विश्वास-प्रस्तुतिः
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥ १ ॥
मूलम्

शङ्करः
तस्य ह वा एतस्येत्यादि स्वाराज्यप्राप्तस्य प्रकृतस्य विदुष इत्यर्थः । प्राक्सदात्मविज्ञानात् स्वात्मनोऽन्यस्मात्सतः प्राणादेर्नामान्तस्योत्पत्तिप्रलयावभूताम् । सदात्मविज्ञाने तु सति इदानीं स्वात्मत एव संवृत्तौ । तथा सर्वोऽप्यन्यो व्यवहार आत्मत एव विदुषः ॥
विश्वास-प्रस्तुतिः
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताꣳ सर्वꣳ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विꣳशतिराहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान्सनात्कुमारस्तꣳ स्कन्द इत्याचक्षते तꣳ स्कन्द इत्याचक्षते ॥ २ ॥

किञ्च तत् एतस्मिन्नर्थे एष श्लोकः मन्त्रोऽपि भवति — न पश्यः पश्यतीति पश्यः यथोक्तदर्शी विद्वानित्यर्थः, मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावं चापि न पश्यति । सर्वं ह सर्वमेव स पश्यः पश्यति आत्मानमेव । सर्वं ततः सर्वमाप्नोति सर्वशः सर्वप्रकारैरिति । किञ्च स विद्वान् प्राक्सृष्टिप्रभेदात् एकधैव भवति ; एकधैव च सन् त्रिधादिभेदैरनन्तभेदप्रकारो भवति सृष्टिकाले ; पुनः संहारकाले मूलमेव स्वं पारमार्थिकम् एकधाभावं प्रतिपद्यते स्वतन्त्र एव — इति विद्यां फलेन प्ररोचयन् स्तौति । अथेदानीं यथोक्ताया विद्यायाः सम्यगवभासकारणं मुखावभासकारणस्येव आदर्शस्य विशुद्धिकारणं साधनमुपदिश्यते — आहारशुद्धौ । आह्रियत इत्याहारः शब्दादिविषयविज्ञानं भोक्तुर्भोगाय आह्रियते । तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिः आहारशुद्धिः, रागद्वेषमोहदोषैरसंसृष्टं विषयविज्ञानमित्यर्थः । तस्यामाहारशुद्धौ सत्यां तद्वतोऽन्तःकरणस्य सत्त्वस्य शुद्धिः नैर्मल्यं भवति । सत्त्वशुद्धौ च सत्यां यथावगते भूमात्मनि ध्रुवा अविच्छिन्ना स्मृतिः अविस्मरणं भवति । तस्यां च लब्धायां स्मृतिलम्भे सति सर्वेषामविद्याकृतानर्थपाशरूपाणाम् अनेकजन्मान्तरानुभवभावनाकठिनीकृतानां हृदयाश्रयाणां ग्रन्थीनां विप्रमोक्षः विशेषेण प्रमोक्षणं विनाशो भवतीति । यत एतदुत्तरोत्तरं यथोक्तमाहारशुद्धिमूलं तस्मात्सा कार्येत्यर्थः । सर्वं शास्त्रार्थमशेषत उक्त्वा आख्यायिकामुपसंहरति श्रुतिः — तस्मै मृदितकषायाय वार्क्षादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्चनारूपत्वात् सः ज्ञानवैराग्याभ्यासरूपक्षारेण क्षालितः मृदितः विनाशितः यस्य नारदस्य, तस्मै योग्याय मृदितकषायाय तमसः अविद्यालक्षणात् पारं परमार्थतत्त्वं दर्शयति दर्शितवानित्यर्थः । कोऽसौ ? भगवान् ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’ एवन्धर्मा सनत्कुमारः । तमेव सनत्कुमारं देवं स्कन्द इति आचक्षते कथयन्ति तद्विदः । द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥
इति षड्विंशखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये सप्तमोऽध्यायः समाप्तः ॥