०१

शङ्करः

यद्यपि दिग्देशकालादिभेदशून्यं ब्रह्म ‘सत् . . . एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इति षष्ठसप्तमयोरधिगतम् , तथापि इह मन्दबुद्धीनां दिग्देशादिभेदवद्वस्त्विति एवम्भाविता बुद्धिः न शक्यते सहसा परमार्थाविषया कर्तुमिति, अनधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति, तदधिगमाय हृदयपुण्डरीकदेशः उपदेष्टव्यः । यद्यपि सत्सम्यक्प्रत्ययैकविषयं निर्गुणं च आत्मतत्त्वम् , तथापि मन्दबुद्धीनां गुणवत्त्वस्येष्टत्वात् सत्यकामादिगुणवत्त्वं च वक्तव्यम् । तथा यद्यपि ब्रह्मविदां स्त्र्यादिविषयेभ्यः स्वयमेवोपरमो भवति, तथाप्यानेकजन्मविषयसेवाभ्यासजनिता विषयविषया तृष्णा न सहसा निवर्तयितुं शक्यत इति ब्रह्मचर्यादिसाधनविशेषो विधातव्यः । तथा यद्यप्यात्मैकत्वविदां गन्तृगमनगन्तव्याभावादविद्यादिशेषस्थितिनिमित्तक्षये गगन इव विद्युदुद्भूत इव वायुः दग्धेन्धन इव अग्निः स्वात्मन्येव निवृत्तिः, तथापि गन्तृगमनादिवासितबुद्धीनां हृदयदेशगुणविशिष्टब्रह्मोपासकानां मूर्धन्यया नाड्या गतिर्वक्तव्येत्यष्टमः प्रपाठक आरभ्यते । दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसदद्वयं ब्रह्म मन्दबुद्धीनामसदिव प्रतिभाति । सन्मार्गस्थास्तावद्भवन्तु ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः —

विश्वास-प्रस्तुतिः

अथ यद् इदम् अस्मिन् ब्रह्म-पुरे +++(शरीराख्ये)+++
दहरं+++(=अल्पं)+++ पुण्डरीकं वेश्म +++(हृदयाख्यं)+++,
दहरो+++(=अल्पो)+++ ऽस्मिन्न् अन्तराकाशस् +++(←वक्ष्यमाणरीत्या ऽन्तर्यामिरूपम् ब्रह्म)+++
तस्मिन् यद् अन्तस् +++(←वक्ष्यमाणाः कामाः)+++ तद् अन्वेष्टव्यं
तद् वाव विजिज्ञासितव्यम् इति ॥ १ ॥

मूलम्

अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥

शङ्करः

अथ अनन्तरं यदिदं वक्ष्यमाणं दहरम् अल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्मेव वेश्म, द्वारपालादिमत्त्वात् । अस्मिन् ब्रह्मपुरे ब्रह्मणः परस्य पुरम् — राज्ञोऽनेकप्रकृतिमद्यथा पुरम् , तथेदमनेकेन्द्रियमनोबुद्धिभिः स्वाम्यर्थकारिभिर्युक्तमिति ब्रह्मपुरम् । पुरे च वेश्म राज्ञो यथा, तथा तस्मिन्ब्रह्मपुरे शरीरे दहरं वेश्म, ब्रह्मण उपलब्ध्यधिष्ठानमित्यर्थः । यथा विष्णोः सालग्रामः । अस्मिन्हि स्वविकारशुङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रह्म जीवेन आत्मनेत्युक्तम् । तस्मादस्मिन्हृदयपुण्डरीके वेश्मनि उपसंहृतकरणैर्ब्राह्मविषयविरक्तैः विशेषतो ब्रह्मचर्यसत्यसाधनाभ्यां युक्तैः वक्ष्यमाणगुणवद्ध्यायमानैः ब्रह्मोपलभ्यत इति प्रकरणार्थः । दहरः अल्पतरः अस्मिन्दहरे वेश्मनि वेश्मनः अल्पत्वात्तदन्तर्वर्तिनोऽल्पतरत्वं वेश्मनः । अन्तराकाशः आकाशाख्यं ब्रह्म । ‘आकाशो वै नाम’ (छा. उ. ८ । १४ । १) इति हि वक्ष्यति । आकाश इव अशरीरत्वात् सूक्ष्मत्वसर्वगतत्वसामान्याच्च । तस्मिन्नाकाशाख्ये यदन्तः मध्ये तदन्वेष्टव्यम् । तद्वाव तदेव च विशेषेण जिज्ञासितव्यं गुर्वाश्रयश्रवणाद्युपायैरन्विष्य च साक्षात्करणीयमित्यर्थः ॥

विश्वास-प्रस्तुतिः

तं चेद् ब्रूयुर्

यद् इदम् अस्मिन् ब्रह्म-पुरे
दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्न् अन्तराकाशः -
किं तदत्र विद्यते
यद् अन्वेष्टव्यं यद् वाव विजिज्ञासितव्यम्

इति, स ब्रूयात् ॥ २ ॥

मूलम्

तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥

शङ्करः

तं चेत् एवमुक्तवन्तमाचार्यं यदि ब्रूयुः अन्तेवासिनश्चोदयेयुः ; कथम् ? यदिदमस्मिन्ब्रह्मपुरे परिच्छिन्ने अन्तः दहरं पुण्डरीकं वेश्म, ततोऽप्यन्तः अल्पतर एव आकाशः । पुण्डरीक एव वेश्मनि तावत्किं स्यात् । किं ततोऽल्पतरे खे यद्भवेदित्याहुः । दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते, न किञ्चन विद्यत इत्यभिप्रायः । यदि नाम बदरमात्रं किमपि विद्यते, किं तस्यान्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासितुः स्यात् ? अतः यत्तत्रान्वेष्टव्यं विजिज्ञासितव्यं वा न तेन प्रयोजनमित्युक्तवतः स आचार्यो ब्रूयादिति श्रुतेर्वचनम् ॥

विश्वास-प्रस्तुतिः

यावान् वा अयम् आकाशस्
तावान् एषो ऽन्तर्-हृदय आकाश
+++(तेनानल्पः)+++
उभे अस्मिन् द्यावा-पृथिवी अन्तर् एव समाहिते
उभाव् अग्निश् च वायुश् च
सूर्या-चन्द्रमसाव् उभौ
विद्युन्-नक्षत्राणि
यच् चास्येहास्ति
यच् च नास्ति
सर्वं तद् अस्मिन् समाहितम्

इति ॥ ३ ॥

मूलम्

यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥ ३ ॥

शङ्करः

शृणुत — तत्र यद्ब्रूथ पुण्डरीकान्तःस्थस्य खस्याल्पत्वात् तत्स्थमल्पतरं स्यादिति, तदसत् । न हि खं पुण्डरीकवेश्मगतं पुण्डरीकादल्पतरं मत्वा अवोचं दहरोऽस्मिन्नन्तराकाश इति । किं तर्हि, पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्डरीकाकाशपरिच्छिन्नं तस्मिन्विशुद्धे संहृतकरणानां योगिनां स्वच्छ इवोदके प्रतिबिम्बरूपमादर्श इव च शुद्धे स्वच्छं विज्ञानज्योतिःस्वरूपावभासं तावन्मात्रं ब्रह्मोपलभ्यत इति दहरोऽस्मिन्नन्तराकाश इत्यवोचाम अन्तःकरणोपाधिनिमित्तम् । स्वतस्तु यावान्वै प्रसिद्धः परिमाणतोऽयमाकाशः भौतिकः, तावानेषोऽन्तर्हृदये आकाशः यस्मिन्नन्वेष्टव्यं विजिज्ञासितव्यं च अवोचाम । नाप्याकाशतुल्यपरिमाणत्वमभिप्रेत्य तावानित्युच्यते । किं तर्हि, ब्रह्मणोऽनुरूपस्य दृष्टान्तान्तरस्याभावात् । कथं पुनर्न आकाशसममेव ब्रह्मेत्यवगम्यते, ‘येनावृतं खं च दिवं महीं च’ (तै. ना. १), ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १), ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्यादिश्रुतिभ्यः । किं च उभे अस्मिन्द्यावापृथिवी ब्रह्माकाशे बुद्ध्युपाधिविशिष्टे अन्तरेव समाहिते सम्यगाहिते स्थिते । ‘यथा वा अरा नाभौ’ (छा. उ. ७ । १५ । १) इत्युक्तं हि ; तथा उभावग्निश्च वायुश्चेत्यादि समानम् । यच्च अस्य आत्मन आत्मीयत्वेन देहवतोऽस्ति विद्यते इह लोके । तथा यच्च आत्मीयत्वेन न विद्यते । नष्टं भविष्यच्च नास्तीत्युच्यते । न तु अत्यन्तमेवासत् , तस्य हृद्याकाशे समाधानानुपपत्तेः ॥

विश्वास-प्रस्तुतिः

तं चेद् ब्रूयुर् -

अस्मिꣳश् चेद् इदं ब्रह्म-पुरे
सर्वꣳ समाहितꣳ
सर्वाणि च भूतानि
सर्वे च कामा
यदैतज् जरा ऽवाप्नोति प्रध्वंसते वा
किं ततोऽतिशिष्यत इति ॥ ४ ॥

मूलम्

तं चेद्ब्रूयुरस्मिꣳश्चेदिदं ब्रह्मपुरे सर्वꣳ समाहितꣳ सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥

शङ्करः

तं चेत् एवमुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः — अस्मिंश्चेत् यथोक्ते चेत् यदि ब्रह्मपुरे ब्रह्मपुरोपलक्षितान्तराकाशे इत्यर्थः । इदं सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः । कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरुच्यन्ते ? नैष दोषः । यच्च अस्य इहास्ति यच्च नास्तीत्युक्ता एव हि आचार्येण कामाः । अपि च सर्वशब्देन च उक्ता एव कामाः । यदा यस्मिन्काले एतच्छरीरं ब्रह्मपुराख्यं जरा वलीपलितादिलक्षणा वयोहानिर्वा आप्नोति, शस्त्रादिना वा वृक्णं प्रध्वंसते विस्रंसते विनश्यति, किं ततोऽन्यदतिशिष्यते ? घटाश्रितक्षीरदधिस्नेहादिवत् घटनाशे देहनाशेऽपि देहाश्रयमुत्तरोत्तरं पूर्वपूर्वनाशान्नश्यतीत्यभिप्रायः । एवं प्राप्ते नाशे किं ततोऽन्यत् यथोक्तादतिशिष्यते अवतिष्ठते, न किञ्चनावतिष्ठत इत्यभिप्रायः ॥

विश्वास-प्रस्तुतिः

स ब्रूयान् -

नास्य +++(शरीरस्य)+++ जरयैतज् जीर्यति।
न वधेनास्य हन्यत,
एतत् सत्यं ब्रह्म-पुरम्।
अस्मिन् कामाः समाहिता।
एष आत्मा ऽपहत-पाप्मा
विजरो विमृत्युर् विशोको
विजिघत्सो ऽपिपासः
सत्य+++(=नित्य)+++-+++(सृष्टि-लय-लीलादि-)+++कामः सत्यसङ्कल्पः+++(=अप्रतिहतसङ्कल्पः)+++।

+++(जीवास् तु तद्-भिन्ना इत्याह-)+++
यथा ह्य् एवेह प्रजा +++(राजानम्)+++ अन्वाविशन्ति,
यथा+++(राज-)+++ऽनुशासनं यं यम् अन्तम् अभिकामा भवन्ति
यं जनपदं यं क्षेत्र-भागं
तं तम् +++(राजानुकूलतया)+++ एवोपजीवन्ति ॥ ५ ॥

विस्तारः (द्रष्टुं नोद्यम्)

आचार्यः तत्प्रतिवक्ति -
नास्य जरयैतज्जीर्यति इत्यादि ।

+++(पूर्वोक्त-ब्रह्म-पुराद् भिन्नम् ब्रह्म-पुरार्थम् प्रयोक्ष्यमाणं वदति -)+++
भोग्य–भोग-स्थान–भोगोपकरण–भोक्तृ-वर्गादिशालितया
पुरम् इव वर्तमानम् एतद् दहराकाशाख्यं ब्रह्म,
न तु घटादिवत् केवलम् अवकाशात्मनोपकारकम् ।

यथा पुरं भोग्य-भोगोपकरण-भोग-स्थानादीनां
स्वत एव आधारभूतं,
न तु दध्य्-आदीनां घटाकाशादिवत् आकाशात्मनोपकारकं
तथेत्य् अर्थः ।

ननु स्वतो धारकत्वेऽपि
तद्-देहान्तर्-वर्तितया तद्-अन्तर्गत-हृदयवत् तज्-जरा-नाशानुविधायि–जरा-नाशत्वं स्याद्

इति शङ्काबीजं परिहरति - एतत् सत्यम् इति

सत्यं - निर्विकारम् इत्यर्थः ।
अत एव न देह-जरा-मरणानुविधायि–जरा-मरणकम्
इत्य् अर्थः ।

यद् वा,

‘अथ यत् सत् तद् अमृतम्’ (छां.उ.८-३-५)

इति +अस्मिन् प्रकरणे
वक्ष्यमाण–सत्य-शब्द-निर्वचन-रीत्या चेतनाचेतन-नियामकत्वं वा सत्यत्वम् ।

यथाकथञ्चित् घटाकाशादिविलक्षणाधारः इत्यर्थः ।

(केचित्तु,
‘अस्मिंश्चेदिदं ब्रह्मपुरे’
इति प्रश्नवाक्ये ब्रह्मपुरशब्देन
ब्रह्म-रूप-पुरत्वात्-
दहराकाशः एवोच्यते ।

‘यदैतज्जरावाप्नोति’ इत्येव पाठः ।

तत्र च पाठे
एतस्य शरीरस्य जरा एतज्-जरा
यदा दहराकाशं प्राप्नोति,
तद्-ध्वंसेन ध्वंसते वा,
तदा द्यावा-पृथिव्य्-आदिकं नावशिष्येत इत्येवार्थः ।

न तु ब्रह्म-पुर-शब्देन शरीर-परामर्शम् अभ्युपेत्य तदनुगुणैतादृशाभिप्राय-कल्पन-परिक्लेशः अनुसर्तव्यः इति वदन्ति ।)

एवं मध्ये प्रसक्तमाक्षेपं परिहृत्य,

‘किं तदत्र विद्यते’ ?

इति +अन्तर्वर्ति-विशेष-जिज्ञासां शमयति -
अस्मिन् कामास् समाहिताः

काम्यन्ते इति कामाः कल्याणगुणाः ।

कः? दहराकाशः ?
स च कैः कामैः विशिष्टः ?

इत्य् आकांक्षायामाह -
एष आत्मा इत्यादि ।

उक्तञ्च भगवता भाष्यकृता

‘दहराकाशस्य काम्य-भूत-कल्याण-गुण-विशिष्टत्वञ्च ‘
एष आत्माऽपहतपाप्मा’
इत्यादिना सत्य-सङ्कल्प इत्यन्तेन स्फुटीकृत्य’

इति ।

पाप-जरा-मरण-शोक-
बुभुक्षा-पिपासावर्जितः सत्य-कामस् सत्यसङ्कल्पश् च इत्यर्थः ।

परमात्म-प्रकरणेषु पाप-शब्दः सु-कृत–साधारणः ।

‘न सुकृतं न दुष्कृतं
सर्वे पाप्मानोऽतो निवर्तन्ते’ (छां.उ. ८-४-१)

इति सुकृतेऽपि पापशब्दप्रयोगात्,

‘एते वै निरयास् तात
स्थानस्य परमात्मनः’

इति स्वर्गादीनाम् अपि मुमुक्ष्व्-अनिष्टत्वेन स्वर्गादि-साधन-कर्मणः
मुमुक्षून् प्रति अनिष्ट-साधनत्वेन
अलौकिकत्वे सति अनिष्ट-साधनत्व-लक्षण-पाप-शब्द-प्रवृत्ति-निमित्त-क्रोडी-कृतत्वेन
पापशब्द वाच्यत्वावश्यंभावात् ।

अपहतपाप्मत्वञ् च अनध्यस्त-पाप्मत्वम् ।

‘नैनं सेतुमहोरात्रे
तरतो न जरा न मृत्युः
न शोको न सुकृतं न दुष्कृतम्’ (छां.उ.८-४-१)

इति सुकृतदुष्कृतप्रात्यभावश्रवणात् । तरतेः प्राप्तिवचनत्वात् । तस्मात् अपहतपाप्मत्वम् अश्लिष्टपाप्मत्वम् इत्यर्थः ।

अकृतकर्माश्लेषस्य सर्वसाधारणत्वात् कृतेऽपि कर्मणि तत्फलाश्लेषः उच्यते ।

अतः ईश्वरेण कृतानि पुण्य-पाप-सजातीयानि कर्माणि न शुभाशुभफलजनन-शक्तानि इत्यर्थः ।

कृतेऽपि पापे तत्फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदीश्वरस्य स्वभावविशेषः अपहतपाप्मत्वम् ।

परिशुद्धात्मविषयस्य अपहतापाप्मत्वस्यापि अयमेवार्थः । स तु तस्य तिरोधानार्हः प्रतिबन्धनिवृत्तौ आविर्भवति । ईश्वरस्य तु तिरोधानानर्हो

नित्याविर्भूतः इति विशेषः इति व्यासार्यैः, ‘अन्तस्तद्धर्मोपदेशात्’ (ब्र.सू.१-१-२१) इत्यत्र

वर्णितः ।

अत्र सत्यकामशब्दो
न कामनायाः सत्यत्वपरः,
अमोघाशत्वस्य सत्य-सङ्कल्प-शब्देनेव सिद्धत्वात् ।
नापि काम्यते इति व्युत्पत्त्या गुणमात्रपरः ।
कतिपय-गुणान्तराणां पृथग्-उक्तेः ।
अतः भोग्य-भोगोपकरण–भोग-स्थान-रूपाः
नित्याः कामाः अस्य सन्ति इत्युच्यते ।+++(5)+++

‘तद् अक्षरे परमे व्योमन्’ इत्य्-उक्त–नित्य-विभूति-विशिष्टत्वं
सत्य-काम-शब्दार्थः इति व्यासार्यैः उक्तम् ।

वेदार्थसङ्ग्रहे भाष्यकृताऽप्युक्तं सत्यसङ्कल्पः अप्रतिहतसङ्कल्पः इति ।

यथा ह्येवेह प्रजा इत्यादि ।
इह - अस्मिन् लोके प्रजाः यथानुशासनं - राजशासनानुल्लङ्घनेन राजानम् अन्वाविशन्ति - अनुसरन्ति इत्यर्थः ।
अनुसृत्य किंं कुर्वन्ति इत्यत्राह -
यं यमन्तमभिकामा भवन्ति
कर्मणः फलापवर्गत्वात् फलमेव कर्मणोऽन्तः ।

यं यमन्तम् - यद् यत् फलम् अभिकामः अभ्यर्थिनो भवन्ति
जनपदक्षेत्रादिकं वा कामयन्ते
तत्-तत्-फलं यथाशासनम् एव उपजीवन्ति ।

राजशासनानुरोधेनैव इहलोके यथा उपजीवन्ति,
तथा परलोकेऽपि परतन्त्राः एव भवन्ति इति भावः ।

यद्वा यं यमन्तमभिकामाः भवन्ति तं तमिह लोके यथा प्रजा अन्वाविशन्ति -
राजानम् अनुसृत्य लभन्ते
तथा परलोकेऽपि उपजीवन्ति इत्यर्थः ।

अयमेवार्थो व्यासार्यैः वर्णितः ॥

मूलम्

स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥

शङ्करः

एवम् अन्तेवासिभिश् चोदितः
स आचार्यो ब्रूयात्
तन् मतिम् अपनयन् ।
कथम् ?

अस्य देहस्य जरया
एतत् यथोक्तम् अन्तराकाशाख्यं ब्रह्म
यस्मिन् सर्वं समाहितं
न जीर्यति
देहवन् न विक्रियत इत्यर्थः ।

न च अस्य वधेन शस्त्रादिघातेन एतद् +धन्यते, यथा आकाशम् ;
किमु ततोऽपि सूक्ष्मतरम् अशब्दम् अस्पर्शं ब्रह्म देहेन्द्रियादिदोषैर् न स्पृश्यत इत्यर्थः ।

कथं देहेन्द्रियादिदोषैर्न स्पृश्यत
इति एतस्मिन्न् अवसरे वक्तव्यं प्राप्तम् ,
तत्-प्रकृत-व्यासङ्गो मा भूद् इति नोच्यते ।
इन्द्र-विरोचनाख्यायिकायाम् उपरिष्टाद् वक्ष्यामो युक्तितः ।

एतत् सत्यम् अवितथं ब्रह्म-पुरं
ब्रह्मैव पुरं ब्रह्मपुरम् ; शरीराख्यं तु ब्रह्म-पुरं ब्रह्मोपलक्षणार्थत्वात् ।

तत् तु अनृतमेव,
‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४), (छा. उ. ६ । १ । ५), (छा. उ. ६ । १ । ६) इति श्रुतेः ।

तद्विकारो अनृतेऽपरि देहशुङ्गे ब्रह्मोपलभ्यत इति ब्रह्मपुरमित्युक्तं व्यावहारिकम् ।

सत्यं तु ब्रह्मपुरमेतदेव ब्रह्म, सर्वव्यवहारास्पदत्वात् ।

अतः अस्मिन् पुण्डरीकोपलक्षिते ब्रह्मपुरे
सर्वे कामाः,
ये बहिर्भवद्भिः प्रार्थ्यन्ते,
ते अस्मिन्नेव स्वात्मनि समाहिताः ।

अतः तत्-प्राप्त्य्-उपायम् एवानुतिष्ठत,
बाह्य-विषय-तृष्णां त्यजत
इत्य् अभिप्रायः ।

एष आत्मा भवतां स्वरूपम् ।
शृणुत तस्य लक्षणम् —
अपहतपाप्मा,
अपहतः पाप्मा धर्माधर्माख्यो यस्य सोऽयमपहतपाप्मा ।

तथा विजरः विगतजरः विमृत्युश्च ।
तदुक्तं पूर्वमेव -
न वधेनास्य हन्यत इति ;
किमर्थं पुनरुच्यते ?
यद्यपि देहसम्बन्धिभ्यां जरामृत्युभ्यां न सम्बन्ध्यते,
अन्यथापि सम्बन्धस् ताभ्यां स्याद् इत्य् आशङ्का-निवृत्त्यर्थम् ।

विशोकः विगतशोकः ।
शोको नाम इष्टादि-वियोग-निमित्तो
मानसः सन्तापः ।

विजिघत्सः विगताशनेच्छः ।

अपिपासः अपानेच्छः ।
ननु अपहतपाप्मत्वेन जरादयः शोकान्ताः प्रतिषिद्धा एव भवन्ति,
कारणप्रतिषेधात् । धर्माधर्मकार्या हि ते इति ।

जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोर् अप्य् असत्-समत्वम् इति पृथक्-प्रतिषेधो ऽनर्थकः स्यात् ।

सत्यम् एवम् ,
तथापि धर्मकार्यानन्दव्यतिरेकेण स्वाभाविकानन्दो यथेश्वरे, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इति श्रुतेः, तथा अधर्मकार्यजरादिव्यतिरेकेणापि जरादिदुःखस्वरूपं स्वाभाविकं स्यादित्याशङ्क्येत । अतः युक्तस्तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः । जरादिग्रहणं सर्वदुःखोपलक्षणार्थम् । पापनिमित्तानां तु दुःखानामानन्त्यात्प्रत्येकं च तत्प्रतिषेधस्य अशक्यत्वात् सर्वदुःखप्रतिषेधार्थं युक्तमेवापहतपाप्मत्ववचनम् । सत्याः अवितथाः कामाः यस्य सोऽयं सत्यकामः । वितथा हि संसारिणां कामाः ; ईश्वरस्य तद्विपरीताः । तथा कामहेतवः सङ्कल्पा अपि सत्याः यस्य स सत्यसङ्कल्पः । सङ्कल्पाः कामाश्च सुद्घसत्त्वोपाधिनिमित्ताः ईश्वरस्य, चित्रगुवत् ; न स्वतः ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्युक्तत्वात् । यथोक्तलक्षण एष आत्मा विज्ञेयो गुरुभ्यः शास्त्रतश्च आत्मसंवेद्यतया च स्वाराज्यकामैः । न चेद्विज्ञायते को दोषः स्यादिति, शृणुत अत्र दोषं दृष्टान्तेन — यथा ह्येव इह लोके प्रजाः अन्वाविशन्ति अनुवर्तन्ते यथानुशासनम् ; यथेह प्रजाः अन्यं स्वामिनं मन्यमानाः तस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति । किम् ? यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं च अभिकामाः अर्थिन्यः भवन्ति आत्मबुद्ध्यनुरूपम् , तं तमेव च प्रत्यन्तादिम् उपजीवन्तीति । एष दृष्टान्तः अस्वातन्त्र्यदोषं प्रति पुण्यफलोपभोगे ॥

विश्वास-प्रस्तुतिः

तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामांस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥

मूलम्

तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामांस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥

शङ्करः

अथ अन्यो दृष्टान्तः तत्क्षयं प्रति तद्यथेहेत्यादिः । तत् तत्र यथा इह लोके तासामेव स्वाम्यनुशासनानुवर्तिनीनां प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयते अन्तवान्भवति । अथ इदानीं दार्ष्टान्तिकमुपसंहरति — एवमेव अमुत्र अग्निहोत्रादिपुण्यजितो लोकः पराधीनोपभोगः क्षीयत एवेति । उक्तः दोषः एषामिति विषयं दर्शयति — तद्य इत्यादिना । तत् तत्र ये इह अस्मिंल्लोके ज्ञानकर्मणोरधिकृताः योग्याः सन्तः आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टमननुविद्य यथोपदेशमनु स्वसंवेद्यतामकृत्वा व्रजन्ति देहादस्मात्प्रयन्ति, य एतांश्च यथोक्तान् सत्यान् सत्यसङ्कल्पकार्यांश्च स्वात्मस्थान्कामान् अननुविद्य व्रजन्ति, तेषां सर्वेषु लोकेषु अकामचारः अस्वतन्त्रता भवति — यथा राजानुशासनानुवर्तिनीनां प्रजानामित्यर्थः । अथ ये अन्ये इह लोके आत्मानं शास्त्राचार्योपदेशमनुविद्य स्वात्मसंवेद्यतामापाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामान् , तेषां सर्वेषु लोकेषु कामचारो भवति — राज्ञ इव सार्वभौमस्य इह लोके ॥

इति प्रथमखण्डभाष्यम् ॥