विश्वास-प्रस्तुतिः
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥
मूलम्
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥
शङ्करः
पुरुषं हे सोम्य उत उपतापिनं ज्वराद्युपतापवन्तं ज्ञातयः बान्धवाः परिवार्य उपासते मुमूर्षुम् — जानासि मां तव पितरं पुत्रं भ्रातरं वा — इति पृच्छन्तः । तस्य मुमूर्षोः यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इत्येतदुक्तार्थम् ॥
विश्वास-प्रस्तुतिः
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥
मूलम्
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥
शङ्करः
संसारिणः यः मरणक्रमः स एवायं विदुषोऽपि सत्सम्पत्तिक्रम इत्येतदाह — परस्यां देवतायां तेजसि सम्पन्ने अथ न जानाति । अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति । विद्वांस्तु शास्त्राचार्योपदेशजनितज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य न आवर्तते इत्येष सत्सम्पत्तिक्रमः । अन्ये तु मूर्धन्यया नाड्या उत्क्रम्य आदित्यादिद्वारेण सद्गच्छन्तीत्याहुः ; तदसत् , देशकालनिमित्तफलाभिसन्धानेन गमनदर्शनात् । न हि सदात्मैकत्वदर्शिनः सत्याभिसन्धस्य देशकालनिमित्तफलाद्यनृताभिसन्धिरुपपद्यते, विरोधात् । अविद्याकामकर्मणां च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वात् गमनानुपपत्तिरेव ; ‘पर्योप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः’ (मु. उ. ३ । २ । २) इत्याद्याथर्वणे नदीसमुद्रदृष्टान्तश्रुतेश्च ॥
विश्वास-प्रस्तुतिः
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
मूलम्
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
शङ्करः
स य इत्यादि समानम् । यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्तिः, तत्र विद्वान् सत्सम्पन्नो नावर्तते, आवर्तते त्वविद्वान् — इत्यत्र कारणं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति । तथा सोम्येति ह उवाच ॥
इति पञ्चदशखण्डभाष्यम् ॥