शङ्करः
परमार्थतत्त्वोपदेशप्रधानपरः षष्ठोऽध्यायः सदात्मैकत्वनिर्णयपरतयैवोपयुक्तः । न सतोऽर्वाग्विकारलक्षणानि तत्त्वानि निर्दिष्टानीत्यतस्तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्द्वारेणापि भूमाख्यं निरतिशयं तत्त्वं निर्देक्ष्यामि — शाखाचन्द्रदर्शनवत् , इतीमं सप्तमं प्रपाठकमारभते ; अनिर्दिष्टेषु हि सतोऽर्वाक्तत्त्वेषु सन्मात्रे च निर्दिष्टे अन्यदप्यविज्ञातं स्यादित्याशङ्का कस्यचित्स्यात् , सा मा भूदिति वा तानि निर्दिदिक्षति ; अथवा सोपानारोहणवत् स्थूलादारभ्य सूक्ष्मं सूक्ष्मतरं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वाराज्येऽभिषेक्ष्यामीति नामादीनि निर्दिदिक्षति ; अथवा नामाद्युत्तरोत्तरविशिष्टानि तत्त्वानि अतितरां च तेषामुत्कृष्टतमं भूमाख्यं तत्त्वमिति तत्स्तुत्यर्थं नामादीनां क्रमेणोपन्यासः । आख्यायिका तु परविद्यास्तुत्यर्था । कथम् ? नारदो देवर्षिः कृतकर्तव्यः सर्वविद्योऽपि सन् अनात्मज्ञत्वात् शुशोचैव, किमु वक्तव्यम् अन्योऽल्पविज्जन्तुः अकृतपुण्यातिशयोऽकृतार्थ इति ; अथवा नान्यदात्मज्ञानान्निरतिशयश्रेयःसाधनमस्तीत्येतत्प्रदर्शनार्थं सनत्कुमारनारदाख्यायिका आरभ्यते, येन सर्वविज्ञानसाधनशक्तिसम्पन्नस्यापि नारदस्य देवर्षेः श्रेयो न बभूव, येनोत्तमाभिजनविद्यावृत्तसाधनशक्तिसम्पत्तिनिमित्ताभिमानं हित्वा प्राकृतपुरुषवत् सनत्कुमारमुपससाद श्रेयःसाधनप्राप्तये ; अतः प्रख्यापितं भवति निरतिशयश्रेयःप्राप्तिसाधनत्वमात्मविद्याया इति ॥
विश्वास-प्रस्तुतिः
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्य ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥
मूलम्
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्य ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥
शङ्करः
अधीहि अधीष्व भगवः भगवन्निति ह किल उपससाद । अधीहि भगव इति मन्त्रः । सनत्कुमारं योगीश्वरं ब्रह्मिष्ठं नारदः उपसन्नवान् । तं न्यायतः उपसन्नं ह उवाच — यदात्मविषये किञ्चिद्वेत्थ तेन तत्प्रख्यापनेन मामुपसीद इदमहं जाने इति, ततः अहं भवतः विज्ञानात् ते तुभ्यम् ऊर्ध्वं वक्ष्यामि, इत्युक्तवति स ह उवाच नारदः ॥
विश्वास-प्रस्तुतिः
ऋग्वेदं भगवोऽध्येमि यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्त्रविद्यां नक्षत्रविद्याꣳ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥
मूलम्
ऋग्वेदं भगवोऽध्येमि यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्त्रविद्यां नक्षत्रविद्याꣳ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥
शङ्करः
ऋग्वेदं भगवः अध्येमि स्मरामि, ‘यद्वेत्थ’ इति विज्ञानस्य पृष्टत्वात् । तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वात् इतिहासपुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेदं व्याकरणमित्यर्थः । व्याकरणेन हि पदादिविभागशः ऋग्वेदादयो ज्ञायन्ते ; पित्र्यं श्राद्धकल्पम् ; राशिं गणितम् ; दैवम् उत्पातज्ञानम् ; निधिं महाकालादिनिधिशास्त्रम् ; वाकोवाक्यं तर्कशास्त्रम् ; एकायनं नीतिशास्त्रम् ; देवविद्यां निरुक्तम् ; ब्रह्मणः ऋग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दश्चितयः ; भूतविद्यां भूततन्त्रम् ; क्षत्रविद्यां धनुर्वेदम् ; नक्षत्रविद्यां ज्यौतिषम् ; सर्पदेवजनविद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यशिल्पादिविज्ञानानि ; एतत्सर्वं हे भगवः अध्येमि ॥
विश्वास-प्रस्तुतिः
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥
मूलम्
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥
शङ्करः
सोऽहं भगवः एतत्सर्वं जानन्नपि मन्त्रविदेवास्मि शब्दार्थमात्रविज्ञानवानेवास्मीत्यर्थः । सर्वो हि शब्दः अभिधानमात्रम् अभिधानं च सर्वं मन्त्रेष्वन्तर्भवति । मन्त्रविदेवास्मि मन्त्रवित्कर्मविदित्यर्थः । ‘मन्त्रेषु कर्माणि’ (छा. उ. ७ । ४ । १) इति हि वक्ष्यति । न आत्मवित् न आत्मानं वेद्मि । नन्वात्मापि मन्त्रैः प्रकाश्यत एवेति कथं मन्त्रविच्चेत् नात्मवित् ? न, अभिधानाभिधेयभेदस्य विकारत्वात् । न च विकार आत्मेष्यते । नन्वात्माप्यात्मशब्देन अभिधीयते । न, ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १), ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) इत्यादिश्रुतेः । कथं तर्हि ‘आत्मैवाधस्तात्’ (छा. उ. ७ । २५ । २) ‘स आत्मा’ (छा. उ. ६ । १६ । १) इत्यादिशब्दाः आत्मानं प्रत्याययन्ति ? नैष दोषः । देहवति प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दः देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सत् , अवाच्यमपि प्रत्याययति — यथा सराजिकायां दृश्यमानायां सेनायां छत्रध्वजपताकादिव्यवहिते अदृश्यमानेऽपि राजनि एष राजा दृश्यत इति भवति शब्दप्रयोगः ; तत्र कोऽसौ राजेति राजविशेषनिरूपणायां दृश्यमानेतरप्रत्याख्याने अन्यस्मिन्नदृश्यमानेऽपि राजनि राजप्रतीतिर्भवेत् — तद्वत् । तस्मात्सोऽहं मन्त्रवित् कर्मविदेवास्मि, कर्मकार्यं च सर्वं विकार इति विकारज्ञ एवास्मि, न आत्मवित् न आत्मप्रकृतिस्वरूपज्ञ इत्यर्थः । अत एवोक्तम् ‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) इति ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभ्यश्च । श्रुतमागमज्ञानमस्त्येव हि यस्मात् मे मम भगवद्दॄशेभ्यो युष्मत्सदृशेभ्यः तरति अतिक्रमति शोकं मनस्तापम् अकृतार्थबुद्धिताम् आत्मवित् इति ; अतः सोऽहमनात्मवित्त्वात् हे भगवः शोचामि अकृतार्थबुद्ध्या सन्तप्ये सर्वदा ; तं मा मां शोकस्य शोकसागरस्य पारम् अन्तं भगवान् तारयतु आत्मज्ञानोडुपेन कृतार्थबुद्धिमापादयतु अभयं गमयत्वित्यर्थः । तम् एवमुक्तवन्तं ह उवाच — यद्वै किञ्च एतदध्यगीष्ठाः अधीतवानसि, अध्ययनेन तदर्थज्ञानमुपलक्ष्यते, ज्ञातवानसीत्येतत् , नामैवैतत् , ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इति श्रुतेः ॥
विश्वास-प्रस्तुतिः
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्त्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥
मूलम्
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्त्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥
शङ्करः
नाम वा ऋग्वेदो यजुर्वेद इत्यादि नामैवैतत् । नामोपास्स्व ब्रह्मेति ब्रह्मबुद्ध्या — यथा प्रतिमां विष्णुबुद्ध्या उपास्ते, तद्वत् ॥
विश्वास-प्रस्तुतिः
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ५ ॥
मूलम्
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ५ ॥
शङ्करः
स यस्तु नाम ब्रह्मेत्युपास्ते, तस्य यत्फलं भवति, तच्छृणु — यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन् नामविषयेअस्य यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति । यो नाम ब्रह्मेत्युपास्ते इत्युपसंहारः । किमस्ति भगवः नाम्नो भूयः अधिकतरं यद्ब्रह्मदृष्ट्यर्हमन्यदित्यभिप्रायः । सनत्कुमार आह — नाम्नो वाव भूयः अस्त्येवेति । उक्तः आह — यद्यस्ति तन्मे भगवान्ब्रवीतु इति ॥
इति प्रथमखण्डभाष्यम् ॥