विश्वास-प्रस्तुतिः
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥
मूलम्
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥
शङ्करः
अथ होवाच सत्ययज्ञं पौलुषिम् — हे प्राचीनयोग्य कं त्वमात्मानमुपास्से इति ; आदित्यमेव भगवो राजन् इति ह उवाच । शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य, सर्वरूपत्वाद्वा, सर्वाणि रूपाणि हि त्वाष्ट्राणी यतः, अतो वा विश्वरूप आदित्यः ; तदुपासनात् तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले ॥
विश्वास-प्रस्तुतिः
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ २ ॥

किञ्च त्वामनु प्रवृत्तः अश्वतरीभ्यां युक्तो रथोऽश्वतरीरथः दासीनिष्को दासीभिर्युक्तो निष्को हारो दाशीनिष्कः । अत्स्यन्नमित्यादि समानम् । चक्षुर्वैश्वानरस्य तु सविता । तस्य समस्तबुद्ध्योपासनात् अन्धोऽभविष्यः चक्षुर्हीनोऽभविष्यः यन्मां नागमिष्य इति पूर्ववत् ॥
इति त्रयोदशखण्डभाष्यम् ॥