विश्वास-प्रस्तुतिः
स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥
मूलम्

शङ्करः
कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते — य आत्मानं यथोक्तलक्षणं हृदि साक्षात्कृतवान् वक्ष्यमाणब्रह्मचर्यादिसाधनसम्पन्नः सन् तत्स्थांश्च सत्यान्कामान् ; स त्यक्तदेहः यदि पितृलोककामः पितरो जनयितारः त एव सुखहेतुत्वेन भोग्यत्वात् लोका उच्यन्ते, तेषु कामो यस्य तैः पितृभिः सम्बन्धेच्छा यस्य भवति, तस्य सङ्कल्पमात्रादेव पितरः समुत्तिष्ठन्ति आत्मसम्बन्धितामापद्यन्ते, विशुद्धसत्त्वतया सत्यसङ्कल्पत्वात् ईश्वरस्येव । तेन पितृलोकेन भोगेन सम्पन्नः सम्पत्तिः इष्टप्राप्तिः तया समृद्धः महीयते पूज्यते वर्धते वा महिमानमनुभवति ॥
विश्वास-प्रस्तुतिः
अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥

अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥

अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥

अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥

अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥

अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥

अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥

अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥

समानमन्यत् । मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात् । न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुद्धसत्त्वस्य योगिनः इच्छा तत्सम्बन्धो वा युक्तः ॥
विश्वास-प्रस्तुतिः
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥
मूलम्
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥
शङ्करः
यं यमन्तं प्रदेशमभिकामो भवति, यं च कामं कामयते यथोक्तव्यतिरेकेणापि, सः अस्यान्तः प्राप्तुमिष्टः कामश्च सङ्कल्पादेव समुत्तिष्ठत्यस्य । तेन इच्छाविघाततया अभिप्रेतार्थप्राप्त्या च सम्पन्नो महीयते इत्युक्तार्थम् ॥
इति द्वितीयखण्डभाष्यम् ॥