०९

विश्वास-प्रस्तुतिः

अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश रात्रीर्नाश्नीयाद्यद्यु ह जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ १ ॥

मूलम्

शङ्करः

अन्नं वाव बलाद्भूयः, बलहेतुत्वात् । कथमन्नस्य बलहेतुत्वमिति, उच्यते — यस्माद्बलकारणमन्नम् , तस्मात् यद्यपि कश्चिद्दश रात्रीर्नाश्नीयात् , सोऽन्नोपयोगनिमित्तस्य बलस्य हान्या म्रियते ; यद्यु ह जीवेत् — दृश्यन्ते हि मासमप्यनश्नन्तो जीवन्तः — अथवा स जीवन्नपि अद्रष्टा भवति गुरोरपि, तत एव अश्रोतेत्यादि पूर्वविपरीतं सर्वं भवति । अथ यदा बहून्यहान्यनशितः दर्शनादिक्रियास्वसमर्थः सन् अन्नस्यायी, आगमनम् आयः अन्नस्य प्राप्तिरित्यर्थः, सः यस्य विद्यते सोऽन्नस्यायी । आयै इत्येतद्वर्णव्यत्ययेन । अथ अन्नस्याया इत्यपि पाठे एवमेवार्थः, द्रष्टेत्यादिकार्यश्रवणात् । दृश्यते हि अन्नोपयोगे दर्शनादिसामर्थ्यम् , न तदप्राप्तौ ; अतोऽन्नमुपास्स्वेति ॥

विश्वास-प्रस्तुतिः

स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

फलं च अन्नवतः प्रभूतान्नान्वै स लोकान् पानवतः प्रभूतोदकांश्च अन्नपानयोर्नित्यसम्बन्धात् लोकानभिसिध्यति । समानमन्यत् ॥

इति नवमखण्डभाष्यम् ॥