०४

विश्वास-प्रस्तुतिः

अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥

मूलम्

अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥

शङ्करः

अथ य आत्मेति । उक्तलक्षणो यः सम्प्रसादः, तस्य स्वरूपं वक्ष्यमाणैरुक्तैरनुक्तैश्च गुणैः पुनः स्तूयते, ब्रह्मचर्यसाधनसम्बन्धार्थम् । य एषः यथोक्तलक्षणः आत्मा, स सेतुरिव सेतुः । विधृतिः विधरणः । अनेन हि सर्वं जगद्वर्णाश्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुरनुरूपं विदधता विधृतम् । अध्रियमाणं हि ईश्वरेणेदं विश्वं विनश्येद्यतः, तस्मात्स सेतुः विधृतिः । किमर्थं स सेतुरिति, आह — एषां भूरादीनां लोकानां कर्तृकर्मफलाश्रयाणाम् असम्भेदाय अविदारणाय अविनाशायेत्येतत् । किंविशिष्टश्चासौ सेतुरिति, आह — नैतम् , सेतुमात्मानमहोरात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः । यथा अन्ये संसारिणः कालेन अहोरात्रादिलक्षणेन परिच्छेद्या, न तथा अयं काल परिच्छेद्य इत्यभिप्रायः, ‘यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते’ (छा. उ. ६ । ८ । ७) इति श्रुत्यन्तरात् । अत एव एनं न जरा तरति न प्राप्नोति । तथा न मृत्युः न शोकः न सुकृतं न दुष्कृतम् , सुकृतदुष्कृते धर्माधर्मौ । प्राप्तिरत्र तरणशब्देन अभिप्रेता, नातिक्रमणम् । कारणं हि आत्मा । न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण । अहोरात्रादि च सर्वं सतः कार्यम् । अन्येन हि अन्यस्य प्राप्तिः अतिक्रमणं वा क्रियेत, न तु तेनैव तस्य । न हि घटेन मृत्प्राप्यते अतिक्रम्यते वा । यद्यपि पूर्वम् ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादिना पाप्मादिप्रतिषेध उक्त एव, तथापिहायं विशेषः — न तरतीति प्राप्तिविषयत्वं प्रतिषिध्यते । तत्र अविशेषेण जराद्यभावमात्रमुक्तम् । अहोरात्राद्या उक्ता अनुक्ताश्च अन्ये सर्वे पाप्मानः उच्यन्ते ; अतः अस्मादात्मनः सेतोः निवर्तन्ते अप्राप्यैवेत्यर्थः । अपहतपाप्मा हि एष ब्रह्मैव लोकः ब्रह्मलोकः उक्तः ॥

विश्वास-प्रस्तुतिः

तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥

मूलम्

तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥

शङ्करः

यस्माच्च पाप्मकार्यमान्ध्यादि शरीरवतः स्यात् न त्वशरीरस्य, तस्माद्वा एतमात्मानं सेतुं तीर्त्वा प्राप्य अनन्धो भवति देहवत्त्वे पूर्वमन्धोऽपि सन् । तथा विद्धः सन् देहवत्त्वे स देहवियोगे सेतुं प्राप्य अविद्धो भवति । तथोपतापी रोगाद्युपतापवान्सन् अनुपतापी भवति । किञ्च यस्मादहोरात्रे न स्तः सेतौ, तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते ; विज्ञप्त्यात्मज्योतिःस्वरूपमहरिवाहः सदैकरूपं विदुषः सम्पद्यत इत्यर्थः । सकृद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेण एष ब्रह्मलोकः ॥

विश्वास-प्रस्तुतिः

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥

मूलम्

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥

शङ्करः

तत् तत्रैवं सति एवं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्त्रीविषयतृष्णात्यागेन शास्त्राचार्योपदेशमनुविन्दन्ति स्वात्मसंवेद्यतामापादयन्ति ये, तेषामेव ब्रह्मचर्यसाधनवतां ब्रह्मविदाम् एष ब्रह्मलोकः, नान्येषां स्त्रीविषयसम्पर्कजाततृष्णानां ब्रह्मविदामपीत्यर्थः । तेषां सर्वेषु लोकेषु कामचारो भवतीत्युक्तार्थम् । तस्मात्परमम् एतत्साधनं ब्रह्मचर्यं ब्रह्मविदामित्यभिप्रायः ॥

इति चतुर्थखण्डभाष्यम् ॥