०६

शङ्करः

यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्यादिसाधनसम्पन्नः त्यक्तबाह्यविषयानृततृष्णः सन् उपास्ते, तस्येयं मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते —

विश्वास-प्रस्तुतिः

अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥

मूलम्

अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥

शङ्करः

अथ या एताः वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्यः नाड्यः हृदयमांसपिण्डात्सर्वतो विनिःसृताः आदित्यमण्डलादिव रश्मयः, ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्य अणिम्नः सूक्ष्मरसस्य रसेन पूर्णाः तदाकारा एव तिष्टन्ति वर्तन्त इत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्र अध्याहार्यम् । सौरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेन अल्पेन सम्पर्कात् पिङ्गलं भवति सौरं तेजः पित्ताख्यम् । तदेव च वातभूयस्त्वात् नीलं भवति । तदेव च कफभूयस्त्वात् शुक्लम् । कफेन समतायां पीतम् । शोणितबाहुल्येन लोहितम् । वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः कथं भवन्तीति । श्रुतिस्त्वाह — आदित्यसम्बन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषा इति । कथम् ? असौ वा आदित्यः पिङ्गलो वर्णतः, एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव ॥

विश्वास-प्रस्तुतिः

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥

मूलम्

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥

शङ्करः

तस्याध्यात्मं नाडीभिः कथं सम्बन्ध इति, अत्र दृष्टान्तमाह — तत् तत्र यथा लोके महान् विस्तीर्णः पन्था महापथः आततः व्याप्तः उभौ ग्रामौ गच्छति इमं च सन्निहितम् अमुं च विप्रकृष्टं दूरस्थम् , एवं यथा दृष्टान्तः महापथः उभौ ग्रामौ प्रविष्टः, एवमेवैताः आदित्यस्य रश्मयः उभौ लोकौ अमुं च आदित्यमण्डलम् इमं च पुरुषं गच्छन्ति उभयत्र प्रविष्टाः । यथा महापथः । कथम् ? अमुष्मादादित्यमण्डलात् प्रतायन्ते सन्तता भवन्ति । ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ताः गताः प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यः ते अमुष्मिन् । रश्मीनामुभयलिङ्गत्वात् ते इत्युच्यन्ते ॥

तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ३ ॥

तत् तत्र एवं सति यत्र यस्मिन्काले एतत् स्वपनम् अयं जीवः सुप्तो भवति । स्वापस्य द्विप्रकारत्वाद्विशेषणं समस्त इति । उपसंहृतसर्वकरणवृत्तिरित्येतत् । अतः बाह्यविषयसम्पर्कजनितकालुष्याभावात् सम्यक् प्रसन्नः सम्प्रसन्नो भवति । अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति नानुभवतीत्यर्थः । यदैवं सुप्तो भवति, आसु सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टः, नाडीभिर्द्वारभूताभिः हृदयाकाशं गतो भवतीत्यर्थः । न हि अन्यत्र सत्सम्पत्तेः स्वप्नादर्शनमस्तीति सामर्थ्यात् नाडीष्विति सप्तमी तृतीयया परिणम्यते । तं सता सम्पन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति, स्वरूपावस्थितत्वात् तदा आत्मनः । देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति, न तु सत्सम्पन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते, अविषयत्वात् । अन्यो हि अन्यस्य विषयो भवति, न त्वन्यत्वं केनचित्कुतश्चिदपि सत्सम्पन्नस्य । स्वरूपप्रच्यवनं तु आत्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोधः अविद्याकामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठे एव ; तदिहापि प्रत्येतव्यम् । यदैवं सुप्तः सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः सम्पन्नः व्याप्तः भवति । अतः विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगाय अप्रसृतानि करणानि अस्य तदा भवन्ति । तस्मादयं करणानां निरोधात् स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम् ॥

विश्वास-प्रस्तुतिः

अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥

मूलम्

अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥

शङ्करः

तत्र एवं सति, अथ यत्र यस्मिन्काले अबलिमानम् अबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशीभावम् एतत् नयनं नीतः प्रापितः देवदत्तो भवति मुमूर्षुर्यदा भवतीत्यर्थः । तमभितः सर्वतो वेष्टयित्वा आसीना ज्ञातयः आहुः — जानासि मां तव पुत्रं जानासि मां पितरं च इत्यादि । स मुमूर्षुः यावदस्माच्छरीरादनुत्क्रान्तः अनिर्गतः भवति तावत्पुत्रादीञ्जानाति ॥

विश्वास-प्रस्तुतिः

अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥

मूलम्

अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥

शङ्करः

अथ यत्र यदा, एतत्क्रियाविशेषणमिति, अस्माच्छरीरादुत्क्रामति, अथ तदा एतैरेव यथोक्ताभिः रश्मिभिः ऊर्ध्वमाक्रमते यथाकर्मजितं लोकं पॆति अविद्वान् । इतरस्तु विद्वान् यथोक्तसाधनसम्पन्नः स ओमिति ओङ्कारेण आत्मानं ध्यायन् यथापूर्वं वा ह एव, उद्वा ऊर्ध्वं वा विद्वांश्चेत् इतरस्तिर्यङ्वेत्यभिप्रायः । मीयते प्रमीयते गच्छतीत्यर्थः । स विद्वान् उत्क्रमिष्यन्यावत्क्षिप्येन्मनः यावता कालेन मनसः क्षेपः स्यात् , तावता कालेन आदित्यं गच्छति प्राप्नोति क्षिप्रं गच्छतीत्यर्थः, न तु तावतैव कालेनेति विवक्षितम् । किमर्थमादित्यं गच्छतीति, उच्यते — एतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं य आदित्यः ; तेन द्वारभूतेन ब्रह्मलोकं गच्छति विद्वान् । अतः विदुषां प्रपदनम् , प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् । निरोधनं निरोधः अस्मादादित्यादविदुषां भवतीति निरोधः, सौरेण तेजसा देहे एव निरुद्धाः सन्तः मूर्धन्यया नाड्या नोत्क्रमन्त एवेत्यर्थः, ‘विष्वङ्ङन्या’ (छा. उ. ८ । ६ । ६) इति श्लोकात् ॥

विश्वास-प्रस्तुतिः

तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका तयोर्ध्वमायन्नमृतत्वमेव विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ६ ॥

मूलम्

तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका तयोर्ध्वमायन्नमृतत्वमेव विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ६ ॥

शङ्करः

तत् तस्मिन् यथोक्तेऽर्थे एष श्लोको मन्त्रो भवति — शतं च एका एकोत्तरशतं नाड्यः हृदयस्य मांसपिण्डभूतस्य सम्बन्धिन्यः प्रधानतो भवन्ति, आनन्त्याद्देहनाडीनाम् । तासामेका मूर्धानमभिनिःसृता विनिर्गता । तयोर्ध्वमायन् गच्छन् अमृतत्वम् अमृतभावमेति । विष्वक् नानागतयः तिर्यग्विसर्पिण्य ऊर्ध्वगाश्च अन्या नाड्यः भवन्ति संसारगमनद्वारभूताः ; न त्वमृतत्वाय ; किं तर्हि, उत्क्रमणे एव उत्क्रान्त्यर्थमेव भवन्तीत्यर्थः । द्विरभ्यासः प्रकरणसमाप्त्यर्थः ॥

इति षष्ठखण्डभाष्यम् ॥