२०

विश्वास-प्रस्तुतिः

यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥ १ ॥

मूलम्

शङ्करः

निष्ठा गुरुशुश्रूषादितत्परत्वं ब्रह्मविज्ञानाय ॥

इति विंशतितमखण्डभाष्यम् ॥