विश्वास-प्रस्तुतिः
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥
मूलम्
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥
शङ्करः
तत् तत्रैवं सति यद्भक्तं प्रथमं भोजनकाले आगच्छेद्भोजनार्थम् , तद्धोमीयं तद्धोतव्यम् , अग्निहोत्रसम्पन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह ; स भोक्ता यां प्रथमामाहुतिं जुहुयात् , तां कथं जुहुयादिति, आह — प्राणाय स्वाहेत्यनेन मन्त्रेण ; आहुतिशब्दात् अवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः । तेन प्राणस्तृप्यति ॥
प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
प्राणे तृप्यति चक्षुस्तृप्यति, चक्षुषि तृप्यति आदित्यो द्यौश्चेत्यादि तृप्यति, यच्चान्यत् द्यौश्च आदित्यश्च स्वामित्वेनाधितिष्ठतः तच्च तृप्यति, तस्य तृप्तिमनु स्वयं भुञ्जानः तृप्यति एवं प्रत्यक्षम् । किं च प्रजादिभिश्च । तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ॥
इति एकोनविंशखण्डभाष्यम् ॥