विश्वास-प्रस्तुतिः
आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं क नीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयाꣳसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥
मूलम्

शङ्करः
आपो वाव अन्नाद्भूयस्य अन्नकारणत्वात् । यस्मादेवं तस्मात् यदा यस्मिन्काले सुवृष्टिः सस्यहिता शोभना वृष्टिः न भवति, तदा व्याधीयन्ते प्राणा दुःखिनो भवन्ति । किन्निमित्तमिति, आह — अन्नमस्मिन्संवत्सरे नः कनीयः अल्पतरं भविष्यतीति । अथ पुनर्यदा सुवृष्टिर्भवति, तदा आनन्दिनः सुखिनः हृष्टाः प्राणाः प्राणिनः भवन्ति अन्नं बहु प्रभूतं भविष्यतीति । अप्सम्भवत्वान्मूर्तस्य अन्नस्य आप एवेमा मूर्ताः मूर्तभेदाकारपरिणता इति मूर्ताः — येयं पृथिवी यदन्तंरिक्षमित्यादि । आप एवेमा मूर्ताः ; अतः अप उपास्स्वेति ॥
विश्वास-प्रस्तुतिः
स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाꣳस्तृप्तिमान्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

फलम् — स यः अपो ब्रह्मेत्युपास्ते आप्नोति सर्वान्कामान् काम्यान्मूर्तिमतो विषयानित्यर्थः । अप्सम्भवत्वाच्च तृप्तेरम्बूपासनात्तृप्तिमांश्च भवति । समानमन्यत् ॥
इति दशमखण्डभाष्यम् ॥