०१

शङ्करः

श्वेतकेतुः ह आरुणेय आस इत्याद्यध्यायसम्बन्धः — ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्युक्तम् , कथं तस्मात् जगदिदं जायते तस्मिन्नेव च लीयते अनिति च तेनैव इत्येतद्वक्तव्यम् । अनन्तरं च एकस्मिन्भुक्ते विदुषि सर्वं जगत्तृप्तं भवतीत्युक्तम् , तत् एकत्वे सति आत्मनः सर्वभूतस्थस्य उपपद्यते, न आत्मभेदे ; कथं च तदेकत्वमिति तदर्थोऽयं षष्ठोऽध्याय आरभ्यते —

विश्वास-प्रस्तुतिः

श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वैसोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥

मूलम्

श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वैसोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥

शङ्करः

पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था । श्वेतकेतुरिति नामतः, ह इत्यैतिह्यार्थः, आरुणेयः अरुणस्य पौत्रः आस बभूव । तं पुत्रं ह आरुणिः पिता योग्यं विद्याभाजनं मन्वानः तस्योपनयनकालात्ययं च पश्यन् उवाच — हे श्वेतकेतो अनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् ; न च एतद्युक्तं यदस्मत्कुलीनो हे सोम्य अननूच्य अनधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति । तस्य अतः प्रवासो अनुमीयते पितुः, . येन स्वयं गुणवान्सन् पुत्रं नोपनेष्यति ॥

विश्वास-प्रस्तुतिः

स ह द्वादशवर्ष उपेत्य चतुर्विꣳशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तꣳह पितोवाच ॥ २ ॥

मूलम्

स ह द्वादशवर्ष उपेत्य चतुर्विꣳशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तꣳह पितोवाच ॥ २ ॥

शङ्करः

सः पित्रोक्तः श्वेतकेतुः ह द्वादशवर्षः सन् उपेत्य आचार्यं यावच्चतुर्विंशतिवर्षो बभूव, तावत् सर्वान्वेदान् चतुरोऽप्यधीत्य तदर्थं च बुद्ध्वा महामनाः महत् गम्भीरं मनः यस्य असममात्मानमन्यैर्मन्यमानं मनः यस्य सोऽयं महामनाः अनूचानमानी अनूचानमात्मानं मन्यत इति एवंशीलो यः सोऽनूचानमानी स्तब्धः अप्रणतस्वभावः एयाय गृहम् । तम् एवम्भूतं ह आत्मनोऽननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्मावतारचिकीर्षया ॥

विश्वास-प्रस्तुतिः

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥

मूलम्

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥

शङ्करः

श्वेतकेतो यन्नु इदं महामनाः अनूचानमानी स्तब्धश्चासि, कस्तेऽतिशयः प्राप्तः उपाध्यायात् , उत अपि तमादेशं आदिश्यत इत्यादेशः केवलशास्त्राचर्योपदेशगम्यमित्येतत् , येन वा परं ब्रह्म आदिश्यते स आदेशः तमप्राक्ष्यः पृष्टवानस्याचार्यम् ? तमादेशं विशिनष्टि — येन आदेशेन श्रुतेन अश्रुतमपि अन्यच्छ्रुतं भवति अमतं मतम् अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातं अनिश्चितं निश्चितं भवतीति । सर्वानपि वेदानधीत्य सर्वं च अन्यद्वेद्यमधिगम्यापि अकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते । तदेतदद्भुतं श्रुत्वा आह, कथं नु एतदप्रसिद्धम् अन्यविज्ञानेनान्यद्विज्ञातं भवतीति ; एवं मन्वानः पृच्छति — कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति ॥

विश्वास-प्रस्तुतिः

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥

मूलम्

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥

शङ्करः

यथा स आदेशो भवति तच्छृणु हे सोम्य — यथा लोके एकेन मृत्पिण्डेन रुचककुम्भादिकारणभूतेन विज्ञातेन सर्वमन्यत्तद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात् । कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् ? नैष दोषः, कारणेनानन्यत्वात्कार्यस्य । यन्मन्यसे अन्यस्मिन्विज्ञातेऽन्यन्न ज्ञायत इति — सत्यमेवं स्यात् , यद्यन्यत्कारणात्कार्यं स्यात् , न त्वेवमन्यत्कारणात्कार्यम् । कथं तर्हीदं लोके — इदं कारणमयमस्य विकार इति ? शृणु । वाचारम्भणं वागारम्भणं वागालम्बनमित्येतत् । कोऽसौ ? विकारो नामधेयं नामैव नामधेयम् , स्वार्थे धेयप्रत्ययः, वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति ; परमार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति ॥

विश्वास-प्रस्तुतिः

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳस्याद्वाचारम्भणं विकारो नामधेयं लोहितमित्येव सत्यम् ॥ ५ ॥

मूलम्

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳस्याद्वाचारम्भणं विकारो नामधेयं लोहितमित्येव सत्यम् ॥ ५ ॥

शङ्करः

यथा सोम्य एकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजातं कटकमुकुटकेयूरादि विज्ञातं स्यात् । वाचारम्भणमित्यादि समानम् ॥

विश्वास-प्रस्तुतिः

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवꣳ सोम्य स आदेशो भवतीति ॥ ६ ॥

मूलम्

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवꣳ सोम्य स आदेशो भवतीति ॥ ६ ॥

शङ्करः

यथा सोम्य एकेन नखनिकृन्तनेनोपलक्षितेन कृष्णायसपिण्डेनेत्यर्थः ; सर्वं कार्ष्णायसं कृष्णायसविकारजातं विज्ञातं स्यात् । समानमन्यत् । अनेकदृष्टान्तोपादानं दार्ष्टान्तिकानेकभेदानुगमार्थम् , दृढप्रतीत्यर्थं च । एवं सोम्य स आदेशः, यः मयोक्तः भवति । इत्युक्तवति पितरि, आह इतरः —

विश्वास-प्रस्तुतिः

न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवाꣳस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ ७ ॥

मूलम्

न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवाꣳस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ ७ ॥

शङ्करः

न वै नूनं भगवन्तः पूजावन्तः गुरवः मम ये, ते एतत् यद्भवदुक्तं वस्तु नावेदिषुः न विज्ञातवन्तः नूनम् । यत् यदि हि अवेदिष्यन् विदितवन्तः एतद्वस्तु, कथं मे गुणवते भक्तायानुगताय नावक्ष्यन् नोक्तवन्तः, तेनाहं मन्ये — न विदितवन्त इति । अवाच्यमपि गुरोर्न्यग्भावमवादीत् पुनर्गुरुकुलं प्रति प्रेषणभयात् । अतो भगवांस्त्वेव मे मह्यं तद्वस्तु, येन सर्वज्ञत्वं ज्ञातेन मे स्यात् , तद्ब्रवीतु कथयतु ; इत्युक्तः पितोवाच — तथास्तु सोम्येति ॥

इति प्रथमखण्डभाष्यम् ॥