विश्वास-प्रस्तुतिः
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्टति ॥ १ ॥
मूलम्
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्टति ॥ १ ॥
शङ्करः
शृणु दृष्टान्तम् — अस्य हे सोम्य महतः अनेकशाखादियुक्तस्य वृक्षस्य, अस्येत्यग्रतः स्थितं वृक्षं दर्शयन् आह — यदि यः कश्चित् अस्य मूले अभ्याहन्यात् , परश्वादिना सकृद्घातमात्रेण न शुष्यतीति जीवन्नेव भवति, तदा, तस्य रसः स्रवेत् । तथा यो मध्ये अभ्याहन्यात् जीवन्स्रवेत् , तथा योऽग्रे अभ्याहन्यात् जीवन्स्रवेत् । स एष वृक्षः इदानीं जीवेन आत्मना अनुप्रभूतः अनुव्याप्तः पेपीयमानः अत्यर्थं पिबन् उदकं भौमांश्च रसान् मूलैर्गृह्णन् मोदमानः हर्षं प्राप्नुवन् तिष्ठति ॥
विश्वास-प्रस्तुतिः
अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ २ ॥
मूलम्
अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ २ ॥
शङ्करः
तस्यास्य यदेकां शाखां रोगग्रस्ताम् आहतां वा जीवः जहाति उपसंहरति शाखायां विप्रसृतमात्मांशम् , अथ सा शुष्यति । वाङ्मनःप्राणकरणग्रामानुप्रविष्टो हि जीव इति तदुपसंहारे उपसंह्रियते । जीवेन च प्राणयुक्तेन अशितं पीतं च रसतां गतं जीवच्छरीरं वृक्षं च वर्धयत् रसरूपेण जीवस्य सद्भावे लिङ्गं भवति । अशितपीताभ्यां हि देहे जीवस्तिष्ठति । ते च अशितपीते जीवकर्मानुसारिणी इति तस्यैकाङ्गवैकल्यनिमित्तं कर्म यदोपस्थितं भवति, तदा जीवः एकां शाखां जहाति शाखाय आत्मानमुपसंहरति ; अथ तदा सा शाखा शुष्यति । जीवस्थितिनिमित्तो रसः जीवकर्माक्षिप्तः जीवोपसंहारे न तिष्ठति । रसापगमे च शाखा शोषमुपैति । तथा सर्वं वृक्षमेव यदा अयं जहाति तदा सर्वोऽपि वृक्षः शुष्यति । वृक्षस्य रसस्रवणशोषणादिलिङ्गात् जीववत्त्वं दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धकाणादमतमचेतनाः स्थावरा इत्येतदसारमिति दर्शितं भवति ॥
विश्वास-प्रस्तुतिः
एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥

यथा अस्मिन्वृक्षदृष्टान्ते दर्शितम् — जीवेन युक्तः वृक्षः अशुष्कः रसपानादियुक्तः जीवतीत्युच्यते, तदपेतश्च म्रियत इत्युच्यते ; एवमेव खलु सोम्य विद्धीति ह उवाच — जीवापेतं जीववियुक्तं वाव किल इदं शरीरं म्रियते न जीवो म्रियत इति । कार्यशेषे च सुप्तोत्थितस्य मम इदं कार्यशेषम् अपरिसमाप्तमिति स्मृत्वा समापनदर्शनात् । जातमात्राणां च जन्तूनां स्तन्याभिलाषभयादिदर्शनाच्च अतीतजन्मान्तरानुभूतस्तन्यपानदुःखानुभवस्मृतिर्गम्यते । अग्निहोत्रादीनां च वैदिकानां कर्मणामर्थवत्त्वात् न जीवो म्रियत इति । स य एषोऽणिमेत्यादि समानम् । कथं पुनरिदमत्यन्तस्थूलं पृथिव्यादि नामरूपवज्जगत् अत्यन्तसूक्ष्मात्सद्रूपान्नामरूपरहितात्सतो जायते, इति एतद्दृष्टान्तेन भूय एव मा भगवान्विज्ञापयतु इति । तथा सोम्येति ह उवाच पिता ॥
इति एकादशखण्डभाष्यम् ॥