विश्वास-प्रस्तुतिः
सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
मूलम्
सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
शङ्करः
सङ्कल्पो वाव मनसो भूयान् । सङ्कल्पोऽपि मनस्यनवत् अन्तःकरणवृत्तिः, कर्तव्याकर्तव्यविषयविभागेन समर्थनम् । विभागेन हि समर्थिते विषये चिकीर्षाबुद्धिः मनस्यनानन्तरं भवति । कथम् ? यदा वै सङ्कल्पयते कर्तव्यादिविषयान्विभजते — इदं कर्तुं युक्तम् इदं कर्तुमयुक्तमिति, अथ मनस्यति मन्त्रानधीयीयेत्यादि । अथ अनन्तरं वाचम् ईरयति मन्त्राद्युच्चारणे । तां च वाचम् उ नाम्नि नामोच्चारणनिमित्तं विवक्षां कृत्वा ईरयति । नाम्नि नामसामान्ये मन्त्राः शब्दविशेषाः सन्तः एकं भवन्ति अन्तर्भवन्तीत्यर्थः । सामान्ये हि विशेषः अन्तर्भवति । मन्त्रेषु कर्माण्येकं भवन्ति । मन्त्रप्रकाशितानि कर्माणि क्रियन्ते, न अमन्त्रकमस्ति कर्म । यद्धि मन्त्रप्रकाशनेन लब्धसत्ताकं सत् कर्म, ब्राह्मणेनेदं कर्तव्यम् अस्मै फलायेति विधीयते, याप्युत्पत्तिर्ब्राह्मणेषु कर्मणां दृश्यते, सापि मन्त्रेषु लब्धसत्ताकानामेव कर्मणां स्पष्टीकरणम् । न हि मन्त्राप्रकाशितं कर्म किञ्चित् ब्राह्मणे उत्पन्नं दृश्यते । त्रयीविहितं कर्मेति प्रसिद्धं लोके ; त्रयीशब्दश्च ऋग्यजुःसामसमाख्या । मन्त्रेषु कर्माणि कवयो यान्यपश्यन् — इति च आथर्वणे । तस्माद्युक्तं मन्त्रेषु कर्माण्येकं भवन्तीति ॥
विश्वास-प्रस्तुतिः
तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृप्तां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाꣳ सङ्क्लृत्यै वर्षꣳ सङ्कल्पते वर्षस्य सङ्क्लृप्त्या अन्नꣳ सङ्कल्पतेऽन्नस्य सङ्क्लृत्यै प्राणाः सङ्कल्पन्ते प्राणानाꣳ सङ्क्लृत्यै मन्त्राः सङ्कल्पन्ते मन्त्राणाꣳ सङ्क्लृत्यै कर्माणि सङ्कल्पन्ते कर्मणाꣳ सङ्क्लृत्यै लोकः सङ्कल्पते लोकस्य सङ्क्लृत्यै सर्वꣳ सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥

तानि ह वा एतानि मनआदीनि सङ्कल्पैकायनानि सङ्कल्पः एको अयनं गमनं प्रलयः येषां तानि सङ्कल्पैकायनानि, सङ्कल्पात्मकानि उत्पत्तौ, सङ्कल्पे प्रतिष्ठितानि स्थितौ । समक्लृपतां सङ्कल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावापृथिवी, द्यावापृथिव्यौ निश्चले लक्ष्येते । तथा समकल्पेतां वायुश्चाकाशं च एतावपि सङ्कल्पं कृतवन्ताविव । तथा समकल्पन्त आपश्च तेजश्च, स्वेन रूपेण निश्चलानि लक्ष्यन्ते । यतस्तेषां द्यावापृथिव्यादीनां सङ्क्लृप्त्यै सङ्कल्पनिमित्तं वर्षं सङ्कल्पते समर्थीभवति । तथा वर्षस्य सङ्क्लृप्त्यै सङ्कल्पनिमित्तम् अन्नं सङ्कल्पते । वृष्टेर्हि अन्नं भवति । अन्नस्य सङ्क्लृप्त्यै प्राणाः सङ्कल्पन्ते । अन्नमया हि प्राणाः अन्नोपष्ठम्भकाः । ‘अन्नं दाम’ (बृ. उ. २ । २ । १) इति हि श्रुतिः । तेषां सङ्क्लृत्यै मन्त्राः सङ्कल्पन्ते । प्राणवान्हि मन्त्रानधीते नाबलः । मन्त्राणां हि सङ्क्लृप्त्यै कर्माण्यग्निहोत्रादीनि सङ्कल्पन्ते अनुष्ठीयमानानि मन्त्रप्रकाशितानि समर्थीभवन्ति फलाय । ततो लोकः फलं सङ्कल्पते कर्मकर्तृसमवायितया समर्थीभवतीत्यर्थः । लोकस्य सङ्क्लृत्यै सर्वं जगत् सङ्कल्पते स्वरूपावैकल्याय । एतद्धीदं सर्वं जगत् यत्फलावसानं तत्सर्वं सङ्कल्पमूलम् । अतः विशिष्टः स एष सङ्कल्पः । अतः सङ्कल्पमुपास्स्व — इत्युक्त्वा फलमाह तदुपासकस्य ॥
विश्वास-प्रस्तुतिः
स यः सङ्कल्पं ब्रह्मेत्युपास्ते सङ्क्लृप्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥

स यः सङ्कल्पं ब्रह्मेति ब्रह्मबुद्ध्या उपास्ते, सङ्क्लृप्तान्वै धात्रा अस्येमे लोकाः फलमिति क्लृप्तान् समर्थितान् सङ्कल्पितान् स विद्वान् ध्रुवान् नित्यान् अत्यन्ताध्रुवापेक्षया, ध्रुवश्च स्वयम् , लोकिनो हि अध्रुवत्वे लोके ध्रुवक्लृप्तिर्व्यर्थेति ध्रुवः सन् प्रतिष्ठितानुपकरणसम्पन्नानित्यर्थः, पशुपुत्रादिभिः प्रतितिष्ठतीति दर्शनात् , स्वयं च प्रतिष्ठितः आत्मीयोपकरणसम्पन्नः अव्यथमानात् अमित्रादित्रासरहितान् अव्यथमानश्च स्वयम् अभिसिध्यति अभिप्राप्नोतीत्यर्थः । यावत्सङ्कल्पस्य गतं सङ्कल्पगोचरः तत्रास्य यथाकामचारो भवति, आत्मनः सङ्कल्पस्य, न तु सर्वेषां सङ्कल्पस्येति, उत्तरफलविरोधात् । यः सङ्कल्पं ब्रह्मेत्युपास्ते इत्यादि पूर्ववत् ॥
इति चतुर्थखण्डभाष्यम् ॥