०३

विश्वास-प्रस्तुतिः

त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥

मूलम्

त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥

शङ्करः

यथोक्तात्मध्यानसाधनानुष्ठानं प्रति साधकानामुत्साहजननार्थमनुक्रोशन्त्याह — कष्टमिदं खलु वर्तते, यत्स्वात्मस्थाः शक्यप्राप्या अपि त इमे सत्याः कामाः अनृतापिधानाः, तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं बाह्यविषयेषु स्त्र्यन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननिमित्तत्वादनृतमित्युच्यते । तन्निमित्तं सत्यानां कामानामप्राप्तिरिति अपिधानमिवापिधानम् । कथमनृतापिधाननिमित्तं तेषामलाभ इति, उच्यते — यो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वा इष्टः इतः अस्माल्लोकात् पॆति प्रगच्छति म्रियते, तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपि इह पुनर्दर्शनायेच्छन्नपि न लभते ॥

विश्वास-प्रस्तुतिः

अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥

मूलम्

अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥

शङ्करः

अथ पुनः ये च अस्य विदुषः जन्तोर्जीवाः जीवन्तीह पुत्राः भ्रात्रादयो वा, ये च प्रेताः मृताः इष्टाः सम्बन्धिनः, यच्चान्यदिह लोके वस्त्रान्नपानादि रत्नानि वा वस्त्विच्छन् न लभते, तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते । अत्र अस्मिन्हार्दाकाशे हि यस्मात् अस्य ते यथोक्ताः सत्याः कामाः वर्तन्ते अनृतापिधानाः । कथमिव तदन्याय्यमिति, उच्यते — तत् तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिः निधीयत इति निधिः तं हिरण्यनिधिं निहितं भूमेरधस्तान्निक्षिप्तम् अक्षेत्रज्ञाः निधिशास्त्रैर्निधिक्षेत्रमजानन्तः ते निधेः उपर्युपरि सञ्चरन्तोऽपि निधिं न विन्देयुः शक्यवेदनमपि, एवमेव इमाः अविद्यावत्यः सर्वा इमाः प्रजाः यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोकः ब्रह्मलोकः तम् अहरहः प्रत्यहं गच्छन्त्योऽपि सुषुप्तकाले न विन्दन्ति न लभन्ते — एषोऽहं ब्रह्मलोकभावमापन्नोऽस्म्यद्येति । अनृतेन हि यथोक्तेन हि यस्मात् प्रत्यूढाः हृताः, स्वरूपादविद्यादिदोषैर्बहिरपकृष्टा इत्यर्थः । अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्तमपि ब्रह्म न लभ्यते इत्यभिप्रायः ॥

विश्वास-प्रस्तुतिः

स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ३ ॥

मूलम्

स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ३ ॥

शङ्करः

स वै यः ‘आत्मापहतपाप्मा’ इति प्रकृतः, वै - शब्देन तं स्मारयति । एषः विवक्षित आत्मा हृदि हृदयपुण्डरीके आकाशशब्देनाभिहितः । तस्य एतस्य हृदयस्य एतदेव निरुक्तं निर्वचनम् , नान्यत् । हृदि अयमात्मा वर्तत इति यस्मात् , तस्माद्धृदयम् , हृदयनामनिर्वचनप्रसिद्ध्यापि स्वहृदये आत्मेत्यवगन्तव्यमित्यभिप्रायः । अहरहर्वै प्रत्यहम् एवंवित् हृदि अयमात्मेति जानन् स्वर्गं लोकं हार्दं ब्रह्म एति प्रतिपद्यते । ननु अनेवंविदपि सुषुप्तकाले हार्दं ब्रह्म प्रतिपद्यते एव, ‘सता सोम्य तदा सम्पन्नः’ (छा. उ. ६ । ८ । १) इत्युक्तत्वात् । बाढमेवम् , तथाप्यस्ति विशेषः — यथा जानन्नजानंश्च सर्वो जन्तुः सद्ब्रह्मैव, तथापि तत्त्वमसीति प्रतिबोधितः विद्वान् — सदेव नान्योऽस्मि — इति जानन् सदेव भवति ; एवमेव विद्वानविद्वांश्च सुषुप्ते यद्यपि सत्सम्पद्यते, तथाप्येवंविदेव स्वर्गं लोकमेतीत्युच्यते । देहपातेऽपि विद्याफलस्यावश्यम्भावित्वादित्येष विशेषः ॥

विश्वास-प्रस्तुतिः

अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥

मूलम्

अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥

शङ्करः

सुषुप्तकाले स्वेन आत्मना सता सम्पन्नः सन् सम्यक्प्रसीदतीति जाग्रत्स्वप्नयोर्विषयेन्द्रियसंयोगजातं कालुष्यं जहातीति सम्प्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणः, तथापि एवंवित् स्वर्गं लोकमेतीति प्रकृतत्वात् एष सम्प्रसाद इति सन्निहितवद्यत्नविशेषात् सः अथेदं शरीरं हित्वा अस्माच्छरीरात्समुत्थाय शरीरात्मभावनां परित्यज्येत्यर्थः । न तु आसनादिव समुत्थायेति इह युक्तम् , स्वेन रूपेणेति विशेषणात् — न हि अन्यत उत्थाय स्वरूपं सम्पत्तव्यम् । स्वरूपमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात् । परं परमात्मलक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसम्पद्य स्वास्थ्यमुपगम्येत्येतत् । स्वेन आत्मीयेन रूपेण अभिनिष्पद्यते, प्रागेतस्याः स्वरूपसम्पत्तेरविद्यया देहमेव अपरं रूपम् आत्मत्वेनोपगत इति तदपेक्षया इदमुच्यते — स्वेन रूपेणेति । अशरीरता हि आत्मनः स्वरूपम् । यत्स्वं परं ज्योतिः स्वरूपमापद्यते सम्प्रसादः, एष आत्मेति ह उवाच — स ब्रूयादिति यः श्रुत्या नियुक्तः अन्तेवासिभ्यः । किं च एतदमृतम् अविनाशि भूमा ‘यो वै भूमा तदमृतम्’ (छा. उ. ७ । २४ । १) इत्युक्तम् । अत एवाभयम् , भूम्नो द्वितीयाभावात् । अत एतद्ब्रह्मेति । तस्य ह वा एतस्य ब्रह्मणो नाम अभिधानम् । किं तत् ? सत्यमिति । सत्यं हि अवितथं ब्रह्म । ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । ७) इति हि उक्तम् । अथ किमर्थमिदं नाम पुनरुच्यते ? तदुपासनविधिस्तुत्यर्थम् ॥

विश्वास-प्रस्तुतिः

तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ५ ॥

मूलम्

तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ५ ॥

शङ्करः

तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि सतीयमिति, सकारस्तकारो यमिति च । ईकारस्तकारे उच्चारणार्थोऽनुबन्धः, ह्रस्वेनैवाक्षरेण पुनः प्रतिनिर्देशात् । तेषां तत् तत्र यत् सत् सकारः तदमृतं सद्ब्रह्म — अमृतवाचकत्वादमृत एव सकारस्तकारान्तो निर्दिष्ठः । अथ यत्ति तकारः तन्मर्त्यम् । अथ यत् यम् अक्षरम् , तेनाक्षरेणामृतमर्त्याख्ये पूर्वे उभे अक्षरे यच्छति नियमयति वशीकरोत्यात्मनेत्यर्थः । यत् यस्मात् अनेन यमित्येतेन उभे यच्छति, तस्मात् यम् । संयते इव हि एतेन यमा लक्ष्येते । ब्रह्मनामाक्षरस्यापि इदममृतत्वादिधर्मवत्त्वं महाभाग्यम् , किमुत नामवतः — इत्युपस्यत्वाय स्तूयते ब्रह्म नामनिर्वचनेन । एवं नामवतो वेत्ता एवंवित् । अहरहर्वा एवंवित्स्वर्गं लोकमेतीत्युक्तार्थम् ॥

इति तृतीयखण्डभाष्यम् ॥