१५

विश्वास-प्रस्तुतिः

प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥

मूलम्

शङ्करः

नामोपक्रममाशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन च उत्तरोत्तरभूयस्तया अवस्थितं स्मृतिनिमित्तसद्भावमाशारशनापशैर्विपाशितं सर्वं सर्वतो बिसमिव तन्तुभिर्यस्मिन्प्राणे समर्पितम् , येन च सर्वतो व्यापिना अन्तर्बहिर्गतेन सूत्रे मणिगणा इव सूत्रेण ग्रथितं विधृतं च, स एष प्राणो वा आशाया भूयान् । कथमस्य भूयस्त्वमिति, आह दृष्टान्तेन समर्थयन् तद्भूयस्त्वम् — यथा वै लोके रथचक्रस्य अराः रथनाभौ समर्पिताः सम्प्रोताः सम्प्रवेशिता इत्येतत् , एवमस्मिंल्लिङ्गसङ्घातरूपे प्राणे प्रज्ञात्मनि दैहिके मुख्ये — यस्मिन्परा देवता नामरूपव्याकरणाय आदर्शादौ प्रतिबिम्बवज्जीवेन आत्मना अनुप्रविष्टा ; यश्च महाराजस्येव सर्वाधिकारीश्वरस्य, ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत’ (प्र. उ. ६ । ३) (प्र. उ. ६ । ४) इति श्रुतेः ; यस्तु च्छायेवानुगत ईश्वरम् , ‘तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा’ (कौ. उ. ३ । ९) इति कौषीतकिनाम् — अत एवमस्मिन्प्राणे सर्वं यथोक्तं समर्पितम् । अतः स एष प्राणोऽपरतन्त्राः प्राणेन स्वशक्त्यैव याति, नान्यकृतं गमनादिक्रियास्वस्य सामर्थ्यमित्यर्थः । सर्वं क्रियाकारकफलभेदजातं प्राण एव, न प्राणाद्बहिर्भूतमस्तीति प्रकरणार्थः । प्राणः प्राणं ददाति । यद्ददाति तत्स्वात्मभूतमेव । यस्मै ददाति तदपि प्राणायैव । अतः पित्राद्याख्योऽपि प्राण एव ॥

विश्वास-प्रस्तुतिः

स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥

कथं पित्रादिशब्दानां प्रसिद्धार्थोत्सर्गेण प्राणविषयत्वमिति, उच्यते — सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगात् तदुत्क्रान्तौ च प्रयोगाभावात् । कथं तदिति, आह — स यः कश्चित्पित्रादीनामन्यतमं यदि तं भृशमिव तदननुरूपमिव किञ्चिद्वचनं त्वङ्कारादियुक्तं प्रत्याह, तदैनं पार्श्वस्था आहुः विवेकिनः — धिक्त्वा अस्तु धिगस्तु त्वामित्येवम् । पितृहां वै त्वं पितुर्हन्तेत्यादि ॥

विश्वास-प्रस्तुतिः

अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषन्दहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ३ ॥

मूलम्

अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषन्दहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ३ ॥

शङ्करः

अथ एनानेव उत्क्रान्तप्राणान् त्यक्तदेहनाथान् यद्यपि शूलेन समासं समस्य व्यतिषन्दहेत् व्यत्यस्य सन्दहेत् , एवमप्यतिक्रूरं कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तद्देहसम्बद्धमेव कुर्वाणं नैवैनं ब्रूयुः पितृहेत्यादि । तस्मादन्वयव्यतिरेकाभ्यामवगम्यते एतत्पित्राद्याख्योऽपि प्राण एवेति ॥

विश्वास-प्रस्तुतिः

प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ४ ॥

मूलम्

प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ४ ॥

शङ्करः

तस्मात् प्राणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च । स वा एष प्राणविदेवं यथोक्तप्रकारेण पश्यन् फलतो अनुभवन् एवं मन्वानः उपपत्तिभिश्चिन्तयन् एवं विजानन् उपपत्तिभिः संयोज्य एवमेवेति निश्चयं कुर्वन्नित्यर्थः । मननविज्ञानाभ्यां हि सम्भूतः शास्त्रार्थो निश्चितो दृष्टो भवेत् । अत एवं पश्यन् अतिवादी भवति नामाद्याशान्तमतीत्य वदनशीलो भवतीत्यर्थः । तं चेद्ब्रूयुः तं ब्रह्मादिस्तम्बपर्यन्तस्य हि जगतः प्राण आत्मा अहमिति ब्रुवाणं यदि ब्रूयुः अतिवाद्यसीति, बाढम् अतिवाद्यस्मीति ब्रूयात् , न अपह्नुवीत । कस्माद्धि असावपह्नुवीत ? यत्प्राणं सर्वेश्वरम् अयमहमस्मि इत्यात्मत्वेनोपगतः ॥

इति पञ्चदशखण्डभाष्यम् ॥