शङ्करः
दक्षिणेन पथा गच्छतामन्नभाव उक्तः — ‘तद्देवानामन्नम् तं देवा भक्षयन्ति’ (छा. उ. ५ । १० । ४) इति ; क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता । तदुभयदोषपरिजिहीर्षया वैश्वानरात्तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते, ‘अत्स्यन्नं पश्यसि प्रियम्’ (छा. उ. ५ । १२ । २) इत्यादिलिङ्गात् । आख्यायिका तु सुखावबोधार्था विद्यासम्प्रदानन्यायप्रदर्शनार्था च —
विश्वास-प्रस्तुतिः
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाꣳसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥
मूलम्
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाꣳसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥
शङ्करः
प्राचीनशाल इति नामतः, उपमन्योरपत्यमौपमन्यवः । सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिः । तथेन्द्रद्युम्नो नामतः, भल्लवेरपत्यं भाल्लविः तस्यापत्यं भाल्लवेयः । जन इति नामतः, शर्कराक्षस्यापत्यं शार्कराक्ष्यः । बुडिलो नामतः, अश्वतराश्वस्यापत्यमाश्वतराश्विः । पञ्चापि ते हैते महाशालाः महागृहस्था विस्तीर्णाभिः शालाभिर्युक्ताः सम्पन्ना इत्यर्थः, महाश्रोत्रियाः श्रुताध्ययनवृत्तसम्पन्ना इत्यर्थः, ते एवम्भूताः सन्तः समेत्य सम्भूय क्वचित् मीमांसां विचारणां चक्रुः कृतवन्त इत्यर्थः । कथम् ? को नः अस्माकमात्मा किं ब्रह्म — इति ; आत्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वम् । ब्रह्मेति अध्यात्मपरिच्छिन्नमात्मानं निवर्तयति, आत्मेति च आत्मव्यतिरिक्तस्य आदित्यादिब्रह्मण उपास्यत्वं निवर्तयति । अभेदेन आत्मैव ब्रह्म ब्रह्मैव आत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मेत्येतत्सिद्धं भवति, ‘मूर्धा ते व्यपतिष्यत्’ ‘अन्धोऽभविष्यः’ इत्यादिलिङ्गात् ॥
विश्वास-प्रस्तुतिः
ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तꣳ हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ २ ॥
मूलम्
ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तꣳ हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ २ ॥
शङ्करः
ते ह मीमांसन्तोऽपि निश्चयमलभमानाः सम्पादयाञ्चक्रुः सम्पादितवन्तः आत्मन उपदेष्टारम् । उद्दालको वै प्रसिद्धो नामतः, भगवन्तः पूजावन्तः, अयमारुणिः अरुणस्यापत्यं सम्प्रति सम्यगिममात्मानं वैश्वानरम् अस्मदभिप्रेतमध्येति स्मरति । तं हन्त इदानीमभ्यागच्छाम इत्येवं निश्चित्य तं ह अभ्याजग्मुः गतवन्तः तम् आरुणिम् ॥
विश्वास-प्रस्तुतिः
स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ ३ ॥
मूलम्
स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ ३ ॥
शङ्करः
स ह तान् दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा सम्पादयाञ्चकार । कथम् ? प्रक्ष्यन्ति मां वैश्वानरम् इमे महाशालाः महाश्रोत्रियाः, तेभ्योऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे ; अतः हन्ताहमिदानीमन्यम् एषामभ्यनुशासानि वक्ष्याम्युपदेष्टारमिति ॥
विश्वास-प्रस्तुतिः
तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तꣳ हाभ्याजग्मुः ॥ ४ ॥
मूलम्
तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तꣳ हाभ्याजग्मुः ॥ ४ ॥
शङ्करः
एवं सम्पाद्य तान् ह उवाच — अश्वपतिर्वै नामतः भगवन्तः अयं केकयस्यापत्यं कैकेयः सम्प्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम् ॥
विश्वास-प्रस्तुतिः
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः सञ्जिहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतोयक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥

तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाणि अर्हणानि पुरोहितैर्भृत्यैश्च कारयाञ्चकार कारितवान् । स ह अन्येद्युः राजा प्रातः सञ्जिहान उवाच विनयेन उपगम्य — एतद्धनं मत्त उपादध्वमिति । तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनम् , यतो न प्रतिगृह्णन्ति मत्तो धनम् इति मन्वानः आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह — न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते ; न कदर्यः अदाता सति विभवे ; न मद्यपः द्विजोत्तमः सन् ; न अनाहिताग्निः शतगुः ; न अविद्वान् अधिकारानुरूपम् ; न स्वैरी परदारेषु गन्ताः ; अत एव स्वैरिणी कुतः दुष्टचारिणी न सम्भवतीत्यर्थः । तैश्च न वयं धनेनार्थिन इत्युक्तः आह — अल्पं मत्वा एते धनं न गृह्णन्तीति, यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगवन्तोऽस्मि । तदर्थं क्लृप्तं धनं मया यावदेकैकस्मै यथोक्तम् ऋत्विजे धनं दास्यामि, तावत् प्रत्येकं भगवद्भयोऽपि दास्यामि । वसन्तु भगवन्तः, पश्यन्तु च मम यागम् ॥
विश्वास-प्रस्तुतिः
ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषितमेव नो ब्रूहीति ॥ ६ ॥
मूलम्
ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषितमेव नो ब्रूहीति ॥ ६ ॥
शङ्करः
इत्युक्ताः ते ह ऊचुः — येन ह एव अर्थेन प्रयोजनेन यं प्रति चरेत् गच्छेत् पुरुषः, तं ह एवार्थं वदेत् । इदमेव प्रयोजनमागमनस्येत्ययं न्यायः सताम् । वयं च वैश्वानरज्ञानार्थिनः । आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि सम्यग्जानासि । अतस्तमेव नः अस्मभ्यं ब्रूहि ॥
विश्वास-प्रस्तुतिः
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ७ ॥
मूलम्
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ७ ॥
शङ्करः
इत्युक्तः तान् ह उवाच । प्रातः वः युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्ताः ते ह राज्ञोऽभिप्रायज्ञाः समित्पाणयः समिद्भारहस्ताः अपरेद्युः पूर्वाह्णे राजानं प्रतिचक्रमिरे गतवन्तः । यत एवं महाशालाः महाश्रोत्रियाः ब्राह्मणाः सन्तः महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ताः जातितो हीनं राजानं विद्यार्थिनः विनयेनोपजग्मुः । तथा अन्यैर्विद्योपादित्सुभिर्भवितव्यम् । तेभ्यश्च अदाद्विद्याम् अनुपनीयैव उपनयनमकृत्वैव तान् । यथा योग्येभ्यो विद्यामदात् , तथा अन्येनापि विद्या दातव्येति आख्यायिकार्थः । एतद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन सम्बन्धः ॥
इति एकादशखण्डभाष्यम् ॥