विश्वास-प्रस्तुतिः
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ १ ॥
मूलम्
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ १ ॥
शङ्करः
यदा वै सत्यं परमार्थतः विजानाति — इदं परमार्थतः सत्यमिति, ततः अनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदेवैकं सत्यमिति तदेव अथ वदति यद्वदति । ननु विकारोऽपि सत्यमेव, ‘नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः’ (बृ. उ. १ । ६ । ३) ‘प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । १ । २०) इति श्रुत्यन्तरात् । सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य, न तु परमार्थापेक्षमुक्तम् । किं तर्हि ? इन्द्रियविषयाविषयत्वापेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्द्वारेण च परमार्थसत्यस्योपलब्धिर्विवक्षितेति । ‘प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । ३ । ६) इति च उक्तम् । इहापि तदिष्टमेव । इह तु प्राणविषयात्परमार्थसत्त्यविज्ञानाभिमानाद्व्युत्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यम् , तद्विज्ञापयिष्यामीति एष विशेषतो विवक्षितोऽर्थः । नाविजानन्सत्यं वदति’ यस्त्वविजानन्वदति सोऽग्न्यादिशब्देनाग्न्यादीन्परमार्थसद्रूपान्मन्यमानो वदति’ न तु ते रूपत्रयव्यतिरेकेण परमार्थतः सन्ति । तथा तान्यपि रूपाणि सदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति । विजानन्नेव सत्यं वदति । न च तत्सत्यविज्ञानमविजिज्ञासितमप्रार्थितं ज्ञायत इत्याह — विज्ञानं त्वेव विजिज्ञासितव्यमिति । यद्येवम् , विज्ञानं भगवो विजिज्ञासे इति । एवं सत्यादीनां च उत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्येयम् ॥
इति सप्तदशखण्डभाष्यम् ॥