विश्वास-प्रस्तुतिः
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥ १ ॥
मूलम्

शङ्करः
यदा वै मनुत इति । मतिः मननं तर्कः ॥
इति अष्टादशखण्डभाष्यम् ॥