१३

विश्वास-प्रस्तुतिः

स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ १ ॥

मूलम्

स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

मूलम्

स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

शङ्करः

स्मरो वाव आकाशाद्भूयः, स्मरणं स्मरोऽन्तःकरणधर्मः, स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन । स्मर्तुः स्मरणे हि सति आकाशादि सर्वमर्थवत् , स्मरणवतो भोग्यत्वात् । असति तु स्मरणे सदप्यसदेव, सत्त्वकार्याभावात् । नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमित्यतः स्मरणस्य आकाशाद्भूयस्त्वम् । दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात् , तस्माद्यद्यपि समुदिता बहव एकस्मिन्नासीरन् उपविशेयुः, ते तत्र आसीनाः अन्योन्यभाषितमपि न स्मरन्तश्चेत्स्युः, नैव ते कञ्चन शब्दं शृणुयुः ; तथा न मन्वीरन् , मन्तव्यं चेत्स्मरेयुः तदा मन्वीरन् , स्मृत्यभावान्न मन्वीरन् ; तथा न विजानीरन् । यदा वाव ते स्मरेयुर्मन्तव्यं विज्ञाताव्यं श्रोतव्यं च, अथ शृणुयुः अथ मन्वीरन् अथ विजानीरन् । तथा स्मरेण वै — मम पुत्रा एते — इति पुत्रान्विजानाति, स्मरेण पशून् । अतो भूयस्त्वात्स्मरमुपास्स्वेति । उक्तार्थमन्यत् ॥

इति त्रयोदशखण्डभाष्यम् ॥