विश्वास-प्रस्तुतिः
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥
मूलम्

शङ्करः
मन्तव्यविषये आदरः आस्तिक्यबुद्धिः श्रद्धा ॥
इति एकोनविंशतितमखण्डभाष्यम् ॥