्यं पश्यामि’ (छा. उ. ८ । ९ । १), (छा. उ. ८ । १० । २), (छा. उ. ८ । ११ । २) इत्यनेन असकृत् । पररूपेण च देहादिधर्मैरवगम्यमानस्य आत्मनः स्वरूपाधिगमे विपरीताधिगमनिवृत्तिर्दृष्टं फलमिति नियमार्थतैव अस्य विधेर्युक्ता, न त्वग्निहोत्रादीनामिव अपूर्वविधित्वमिह सम्भवति ॥

विश्वास-प्रस्तुतिः

तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥

मूलम्

तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥

शङ्करः

तद्धोभये इत्याद्याख्यायिकाप्रयोजनमुक्तम् । तद्ध किल प्रजापतेर्वचनम् उभये देवासुराः देवाश्चासुराश्च देवासुराः अनु परम्परागतं स्वकर्णगोचरापन्नम् अनुबुबुधिरे अनुबुद्धवन्तः । ते च एतत्प्रजापतिवचो बुद्ध्वा किमकुर्वन्निति, उच्यते ते ह ऊचुः उक्तवन्तः अन्योन्यं देवाः स्वपरिषदि असुराश्च — हन्त यदि अनुमतिर्भवताम् , प्रजापतिनोक्तं तमात्मानमन्विच्छामः अन्वेषणं कुर्मः, यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इत्युक्त्वा इन्द्रः हैव राजैव स्वयं देवानाम् इतरान्देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रति अभिप्रवव्राज प्रगतवान् , तथा विरोचनः असुराणाम् । विनयेन गुरवः अभिगन्तव्या इत्येतद्दर्शयति, त्रैलोक्य राज्याच्च गुरुतरा विद्येति, यतः देवासुरराजौ महार्हभोगार्हौ सन्तौ तथा गुरुमभ्युपगतवन्तौ । तौ ह किल असंविदानावेव अन्योन्यं संविदमकुर्वाणौ विद्याफलं प्रति अन्योन्यमीर्ष्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजापतिसकाशमाजग्मतुः आगतवन्तौ ॥

विश्वास-प्रस्तुतिः

तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥

मूलम्

तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥

शङ्करः

तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यम् ऊषतुः उषितवन्तौ । अभिप्रायज्ञः प्रजापतिः तावुवाच — किमिच्छन्तौ किं प्रयोजनमभिप्रेत्य इच्छन्तौ अवास्तम् उषितवन्तौ युवामिति । इत्युक्तौ तौ ह ऊचतुः — य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टाः, अतः तमात्मानं ज्ञातुमिच्छन्तौ अवास्तमिति । यद्यपि प्राक्प्रजापतेः समीपागमनात् अन्योन्यमीर्ष्यायुक्तावभूताम् , तथापि विद्याप्राप्तिप्रयोजनगौरवात् त्यक्तरागद्वेषमोहेर्ष्यादिदोषावेव भूत्वा ऊषतुः ब्रह्मचर्यं प्रजापतौ । तेनेदं प्रख्यापितमात्मविद्यागौरवम् ॥

विश्वास-प्रस्तुतिः

तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥

मूलम्

तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥

शङ्करः

तौ एवं तपस्विनौ शुद्धकल्मषौ योग्यौ उपलक्ष्य प्रजापतिरुवाच ह — य एषोऽक्षिणि पुरुषः निवृत्तचक्षुर्भिर्मृदितकषायैः दृश्यते योगिभिर्द्रष्टा, एष आत्मापहतपाप्मादिगुणः, यमवोचं पुरा अहं यद्विज्ञानात्सर्वलोककामावाप्तिः एतदमृतं भूमाख्यम् अत एवाभयम् , अत एव ब्रह्म वृद्धतममिति । अथैतत्प्रजापतिनोक्तम् अक्षिणि पुरुषो दृश्यते इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः । गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ — अथ योऽयं हे भगवः अप्सु परिख्यायते परि समन्तात् ज्ञायते, यश्चायमादर्शे आत्मनः प्रतिबिम्बाकारः परिख्यायते खङ्गादौ च, कतम एष एषां भगवद्भिरुक्तः, किं वा एक एव सर्वेष्विति । एवं पृष्टः प्रजापतिरुवाच — एष उ एव यश्चक्षुषि द्रष्टा मयोक्त इति । एतन्मनसि कृत्वा एषु सर्वेष्वन्तेषु मध्येषु परिख्यायत इति ह उवाच ॥

ननु कथं युक्तं शिष्ययोर्विपरीतग्रहणमनुज्ञातुं प्रजापतेः विगतदोषस्य आचार्यस्य सतः ? सत्यमेवम् , नानुज्ञातम् । कथम् ? आत्मन्यध्यारोपितपाण्डित्यमहत्त्वबोद्धृत्वौ हि इन्द्रविरोचनौ, तथैव च प्रथितौ लोके ; तौ यदि प्रजापतिना ‘मूढौ युवां विपरीतग्राहिणौ’ इत्युक्तौ स्याताम् ; ततः तयोश्चित्ते दुःखं स्यात् ; तज्जनिताच्च चित्तावसादात् पुनःप्रश्नश्रवणग्रहणावधारणं प्रति उत्साहविघातः स्यात् ; अतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः । गृह्णीतां तावत् , तदुदशरावदृष्टान्तेन अपनेष्यामीति च । ननु न युक्तम् एष उ एव इत्यनृतं वक्तुम् । न च अनृतमुक्तम् । कथम् ? आत्मनोक्तः अक्षिपुरुषः मनसि सन्निहिततरः शिष्यगृहीताच्छायात्मनः ; सर्वेषां चाभ्यन्तरः ‘सर्वान्तरः’ (बृ. उ. ३ । ५ । १) इति श्रुतेः ; तमेवावोचत् एष उ एव इति ; अतो नानृतमुक्तं प्रजापतिना ॥

इति सप्तमखण्डभाष्यम् ॥