विश्वास-प्रस्तुतिः
पुरुषꣳ सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥
मूलम्
पुरुषꣳ सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥
शङ्करः
शृणु — यथा सोम्य पुरुषं चौर्यकर्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तम् आनयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्च आहुः — अपहार्षीद्धनमस्यायम् । ते च आहुः — किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गात् ; इत्युक्ताः पुनराहुः — स्तेयमकार्षीत् चौर्येण धनमपहार्षीदिति । तेष्वेवं वदत्सु इतरः अपह्नुते — नाहं तत्कर्तेति । ते च आहुः — सन्दिह्यमानं स्तेयमकार्षीः त्वमस्य धनस्येति । तस्मिंश्च अपह्नुवाने आहुः — परशुमस्मै तपतेति शोधयत्वात्मानमिति । स यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स एवम्भूतः तत एवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरुते । स तथा अनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात्प्रतिगृह्णाति, स दह्यते, अथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसन्धिदोषेण ॥
विश्वास-प्रस्तुतिः
अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥
मूलम्
अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥
शङ्करः
अथ यदि तस्य कर्मणः अकर्ता भवति, तत एव सत्यमात्मानं कुरुते । स सत्येन तया स्तैन्याकर्तृतया आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स सत्याभिसन्धः सन् न दह्यते सत्यव्यवधानात् , अथ मुच्यते च मृषाभियोक्तृभ्यः । तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्रकर्त्रोरनृताभिसन्धो दह्यते न तु सत्याभिसन्धः ॥
विश्वास-प्रस्तुतिः
स यथा तत्र नादाह्येतैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इदि तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ३ ॥
मूलम्
स यथा तत्र नादाह्येतैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इदि तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ३ ॥
शङ्करः
स यथा सत्याभिसन्धः तप्तपरशुग्रहणकर्मणि सत्यव्यवहितहस्ततलत्वात् नादाह्येत न दह्येतेत्येतत् , एवं सद्ब्रह्मसत्याभिसन्धेतरयोः शरीरपातकाले च तुल्यायां सत्सम्पत्तौ विद्वान् सत्सम्पद्य न पुनर्व्याघ्रदेवादिदेहग्रहणाय आवर्तते । अविद्वांस्तु विकारानृताभिसन्धः पुनर्व्याघ्रादिभावं देवतादिभावं वा यथाकर्म यथाश्रुतं प्रतिपद्यते । यदात्माभिसन्ध्यनभिसन्धिकृते मोक्षबन्धने, यच्च मूलं जगतः, यदायतना यत्प्रतिष्ठाश्च सर्वाः प्रजाः, यदात्मकं च सर्वं यच्चाजममृतमभयं शिवमद्वितीयम् , तत्सत्यं स आत्मा तव, अतस्तत्त्वमसि श्वेतकेतो — इत्युक्तार्थमसकृद्वाक्यम् । कः पुनरसौ श्वेतकेतुः त्वंशब्दार्थः ? योऽहं श्वेतकेतुरुद्दालकस्य पुत्र इति वेद आत्मानमादेशं श्रुत्वा मत्वा विज्ञाय च, अश्रुतममतमविज्ञातं विज्ञातुं पितरं पप्रच्छ ‘कथं नु भगवः स आदेशो भवति’ (छा. उ. ६ । १ । ३) इति । स एषः अधिकृतः श्रोता मन्ता विज्ञाता तेजोबन्नमयं कार्यकरणसङ्घातं प्रविष्टा परैव देवता नामरूपव्याकरणाय — आदर्शे इव पुरुषः सूर्यादिरिव जलादौ प्रतिबिम्बरूपेण । स आत्मानं कार्यकरणेभ्यः प्रविभक्तं सद्रूपं सर्वात्मानं प्राक् पितुः श्रवणात् न विजज्ञौ । अथेदानीं पित्रा प्रतिबोधितः तत्त्वमसि इति दृष्टान्तैर्हेतुभिश्च तत् पितुरस्य ह किलोक्तं सदेवाहमस्मीति विजज्ञौ विज्ञातवान् । द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥
किं पुनरत्र षष्ठे वाक्यप्रमाणेन जनितं फलमात्मनि ? कर्तृत्वभोक्तृत्वयोरधिकृतत्वविज्ञाननिवृत्तिः तस्य फलम् , यमवोचाम त्वंशब्दवाच्यमर्थं श्रोतुं मन्तुं च अधिकृतमविज्ञातविज्ञानफलार्थम् । प्राक्च एतस्माद्विज्ञानात् अहमेवं करिष्याम्यग्निहोत्रादीनि कर्माणि, अहमत्राधिकृतः, एषां च कर्मणां फलमिहामुत्र च भोक्ष्ये, कृतेषु वा कर्मसु कृतकर्तव्यः स्याम् — इत्येवं कर्तृत्वभोक्तृत्वयोरधिकृतोऽस्मीत्यात्मनि यद्विज्ञानमभूत् तस्य, यत्सज्जगतो मूलम् एकमेवाद्वितीयं तत्त्वमसीत्यनेन वाक्येन प्रतिबुद्धस्य निवर्तते, विरोधात् — न हि एकस्मिन्नद्वितीये आत्मनि अयमहमस्मीति विज्ञाते ममेदम् अन्यदनेन कर्तव्यम् इदं कृत्वा अस्य फलं भोक्ष्ये — इति वा भेदविज्ञानमुपपद्यते । तस्मात् सत्सत्याद्वितीयात्मविज्ञाने विकारानृतजीवात्मविज्ञानं निवर्तते इति युक्तम् । ननु ‘तत्त्वमसि’ इत्यत्र त्वंशब्दवाच्येऽर्थे सद्बुद्धिरादिश्यते — यथा आदित्यमनआदिषु ब्रह्मादिबुद्धिः, यथा च लोके प्रतिमादिषु विष्ण्वादिबुद्धिः, तद्वत् ; न तु सदेव त्वमिति ; यदि सदेव श्वेतकेतुः स्यात् , कथमात्मानं न विजानीयात् , येन तस्मै तत्त्वमसीत्युपदिश्यते ? न, आदित्यादिवाक्यवैलक्षण्यात् — ‘आदित्यो ब्रह्म’ (छा. उ. ३ । १९ । १) इत्यादौ इतिशब्दव्यवधानात् न साक्षाद्ब्रह्मत्वं गम्यते, रूपादिमत्त्वाच्च आदित्यादीनाम् । आकाशमनसोश्च इतिशब्दव्यवधानादेव अब्रह्मत्वम् । इह तु सत एवेह प्रवेशं दर्शयित्वा ‘तत्त्वमसि’ इति निरङ्कुशं सदात्मभावमुपदिशति । ननु पराक्रमादिगुणः सिंहोऽसि त्वम् इतिवत् तत्त्वमसीति स्यात् । न, मृदादिवत् सदेकमेवाद्वितीयं सत्यम् इत्युपदेशात् । न च उपचारविज्ञानात् ‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इति सत्सम्पत्तिरुपदिश्येत । मृषात्वादुपचारविज्ञानस्य — त्वमिन्द्रो यम इतिवत् । नापि स्तुतिः, अनुपास्यत्वाच्छ्वेतकेतोः । नापि सत् श्वेतकेतुत्वोपदेशेन स्तूयेत — न हि राजा दासस्त्वमिति स्तुत्यः स्यात् । नापि सतः सर्वात्मन एकदेशनिरोधो युक्तः तत्त्वमसीतिदेशाधिपतेरिव ग्रामाध्यक्षस्त्वमिति । न च अन्या गतिरिह सदात्मत्वोपदेशात् अर्थान्तरभूता सम्भवति । ननु सदस्मीति बुद्धिमात्रमिह कर्तव्यतया चोद्यते न त्वज्ञातं सदसीति ज्ञाप्यत इति चेत् । नन्वस्मिन्पक्षेऽपि ‘अश्रुतं श्रुतं भवति’ (छा. उ. ६ । १ । ३) इत्याद्यनुपपन्नम् । न, सदस्मीति बुद्धिविधेः स्तुत्यर्थत्वात् । न, ‘आचार्यवान्पुरुषो वेद । तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इत्युपदेशात् । यदि हि सदस्मीति बुद्धिमात्रं कर्तव्यतया विधीयते न तु त्वंशब्दवाच्यस्य सद्रूपत्वमेव, तदा न आचार्यवान्वेद इति ज्ञानोपयोपदेशो वाच्यः स्यात् । यथा ‘अग्निहोत्रं जुहुयात्’ ( ? ) इत्येवमादिष्वर्थप्राप्तमेव आचार्यवत्त्वमिति, तद्वत् । ‘तस्य तावदेव चिरम्’ इति च क्षेपकरणं न युक्तं स्यात् , सदात्मतत्त्वे अविज्ञातेऽपि सकृद्बुद्धिमात्रकरणे मोक्षप्रसङ्गात् । न च तत्त्वमसीत्युक्ते नाहं सदिति प्रमाणवाक्यमजनिता बुद्धिः निवर्तयितुं शक्या ; नोत्पन्नेति वा शक्यं वक्तुम् , सर्वोपनिषद्वाक्यानां तत्परतयैवोपक्षयात् । यथा अग्निहोत्रादिविधिजनिताग्निहोत्रादिकर्तव्यताबुद्धीनामतथार्थत्वमनुत्पन्नत्वं वा न शक्यते वक्तुम् — तद्वत् । यत्तूक्तं सदात्मा सन् आत्मानं कथं न जानीयादिति, नासौ दोषः, कार्यकरणसङ्घातव्यतिरिक्तः अहं जीवः कर्ता भोक्तेत्यपि स्वभावतः प्राणिनां विज्ञानादर्शनात् । किमु तस्य सदात्मविज्ञानम् । कथमेवं व्यतिरिक्तविज्ञाने असति तेषां कर्तृत्वादिविज्ञानं सम्भवति दृश्यते च । तद्वत्तस्यापि देहादिष्वात्मबुद्धित्वात् न स्यात्सदात्मविज्ञानम् । तस्मात् विकारानृताधिकृतजीवात्मविज्ञाननिवर्तकमेव इदं वाक्यम् ‘तत्त्वमसि’ इति सिद्धमिति ॥
इति षोडशखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये षष्ठोऽध्यायः समाप्तः ॥