१४

विश्वास-प्रस्तुतिः

आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राꣳश्च पशूꣳश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥

मूलम्

आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राꣳश्च पशूꣳश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥

शङ्करः

आशा वाव स्मराद्भूयसी, आशा अप्राप्तवस्त्वाकाङ्क्षा, आशा तृष्णा काम इति यामाहुः पर्यायैः ; सा च स्मराद्भूयसी । कथम् ? आशया हि अन्तःकरणस्थया स्मरति स्मर्तव्यम् । आशाविषयरूपं स्मरन् असौ स्मरो भवति । अतः आशेद्धः आशया अभिवर्धितः स्मरभूतः स्मरन् ऋगादीन्मन्त्रानधीते ; अधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशयैव ; पुत्रांश्च पशूंश्च कर्मफलभूतान् इच्छते अभिवाञ्छति ; आशयैव तत्साधनान्यनुतिष्ठति । इमं च लोकम् आशेद्ध एव स्मरन् लोकसङ्ग्रहहेतुभिरिच्छते । अमुं च लोकम् आशेद्धः स्मरन् तत्साधनानुष्ठानेन इच्छते । अतः आशारशनावबद्धं स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि । अतः आशायाः स्मरादपि भूयस्त्वमित्यत आशामुपास्स्व ॥

विश्वास-प्रस्तुतिः

स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् — आशया सदोपासितया अस्योपासकस्य सर्वे कामाः समृध्यन्ति समृद्धिं गच्छन्ति । अमोघा ह अस्य आशिषः प्रार्थनाः सर्वाः भवन्ति ; यत्प्रार्थितं सर्वं तदवश्यं भवतीत्यर्थः । यावदाशाया गतमित्यादि पूर्ववत् ॥

इति चतुर्दशखण्डभाष्यम् ॥