विश्वास-प्रस्तुतिः
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥
मूलम्
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥
शङ्करः
आकाशो वाव तेजसो भूयान् , वायुसहितस्य तेजसः कारणत्वाद्व्योम्नः । ‘वायुमागृह्य’ (छा. उ. ७ । ११ । १) इति तेजसा सहोक्तः वायुरिति पृथगिह नोक्तस्तेजसः । कारणं हि लोके कार्याद्भूयो दृष्टम् — यथा घटादिभ्यो मृत् , तथा आकाशो वायुसहितस्य तेजसः कारणमिति ततो भूयान् । कथम् ? आकाशे वै सूर्याचन्द्रमसावुभौ तेजोरूपौ विद्युन्नक्षत्राण्यग्निश्च तेजोरूपाण्याकाशेऽन्तः । यच्च यस्यान्तर्वर्ति तदल्पम् , भूय इतरत् । किञ्च आकाशेन आह्वयति च अन्यमन्यः ; आहूतश्चेतरः आकाशेन शृणोति ; अन्योक्तं च शब्दम् अन्यः प्रतिशृणोति ; आकाशे रमते क्रीडत्यन्योन्यं सर्वः ; तथा च रमते च आकाशे बन्ध्वादिवियोगे ; आकाशे जायते, न मूर्तेनावष्टब्धे । तथा आकाशमभि लक्ष्य अङ्कुरादि जायते, न प्रतिलोमम् । अतः आकाशमुपास्स्व ॥
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
फलं शृणु — आकाशवतो वै विस्तारयुक्तान्स विद्वांल्लोकान्प्रकाशवतः, प्रकाशाकाशयोर्नित्यसम्बन्धात्प्रकाशवतश्च लोकानसम्बाधान् सम्बाधनं सम्बाधः सम्बाधोऽन्योन्यपीडा तद्रहितानसम्बाधान् उरुगायवतः विस्तीर्णगतीन्विस्तीर्णप्रचारांल्लोकान् अभिसिध्यति । यावदाकाशस्येत्याद्युक्तार्थम् ॥
इति द्वादशखण्डभाष्यम् ॥